दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
श्लो० १९–२३] अवलोकसमेतम्। ६९
अथ व्याहारः—
अन्यार्थमेव व्याहारो हास्यलोभकरं वचः॥ २०॥
यथा मालविकाग्निमित्रे (पृ० २८-३०) लास्यप्रयोगावसाने—‘(मालविका
निर्गन्तुमिच्छति।) विदूषकः—माँ दाव। उवएससुद्धा गमिस्ससि।१’ इत्युपक्रमे
‘गणदासः—(विदूषकं प्रति।) आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः।
विदूषकः—पढमं पच्चूसे बम्हणस्स पूआ भोदि। सा तए लंघिदा। (मालविका
स्मयते।)’ इत्यादिना नायकस्य विश्रब्धनायिकादर्शनप्रयुक्तेन हास्यलोभकारिणा
वचनेन व्याहारः।
अथ मृदवम्—
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्।
यथा शाकुन्तले (२।५)—
‘मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपुलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्येचले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः॥२’
इति मृगयादोषस्य गुणीकारः।
यथा च—
‘सततमनिर्वृतमानसमायासहस्रसंकुलक्लिष्टम्।
गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम्॥’
इति राज्यगुणस्य दोषीभावः।
उभयं वा—
‘सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः
सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो
युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः॥’
इति प्रस्तावनाङ्गानि।
एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत्॥ २१॥
प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत्।
तत्र—
३अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान्॥ २२॥
कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः।
१ ‘मा तावत्। उपदेशशुद्धा गमिष्यसि।’ इति च्छाया। २ ‘प्रथमं प्रत्यूषे ब्राह्मणस्य
पूजा भवति। सा तया लङ्घिता।’ इति च्छाया। ३ ‘अभिगामि’, ‘अधिगम्य’ इति पाठौ।
७० दशरूपकं [ प्रकाशः ३
प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः ॥ २३ ॥
तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ।
यत्रेतिवृत्ते सत्यवागसंवादकारिनीतिशास्त्रप्रसिद्धाभिगामिकादिगुणयुक्तो रामा-
यणमहाभारतादिप्रसिद्धो धीरोदात्तो राजर्षिर्दिव्यो वा नायकस्तत्प्रख्यातमेवात्र
नाटक आधिकारिकं वस्तु विधेयमिति ।
यत्तत्रानुचितं किंचिन्नायकस्य रसस्य वा ॥ २४ ॥
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।
यथा छद्मना वालिवधो मायूराजेनोदात्तराघवे परित्यक्तः ।
वीरचरिते तु रावणसौहृदेन वाली रामवधार्थमागतो रामेण हत इत्य-
न्यथा कृतः ।
अद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च ॥ २५ ॥
खण्डशः संधिसंज्ञांश्च विभागानपि खण्डयेत् ।
अनौचित्यरसविरोधपरिहारपरिशुद्धीकृतसूचनीयदर्शनीयवस्तुविभागफलानुसा-
रेणोपक्लृप्तबीजबिन्दुपताकाप्रकरीकार्यलक्षणार्थप्रकृतिकं पञ्चावस्थानुगुण्येन पञ्चधा
विभजेत् । पुनरपि चैकैकस्य भागस्य द्वादश त्रयोदश चतुर्दशेत्येवमङ्गसंज्ञानां
संधीनां विभागान् कुर्यात् ।
चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा ॥ २६ ॥
पताकावृत्तमप्यूनमेकाद्यैरनुसंधिभिः ।
अङ्गान्यत्र यथालाभमसंधिं प्रकरीं न्यसेत् ॥ २७ ॥
अपरमपि प्रासङ्गिकमितिवृत्तमेकाद्यैरनुसंधिभिर्न्यूनमिति प्रधानेतिवृत्तादेक-
द्वित्रिचतुर्भिरनुसंधिभिर्न्यूनं पताकेतिवृत्तं न्यसनीयम् । अङ्गानि च प्रधानावि-
रोधे यथालाभं न्यसनीयानि । प्रकरीतिवृत्तं त्वपरिपूर्णसंधि विधेयम् ।
तत्रैवं विभक्ते—
आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः ।
इयमत्र कार्ययुक्तिः ।
अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ॥ २८ ॥
यदा संदर्शयेच्छेषं कुर्याद्विष्कम्भकं तदा ।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ २९ ॥
आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ।
स च—
प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ॥ ३० ॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ।
रङ्गप्रवेशे साक्षान्निर्दिश्यमाननायकव्यापारो बिन्दुपक्षेपार्थपरिमितोऽनेकप्रयोज-
नसंविधानरसाधिकरण उत्सङ्ग इवाङ्कः ।
कुर्यात् । तेषांLine 25:पात्राणामवश्यमङ्कस्यान्ते निर्गमः कार्यः ।Line 26:पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् ॥ ३७ ॥Line 27:एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ।Line 28:पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥ ३८ ॥Line 29:इत्युक्तं नाटकलक्षणम् ।Line 30:अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।Line 31:अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ॥ ३९ ॥Line 32:धीरप्रशान्तं सौपायं धर्मकामार्थतत्परम् ।Line 33:शेषं नाटकवत्संधिप्रवेशकरसादिकम् ॥ ४० ॥Line 34:कविबुद्धिविरचितमितिवृत्तम् । लोकसंश्रयमनुदात्तममात्याद्यन्यतमधीरप्रशान्त-Line 35 (Footnotes):१ 'अङ्कस्य' इति पाठः. २ 'तैः कार्यम्' इति पाठः. ३ 'सोपायं' इति पाठ
७२ दशरूपकं [ प्रकाशः ३
नायकं विपदन्तरितार्थसिद्धिं कुर्यात् । प्रकरणे मन्त्री अमात्य एव । सार्थ-
वाहो वणिग्विशेष एवेति । स्पष्टमन्यत् ।
नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा ।
क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ॥ ४१ ॥
कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः ।
आभिः प्रकरणं त्रेधा संकीर्णं धूर्तसंकुलम् ॥ ४२ ॥
वेशः=भृतिः, सोऽस्या जीवनमिति वेश्या । तद्विशेषो गणिका । यदुक्तं—
‘आभिरभ्यर्थिता वेश्या रूपशीलगुणान्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥’
एवं च कुलजा वेश्या उभयमिति त्रेधा प्रकरणे नायिका । यथा वेश्यैव
तरङ्गदत्ते कुलजैव पुष्पदूषितके । ते द्वे अपि मृच्छकटिकायामिति । कितवद्यूत-
कारादिधूर्तसंकुलं तु मृच्छकटिकादिवत् संकीर्णप्रकरणमिति ।
अथ नाटिका—
लक्ष्यते नाटिकाप्यत्र संकीर्णान्यनिवृत्तये ।
अत्र केचित्—
‘अनयोश्च बन्धयोगादेको भेदः प्रयोक्तृभिर्ज्ञेयः ।
प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये ॥’
इत्यमुं भरतीयं श्लोकमेको भेदः प्रख्यातो नाटिकाख्य इतरस्त्वप्रख्यातः
प्रकरणिकासंज्ञो नाटीसंज्ञया द्वे काव्ये आश्रिते इति व्याचक्षाणाः प्रकरणिकामपि
मन्यन्ते । तदसत् । उद्देशलक्षणयोरनभिधानात् समानलक्षणत्वे वा भेदाभावात् ।
वस्तु रसनायकानां प्रकरणभेदात् प्रकरणिकायाः । अतोऽनुद्दिष्टाया नाटिकाया
यन्मुनिना लक्षणं कृतं तत्रायमभिप्रायः । शुद्धलक्षणसंकरादेव तल्लक्षणे सिद्धे
लक्षणकरणं संकीर्णानां नाटिकैव कर्तव्येति नियमार्थं विज्ञायते ।
तमेव संकरं दर्शयति—
तत्र वस्तु प्रकरणान्नाटकान्नायको नृपः ॥ ४३ ॥
प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः ।
उत्पाद्येतिवृत्तत्वं प्रकरणधर्मः प्रख्यातनृपनायकादित्वं तु नाटकधर्म इति ।
एवं च नाटकप्रकरणनाटिकातिरेकेण वस्त्वादेः प्रकरणिकायामभावादङ्गपात्रभे-
दाद्यदि भेदः ।
तत्र—
स्त्रीप्रायचतुरङ्गादिभेदकं यदि चेष्यते ॥ ४४ ॥
एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ।
तत्र नाटिकेति स्त्रीसमाख्यौचित्यप्राप्तं स्त्रीप्रधानत्वम् । कैशिकीवृत्त्याश्रय-
णाच्च तदङ्गसंख्याल्पावमर्शत्वेन चतुरङ्गत्वमप्यौचित्यप्राप्तमेव ।
श्लो० ४१-५३ ] अवलोकसमेतम् । ७३
विशेषस्तु—
देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ ४५ ॥
गम्भीरा मानिनी कृच्छ्रात्तद्वशान्नेतृसंगमः ।
