सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

सप्तविंशः पटलः
ईश्वर उवाच
अथ पूर्वानुसारेण नित्यं प्रातः समाप्य च ।
देवान् पितॄन् समभ्यर्च्य वस्त्रालंकारभूषणैः ॥ १ ॥
आचार्यं वृणुयाद् भक्त्या ब्राह्मणानपि तोषयेत् ।
शिष्यः [सा?स्व]लंकृतो मौनी पुष्पचन्दनभूषितः ॥ २ ॥
नानामङ्गलवाद्यैश्च ब्रह्मघोषपुरःसरम् ।
नारीणां मङ्गलाशीर्भिर्ब्राह्मणानां तथैव च ॥ ३ ॥
जयशब्दान्वितैः स्तोत्रैः संतुष्टः शुद्धमानसः ।
दीपमालावलीरम्यं नानाधूपप्रधूपितम् ॥ ४ ॥
मण्डपं विधिवद् देवि पूर्ववत् प्रविशेद् गुरुः ।
पूर्ववदपरं कृत्वासने समुपविश्य च ॥ ५ ॥
तथापरं च निर्वर्त्य कुङ्कुमेन वरानने ।
वेदिकायां वरारोहे सिन्दूररजसाथवा ॥ ६ ॥
चक्रराजे² तु लिखिते³ तन्मध्ये दर्भविस्तृते ।
सौवर्णं राजतं ताम्रं मणिकं⁴ च सुलक्षणम् ॥ ७ ॥
द्वात्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् ।
क्षालयित्वास्त्र(तं?म)न्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ ८ ॥
चन्दनागुरुकर्पूररोचनाकुङ्कुमैरपि ।
१ 'भू' क पाठ । २ 'ज' क पाठ । ३ 'त' क पाठ । ४ 'मार्तिकं' क पाठ. ।

२४८ गन्धर्वतन्त्रे ।
दिव्यैर्द्रव्यैस्तु संपूर्णं वासोयुग्मेन वेष्टितम् ॥ ९ ॥
नूतनं नेत्ररम्यं च पुष्पमालाद्यलंकृतम् ।
दधिचन्दनसंलिप्तं द्वि(प्ता?प्त्वा)न्तर्नवरत्नकम् ॥ १० ॥
मदयन्तीं सहदेवीं दूर्वां भस्म तथैव च ।
मृत्तिकाः सप्त विन्यस्तं पल्लवैः पञ्चभिर्युतम् ॥ ११ ॥
परितो वेष्टितं सूत्रै रक्तैश्चातिमनोहरैः ।
यवानास्तीर्य पुष्पाणि[स?सु]रद्रुमधिया गुरुः ॥ १२ ॥
मूलमन्त्रेण संस्थाप्य यजेदाधारपूर्वकम् ।
वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् ॥ १३ ॥
तथा सूर्यमयं कुम्भं कलाभिस्तत्र पूजयेत् ।
जलं सोममयं तद्वत् कलाभिश्च समर्च्चयेत् ॥ १४ ॥
तेजस्त्रयमिदं प्रोक्तं ज्वलत्तदात्मकं स्मृतम् ।
पुष्पैर्(आल?अलि)मापूर्य तस्मिन्नेव प्रदापयेत् ॥ १५ ॥
पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभोऽशुभे ।
अष्टोत्तरशतं शान्त्यै जुहुयादस्त्रमन्त्रतः ॥ १६ ॥
अथ प्रागुक्तविधिना यथाक्रममनुत्तमम् ।
कृत्वा संपूज्य विधिवदिष्ट्वा देवधिया गुरुः ॥ १७ ॥
अङ्गावृतीः समभ्यर्च्य श्रपयित्वा चरुं ततः ।
भागमेकं महादेव्यै शेषमग्नौ हुनेत्ततः ॥ १८ ॥
अष्टोत्तरशतं साज्यं मधुरत्रितयान्वितम् ।
समिद्धेऽग्नौ महादेवीं ध्यात्वा सम्यक् प्रधानतः ॥ १६ ॥
योऽनर्चिषि जुहोत्यग्नावसमिद्धे च मानवः ।

