दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 68, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ४१–५० ] अवलोकसमेतम् । ५७
विशेषान्तरमाह—
ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता ॥ ४५ ॥
तारतम्याद्यथोक्तानां गुणानां चोत्तमादिता ।
एवं प्रागुक्तानां नायकनायिकादूतदूतीमन्त्रिपुरोहितादीनामुत्तममध्यमाधम-
भावेन त्रिरूपता । उत्तमादिभावश्च न गुणसंख्योपचयापचयेन किं तर्हि गुणा-
तिशयतारतम्येन ।
एवं नाट्ये विधातव्यो नायकः संपरिच्छदः ॥ ४६ ॥
उक्तो नायकः, तद्व्यापारस्तूच्यते—
तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी ।
गीतनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः ॥ ४७ ॥
प्रवृत्तिरूपो नेतृव्यापारस्वभावः=वृत्तिः । सा च कैशिकी-सात्त्वती-आरभटी-
भारती-भेदाच्चतुर्विधा । तासां गीतनृत्यविलासकामोपभोगाद्युपलक्ष्यमाणो मृदुः
शृङ्गारी कामफलावच्छिन्नो व्यापारः कैशिकी । सा तु—
नर्मतत्स्फिञ्जतत्स्फोटतद्गर्भैश्चतुरङ्गिका ।
तदित्यनेन सर्वत्र नर्म परामृश्यते ।
तत्र—
वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् ॥ ४८ ॥
हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ।
आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा ॥ ४९ ॥
शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ।
सर्वं सहास्यमित्येवं नर्माष्टादशधोदितम् ॥ ५० ॥
अग्राम्य इष्टजनार्जनरूपः परिहासः=नर्म । तच्च शुद्धहास्येन सशृङ्गार-
हास्येन सभयहास्येन च रचितं त्रिविधम् । शृङ्गारवदपि स्वानुरागनिवेदन-संभोगे-
च्छाप्रकाशन-सापराधप्रियप्रतिभेदनैस्त्रिविधमेव । भयनर्मापि शुद्धरसान्तराङ्गभावा-
द्विविधम् । एवं षड्विधस्य प्रत्येकं वाग्वेषचेष्टाव्यतिकरेणाष्टादशविधत्वम् ।
तत्र वचो हास्यनर्म यथा ( कुमार० ७।१९ )—
‘पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥’
वेषनर्म यथा नागानन्दे विदूषकशेखरकव्यतिकरे । क्रियानर्म यथा माल-
विकाग्निमित्रे ( पृ० ८१ ) उत्स्वप्नायमानस्य विदूषकस्योपरि निपुणिका सर्पभ्रमकारणं
दण्डकाष्ठं पातयति । एवं वक्ष्यमाणेष्वपि वाग्वेषचेष्टापरत्वमुदाहार्यम् ।
शृङ्गारवदात्मोपक्षेपनर्म यथा—
‘मध्याह्नं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां
मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपामण्डपः ।
• १ ‘सपरिग्रहः’ इति पाठः. २ ‘स्फञ्ज’ इति पाठः.