प्राप्या तु—
नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥ ४६ ॥
तादृशीति नृपवंशजत्वादिधर्मातिदेशः ।
अन्तःपुरादिसंबन्धादासन्ना श्रुतिदर्शनैः ।
अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ॥ ४७ ॥
नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः ।
तस्यां मुग्धनायिकायामन्तःपुरसंबन्धसंगीतकसंबन्धादिना प्रत्यासन्नायां
नायकस्य देवीप्रतिबन्धान्तरित उत्तरोत्तरो नवावस्थानुरागो निबन्धनीयः ।
कैशिक्यङ्गैश्चतुर्भिश्च युक्ताङ्गैरिव नाटिका ॥ ४८ ॥
प्रत्यङ्गोपनिबद्धाभिहितलक्षणकैशिक्यङ्गचतुष्टयवती नाटिकेति ।
अथ भाणः—
भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा ।
यत्रोपवर्णयेदेको निपुणः पण्डितो विटः ॥ ४९ ॥
संबोधनोक्तिप्रत्युक्तौ कुर्यादाकाशभाषितैः ।
सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः ॥ ५० ॥
भूयसा भारती वृत्तिरेकाङ्कं वस्तु कल्पितम् ।
मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥ ५१ ॥
धूर्ताश्चौरद्यूतकारादयस्तेषां चरितं यत्रैक एव विटः स्वकृतं परकृतं वोपवर्ण-
यति स भारतीवृत्तिप्रधानत्वाद्भाणः । एकस्य चोक्तिप्रत्युक्तय आकाशभाषितै-
राशङ्किनोत्तरत्वेन भवन्ति । अस्पष्टत्वाच्च वीरशृङ्गारौ सौभाग्यशौर्योपवर्णनया
सूचनीयौ ।
लास्याङ्गानि—
गेयं पदं स्थितं पाठ्यमासीनं पुष्पगण्डिका ।
प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ॥ ५२ ॥
उत्तमोत्तमकं चैवं३ उक्तप्रत्युक्तमेव च ।
लास्ये दशविधं ह्येतदङ्गनिर्देश४कल्पनम् ॥ ५३ ॥
शेषं स्पष्टमिति ।
१ ‘संगमे’ इति पाठः. २ ‘प्राप्यान्या’ इति पाठः. ३ ‘चान्यदुक्तं’ इति पाठः.
४ ‘लक्षणम्’ इति पाठः.
द० ७
७४ दशरूपकं [ प्रकाशः ३
अथ प्रहसनम्—
तद्वत्प्रहसनं त्रेधा शुद्धवैकृतसंकरैः ।
तद्वदिति भाणवद्वस्तुसंधिसंध्यङ्गलास्यादीनामतिदेशः ।
तत्र शुद्धं तावत्—
पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् ॥ ५४ ॥
चेष्टितं वेष¹भाषाभिः शुद्धं हास्यवचोन्वितम् ।
पाखण्डिनः=शाक्यनिर्ग्रन्थप्रभृतयः । विप्राश्चात्यन्तमृजवः, जातिमात्रोप-
जीविनो वा । प्रहसनाङ्गिहास्यविभावास्तेषां च यथास्वस्वव्यापारोपनिबन्धनं
चेटचेटीव्यवहारयुक्तं शुद्धं प्रहसनम् ।
विकृतं तु—
कामुकादिवचोवेषैः षण्ढकञ्चुकितापसैः ॥ ५५ ॥
विकृतं संकराद्वीथ्या संकीर्णं धूर्तसंकुलम् ।
कामुकादयः=भुजङ्गचारभटाद्याः । तद्वेषभाषादियोगिनो यत्र षण्ढकञ्चुकिता-
पसवृद्धादयस्तद्विकृतम् । स्वस्वरूपप्रच्युतविभावत्वात् । वीथ्यङ्गैस्तु संकीर्णत्वा-
त्संकीर्णम् ।
रसस्तु भूयसा कार्यः षड्विधो हास्य एव तु ॥ ५६ ॥
इति स्पष्टम् ।
अथ डिमः—
डिमे वस्तु प्रसिद्धं स्याद्वृत्तयः कैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ ५७ ॥
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
रसैर्हास्यशृङ्गारैः षड्भिर्दीप्तैः समन्वितः ॥ ५८ ॥
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि ॥ ५९ ॥
चतुरङ्कश्चतुःसंधिर्निर्विमर्शो डिमः स्मृतः ।
डिमसंघात इति नायकसंघातव्यापारात्मकत्वात् डिमः । तत्रेतिहासप्रसिद्ध-
मितिवृत्तम् । वृत्तयश्च कैशिकीवर्जितास्तिस्रः । रसाश्च वीररौद्रबीभत्साद्भुतकरुणभ-
यानकाः षट् । स्थायी तु रौद्रो न्यायप्रधानो विमर्शरहिता मुखप्रतिमुखगर्भ-
निर्वहणाख्याश्चत्वारः संधयः साङ्गाः । मायेन्द्रजालाद्यनुभावसमाश्रयाः । शेषं
प्रस्तावादिनाटकवत् । एतच्च—
'इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम् ।
ततस्त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥'
इति भरतमुनिना स्वयमेव त्रिपुरदाहेतिवृत्तस्य तुल्यत्वं दर्शितम् ।
१ 'वेषभाषादि', 'देशभाषादि' इति पाठौ.
