सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 134, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 134

८ कण्डिका ] गोभिलगृह्यसूत्रे- १०३
हुत्वैतन्मेक्षणमनुप्रहरेत् ॥ १९ ॥
एतदिति सन्निकृष्टं सौविष्टकृतं परामृश्यते । मेक्षणमुक्तलक्षणम् । अनु-
प्रहरेत् अग्नौ क्षिपेत् । सेयङ्गमार्थस्य मेक्षणस्य अनन्तरमेव कर्म्मणः प्रतिप-
त्तिराख्याता । अन्येत्त्वाहुः-महाव्याहृतिभिरपि हुत्वा मेक्षणमनुप्रहरेन्न स्विष्ट-
कृद्धोमानन्तरमेवेति । स खल्वयं मेक्षणप्रक्षेपोऽन्यत्रङ्गकेषु होमेषु प्रत्येयः ।
तत्र चरुशेषस्य तस्मै प्रतिपादयितव्यस्य वक्ष्यमाणत्वात् । अन्यत्र च मेक्षणेनै-
वोद्धृत्य तद्भोजनस्य सूत्रणात् । न चानुप्रहितेनैव मेक्षणेनोद्धरणन्तस्माद्यथोक्त
एवार्थः ॥ १९ ॥
प्रक्षाल्य वैनेनोद्धृत्य(१) भुञ्जीत ॥ २० ॥
प्रक्षाल्य वा मेक्षणम् । एनेन-मेक्षणेनोद्धृत्यचरुशेषं भुञ्जीत यजमानः ।
तथा च यत्र हौत्रं ब्रह्मत्वञ्च स्वयमेव करोति सोऽस्य विषयः । यत्र चान्योब्र-
ह्मा भवति तत्र वक्ष्यति “अथैतद्बविरुच्छिष्टम्” ( १।९।१। ) इत्यादि ॥ अन-
न्वादेशेप्येनादेशश्छान्दसः(२) ॥ २० ॥
न स्रुवमग्नौ प्रहरेदित्येक आहुः ॥ २१ ॥
स्रुवमग्नौ न क्षिपेदित्येके आचार्या वदन्ति । अस्मादेवावगम्यते स्रुव-
मग्नौ क्षिपेदिति-अन्ये वदन्तीति । तस्मादत्र विकल्पः ॥ २१ ॥
आग्नेय एवाऽनाहिताग्नेरुभयोर्दर्शपूर्णमासयोःस्थालीपाकः स्यात् ॥२२॥
अनाहिताग्नेः । श्रौताग्निरहितः स्मात्तग्निरित्यवगन्तव्यम् । स्पष्टम
न्यत् ॥ २२ ॥
आग्नेयो वाऽग्नीषोमीयो वा माहेन्द्रो वा अमावास्यायाम् ॥ २३ ॥
ऋज्वर्थं सूत्रम् ॥ २३ ॥
ऐन्द्रो वा ऐन्द्राग्नो वा माहेन्द्रो वा अमावास्यायाम् ॥ २४ ॥
आहिताग्नेरेव । ऋजुरक्षरार्थः । अत्रैके विनिवेशविकल्पमाहुः । ऐन्द्रमा-
हेन्द्रौ सोमयाजिनः । ऐन्द्राग्नस्त्वसोमयाजिनः । अत्राप्येकेनेष्टवत ऐन्द्रो, बहु-
भिरिष्टवतोमाहेन्द्र इति । अन्ये तु इच्छाविकल्पमाहुः ॥ २४ ॥
अपिवाऽऽहिताग्नेरप्युभयोर्दर्शपूर्णमासयोराग्नेय एव स्यात् ॥ २५॥
ऋज्वर्थम् ॥ २५ ॥
समिधमाधायानुपर्युक्ष्य यज्ञवास्तु करोति ॥ २६ ॥
( १ ) उद्धृत्येति पाठो मुरारिमिश्रै रेव धृतः ॥
( २ ) अत्र केचित् एनः प्रकृत्यन्तरमिति पठन्ति । अग्रेऽप्येवं क्वचिद्दृश्यते पाठः ।