सप्तविंशः पटलः । २४६
स मन्दाग्निः सामयो वा अल्पायुश्चोपजायते ॥ २० ॥
तस्मात् समिद्धे होतव्यं नासमिद्धे कथंचन ।
आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीं तथा ॥ २१ ॥
तथाबुधः सधूमे च जुहुयाद्यो हुताशने ।
यजमानो भवेदन्धः सपुत्रश्च विनश्यति ॥ २२ ॥
अ(थ?प्र)दीप्ते न होतव्यं मध्यमे नाप्यनेधिते ।
प्रदीप्ते लेलिहानेऽग्नौ होतव्यं कर्मसिद्धये ॥ २३ ॥
हुत्वा सा(ज्ञा?ङ्गां) महेशानीं समाप्य तदनन्तरम् ।
कर्म पूर्वोक्तमा(चा?च)र्य्य तरुणोल्लासवान् गुरुः ॥ २४ ॥
शिष्यमाहूय यत्नेन वाससाच्छाद्य तन्मुखम् ।
विशे(ष्या?षा)र्घ्योदकेनैव तमवोक्ष्य विधानतः ॥ २५ ॥
कारुण्या(विनये?म्बुनिधे)देवि सर्वसंपत्तिसंश्रये ।
शरण्ये वत्स(लो?ले)मातः कृपामस्मिन् शिशौ कुरु ॥ २६ ॥
(अशि?आण)वप्रमुखैः पाशैः पाशितस्य सुरेश्वरि ।
दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ॥ २७ ॥
ऐहिकामुष्मिकैर्भोगैरभिसं(बु?ब)द्ध्यतामसौ ।
स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये ॥ २८ ॥
एवं प्रार्थ्य महादेवीमु(द्रा?द्वा)स्य हृदयाम्बुजे ।
शिष्याय श्रावयेद् दिव्यः शिवोऽहमिति भावयन् ॥ २९ ॥
अन्तस्तमोपहं दिव्यं सिद्धान्तं श्रावयेद् गुरुः ।
(यत् ? षट्)त्रिंशत्तत्त्वभ(वि?रि)तं विश्वं स्थावरजङ्गमम् । ३०।
१ ‘त्रे’ क. पाठ. ।

२५० गन्धर्वतन्त्रे ।
शरीरं चापि त(त्रो?त्वो)त्थं तस्मिन्नेव द्विधा शिवः ।
कञ्चुकितः शिवो जीवो निष्कञ्चुकः परः शिवः ॥ ३१ ॥
आत्मज्ञानमात्मविद्भिः पुरुषार्थः समीरितः ।
वर्णात्मकं महेशानि नित्याः शब्दाः प्रकीर्तिताः ॥ ३२ ॥
अचिन्त्यस्त्विह मन्त्राणां प्रभावः समुदाहृतः ।
संप्रदायपरिज्ञानं गुरूणां सिद्धिदायकम् ॥ ३३ ॥
विश्वासाद्गुरुवाक्यानां सर्वसिद्धिरीरिता ।
प्रामाण्यं चात्र स्वनिष्ठं विश्वासः समुदाहृतः ॥ ३४ ॥
गुरूणां चैव मन्त्राणां देवानामापि पार्वति ।
मनःपवनयोश्चैवमेकत्वेन विभावनात् ॥ ३५ ॥
अन्तरात्मपरिज्ञानमिति जानीहि पार्वति ।
आनन्दं ब्रह्मणो रूपं तच्च देहे³ विभावयेत् ॥ ३६ ॥
तस्याभिव्यञ्जकाः पञ्च मकाराद्याः प्रकीर्तिताः ।
तैरेव यजनं तस्य गुप्त्या सिद्धिर्नचान्यथा ॥ ३७ ॥
प्राकट्यांच्च(व?भ)यं यस्माद् गोपयेन्मातृजारवत् ।
अभेदभावनादार्थ्यादाज्ञासिद्धिः समीरिता ॥ ३८ ॥
न निन्देद् दक्षिगं वामं न निन्देद् दर्शनानि च ।
निन्दाद्रोहादिकर्तॄणां गणनां नैव कारयेत् ॥ ३६ ॥
रहस्यकथनं देवि सच्छिष्यैएव नापरे ।
सदा विद्यानुसंधानं शिवभावेन तत्परः ॥ ४० ॥
कामं क्रोधं तथा लोभं मदमोहौ तथैव च ।
१ ‘ह’ क पाठः । २ ‘प्रक्टा’ च क पाठ । ३ ‘ध्यायै’ ख पाठ. ।

