सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 330, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 330

सप्तविंशः पटलः । २४६
स मन्दाग्निः सामयो वा अल्पायुश्चोपजायते ॥ २० ॥
तस्मात् समिद्धे होतव्यं नासमिद्धे कथंचन ।
आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीं तथा ॥ २१ ॥
तथाबुधः सधूमे च जुहुयाद्यो हुताशने ।
यजमानो भवेदन्धः सपुत्रश्च विनश्यति ॥ २२ ॥
अ(थ?प्र)दीप्ते न होतव्यं मध्यमे नाप्यनेधिते ।
प्रदीप्ते लेलिहानेऽग्नौ होतव्यं कर्मसिद्धये ॥ २३ ॥
हुत्वा सा(ज्ञा?ङ्गां) महेशानीं समाप्य तदनन्तरम् ।
कर्म पूर्वोक्तमा(चा?च)र्य्य तरुणोल्लासवान् गुरुः ॥ २४ ॥
शिष्यमाहूय यत्नेन वाससाच्छाद्य तन्मुखम् ।
विशे(ष्या?षा)र्घ्योदकेनैव तमवोक्ष्य विधानतः ॥ २५ ॥
कारुण्या(विनये?म्बुनिधे)देवि सर्वसंपत्तिसंश्रये ।
शरण्ये वत्स(लो?ले)मातः कृपामस्मिन् शिशौ कुरु ॥ २६ ॥
(अशि?आण)वप्रमुखैः पाशैः पाशितस्य सुरेश्वरि ।
दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ॥ २७ ॥
ऐहिकामुष्मिकैर्भोगैरभिसं(बु?ब)द्ध्यतामसौ ।
स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये ॥ २८ ॥
एवं प्रार्थ्य महादेवीमु(द्रा?द्वा)स्य हृदयाम्बुजे ।
शिष्याय श्रावयेद् दिव्यः शिवोऽहमिति भावयन् ॥ २९ ॥
अन्तस्तमोपहं दिव्यं सिद्धान्तं श्रावयेद् गुरुः ।
(यत् ? षट्)त्रिंशत्तत्त्वभ(वि?रि)तं विश्वं स्थावरजङ्गमम् । ३०।
१ ‘त्रे’ क. पाठ. ।