श्लो० ५४-६८ ] अवलोकसमेतम् । ७५
अथ व्यायोगः—
ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः ॥ ६० ॥
हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद्रसाः ।
अस्त्रीनिमित्तसंग्रामो जामदग्न्यजये यथा ॥ ६१ ॥
एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैः ।
व्यायुज्यन्तेऽस्मिन्बहवः पुरुषा इति व्यायोगः । तत्र डिमवद्रसाः षड् हास्य-
शृङ्गाररहिताः । वृत्त्यात्मकत्वाच्च रसानामवचनेऽपि कैशिकीरहितेतरवृत्तित्वं
रसवदेव लभ्यते । अस्त्रीनिमित्तश्चात्र संग्रामः । यथा परशुरामेण पितृवधको-
पात्सहस्रार्जुनवधः कृतः । शेषं स्पष्टम् ।
अथ समवकारः—
कार्यं समवकारेऽपि आमुखं नाटकादिवत् ॥ ६२ ॥
ख्यातं देवासुरं वस्तु निर्विमर्शास्तु संधयः ।
वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः ॥ ६३ ॥
द्वादशोदात्तविख्याताः फलं तेषां पृथक्पृथक् ।
बहुवीररसाः सर्वे यद्वदम्भोधिमन्थने ॥ ६४ ॥
अङ्कैस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ।
द्विसंधिरङ्कः प्रथमः कार्यो द्वादशनालिकः ॥ ६५ ॥
चतुर्द्विनालिकान्वन्त्यौ नालिका घटिकाद्वयम् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ ६६ ॥
नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाः ।
धर्मार्थकामैः शृङ्गारो नात्र विन्दुप्रवेशकौ ॥ ६७ ॥
वीथ्यङ्गानि यथालाभं कुर्यात्प्रहसने यथा ।
समवकीर्यन्तेऽस्मिन्नर्था इति समवकारः । तत्र नाटकादिवदामुखमिति
समस्तरूपकाणामामुखप्रापणम् । विमर्शवर्जिताश्चतस्रः संधयः । देवासुरादयो
द्वादशनायकाः । तेषां च फलानि पृथक्पृथग्भवन्ति । यथा समुद्रमन्थने वासु-
देवादीनां लक्ष्म्यादिलाभाः । वीरश्चाङ्गी । अङ्गभूताः सर्वे रसाः । त्रयोऽङ्काः ।
तेषां प्रथमो द्वादशनालिकानिर्वृत्तेतिवृत्तप्रमाणः । यथासंख्यं चतुर्द्विनालिका-
वन्त्यौ । नालिका च=घटिकाद्वयम् । प्रत्यङ्कं च यथासंख्यं कपटाः । तथा नग-
रोपरोधयुद्धवाताग्न्यादिविद्रवाणां मध्य एकैको विद्रवः कार्यः । धर्मार्थकामशृ-
ङ्गाराणामेकैकः शृङ्गारः प्रत्यङ्कमेव विधातव्यः । वीथ्यङ्गानि च यथालाभं
कार्याणि । बिन्दुप्रवेशकौ नाटकोक्तावपि न विधातव्यौ । इत्ययं समवकारः ।
अथ वीथी—
वीथी तु कैशिकीवृत्तौ संध्यङ्गाङ्कैस्तु भाणवत् ॥ ६८ ॥
१ 'नाडिकः' इति पाठः. २ 'नाडिका' इति पाठः.
रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ।
युक्ता प्रस्तावनाख्यातैरङ्गैरुद्घात्यकादिभिः ॥ ६९ ॥
एवं वीथी विधातव्या ह्येकपात्रप्रयोजिता ।
वीथीवद्वीथीमार्गोऽङ्गानां पङ्क्तिर्वा भाणवत्कार्या । विशेषस्तु रसः शृङ्गारोप-
रिपूर्णत्वाद्भूयसा सूच्यः । रसान्तराण्यपि स्तोकं स्पर्शनीयानि । कैशिकी वृत्ती
रसौचित्यादेवेति । शेषं स्पष्टम् ।
अथाङ्कः—
उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् ॥ ७० ॥
रसस्तु करुणः स्थायी नेतारः प्राकृता नराः ।
भाणवत्संधिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः ॥ ७१ ॥
वाचा युद्धं विधातव्यं तथा जयपराजयौ ।
उत्सृष्टिकाङ्क इति नाटकान्तर्गताङ्कव्यवच्छेदार्थम् । शेषं प्रतीतमिति ।
अथेहामृगः—
मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसंधिमत् ॥ ७२ ॥
नरदिव्यावनियमान्नायकप्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्यो विपर्यासादयुक्तकृत् ॥ ७३ ॥
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ।
शृङ्गाराभासमप्यस्य किंचित्किंचित्प्रदर्शयेत् ॥ ७४ ॥
संरंभं परमानीय युद्धं व्याजान्निवारयेत् ।
वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः ॥ ७५ ॥
मृगवदलभ्यां नायिकां नायकोऽस्मिन्नीहते इतीहामृगः । ख्याताख्यातं
वस्त्वन्यः प्रतिनायको विपर्यासाद्विपर्ययज्ञानादयुक्तकारी विधेयः । स्पष्टमन्यत् ।
इत्थं विचिन्त्य दशरूपकलक्ष्ममार्ग-
मालोक्य वस्तु परिभाव्य कविप्रबन्धान् ।
कुर्यादयत्नवदलंकृतिभिः प्रबन्धं
वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥ ७६ ॥
स्पष्टम् ॥
इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रूपकलक्षण-
प्रकाशो नाम तृतीयः प्रकाशः समाप्तः ।
श्लो० ३ ] अवलोकसमेतम् । ७७
चतुर्थः प्रकाशः ।
अथेदानीं रसभेदः प्रदर्श्यते—
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वाद्यत्वं स्थायीभावो रसः स्मृतः ॥ १ ॥
वक्ष्यमाणस्वभावैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोपद-
र्शितैर्वा श्रोतृप्रेक्षकाणामन्तर्विपरिवर्तमानो रत्यादिर्वक्ष्यमाणलक्षणः स्थायी खाद-
गोचरतां निर्भरानन्दसंविदात्मतामानीयमानो रसः । तेन रसिकाः सामा-
जिकाः । काव्यं तु तथाविधानन्दसंविदुन्मीलनहेतुभावेन रसवदायुर्घृतमित्या-
दिव्यपदेशवत् ।
तत्र विभावः—
ज्ञायमानतया तत्र विभावो भावपोषकृत् ।
आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥ २ ॥
एवमयमेवमियमितिशयोक्तिरूपकाव्यव्यापाराहितविशिष्टरूपतया ज्ञायमानो
विभाव्यमानः सन्नालम्बनत्वेनोद्दीपनत्वेन वा यो नायकादिरभिमतदेशका-
लादिर्वा स विभावः । यदुक्तं विभाव इति विज्ञातार्थ इति, तांश्च यथास्वं यथा-
वसरं च रसेषूपपादयिष्यामः । अमीषां चानपेक्षितबाह्यसत्त्वानां शब्दोपधा-
नादेवासादिततद्भावानां सामान्यात्मनां स्वस्वसंबन्धित्वेन विभावितानां साक्षा-
द्भावकचेतसि विपरिवर्तमानानामाल्म्बनादिभाव इति न वस्तुशून्यता । तदुक्तं
भर्तृहरिणा—‘शब्दोपहितरूपांस्तान्बुद्धेर्विषयतां गतान् । प्रत्यक्षमिव कंसादी-
न्साधनत्वेन मन्यते ॥’ इति । षट्सहस्रीकृताप्युक्तम्—‘एभ्यश्च सामान्यगुण-
योगेन रसा निष्पद्यन्ते’ इति ।
तत्रालम्बनविभावो यथा—
‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकनिधिः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥’ (विक्रमो० १।१०)
उद्दीपनविभावो यथा—
‘अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं विभाति ॥’
अनुभावो विकारस्तु भावसंसूचनात्मकः ।
स्थायिभावानुभावयतः सामाजिकान्सभ्रूविक्षेपकटाक्षादयो रसपोषकारि-
णोऽनुभावाः । एते चाभिनयकाव्ययोरप्यनुभावयतां साक्षाद्भावकानुभवकर्मत-
यानुभूयन्त इत्यनुभवनमिति चानुभावा रसिकेषु व्यपदिश्यन्ते । विकारो भावसं-
सूचनात्मक इति तु लौकिकरसापेक्षया, इह तु तेषां कारणत्वमेव । यथा ममैव—
१ ‘स्वादुत्वं’ इति पाठः. २ ‘आलम्बनोद्दीप नाभ्यां कान्तोद्यानादिना द्विधा’ इति पाठः.