सप्तविंशः पटलः । २५२
हिंसां स्तेयं च मात्सर्यं यल्लोकेषु विगर्हितम्¹ ॥ ४१ ॥
स्त्रीविद्वेषादिकं चैव वर्जयेन्मतिमान् सदा ।
एक एव गुरुर्देवस्तस्यैवोपासनं सदा ॥ ४२ ॥
असंशयस्तु सर्वत्र निष्परिग्रहता मता ।
फलविरहितं कर्म त्यजेदनित्यमेव तत् ॥ ४३ ॥
पञ्चानामप्यलाभे तु नित्यं क्रमविम[र्ष?र्श]नम् ।
निर्भयत्वं च सर्वस्माज्ज्ञेयं सर्व ह[रि?विः]प्रिये ॥ ४४ ॥
स्वयमेव हि होतात्र आत्मा शिवस्तु पावकः ।
आत्मलाभात्परं नास्ति फलं क्वापि च सुव्रते ॥ ४५ ॥
सैषाङ्गा परमा शैवी कथिता तव पार्वति ।
वेदादिसकला विद्या वेश्या इव प्रकाशिताः ॥ ४६ ॥
सर्वेषु दर्शनेष्वेव विद्येयं खलु गोपिता ।
धीमांस्तत्रैव दीक्षेत सर्वथात्मविभूतये ॥ ४७ ॥
अथ शिष्यशिरोदेशे [वरु?चर]णां रक्तशुक्लयोः ।
भावयित्वा वपुस्तस्य क्षालितं मांसबृंहितम् ॥ ४८ ॥
तदमृतैः[श्र?स्र]वद्भिश्च कुर्याद् गुरुरुदारधीः ।
मूलादिब्रह्मरन्ध्रान्तं ज्वलन्तीं ज्वलनच्छविम् ॥ ४९ ॥
प्रतीषषहरीं[?]कोटिसूर्यप्रकाशिनीं पराम् ।
चन्द्रकोटिप्रभां शुद्धामज्ञानेन्धनदाहिकाम् ॥ ५० ॥
तत्तद्रश्मिभिरेवास्य पापपाशांस्तु संदहेत् ।
शिवोऽहमिति निश्चित्य वीक्षेत करुणया दृशौ³ ॥ ५१ ॥
१ 'श' क पाठ । २ 'मा' ख पाठ. । ३ 'त्तं करुणादृशा' ख पाठ ।
१

२५२ गन्धर्वतन्त्रे ।
सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम् ।
पुनः स्वयं शिवो भूत्वा असंदिग्धमना गुरुः ॥ ५२ ॥
शिवहस्तेन शिष्यस्य मन्त्रं शिरसि संस्पृशेत् ।
जपोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु ॥ ५३ ॥
गृहीत्वा तस्य चात्मानमात्मना योजयेद् गुरुः ।
स्वयं मन्त्रतनुर्भूत्वा संक्रामेन्मन[सा]दरात् ॥ ५४ ॥
ह्रूसौःवर्णकर्णिके शि[ष्य? ष्यं]स्वरद्वन्द्वाष्टकेसरे ।
दिगष्टकस्थितवंठावर्गाष्टयुक्तदिग्दले ॥ ५५ ॥
चतुरस्रासने शुद्धे मातृकायन्त्रराजके ।
निवेश्य सादरं देवि कलशामृतधारया ॥ ५६ ॥
स्नपयेन्मूलविद्याभिस्त्रि[भङ्गो? रङ्गेः] देशिकोत्तमः ।
परिधाप्य दुकूले च चन्दनाद्यैर्विलेपयेत् ॥ ५७ ॥
अलंकृत्य यथालाभं समानं शिष्यपुत्रकम् ।
प्रसन्नं शान्तचित्तं च पार्श्वे निवेश्य देशिकः ॥ ५८ ॥
तदङ्गे मातृकां न्यस्य विद्याङ्गन्यासमाचरेत् ।
विमुक्तमुखवस्त्रस्य हस्ते तस्य गुरुः स्वयम् ॥ ५६ ॥
यथाधिकारमालोच्य द्रव्यभेदान् प्रकाशयेत् ।
अन्यथा सर्वहानिः स्यादयोग्येषु प्रकाशनात् ॥ ६० ॥
भोजनं तत्त्वमन्त्रैस्तु कारयेद् ग्रा[म? स]मुद्रया ।
अथ गुरुः प्रसन्नात्मा पूर्वोक्तामात्मनः पराम् ॥ ६१ ॥
बालान्वितां विधायादौ पादुकां विनिवेदयेत् ।
१ 'का' क. पाठः । २ 'स्त्रा' क पाठ ।

