दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 67, कुल 168 में से
संदर्भ में पढ़ें५६ दशरूपकं [ प्रकाशः २
यद्भ्रूभङ्गतराङ्गताञ्चितदृशा सावज्ञमालोकित-
स्तद्ग्रीवादवधीरतोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥'
अथ ललितम्—
सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत् ॥ ४१ ॥
यथा ममैव—
'सभ्रूभङ्गं करकिसलयावर्तनैराल्पन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन ।
विन्यस्यन्ती चरणकमले लीलया स्वैरयातै-
र्निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥'
अथ विहृतम्—
प्राप्तकालं न यद्ब्रूयाड्रीडया विहृतं हि तत् ।
प्राप्तावसरस्यापि वाक्यस्य लज्जया यदवचनं तद्विहृतम् । यथा ( अमरु०
श्लो० १३६)—
'पादाङ्गुष्ठेन भूमिं किसलयरुचिना सापदेशं लिखन्ती
भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे ।
वक्त्रं हीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना
यन्मां नोवाच किञ्चित्स्थितमपि हृदये मानसं तद्धुनोति ॥'
अथ नेतुः कार्यान्तरसहायानाह—
मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने ॥ ४२ ॥
तस्य नेतुरर्थचिन्तायां तन्त्रावापादिलक्षणायां मन्त्री वात्मा वोभयं वा
सहायः ।
तत्र विभागमाह—
मन्त्रिणा ललितः शेषा मन्त्रिखायत्तसिद्धयः ।
उक्तलक्षणो ललितो नेता मन्त्र्यायत्तसिद्धिः । शेषाः=धीरोदात्तादयः ।
अनियमेन मन्त्रिणा स्वेन वोभयेन वाङ्गीकृतसिद्धय इति ।
धर्मसहायास्तु—
ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः ॥ ४३ ॥
ब्रह्म=वेदः, तं वदन्ति व्याचक्षते वा तच्छीला ब्रह्मवादिनः, आत्मज्ञानिनो
वा । शेषाः प्रतीताः ।
दुष्टदमनं=दण्डः, तत्सहायास्तु—
सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाः ।
स्पष्टम् । एवं तत्तत्कार्यान्तरेषु सहायान्तराणि योज्यानि । यदाह—
अन्तःपुरे वर्षवराः किराता मूकवामनाः ॥ ४४ ॥
म्लेच्छाभीरशकाराद्याः स्वस्वकार्योपयोगिनः ।
शकारः=राज्ञः श्यालो हीनजातिः ।