दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 61, कुल 168 में से
संदर्भ में पढ़ेंयथाऽमरुशतके (श्लो० ३१)—
'उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥'
यथा च (शिशु० ९।५६)—
'न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥'
तत्र—
चिन्तानिःश्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैः ।
युक्ताः पडन्त्या द्वे चाद्ये क्रीडौज्वल्यप्रहर्षितैः ॥ २८ ॥
परस्त्रियौ तु कन्यकोढे । संकेतात्पूर्वं विरहोत्कण्ठिते पश्चाद्विदूषकादिना
सहाभिसरन्त्यावभिसारिके । कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति
व्यवस्थितैवानयोरिति । अस्वाधीनप्रिययोरवस्थान्तरायोगात् । यत्तु मालवि-
काग्निमित्रादौ (पृ० ७८) 'योऽप्येवं धीरः सोऽपि दृष्टो देव्याः पुरतः' इति
मालविकावचनानन्तरम्—'राजा—
दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम् ।
तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥' (मालविका० ४।१४)
इत्यादि, तन्न खण्डितानुनयाभिप्रायेण । अपि तु सर्वथा मम देव्यधीनत्वमा-
शङ्क्य निराशा मा भूदिति कन्याविश्रम्भणायेति । तथानुपसंजातनायकसमाग-
माया देशान्तरव्यवधानेऽप्युत्कण्ठितात्वमेवेति न प्रोषितप्रियात्वमनायत्ताप्रिय-
त्वादेवेति ।
अथासां सहायिन्यः—
दूत्यो दासी सखी कारूर्धात्रेयी प्रतिवेशिका ।
लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः ॥ २९ ॥
दासी=परिचारिका । सखी=स्नेहनिबद्धा । कारूः=रजकीप्रभृतिः । धात्रेयी=उप-
मातृसुता । प्रतिवेशिका=प्रतिगृहिणी । लिङ्गिनी=भिक्षुक्यादिका । शिल्पिनी=चित्र-
कारादिस्त्री । स्वं चेति दूतीविशेषा । नायकमित्राणां पीठमर्दादीनां निसृष्टार्थ-
त्त्वादिना गुणेन युक्ताः । तथा च मालतीमाधवे (३।११) कामन्दकीं प्रति—
'शास्त्रेषु निष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥'
तत्र सखी । यथा—
'मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते
दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी ।
इति तु विदितं नारीरूपः स लोकदृशां सुधा
तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥'