गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 333, कुल 446 में से
संदर्भ में पढ़ें२५२ गन्धर्वतन्त्रे ।
सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम् ।
पुनः स्वयं शिवो भूत्वा असंदिग्धमना गुरुः ॥ ५२ ॥
शिवहस्तेन शिष्यस्य मन्त्रं शिरसि संस्पृशेत् ।
जपोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु ॥ ५३ ॥
गृहीत्वा तस्य चात्मानमात्मना योजयेद् गुरुः ।
स्वयं मन्त्रतनुर्भूत्वा संक्रामेन्मन[सा]दरात् ॥ ५४ ॥
ह्रूसौःवर्णकर्णिके शि[ष्य? ष्यं]स्वरद्वन्द्वाष्टकेसरे ।
दिगष्टकस्थितवंठावर्गाष्टयुक्तदिग्दले ॥ ५५ ॥
चतुरस्रासने शुद्धे मातृकायन्त्रराजके ।
निवेश्य सादरं देवि कलशामृतधारया ॥ ५६ ॥
स्नपयेन्मूलविद्याभिस्त्रि[भङ्गो? रङ्गेः] देशिकोत्तमः ।
परिधाप्य दुकूले च चन्दनाद्यैर्विलेपयेत् ॥ ५७ ॥
अलंकृत्य यथालाभं समानं शिष्यपुत्रकम् ।
प्रसन्नं शान्तचित्तं च पार्श्वे निवेश्य देशिकः ॥ ५८ ॥
तदङ्गे मातृकां न्यस्य विद्याङ्गन्यासमाचरेत् ।
विमुक्तमुखवस्त्रस्य हस्ते तस्य गुरुः स्वयम् ॥ ५६ ॥
यथाधिकारमालोच्य द्रव्यभेदान् प्रकाशयेत् ।
अन्यथा सर्वहानिः स्यादयोग्येषु प्रकाशनात् ॥ ६० ॥
भोजनं तत्त्वमन्त्रैस्तु कारयेद् ग्रा[म? स]मुद्रया ।
अथ गुरुः प्रसन्नात्मा पूर्वोक्तामात्मनः पराम् ॥ ६१ ॥
बालान्वितां विधायादौ पादुकां विनिवेदयेत् ।
१ 'का' क. पाठः । २ 'स्त्रा' क पाठ ।