गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 332, कुल 446 में से
संदर्भ में पढ़ेंसप्तविंशः पटलः । २५२
हिंसां स्तेयं च मात्सर्यं यल्लोकेषु विगर्हितम्¹ ॥ ४१ ॥
स्त्रीविद्वेषादिकं चैव वर्जयेन्मतिमान् सदा ।
एक एव गुरुर्देवस्तस्यैवोपासनं सदा ॥ ४२ ॥
असंशयस्तु सर्वत्र निष्परिग्रहता मता ।
फलविरहितं कर्म त्यजेदनित्यमेव तत् ॥ ४३ ॥
पञ्चानामप्यलाभे तु नित्यं क्रमविम[र्ष?र्श]नम् ।
निर्भयत्वं च सर्वस्माज्ज्ञेयं सर्व ह[रि?विः]प्रिये ॥ ४४ ॥
स्वयमेव हि होतात्र आत्मा शिवस्तु पावकः ।
आत्मलाभात्परं नास्ति फलं क्वापि च सुव्रते ॥ ४५ ॥
सैषाङ्गा परमा शैवी कथिता तव पार्वति ।
वेदादिसकला विद्या वेश्या इव प्रकाशिताः ॥ ४६ ॥
सर्वेषु दर्शनेष्वेव विद्येयं खलु गोपिता ।
धीमांस्तत्रैव दीक्षेत सर्वथात्मविभूतये ॥ ४७ ॥
अथ शिष्यशिरोदेशे [वरु?चर]णां रक्तशुक्लयोः ।
भावयित्वा वपुस्तस्य क्षालितं मांसबृंहितम् ॥ ४८ ॥
तदमृतैः[श्र?स्र]वद्भिश्च कुर्याद् गुरुरुदारधीः ।
मूलादिब्रह्मरन्ध्रान्तं ज्वलन्तीं ज्वलनच्छविम् ॥ ४९ ॥
प्रतीषषहरीं[?]कोटिसूर्यप्रकाशिनीं पराम् ।
चन्द्रकोटिप्रभां शुद्धामज्ञानेन्धनदाहिकाम् ॥ ५० ॥
तत्तद्रश्मिभिरेवास्य पापपाशांस्तु संदहेत् ।
शिवोऽहमिति निश्चित्य वीक्षेत करुणया दृशौ³ ॥ ५१ ॥
१ 'श' क पाठ । २ 'मा' ख पाठ. । ३ 'त्तं करुणादृशा' ख पाठ ।
१