सप्तविंशः पटलः । २५३
दक्षकर्णे दिशेद्बालां पश्चादिष्टं निवेदयेत् ॥ ६२ ॥
स्वकीयचरणं मूर्ध्नि शिशोर्निधाय पार्वति ।
सर्वान् मन्त्रान् सकृद्वापि क्रमेणैव यथाविधि ॥ ६३ ॥
यथाधिकारमावर्त्य स्वाङ्गेषु च शिशोः करम् ।
स्पर्शयित्वा किमप्यङ्गं तदङ्गमातृकादिकम् ॥ ६४ ॥
द्व्यक्षरं त्र्यक्षरं वापि चतुरक्षरमेव वा ।
आनन्दनाथशब्दान्तं नाम कुर्याद्गुरुः पिता ॥ ६५ ॥
आचाराननुशिष्यार्थं हृच्चैतन्यं परामृ(ष?शे)त् ।
त्रिभिः कूटैस्तदङ्गं च त्रिः^२ प्रमृज्य गुरुः स्वयम् ॥ ६६ ॥
परिरभ्य तथा मूर्ध्नि समुपा[घ्रा?ग्रा]य सादरम् ।
आत्मरूपं ततः कृत्वा शिष्यं पूर्णं विभावयेत् ॥ ६७ ॥
अष्टोत्तरसहस्रं स्वशक्तिहान्यनवाप्तये ।
प्रसन्नात्मा जपेद्विद्यां ततो गुरुरुदारधीः ॥ ६८ ॥
कृतार्थः कृतकृत्यस्तु यथाविभवविस्तरैः ।
वित्तशाठ्यं परित्यज्य दम्भमोहौ च जि[म्भ?ह्म]ताम् ॥ ६६ ॥
हस्त्यश्वरथयानाद्यैर्दासदासीभिरेव च ।
गोभूमिहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः ॥ ७० ॥
कुम्भादिकर्णे यद् द्रव्यं सर्वमण्डप एव च ।
अर्थं प्राणांश्च शरीरं च सर्वं तस्मै निवेद्य च ॥ ७१ ॥
पतित्वा पादयोर्मूले दण्डवद् भुवि मानवः ।
नमस्ते भगवन्नाथ शिवाय गुरुरूपिणे ॥ ७२ ॥
१ 'न्वाशिष्यर्थं क. पाठ' । २ 'विप्र' क पाठ । ३ 'ष्य, पूणी' क पाठ ।

२५४ गन्धर्वतन्त्रे ।
प्रसीद करुणाधाम[न्]मयि दीनत्वतापिते ।
कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ७३ ॥
प्रसन्नास्तु परा देवी भोगमोक्षविधायिनी ।
तन्मना भव हे पुत्र [त्वा?ता]मेव त्वं सदा स्मर ॥ ७४ ॥
द्वैतभाव च ते मास्तु पूर्णानन्दमयो भव ।
(वक्तैः?उक्त्वो)त्तिष्ठेति पीयूषवचोभिरभि(व?न)न्द्य तम् ७५
हस्ताभ्यां च समुत्थाप्य प्रसन्नोऽहं सदा प्रिये ।
सिद्धयः सकलास्तूर्णं सन्तु ते मत्प्रसादतः ॥ ७६ ॥
प्रसन्नात्मा तथा शिष्यो विदिताखिलवेद्यकः ।
भक्तिश्रद्धासमायुक्तो भोजयेद् वै (द्वमावि?कुमारि)काः७७
ब्राह्मणान् परितोष्याथ दीनान्धकृपणानपि ।
पक्वान्नैरातिमिष्टैश्च ज्ञातीनापि च भोजयेत् ॥ ७८ ॥
गन्धैर्नानाविधैः पुष्पैर्माल्यैरपि च तोषयेत् ।
तेभ्य आशिष आदाय समर्थीयाँ जयावहाँः ॥ ७९ ॥
सद्गुरोराहितदीक्षो महाविद्याधरो महान् ।
सर्वमन्त्राधिकारी स्यात् सर्वज्ञो भुवि जायते ॥ ८० ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे दीक्षाविधानानिरूपणं
सप्तविंशः पटलः ॥ २७ ॥
१ 'प्रदा' ख पाठ । २ 'ये' ख पाठ । ३ 'यान्' क पाठ । ४ 'ह' क पाठ ।

अष्टाविंशः पटलः ।
देव्युवाच
—=:!०!:—
पुरश्चर्याविधिं ब्रूहि विद्यासिद्धिर्भवेद्यथा ।
ईश्वर उवाच
अथ वक्ष्ये विधानानि पौरश्चरणके विधौ ॥ १ ॥
विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि ।
यथाविधि गुरोर्दीक्षां गृहीत्वा साधकोत्तमः ॥ २ ॥
तथैव तु यजेद् देवीं नित्यं प्रातरनन्यधीः ।
आत्मानं तन्मयं स्मृत्वा भक्तिश्रद्धासमन्वितः ॥ ३ ॥
अष्टोत्तरसहस्रं वा लक्षार्धं यावदेव हि ।
तावदेव मनुं जप्त्वा पुरश्चर्यां समाचरेत् ॥ ४ ॥
न्यूनातिरिक्तदोषाणां शान्तावष्टाधिकं जपेत् ।
गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ॥ ५ ॥
यत्नात् पुरस्क्रिया॑ कुर्यात् स्वविद्यासिद्धिकाङ्क्षया ।
सर्वेषामेव मन्त्राणां विद्यानां चैव पार्वति ॥ ६ ॥
गुरोराज्ञैव मूलं स्यात् सिद्धिर्यस्मात् तदाज्ञया ।
अश्रद्धा चैव नास्तिक्यं पूर्वजन्मकृतोशुभम् ॥ ७ ॥
१ 'ता' ख, पाठः ।