७८ दशरूपकं [ प्रकाशः ४
‘उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमद्भ्रूलतं
खेदाम्भःस्नपिताङ्गयष्टिविगलद्व्रीडं सरोमाञ्चया ।
धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सस्पृहं
मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥’
इत्यादि यथारसमुदाहरिष्यामः ।
हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥ ३ ॥
तयोर्विभावानुभावयोर्लौकिकंरसं प्रति हेतुकार्यभूतयोः संव्यवहारादेव सिद्ध-
त्वान्न पृथग्लक्षणमुपयुज्यते । तदुक्तम्—'विभावानुभावौ लोकसिद्धौ लोकया-
त्राऽनुगामिनौ लोकस्वभावोपगतत्वाच्च न पृथग्लक्षणमुच्यते' इति ।
• अथ भावः—
सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम् ।
अनुकार्याश्रयत्वेनोपनिबध्यमानैः सुखदुःखादिरूपैर्भावै
(त्च) or त्चि, or त्ति?
Look at: म - यै - त् - [?]
Wait, look at line 22:
मयैतच्चिरजीवितायाः
Let's look at the letter between 'यै' and 'र':
It is: 'त' then 'चि' with a hook below?
Wait, it's त्चि: "मयैत्चि..." no, "मयैतच्चिरजीवितायाः". Wait, the first letter after यै is 'त'. Then the next is 'चि' with a bar below? No, it's 'च्चि' where one 'च' is above the other? No, it's 'त्' and 'च' = 'त्च'? No, look at the top of the next letter: it has 'ि' (i-matra). The i-matra goes over... wait, it goes over BOTH!
Ah, the i-matra loop goes over two consonants!
First consonant is 'त' (or 'च'?).
Second consonant is 'चि'?
Wait, look at it: it looks like 'त्चि' or 'च्चि':
Wait, compare 'त्च' with 'च्च':
In 'तत्त्व' (line 15), 'त्त्व' has 'त्' + 'त'.
Here, look at: म यै त [something] चि र...
Wait, let me look really closely at:
'!
Because in Daśarūpaka:
"श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ॥"
The printer accidentally repeated "खेदो" instead of "स्वेदो"!
Let's look at the image: it literally printed खेदोऽस्मिन्मर्दनादयः!
Yes, look: खेदोऽध्वरत्यादेः खेदोऽस्मिन्मर्दनादयः ।
Both have the identical 'खेदो'! That is a clear misprint in the book, and as a line-by-line transcription of the page, we transcribe what's printed: खेदोऽस्मिन्मर्दनादयः ।
Let's check line 28:
अध्वतो यथोत्तररामचरिते ( १।२४ )—
Line 29:
'अलसलुलितमुग्धान्यध्वसंजातखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
Wait, look at "दत्तसंवाहनानि":
In line 29:
"दत्तसंवाहनानि" or "दत्तसंववाहनानि"?
Look at the letters:
द त्त सं व वा ह ना नि
Wait! Look at line 29:
द (da) त्त (tta) सं (saṃ) then 'व' then 'वा' (vā) ह (ha)
श्लो० १०-१४ ] अवलोकसमेतम् । ८१
अथ धृतिः—
संतोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत् ॥ १२ ॥
ज्ञानाद्यथा भर्तृहरिशतके ( वैराग्य० श्लो० ५३ )
‘वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥’
शक्तितो यथा रत्नावल्याम् ( १।९ )—
‘राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः
सम्यक्पालनपालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं
कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥’
इत्याद्यूह्यम् ।
अथ जडता—
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १३ ॥
इष्टदर्शनाद्यथा ( कुमार० ८।५ )—
‘एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥’
अनिष्टश्रवणाद्यथोदात्तराघवे—‘राक्षसः—
तावन्तस्ते महात्मानो निहताः केन राक्षसाः ।
येषां नायकतां यातास्त्रिशिरःखरदूषणाः ॥
द्वितीयः—गृहीतधनुषा रामहतकेन । प्रथमः—किमेकाकिनैव ।
द्वितीयः—अदृष्ट्वा कः प्रत्येति । पश्य तावतोऽस्मद्बलस्य,—
सद्यश्छिन्नशिरःश्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः केवलं जातास्तालोत्ताला रणाङ्गणे ॥
प्रथमः—सखे, यद्येवं तदाहमेवंविधः किं करवाणि ।’ इति ।
अथ हर्षः—
प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः ।
प्रियागमनपुत्रजननोत्सवादिविभावैश्चेतःप्रसादः=हर्षः । तत्र चाश्रुस्वेदगद्गदाद-
योऽनुभावाः । यथा ( अमरु० श्लो० ७७ )—
‘आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् खेनाञ्चलेनादरा-
दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥’
निर्वेदवदितरदुन्नेयम् ।
८२ दशरूपकं [ प्रकाशः ४
अथ दैन्यम्—
दौर्गत्याद्यैरनौजस्यं दैन्यं काष्र्ण्यामृजादिमत् ॥ १४ ॥
दारिद्र्यन्यक्कारादिविभावैरनौजस्कता चेतसः=दैन्यम्। तत्र च कृष्णतामलि-
नवसनदर्शनादयोऽनुभावाः । यथा (भोजप्र० श्लो० २५५)—
'वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्संचिततैलविन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भमरालसां सुतवधूं श्वश्रूश्चिरं रोदिति ॥'
शेषं पूर्ववत् ।
अथौग्र्यम्—
दुष्टेऽपराधदौर्मुख्यैक्रौर्यैश्चण्डत्वमुग्रता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १५ ॥
यथा वीरचरिते ( २।४८)—'जामदग्न्यः—
उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा-
दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् ।
पित्र्यं तद्रक्तपूर्णह्रदहवनमहानन्दमन्दायमान-
क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥'
अथ चिन्ता—
ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् ।
यथा—
'पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् ।
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते ॥'
यथा वा—
'अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्वसिता ।
ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥'
अथ त्रासः—
गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः ॥ १६ ॥
यथा माघे ( ८।२४)—
'त्रस्यन्ती चलशफरीविघट्टितोर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥'
१ 'चौर्यै०' इति पाठः.
