गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 141, कुल 332 में से
संदर्भ में पढ़ें११० दर्शपूर्णमासविधिः । [१ प्रपाठक
परिशिष्टप्रकाशः । वैश्वदेवद्रव्यातिक्रमे तु विशेषमाह कर्मप्रदीपः—
"परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम् ।
पितृव्यज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥
अनिष्वा नवयज्ञेन नवान्नप्राशने तथा ।
भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् ॥”
इति । प्राक्सूर्यास्तमयात्प्रथमोवैश्वदेवोनात्येति । प्राक् च रात्रेः सार्द्धात्प्रह-
राद्द्वितीयः । यतस्तावानेव भोजनकालः पुरस्तादभिहितः ॥ १३ ॥ १४ ॥
एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सोत ॥ १५ ॥
एतेनैवेति गौणकालपरामर्शः। लिप्सोत—लब्धुमिच्छेत। प्राप्तस्याप्यादरार्थ-
मभिधानम् । तथा लिप्सोत यथागौणकालोऽपि नातीयादिति ॥ तस्याप्यतिक्रमे
कर्मैव लुप्येत । यदा पुनर्लभ