२५६ गन्धर्वतन्त्रे ।
प्रतिबन्धत्रयं देवि मन्त्रसिद्धौ निगद्यते ।
यत्नात् पुरश्चरेन्मन्त्री प्रतिबन्धविनाशने ॥ ८ ॥
लक्ष्मीमदादनादृत्य मन्त्रं भोगपरायणः ।
नैवार्चां कुरुते मन्त्री तथा नैव पुरस्क्रियाम् ॥ ६ ॥
स मन्त्रस्य ऋणी ज्ञेयो भेजनं तस्य शान्तये ।
जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ १० ॥
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः ।
तत् कुर्यात् सर्वथा मन्त्री गुरुं वा कारयेद्बुधः ॥ ११ ॥
गुरोरभावे विप्रोऽस्य सर्वप्राणिहिते रतः ।
शुद्धान्तःकरणः स्निग्धो वासोभिश्च विशेषतः ॥ १२ ॥
कुलज्ञः कुलशास्त्रज्ञः पुनर्गुरुः पुरस्क्रियाम् ।
कारयित्वा पुनर्विद्यां लब्ध्वा तैं विनियोजयेत् ॥ १३ ॥
आदौ पुरस्क्रियां कर्तुं पुण्यक्षेत्रं समाश्रयेत् ।
चतुर्दश्यामथाष्टम्याममावस्यामुहूर्तके ॥ १४ ॥
देव्याः पुरस्क्रियारम्भः कर्तव्यः साधकोत्तमैः ।
अथ पूर्वमुपोष्यथ कृतनित्यक्रियः शुचिः ॥ १५ ॥
द्विजान् देवान् गुरून् भक्त्या संपूज्य परमेश्वरि ।
गणेशं मातृकांश्चैव पितॄंश्चैव प्रपूजयेत् ॥ १६ ॥
ग्रामे वा नगरे देशे पुरे वा पत्तने तथा ।
क्षेत्राधिपस्य नाम्ना तु दीपस्थानं विचारयेत् ॥ १७ ॥
१ 'य' ख पाठ । २ 'हो' क. पाठः । ३ 'ति' क पाठ । ४ 'म.' क पाठः ।
५ 'का चै' क पाठ ।

अष्टात्रिंशः पटलः । २५७
शक्तिक्षेत्रे शिवक्षेत्रे दीपस्थानं विचिन्तयेत् ।
वर्त्तुलं रचयेद् देवि कूर्म्माकृति सुलोचने ॥ १८ ॥
तन्मध्ये नव कोष्ठानि कृत्वा वर्णान् समालिखेत् ।
स्वरान् युग्मक्रमेणैव दिक्षु चाष्टदलेषु च ॥ १९ ॥
अवर्गः कथितो देवि कवर्गादिकसप्तकम् ।
पूर्वादिक्रमतो देवि कुबेरान्तं लिखेत्ततः ॥ २० ॥
ळक्षवर्णं शंभुकोणे विलिखेत् कूर्मसंज्ञके ।
यस्मिन् कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति ॥ २१ ॥
अङ्गेषु पार्श्वयोः पाणियुग्मं जानीहि सुन्दरि ।
ततः पार्श्वद्वयं देवि कुक्षिस्थानं निगद्यते ॥ २२ ॥
ततः पादद्वयं देवि चान्ते पुच्छं प्रकीर्त्तितम् ।
मुखे कार्याणि सिध्यन्ति मनोरथशतानि च ॥ २३ ॥
कण्ठस्थाने महेशानि सर्वकार्यविनाशकृत् ।
उदरे दुःखदारिद्र्यं पादयोर्हानिरुच्यते ॥ २४ ॥
पुच्छे तु धनहानिः स्यादित्येवं कथितं मया ।
दीपस्थानं समाश्रित्य जपपूजां समाचरेत् ॥ २५ ॥
पूर्वोक्तविधिसंपन्नं गुरुं नत्वा विधानतः ।
अक्षमालां समाश्रित्य मातृकां वर्णरूपिणीम् ॥ २६ ॥
मन्त्रसिद्धिप्रदां शुद्धां सर्वपापौघनाशिनीम् ।
प्रणवो मातृका देवी माया चैवामृतत्रयम् ॥ २७ ॥
अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिध्यति ।