श्लो० १४-१८] अवलोकसमेतम् । ८३
अथासूया-
परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा ।
दोषोक्त्यवज्ञे भ्रुकुटिमन्युक्रोधेङ्गितानि च ॥ १७ ॥
गर्वे यथा वीरचरिते (२।९)—
'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्षं च परस्य मानयशसोर्विध्वंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिर्दशमुखो दृष्टः कथं मृष्यते ॥'
दौर्जन्यायथा—
'यदि परगुणा न क्षम्यन्ते यतस्व गुणार्जने
नहि परयशोनिन्दाव्याजैरल परिमार्जितुम् ।
विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो
दिनकरकरान्पाणिच्छत्रैर्नुदन् श्रममेष्यसि ॥'
मन्युजा यथामरुशतके (श्लो० ५१-५२)—
'पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रोषप्रणयरभसाद्गद्गदगिरा ।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥'
अथामर्षः-
अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १८ ॥
यथा वीरचरिते (३।८)—
'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेवं दूषयिष्यामि शस्त्रग्रहणमहाव्रतम् ॥'
यथा वा वेणीसंहारे (१।१२)—
'युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥'
८४ दशरूपकं [ प्रकाशः ४
अथ गर्वः—
गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।
कर्माण्यधर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥ १९ ॥
यथा वीरचरिते ( २।२७ )—
‘मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे क्षत्रियाऽसि ।
तपसि विततकीर्तेर्दपकण्डूलदोष्र्णः परिचरणसमर्थो राघवः क्षत्रियोऽहम् ॥’
यथा वा तत्रैव—
‘ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥’ ( वीर० २।१० )
अथ स्मृतिः—
सदृशज्ञानचिन्ताद्यैः संस्कारात्स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ॥ २० ॥
यथा—
‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण-
मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥’
यथा वा मालतीमाधवे—‘माधवः—मम हि प्राक्तनोपलम्भसंभाविता-
त्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृ-
प्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यत-
श्चैतन्यम् ।
‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रसारघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि-
श्चिन्तासंततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥’ ( मालती० ५।१० )
अथ मरणम्—
मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।
यथा—
‘संप्राप्तेऽवधिवासरे क्षणमनु स्वद्वर्त्मवातायनं
वारंवारमुपेत्य निष्क्रियतया निश्चिल्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररीं साश्रं सखीभ्यः कृशो-
र्मध्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥’
इत्यादिवच्छृङ्गारस्यालम्बनत्वेन मरणे व्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र
कामचारः । यथा वीरचरिते—‘पश्यन्तु भवन्तस्ताडकाम्—...
श्लो० १९–२४ ] अवलोकसमेतम् । ८५
'हृन्मर्मभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गभङ्गा ।
नासाकुटीरकुहरद्वयतुल्यनिर्यदुद्बुद्बुद्ध्वनदसृक्प्रसरा मृतेव ॥'
( वीर० १।३९ )
अथ मदः—
हर्षोत्कर्षो मदः पानात्स्खलदङ्गवचोगतिः ॥ २१ ॥
निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।
यथा माघे ( १०।१३ )—
'हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥'
इत्यादि ।
अथ सुप्तम्—
सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रियापरम् ॥ २२ ॥
यथा—
लघूनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुपुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्मावद्धरेखस्तुषारः ॥'
अथ निद्रा—
मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः ।
तत्र जृम्भाङ्गभङ्गाक्षीमीलनोच्छ्वसतादयः ॥ २३ ॥
यथा ( विल्हणः )—
'निद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि ।
अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥'
यथा च माघे ( ११।४ )—
'प्रहरकमपनीय खं निदिद्रासतोच्चैः प्रतिपदमपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णं निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥'
अथ विबोधः—
विबोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ।
यथा माघे ( ११।१३ )—
'चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥'
अथ व्रीडा—
दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तदुच्यतेत् ।
साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥ २४ ॥
यथामरुशतके ( श्लो० ४१ )—
'पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
१ 'उच्छ्वासनादयः' इति पाठः.
