सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 331, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 331

२५० गन्धर्वतन्त्रे ।
शरीरं चापि त(त्रो?त्वो)त्थं तस्मिन्नेव द्विधा शिवः ।
कञ्चुकितः शिवो जीवो निष्कञ्चुकः परः शिवः ॥ ३१ ॥
आत्मज्ञानमात्मविद्भिः पुरुषार्थः समीरितः ।
वर्णात्मकं महेशानि नित्याः शब्दाः प्रकीर्तिताः ॥ ३२ ॥
अचिन्त्यस्त्विह मन्त्राणां प्रभावः समुदाहृतः ।
संप्रदायपरिज्ञानं गुरूणां सिद्धिदायकम् ॥ ३३ ॥
विश्वासाद्गुरुवाक्यानां सर्वसिद्धिरीरिता ।
प्रामाण्यं चात्र स्वनिष्ठं विश्वासः समुदाहृतः ॥ ३४ ॥
गुरूणां चैव मन्त्राणां देवानामापि पार्वति ।
मनःपवनयोश्चैवमेकत्वेन विभावनात् ॥ ३५ ॥
अन्तरात्मपरिज्ञानमिति जानीहि पार्वति ।
आनन्दं ब्रह्मणो रूपं तच्च देहे³ विभावयेत् ॥ ३६ ॥
तस्याभिव्यञ्जकाः पञ्च मकाराद्याः प्रकीर्तिताः ।
तैरेव यजनं तस्य गुप्त्या सिद्धिर्नचान्यथा ॥ ३७ ॥
प्राकट्यांच्च(व?भ)यं यस्माद् गोपयेन्मातृजारवत् ।
अभेदभावनादार्थ्यादाज्ञासिद्धिः समीरिता ॥ ३८ ॥
न निन्देद् दक्षिगं वामं न निन्देद् दर्शनानि च ।
निन्दाद्रोहादिकर्तॄणां गणनां नैव कारयेत् ॥ ३६ ॥
रहस्यकथनं देवि सच्छिष्यैएव नापरे ।
सदा विद्यानुसंधानं शिवभावेन तत्परः ॥ ४० ॥
कामं क्रोधं तथा लोभं मदमोहौ तथैव च ।
१ ‘ह’ क पाठः । २ ‘प्रक्टा’ च क पाठ । ३ ‘ध्यायै’ ख पाठ. ।