२५८ गन्धर्वतन्त्रे ।
अथ मुक्ताफलमयी वाञ्छोत्फलदायिनी ॥ २८ ॥
सर्वसिद्धिप्रदा नित्यं सर्वलोकवशंकरी ।
यथा मुक्ताफलमयी स्फाटिकी च तथा भवेत् ॥ २९ ॥
रुद्राक्षमालिका भोगमोक्षानन्तफलप्रदा ।
प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका ॥ ३० ॥
[मलिना?माणिक्य]रचिता माला साम्राज्यफलदायिनी ।
पुत्रजीवोद्भवा माला पुत्रपौत्रप्रदायिनी ॥ ३१ ॥
पद्माक्षमालया लक्ष्मीर्जायते महती यशः ।
रक्तचन्दनमाला तु वश्ये सर्वसमृद्धिदा ॥ ३२ ॥
महाशङ्खमयी माला मारणोच्चाटनादिषु ।
वीराणां शस्यते सा हि शेषयोर्न शुभप्रदा ॥ ३३ ॥
पञ्चाशद्भिः शतैः कुर्यादष्टाविंशति [रेव?भिश्च] वा ।
न न्यूनैर्नाधिकैः कार्या बीजायैर्न विभूतये ॥ ३४ ॥
एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसंभवः ।
आद्यं स्थूलं ततो न्यूनं न्यूनं न्यूनतरं ततः ॥ ३५ ॥
विन्यसेत् क्रमतस्तस्मात् सर्पाकारा [वि?प्ये]नायता ।
ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं तथास्थितम् ॥ ३६ ॥
अन्यथा विफला माला संस्कृता जपकर्मणि ।
रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फाटिकैस्तथा ॥ ३७ ॥
नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं तु यत् ।
१ 'ततस्तस्मात्' ख पाठः । २ 'च सा यत' क पाठ ।

अष्टाविंशः पटलः । २५६
यदोन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ॥ ३८ ॥
मिश्रीभावं तदा याति चण्डालैः पापकर्मभिः ।
एकजातीयबीजेन यः कुर्यान्मालिकां सदा ॥ ३९ ॥
जन्मान्तरे जायते स वेदवेदाङ्गपारगः ।
पूर्वोक्तेन विधानेन गृहीत्वा दिव्यमालिकाम् ॥ ४० ॥
जपं समारभेत् पश्चात् प्रोक्तयोगसमन्वितः ।
तत्र स्थित्वा जपेद्विद्यां लक्षमात्रं सदा शुचिः ॥ ४१ ॥
दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् ।
तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्जितः ॥ ४२ ॥
नारिकेलफलं चैव कदली लव(र्गा?ली)तथा ।
आम्रमामलकं चैव पनसं च हरीतकी ॥ ४३ ॥
व्रतान्तरप्रशस्तं च हविष्यं मन्यते बुधैः ।
अवैष्णवमलभ्यं च यदशस्तं व्रतान्तरे ॥ ४४ ॥
त्याज्यमेव तु तत् सर्वं यदीच्छेत् सिद्धिमात्मनः ।
क्षारं च लवणं मांसं गृञ्जनं कांस्येभोजनम् ॥ ४५ ॥
माषाढकीमसूरांश्च कोद्रवांश्चणकानपि ।
ताम्बूलं च द्विभक्तं च दुःसंवादं प्रमत्तताम् ॥ ४६ ॥
श्रुतिस्मृतिविरुद्धं च जपं रात्रौ विवर्जयेत् ।
भूशय्या ब्रह्मचारित्वं मौनं चाप्यननसूयता ॥ ४७ ॥
नित्यं त्रिषवणस्नानं क्षुद्रकर्मविवर्जनम् ।
नित्यपूजा नित्यदानं देवैतास्तुतिकीर्तनम् ॥ ४८ ॥

२६० गन्धर्वतन्त्रे ।
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ॥ ४९ ॥
स्त्रीशूद्रपतितव्रात्य[पतितो?नास्तिको]च्छ्लिष्टभाषणम् ।
असत्यभाषणं जि(ह्म?ह्य)भाषणं परिवर्जयेत् ॥ ५० ॥
स(त्यै?भ्यै)रपि न भाषेत जपहोमार्चनादिषु ।
अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम् ॥ ५१ ॥
वाङ्मनःकर्मभिर्नित्यं निःस्पृहावान् भवेत् सदा ।
वर्जयेद् गीत[नृत्या?वाद्या]दिश्रवणं नृत्यदर्शनम् ॥ ५२॥
माल्यं च गन्धलेपं च पुष्पधारणमेव च ।
मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् ॥ ५३ ॥
कौटिल्यं चौरमभ्यङ्गमनावेदितभोजनम् ।
प्राणिहिंसां न कुर्वीत पुरश्चरणकृन्नरः ॥ ५४ ॥
अस्नातांश्च द्विजाञ् शूद्रान् स्त्रियो नैव स्पृशेत्तथा ।
असंकल्पितकृत्यं च वर्जयेन्मर्दनादिकम् ॥ ५५ ॥
त्यजेदुष्णोदकस्नानं सुगन्धामलकादिकम् ।
शिवाङ्गं पञ्चगव्येन क्षालयेद् बहिरन्तरम् ॥ ५६ ॥
स्नायाच्च पञ्चगव्येन केवलामलकेन वा ।
१अपवित्रकरो नग्नः शिरसि प्रावृतोऽपिवा ॥ ५७ ॥
निरासनः शयानो वा गच्छन्नुत्थित एव वा ।
रथ्यायामशिवे२स्थाने न जपेत् तिमिरालये ॥ ५८ ॥
१ 'अपत्रकरलग्नो वा शि' क पाठ । २ 'माशब्द' क पाठ ।

