सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

६९४ बृहत्संहिता
२५६. शार्दूलहंससमदद्विपगोपतीनां तुल्याः भवन्ति गतिभिः शिखिनाञ्च भूपाः ।
येषाञ्च शब्दरहितं स्तिमितञ्च यातं तेऽपीश्वराः द्रुतपरिप्लुतगा दरिद्राः ॥
इति कस्य कथनम्?
(अ) शौनकस्य (स) पराशरस्य
(ब) कश्यपस्य (द) वराहमिहिरस्य
२५७. कः पुरुषः भाग्यशाली कथ्यते?
(अ) यस्य श्रान्ते यानं भवति (स) यस्य तृषापरिगतस्य पानं भवति
(ब) यस्य बुभुक्षायामशनं भवति (द) यस्य भयकाले रक्षा भवति
२५८. श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषापरिगतस्य भयेषु रक्षा ।
एतानि यस्य पुरुषस्य भवन्ति काले धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥
इति कुतः गृहीतम्?
(अ) सनत्कुमारसंहितातः (स) बृहत्संहितातः
(ब) भृगुसंहितातः (द) वाराहीसंहितातः
२५९. कति प्रशस्तपुरुषाः?
(अ) चत्वारः (स) षट्
(ब) पञ्च (द) सप्त
२६०. हंसयोगो कदा जायते?
(अ) स्वोच्चे स्वभे केन्द्रगे गुरौ (स) चतुर्थदशमसप्तमलग्नगे देवगुरौ
(ब) स्वक्षेत्रे केन्द्रगे गुरौ (द) कर्कराशिगते बृहस्पतौ
२६१. केन शशयोगो जायते?
(अ) सूर्येण (स) सौर्येण
(ब) चन्द्रमसा (द) बुधेन
२६२. रुचकयोगः कस्माज्जायते?
(अ) गुरुणा (स) भौमेन
(ब) राहुणा (द) केतुना
२६३. भद्रयोगः केन ग्रहेण भवति?
(अ) कुजेन (स) गुरुणा
(ब) बुधेन (द) शनैश्चरेण
२६४. स्वक्षेत्रे तु चतुष्टयेऽथ वलिभिः स्वोच्चे स्थितैर्वा ग्रहैः
शुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथाप्रक्रमम् ।
मालव्यो रुचकः शशोऽथ कथितो हंसश्च भद्रस्तथा
सर्वेषामतिविस्तरान्मुनिमतात् सङ्ख्यते लक्षणम् ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६९५
इदं पद्यं कुत्रास्ति?
(अ) भृगुसंहितायाम् (स) गर्गसंहितायाम्
(ब) वाराहीसंहितायाम् (द) सारावल्याम्
२६५. पूर्णसत्त्ववान् कस्य बलेन भवति नरः?
(अ) सूर्यबलेन (स) भृगुबलेन
(ब) चन्द्रबलेन (द) कुजबलेन
२६६. मनसा बलवान् केन बलेन भवति नरः?
(अ) सूर्यबलेन (स) कुजबलेन
(ब) चन्द्रबलेन (द) गुरुबलेन
२६७. महीसुतात्सत्त्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद्धुरोश्च ।
स्वरः सितात्स्नेहमतोऽनुवर्णं बलाबलैः पूर्णलघूनि चैषाम् ॥
इति पद्यं कुत्राऽस्ति?
(अ) वसिष्ठसंहितायाम् (स) वाराहीसंहितायाम्
(ब) भृगुसंहितायाम् (द) सारावल्याम्
२६८. हंसपुरुषस्योन्नतं कियदङ्गुलपरिमितं भवति?