द० ८
८६ दशरूपकं [ प्रकाशः ४
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यल्यन्तः प्रथमपरिहासे नववधूः ॥'
अथापस्मारः-
आवेशो ग्रहदुःखायैरपस्मारो यथाविधिः ।
भूपात कम्पप्रस्वेदलालाफेनोद्गमादयः ॥ २५ ॥
यथा माघे (३।७२)-
'आश्लिष्टभूमिं रसतारमुच्चैर्लोलद्धुजाकारवृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'
अथ मोहः-
मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः ।
तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ २६ ॥
यथा कुमारसंभवे (३।७३)-
'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥'
यथा चोत्तररामचरिते (१।३५)-
'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥'
अथ मतिः-
भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।
यथा किराते (२।३०)-
'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥'
यथा च-
'न पण्डिताः साहसिक भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥'
अथालस्यम्-
आलस्यं श्रमगर्भादेर्जह्ययजृम्भासितादिमत् ॥ २७ ॥
यथा ममैव-
'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालिनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥'
अथावेगः-
आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो
वातात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
१ 'मायाभियोगो' इति पाठः.
श्लो० २५–२८ ] अवलोकसमेतम् । ८७
उत्पातात्त्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा
वह्नेर्धूमाकुलास्यः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८॥
अभिसरः=राजविद्रवादिः, तद्धेतुरावेगः । यथा ममैव—
‘आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे
खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम् ।
संरम्भोन्निद्रितानां क्षितिमृति गहनेऽन्योन्यमेवं प्रतीच्छन्
वादः क्षप्राभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥’
इत्यादि ।
‘तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विश्वगुद्धटाः सुभटोक्तयः ॥’
यथा वा—
‘प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया-
मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी
सद्यो मुक्तसमाधयो निजवृसीष्वेवोच्चपादं स्थिताः ॥’
वातावेगो यथा—‘वाताहतं वसनमाकुलमुत्तरीयम्’ इत्यादि ।
वर्षजो यथा—
‘देवे वर्षत्यशनपवनव्यापृता वह्निहेतो-
र्गेहाद्गेहं फलकनिचितैः सेतुभिः पङ्कसीताः ।
नीध्रप्रान्तप्रविरलजलान्पाणिभिस्ताडयित्वा
शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥’
उत्पातजो यथा—
‘पौलस्त्यपीनभुजसंपदुदस्यमानकैलाससंभ्रमविलोळदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निहुतकोपचिह्नमलिङ्गितोत्पुलकमासितमिन्दुमौलेः ॥’
अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तथथोदात्तराघवे—‘चित्रमयः—
( ससंभ्रमम् ।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् । (इत्याकुलतां
नाटयति ।)’ इत्यादि । पुनः ‘चित्रमयः—
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः—
वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसा-
त्र्रस्तश्चैष मुनिर्बिरौति मनसश्चास्त्येव मे संभ्रमः ।
माहासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते
न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥’
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।
८८ दशरूपकं [ प्रकाशः ४
इष्टप्राप्तिकृतो यथात्रैव—'(प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः ।) वानरः—
मेहराज, एदं खु पवणगंदणागमणेण पहरिस-' इत्यादि 'देवैस्स हिअआणंद-
जणणं विअलिदं मधुवणं ।' इत्यन्तम् ।
यथा वा वीरचरिते ( १।५५ )—
'एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥'
वह्निजो यथामरुशतके ( श्लो० २ )—
'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्त्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥'
यथा वा रत्नावल्याम् ( ४।१६ )—
विरम विरम वहे मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं लं करोषि ॥'
करिजो यथा रघुवंशे ( ५।४९ )—
'स च्छिन्नबन्धद्रुतयुग्मशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥'
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रशूकरवानरादिप्रभवा आवेग
व्याख्याताः ।
अथ वितर्कः—
तर्को विचारः संदेहाद्भूशिरोऽङ्गुलिनर्तकः ।
यथा—
'किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं
सद्यः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥'
अथवा,—
'कः समुचिताभिषेकादार्यं प्रच्यवयेद्गुणज्येष्ठम् ।
मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना ॥'
अथावहित्थम्—
लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया ।
१ 'महाराज, एतत्खलु पवननन्दनागमनेन प्रहर्ष—' इति च्छाया. २ 'देवस्य
हृदयानन्दजननं विदलितं मधुवनम्' इति च्छाया.