अष्टाविंशः पटलः । २६१
प्रलपन् वा जपेद् यावत् तावन्निष्फलमुच्यते ।
सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ॥ ५९ ॥
प्रोक्ते पामरशब्दे तु प्राणायामं सकृच्चरेत् ।
बहुप्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ॥ ६० ॥
पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६१ ॥
कृत्वाचम्य जपेच्छेषं यद्वा सूर्यादिदर्शनम् ।
शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ॥ ६२ ॥
प्रत्यहं चालयेच्छय्यामेकाकी निर्भयः स्वपेत् ।
एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ ६३ ॥
एवमुक्तविधानेन विलम्बत्वरितं विना ।
उक्तसंख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥ ६४ ॥
देवतागुरुमन्त्राणामैक्यं संभावयन् धिया ।
जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥ ६५ ॥
यत्सं(ख्यामा?ख्यया)समारब्धं तच्च कुर्याद्दिने दिने ।
यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ६६ ॥
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात् (तेषां?पुंसः) सिद्धिहानिः प्रजायते ॥६७॥
मन्त्रं जप्त्वाम्बु पानीयैः सुलोचनमभोजनम् (?) ।
कुर्याद्यथोक्तविधिना त्रिसंध्यं देवमर्चयेत् ॥ ६८ ॥
एकसंध्यं द्विसंध्यं वा न मन्त्रं केवलं जपेत् ।

२६३ गन्धर्वतन्त्रे ।
एकग्रामे स्थितो गत्वा वन्देत केवलं गुरुम् ॥ ६९ ॥
प्रणामोऽष्टाङ्ग एवात्र देवतावन्दनं तथा ।
नित्यं नैमित्तिकं कुर्यात् सङ्गं च साधुभिः सह ॥ ७० ॥
शक्तौ त्रिषवणस्नानं द्वे सकृद्वा तथा चरेत् ।
परकीयतरे तोये स्नानं पूर्वं समाचरेत् ॥ ७१ ॥
संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः ।
यथोक्तविहिते कुण्डे जुहुयात् संस्कृतेऽनले ॥ ७२ ॥
अथवा प्रत्यहं जप्त्वा जुहुयात्तद्दशांशतः ।
तथा होमदशांशं तु जले संपूज्य देवताम् ॥ ७३ ॥
तर्पयामीति मन्त्रान्ते प्रोक्ताद्भिर्मूर्ध्नि तर्पयेत् ।
जपो होमस्तर्पणं च (पू?मृ)जा ब्राह्मणभोजनम् ॥ ७४ ॥
पूर्वपूर्वदशांशेन कुर्यात् पञ्चाङ्गसंयुतम् ।
स्वाभिषेकाघमर्षौ च सूर्यार्घ्यं जलपानकम् ॥ ७५ ॥
प्राणायामं ततः कुर्यात् पूर्वपूर्वदशांशतः ।
दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते ॥ ७६ ॥
तत्पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः ।
यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य हि ॥ ७७ ॥
करणं विजयान्तं तत्प्रोक्तं देशिकसत्तमैः ।
तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ॥ ७८ ॥
गुरुं संतोषयेदेवं मन्त्राः सिध्यन्ति मन्त्रिणः ।

अष्टाविंशः पटलः । २६३
होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ ७६ ॥
इतरेषां तु वर्णानां त्रिगुणादिः समीरितः ।
एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ॥ ८० ॥
अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधनम् ।
सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ॥ ८१ ॥
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः ।
न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ॥ ८२ ॥
तान्येवं पूर्णतां यान्ति समस्तानि भवन्ति चेत् ।
अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ॥ ८३ ॥
नियतान्यपि कर्माणि हीनानि द्विजभोजनैः ।
निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ ८४ ॥
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ८५ ॥
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ॥ ८६ ॥
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ।
होमस्य तु दशांशेन तर्पणं समुपाचरेत् ।१॥ ८७ ॥
अभिषेकदशांशेन कुर्याद् ब्राह्मणभोजनम् ।
तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ८८ ॥
गुरवे दक्षिणां दद्याद्भक्त्या विप्रान् प्रतर्पयेत् ।
१ 'स' क. पाठ. । २ 'ज्ञ' क. पाठ. । 'क' ख. पाठ. ।