(अ) षण्णवत्यङ्गुलपरिमितम् (स) पञ्चाशीत्यङ्गुलपरिमितम्
(ब) नवत्यङ्गुलपरिमितम् (द) चतुरशीत्यङ्गुलपरिमितम्
२६९. उच्छ्रायः परिणाहस्तु यस्य तुल्यं शरीरिणः ।
स नरः पार्थिवो ज्ञेयो न्यग्रोधपरिमण्डलः ॥
इति कस्य वाक्यम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) शौनकस्य (द) पराशरस्य
२७०. कतिविधाः पुरुषाः भवन्ति?
(अ) सप्तविधाः (स) षड्विधाः
(ब) पञ्चविधाः (द) अष्टविधाः
२७१. कति गुणाः भवन्ति?
(अ) त्रयो गुणाः (स) पञ्च गुणाः
(ब) चत्वारो गुणाः (द) सप्त गुणाः
२७२. कीदृशः मालव्यपुरुषः?
(अ) नागनासः (स) जानुसम्प्राप्तहस्तः
(ब) समभुजयुगलः (द) कृशकटिभागः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६९६ बृहत्संहिता
२७३. मालव्यपुरुषस्यायुः कति वर्षाणि?
(अ) पञ्चाशद्वर्षाणि (स) सप्ततिवर्षाणि
(ब) अशीतिवर्षाणि (द) पञ्चाशीतिवर्षाणि
२७४. वक्त्रं त्रयोदशमितानि तथाङ्गुलानि दैर्घ्येण कर्णविवराद्दश विस्तरेण।
मालव्यसंज्ञमनुजः स भुनक्ति नूनं लाटं समालवससिन्धुसपारियात्रम्॥
कुतः गृहीतमिदं पद्यम्?
(अ) भृगुसंहितातः (स) वाराहीसंहितातः
(ब) सारावलीतः (द) नारदसंहितातः
२७५. त्वक्शुक्रसारः पृथूपीनवक्षाः सत्त्वाधिको व्याघ्रमुखः स्थिरश्च।
क्षमान्वितो धर्मपरः कृतज्ञो गजेन्द्रगामी बहुशास्त्रवेत्ता॥
कस्य पुरुषस्य लक्षणमिदम्?
(अ) भद्रपुरुषस्य (स) हंसपुरुषस्य
(ब) मालव्यपुरुषस्य (द) शशपुरुषस्य
२७६. कति वर्षपरिमिता आयुर्भद्रपुरुषस्य?
(अ) नवतिवर्षाणि (स) द्विनवतिवर्षाणि
(ब) पञ्चनवतिवर्षाणि (द) अशीतिवर्षाणि
२७७. स्वतन्त्रः सर्वकार्येषु स्वजनं प्रति न क्षमः।
भुज्यते विभवश्चास्य नित्यं बन्धुजनैः परैः॥
इति कुतः गृहीतम्?
(अ) भृगुसंहितातः (स) गर्गसंहितातः
(ब) सारावलीतः (द) शौनकस्मृतितः
२७८. उन्नतदन्तः कः भवति?
(अ) हंसपुरुषः (स) शशपुरुषः
(ब) मालव्यपुरुषः (द) भद्रपुरुषः
२७९. कियदङ्गुलपरिमितमुन्नतं भवति शशसंज्ञक पुरुषस्य?
(अ) नवत्यङ्गुलपरिमितम् (स) पञ्चाशीत्यङ्गुलपरिमितम्
(ब) अष्टाशीत्यङ्गुलपरिमितम् (द) द्विनवत्यङ्गुलपरिमितम्
२८०. मध्यमार्गः दुर्बलः कस्य भवति?
(अ) हंसपुरुषस्य (स) शशपुरुषस्य
(ब) भद्रपुरुषस्य (द) अन्यपुरुषस्य
२८१. तनुद्विजः शीघ्रगतिः शशोऽयं शठोऽतिशूरो निभृतप्रचारः।
वनाद्रिदुर्गेषु नदीषु सक्तः क्षयोदयी नातिलघुः प्रसिद्धः॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६९७
कुत्रास्तीदम्?
