दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 33, कुल 168 में से
संदर्भ में पढ़ें२२ दशरूपकं [ प्रकाशः १
यथा च वेणीसंहारे (पृ० १५७)—'युधिष्ठिरः—पाञ्चालक, कच्चिदासादिता
तस्य दुरात्मनः कौरवापसदस्य पदवी ? पाञ्चालकः—न केवलं पदवी ।
स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः ।' इति दुर्योध-
नस्य दोषप्रख्यापनादपवाद इति ।
अथ संफेटः—
संफेटो रोषभाषणम् ।
यथा वेणीसंहारे (पृ० १६५)—'भो कौरवराज, कृतं बन्धुनाशदर्शनमन्युना ।
मैवं विषादं कृथाः । पर्याप्ताः पाण्डवाः समरायाहमसहाय इति ।
पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन ।
दर्शितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः ॥ ( ६।१० )
इत्थं शृलाऽऽस्यात्मिकां निक्षिप्य कुमारयोर्दृष्टिमुक्तवान्धार्तराष्ट्रः—
कर्णदुःशासनवधात्तुल्यावेव युवां मम ।
अप्रियोऽपि प्रियो योद्धुं लभेव प्रियसाहसः ॥ ( ६।११ )
इत्युत्थाय च परस्परक्रोधाधिक्षेपपरुषवाकलहप्रस्तावितघोरसंग्रामौ—' इत्यनेन
भीमदुर्योधनयोरन्योन्यरोषसंभाषणाद्विजयबीजान्वयेन संफेट इति ।
अथ विद्रवः—
विद्रवो वधबन्धादिर्
यथा छलितरामे—
'येनावृत्य मुखानि साम पठतामनन्तमायासितं
बाल्ये येन हृताक्षसूत्रवलयप्रत्यर्पणैः क्रीडितम् ।
युष्माकं हृदयं स एष विशिखैरापूरितांसस्थलो
मूर्च्छाघोरतमःप्रवेशविवशो बद्ध्वा लवो नीयते ॥'
यथा च रत्नावल्याम् (४।१४)—
'हर्म्याणां हेमशृङ्गश्रियभिव शिखरेरर्चिषामादधानः
सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितानन्ततीव्राभितापः ।
कुर्वन्क्रीडामहीभ्रं सजलजलधरश्यामलं धूमपातै-
रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ॥'
इत्यादि । पुनः (पृ० १८४) 'वासवदत्ता—अज्जउत्त, ण क्खु अहं अत्तणो
कारणादो भणामि । एसा मए णिग्घिणहिअआए संजदा सागरिआ विवज्जदि ।'
इत्यनेन सागरिकावधबन्धादिभिर्विद्रव इति ।
अथ द्रवः—
द्रवो गुरुतिरस्कृतिः ॥ ४५ ॥
१ 'आर्यपुत्र, न खल्वहमात्मनः कारणाद्भणामि । एषा मया निर्घृणहृदयया
संयता सागरिका विपद्यते ।' इति च्छाया ।