२६४ गन्धर्वतन्त्रे ।
ततश्च मन्त्रसिद्धिः स्याद् देवता च प्रसीदति ॥८९॥
ततस्तु मन्त्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् ।
अथवा देवतारूपं गुरुं भक्त्या प्रतोषयेत् ॥ ९० ॥
पुरश्चरणहीनोऽपि मन्त्रसिद्धिरसंशयः ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुरश्चर्याविधिनिरूपणं
अष्टाविंशः पटलः ॥ २८ ॥

४. पटल ३१-४२: सिद्धि-लक्षण, कुलधर्म एवं तन्त्र-उपसंहार

एकोनत्रिंशः पटलः ।
—=::❀::=—
ईश्वर उवाच
पूर्वोक्तविधिना देवि लक्षार्धं प्रजपेत् तथा ।
रात्रौ ताम्बूलपूर्णास्यस्तथैवोक्तविधानतः ॥ १ ॥
कामरूपं वपुः कृत्वा कामिन्येवै महानिशि ।
कुलयुक्तो जपेल्लक्षं निशाया मध्यभागतः ॥ २ ॥
अत्र यत् क्रियते कर्म तदनन्तफलप्रदम् ।
मूलाधारे महादेवि लिङ्गं स्वयंभूवाचकम् ॥ ३ ॥
ज्योतीरूपं तु योनिस्यं तत्रैव मनसा जपेत् ।
ध्यायेत् कुण्डलिनीं देवि तद्विद्यान्तररूपिणीम् ॥ ४ ॥
हृदि त्रिकोणमध्ये च बाणलिङ्गे च तेजसि ।
तत्र संचिन्त्य मनसा जपेल्लक्षं समाहितः ॥ ५ ॥
मूर्ध्नि त्रिकोणमध्ये तु इतरं पश्चिमामुखम् ।
तत्र स्थित्वा जपेल्लक्षं यत्र कुत्र समाहितः ॥ ६ ॥
एवं लक्षत्रये सिद्धे यद्भावस्तूपजायते ।
तमुपाश्रित्य भावेन यथा देवस्तथा (रवे?भवेत्) ॥७॥
नवलक्षं जपेद्विद्यामिह भोगसमृद्धये ।
न ध्यानं नच विन्यासो न पूजा न पुरस्क्रिया ॥८॥


१ 'रास्य.' ख. पाठ. । २ 'नी' ख. पाठ. ।

२६६ गन्धर्वतन्त्रे ।
केवलं जपमात्रेण सिद्धयः सिद्धिकाङ्क्षिणाम् ।
कोटिजापे तु संपूर्ौ मनो मन्त्रात्मकं भवेत् ॥ ६ ॥
यावत्तावद्धि जप्तव्यं मनसैव नचान्यथा ।
मन्त्रमात्रस्वरूपे च सिद्धे मनसि पार्वति ॥ १० ॥
ध्यानमात्रं मनः कृत्वा ध्यानं ब्रह्मणि चार्पयेत् ।
विदिते ब्रह्मणः नेत्रे विदितः सर्ववित् प्रभुः ॥ ११ ॥
नव स्थानानि कथ्यन्ते शृणु सावहिता प्रिये ।
ज्योतीरूपं तदाधारे मेढ्रस्थाने शिखाप्रभम् ॥ १२ ॥
नाभिस्थं सूर्यविम्बाभं तरुणादित्यवर्च्चसम् ।
हृदि ज्योतिःशिखाकारं कण्ठे दीपशिखाप्रभम् ॥ १३॥
भ्रूमध्ये रत्नसङ्काशं तदूर्ध्वं भास्करप्रभम् ।
लम्बिके चन्द्रबिम्बाभं ततो वैदूर्यसंनिभम् ॥ १४ ॥
नवमे विश्वतेजा हि घण्टावैदूर्यसंनिभः ।
लिङ्गरूपी ह्यहं देवि नव लिङ्गानि यानि च ॥ १५ ॥
नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् ।
विसंज्ञाममृतं पीत्वा पुनराधारमानयेत् ॥ १६ ॥
मूलस्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु ।
नवलक्षप्रमाणं तु जप्त्वा त्रिपुरसुन्दरीम् ॥ १७ ॥