(अ) सारावल्याम् (स) सनत्कुमारसंहितायाम्
(ब) भृगुसंहितायाम् (द) गर्गसंहितायाम्
२८२. रक्तं पीनकपोलमुन्नतनासं वक्त्रं सुवर्णोपमं
वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः।
स्रग्दामाङ्कुशशङ्खमत्स्ययुगलखट्वाङ्गकुम्भाम्बुजै-
श्चिह्नैर्हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ॥
कस्य पुरुषस्य लक्षणमिदम्?
(अ) रुचकपुरुषस्य (स) मालव्यपुरुषस्य
(ब) हंसपुरुषस्य (द) शशपुरुषस्य
२८३. हंसपुरुषः कियदङ्गुलपरिमितमुन्नतं धारयति?
(अ) षण्णवत्यङ्गुलपरिमितम् (स) पञ्चनवत्यङ्गुलपरिमितम्
(ब) नवत्यङ्गुलपरिमितम् (द) शताङ्गुलपरिमितम्
२८४. हंसपुरुषः कियति वर्षाणि जीवति?
(अ) नवतिवर्षाणि (स) चतुर्नवतिवर्षाणि
(ब) पञ्चनवतिवर्षाणि (द) शतं वर्षाणि
२८५. पातीहदेशांश्च स शूरसेनान् गान्धारगङ्गायमुनान्तरालम् ।
जीवेन्नवघ्नीं दशवर्षसङ्ख्यां पश्चाद्वनान्ते समुपैति नाशम् ॥
कुत्रे॒दं गृहीतं पद्यम्?
(अ) भृगुसंहितायाम् (स) गर्गसंहितायाम्
(ब) सारावल्याम् (द) सनत्कुमारसंहितायाम्
२८६. सुभ्रूकेशो रक्तश्यामः कम्बुग्रीवो व्यादीर्घास्यः ।
शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥
इति कस्य पुरुषस्य लक्षणम्?
(अ) हंसपुरुषस्य (स) भद्रपुरुषस्य
(ब) रुचकपुरुषस्य (द) शशपुरुषस्य
२८७. उज्जयिन्यां कः पुरुषः राज्यं करोति?
(अ) हंसपुरुषः (स) रुचकपुरुषः
(ब) शशपुरुषः (द) भद्रपुरुषः
२८८. विन्ध्याचलं कः शास्ति?
(अ) रुचकपुरुषः (स) शशपुरुषः
(ब) हंसपुरुषः (द) भद्रपुरुषः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६९८ बृहत्संहिता
२८९. सम्पूर्णाङ्गो वामनो भग्नपृष्ठः किञ्चिच्चोरुर्मध्यकक्ष्यान्तरेषु ।
ख्यातो राज्ञां ह्येष भद्रानुजीवी स्फीतो राजा वासुदेवस्य भक्तः ॥
इति कस्य लक्षणम्?
(अ) सङ्कीर्णपुरुषस्य (स) वामनपुरुषस्य
(ब) शशपुरुषस्य (द) भद्रानुचरस्य
२९०. जघन्यपुरुषः कस्य राज्ञः सेवकः?
(अ) हंसराज्ञः (स) भद्रराज्ञः
(ब) शशराज्ञः (द) मालव्यराज्ञः
२९१. कुब्जपुरुषः कीदृशो भवति?
(अ) कलहप्रियः (स) कृतज्ञः
(ब) क्रूरः (द) कलाविद्
२९२. मण्डलकः कस्य सेवको भवति?
(अ) रुचकराज्ञः (स) मालव्यराज्ञः
(ब) हंसराज्ञः (द) धनिकस्य
२९३. किं जानाति मण्डलकः?
(अ) अभिचारं विजानाति (स) वैतालिकः
(ब) तन्त्रज्ञः (द) देवेष्वासक्तबुद्धिः
२९४. कुमार्याः किंवर्णकाः नखाः भवेयुः?
