गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 140, कुल 332 में से
संदर्भ में पढ़ें९ कण्डिका ] गोभिलगृह्यसूत्रे- २०९
पैजवनः पिजवनपुत्रोऽपि । शतमित्यादि संख्यामात्राभिधाने गा एव, तथाच
द्राह्मायणसूत्रम् “संख्यामात्रे च दक्षिणा गावः” इति ॥ १२ ॥
अथ यदि गृहेऽग्नो सायम्प्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं
वा होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥ १३ ॥
स्वयमशक्तौ दैवाद्यदि गृहेऽग्नौ यावज्जीवं कर्त्तव्ययोस्सायम्प्रातर्होमयो-
(१)र्हव्यादिकन्नाधिगच्छेन्न प्राप्नुयात्तदा कथङ्कुर्यादिति प्रश्ने—
उत्तरयति—
आ सायमाहुतेः प्रातराहुतिर्नात्येत्याप्रातराहुतेः सायमाहुतिराऽमा-
वास्यायाः पौर्णमासनात्येत्यापौर्णमास्याआमावास्यम् ॥१४॥
आसायमाहुतेः सायमाहुतिपर्यन्तम् । मर्यादायामाङ् । नात्येति नातिक्रा-
मति । तत्र प्रायश्चित्तमात्रं स्मर्यते—
“स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः ।
प्राक्च्यातराहुतेः कालः प्रायश्चित्ते कृतेसति ॥
प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः ।
प्राक्पौर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य च ॥”
इति । प्रायश्चित्तञ्च महाव्याहृतिहोमरूपमन्यत्र दृष्टमिहापि सामान्येन ।
एतेनैव सूत्रशेषोव्याख्यातः । तदिदं प्रदर्शनार्थम्परिकीर्त्तनं सायमाहुत्यादीनां,
न नियमार्थम् । कुतः स्मृत्यन्तरदर्शनात् । तथाचोक्तम्—
“मुख्यकाले यदा ऽवश्यङ्कर्म कर्त्तुं न शक्यते ।
गौणकालेऽपि कर्त्तव्यं गौणोऽप्यत्रेदृशोभवेत् ॥
आसायमाहुतेः कालात्कालः स्यात्प्रातराहुतेः ।
प्रातराहुतिकालात्प्राक् कालः स्यात्सायमाहुतेः ॥”
इत्यादि—एवम्—
“गौणेषु तेषु कालेषु कर्मचोदितमाचरन् ।
प्रायश्चित्तप्रकरणप्रोक्तां निष्कृतिमाचरेत् ॥”
इति । वैश्वदेवस्य पुनरतिक्रमेऽभोजनेऽपि प्रायश्चित्तानन्तरमेव कालान्त-
रे तदनुष्ठितिः स्मर्य्यते—
“वैश्वदैवे त्वतिक्रान्ते अहोरात्रमभोजनम् ।
प्रायश्चित्तमथो कृत्वा पुनः सन्तनुयाद्व्रतम् ॥”
इति । प्रथमवैश्वदेवातिक्रमे दिवा अभोजनं, द्वितीये रात्रावभोजनमिति
( १ ) प्रदर्शनमेतद्गृह्यदेवस्यापि दैवादन्यस्मात्कारणाद्धव्यं हवनीयं वस्तु—इत्येवमर्थः