सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 32, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 32

श्लो० ४२-४४ ] अवलोकसमेतम् । २१
कुरस्स सउणिप्पोच्छाहाणरूढमूलस्स कूडविससाहिणो पंचालीकेसग्गहणकुसु-
मस्स फलं परिणमेदि ।' इत्यनेन बीजमेव फलोन्मुखतयाक्षिप्यत इत्याक्षेपः ।
एतानि द्वादश गर्भाङ्गानि प्राप्त्याशाप्रदर्शकत्वेनोपनिबन्धनीयानि । एषां च
मध्येऽभूताहरणमार्गतोटकाधिवलाक्षेपाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग
इति साङ्गो गर्भसंधिरुक्तः ।
अथावमर्शः—
क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् ।
गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽङ्गसंग्रहः ॥ ४३ ॥
अवमर्शनमवमर्शः पर्यालोचनम् । तच्च क्रोधेन वा व्यसनाद्वा विलोभनेन वा
भवितव्यम् । अनेनार्थेनेत्यवधारितैकान्तफलप्राप्त्यवसायात्मा गर्भसंध्युद्भिन्नबीजार्थ-
संबन्धो विमर्शोऽवमर्शः । यथा रत्नावल्यां चतुर्थेऽङ्के (पृ० १८६) अग्निविद्रव-
पर्यन्तो वासवदत्ताप्रसक्त्या निरपायरत्नावलीप्राप्त्यवसायात्मा विमर्शो दर्शितः ।
यथा च वेणीसंहारे (६।१) दुर्योधनरुधिराक्तभीमसेनागमपर्यन्तः—
‘तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते
कर्णाशीविषभोगिनि प्रशमिते शल्येऽपि याते दिवम् ।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये
सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥’
इत्यत्र ‘खल्पावशेषे जये’ इत्यादिभिर्विजयप्रत्यर्थिसमस्तभीष्मादिमहारथिवधाद-
वधारितैकान्तविजयावमर्शनादवमर्शं दर्शितमित्यवमर्शसंधिः ।
तस्याङ्गसंग्रहमाह—
-·' तत्रापवादसंफेटौ विद्रवद्रवशक्तयः ।
द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् ॥ ४४ ॥
प्ररोचना विचलनमादानं च त्रयोदश ।
यथोद्देशं लक्षणमाह—
दोषप्रख्याऽपवादः स्यात्
यथा रत्नावल्याम् (पृ० १५३)—‘सुसङ्गता—सा खु तवस्सिणी भट्टिणीए
उज्जइणिं णीअदित्ति पवादं करिअ उवत्थिदे अद्धरत्ते ण जाणीअदि कहिंपि
णीदेत्ति । विदूषकः—(सोद्वेगम्) अंदिणिग्घिणं क्खु किदं देवीए ।' पुनः ।
(पृ० १६२) ‘भो वअस्स, मा खु अण्णधा संभावेहि । सा खु देवीए उज्जइणीए
पेसिदा । अदो अप्पिअं त्ति कहिदं । राजा—अहो निरनुरोधा मयि
देवी ।' इत्यनेन वासवदत्तादोषप्रख्यापनादपवादः ।
१ 'सोऽवमर्श इति स्मृतः' इति पाठः. २ 'सा खलु तपस्विनी भट्टिन्योज्-
यिनीं नीयत इति प्रवादं कृत्वोपस्थितेऽर्धरात्रे न ज्ञायते कुत्रापि नीतेति ।' इति च्छाया.
३ 'अतिनिर्घृणं खलु कृतं देव्या ।' इति च्छाया. ४ 'भो वयस्य, मा खल्वन्यथा
संभावय । सा खलु देव्योज्जयिन्यां प्रेषिता । अतोऽप्रियमिति कथितम् ।' इति च्छाया.