दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 66, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ३७-४० ] अवलोकसमेतम् । ५५
यथा वा ममैव—
'श्रुत्वायातं बहिः कान्तमसमाप्तविभूषया ।
भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥'
अथ किलकञ्चितम्—
क्रोधाश्रुहर्षभीत्यादेः संकरः किलकञ्चितम् ॥ ३९ ॥
यथा ममैव—
'रतिक्रीडाद्यूते कथमपि समासाद्य समयं
मया लब्धे तस्याः क्वणितकलकण्ठार्धमधुरे ।
कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित-
स्मितक्रोधोद्भ्रान्तं पुनरपि विदध्यान्मयि मुखम् ॥'
अथ मोट्टायितम्—
मोट्टायितं तु तद्भावभावनेष्टकथादिषु ।
इष्टकथादिषु प्रियतमकथानुकरणादिषु प्रियानुरागेण भावितान्तःकरणत्वं=
मोट्टायितम् । यथा पद्मगुप्तस्य—
'चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।
व्रीडार्धवलितं चक्रे मुखेन्दुमवशैव सा ॥'
यथा वा—
'मातः कं हृदये निधाय सुचिरं रोमाञ्चिताङ्गी मुहु-
र्जृम्भामन्थरतारकां सुललितापाङ्गां दधाना दृशम् ।
सुप्तेवालिखितेव शून्यहृदया लेखावशेषीभव-
त्यात्मद्रोहिणि किं हिया कथय मे गूढो निहन्ति स्मरः ॥'
यथा वा ममैव—
'स्मरदवथुनिमित्तं गूढमुन्नेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः ।
भवति विततपृष्ठोदस्तपीनस्तनाग्रा ततवलयितबाहूर्जृम्भितैः साङ्गभ