सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 338, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 338

अष्टात्रिंशः पटलः । २५७
शक्तिक्षेत्रे शिवक्षेत्रे दीपस्थानं विचिन्तयेत् ।
वर्त्तुलं रचयेद् देवि कूर्म्माकृति सुलोचने ॥ १८ ॥
तन्मध्ये नव कोष्ठानि कृत्वा वर्णान् समालिखेत् ।
स्वरान् युग्मक्रमेणैव दिक्षु चाष्टदलेषु च ॥ १९ ॥
अवर्गः कथितो देवि कवर्गादिकसप्तकम् ।
पूर्वादिक्रमतो देवि कुबेरान्तं लिखेत्ततः ॥ २० ॥
ळक्षवर्णं शंभुकोणे विलिखेत् कूर्मसंज्ञके ।
यस्मिन् कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति ॥ २१ ॥
अङ्गेषु पार्श्वयोः पाणियुग्मं जानीहि सुन्दरि ।
ततः पार्श्वद्वयं देवि कुक्षिस्थानं निगद्यते ॥ २२ ॥
ततः पादद्वयं देवि चान्ते पुच्छं प्रकीर्त्तितम् ।
मुखे कार्याणि सिध्यन्ति मनोरथशतानि च ॥ २३ ॥
कण्ठस्थाने महेशानि सर्वकार्यविनाशकृत् ।
उदरे दुःखदारिद्र्यं पादयोर्हानिरुच्यते ॥ २४ ॥
पुच्छे तु धनहानिः स्यादित्येवं कथितं मया ।
दीपस्थानं समाश्रित्य जपपूजां समाचरेत् ॥ २५ ॥
पूर्वोक्तविधिसंपन्नं गुरुं नत्वा विधानतः ।
अक्षमालां समाश्रित्य मातृकां वर्णरूपिणीम् ॥ २६ ॥
मन्त्रसिद्धिप्रदां शुद्धां सर्वपापौघनाशिनीम् ।
प्रणवो मातृका देवी माया चैवामृतत्रयम् ॥ २७ ॥
अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिध्यति ।