(अ) ताम्रवर्णकाः (स) धूम्रवर्णकाः
(ब) कृष्णवर्णकाः (द) पीतवर्णकाः
२९५. स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः
पादौ समोपचितचारुनिगूढगुल्फौ ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या-
स्तामुद्वहेद्यदि भुवोऽधिपतित्वमिच्छेत् ॥
कुत इदं पद्यं गृहीतम्?
(अ) वसिष्ठसंहितातः (स) भृगुसंहितातः
(ब) गर्गसंहितातः (द) वाराहीसंहितातः
२९६. स्निग्धौ ताम्रनखौ धन्यौ कूर्मपृष्ठौ सुलोहितौ ।
निगूढगुल्फौ सुश्लिष्टौ घनाङ्गुलिसमन्वितौ ॥
मत्स्याङ्कुशयवाब्जेषु हलवज्रासिचिह्नितौ ।
सुस्पृशौ रोमरहितौ कुमार्याश्चरणौ शुभौ ॥
कस्येदं पद्यम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६९९
(अ) शौनकस्य (स) पराशरस्य
(ब) वसिष्ठस्य (द) समुद्रस्य
२९७. विस्तीर्णमांसोपचितो नितम्बो गुरुश्च धत्ते रसनाकलापम्।
नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणावर्त्तगता च शस्ता॥
कस्यायं श्लोकः?
(अ) वसिष्ठस्य (स) गौतमस्य
(ब) पराशरस्य (द) वराहमिहिरस्य
२९८. स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता।
न चातिदीर्घा चतुराङ्गुला च ग्रीवा च दीर्घा भवतीह धन्या॥
कस्याचार्यस्य वचनमिदम्?
(अ) गर्गाचार्यस्य (स) गौतमस्य
(ब) पराशरस्य (द) समुद्रस्य
२९९. जघनं विपुलं यस्या सुस्पर्शं रोमवर्जितम्।
सुवर्णभरणैर्युक्ता सा भवेद्राज्यभागिनी॥
गम्भीरा विपुला नाभी दक्षिणावर्त्तमाश्रिता।
शस्ता विपर्यये नेष्टा वामावर्त्ता विशेषतः॥
कस्य वचनमिदम्?
(अ) समुद्रस्य (स) पराशरस्य
(ब) गर्गस्य (द) कश्यपस्य
३००. अधरो विम्बसदृशो मांसलो स्फुटितस्तथा।
यस्याः सा राजमहिषी कुमारी नात्र संशयः॥
कस्येदं कथनम्?
(अ) गर्गस्य (स) पराशरस्य
(ब) वसिष्ठस्य (द) शौनकस्य
३०१. द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डुराः।
सर्वे शिखरिणः स्निग्धा राजभार्या च सा भवेत्॥
वाक्यमिदं कस्य?
(अ) शौनकस्य (स) गर्गस्य
(ब) कश्यपस्य (द) समुद्रस्य
३०२. कति दन्ताः शुभाः भवन्ति कुमारीणाम्?
(अ) त्रिंशत् (स) द्वात्रिंशत्
(ब) एकत्रिंशत् (द) अष्टाविंशतिः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७०० बृहत्संहिता
३०३. किंवर्णकाः दन्ताः शुभाः भवन्ति कन्यानाम्?
(अ) धवलाः (स) रक्ताः
(ब) मलिनाः (द) कर्बुराः
३०४. कीदृक् स्वना शुभा कन्या?
(अ) हंसस्वना (स) काकस्वना
(ब) पिकस्वना (द) दुन्दुभिनेमिस्वना
३०५. हंसस्वना दुन्दुभिनेमिघोषा मेघस्वनाः शङ्खनिनादघोषाः ।
मयूरचक्रप्रतिमस्वनाश्च स्त्रियस्तथा कोकिलतुल्यशब्दाः ॥
कस्येदं वाक्यम्?
(अ) गर्गस्य (स) शौनकस्य
(ब) वसिष्ठस्य (द) कश्यपस्य
३०६. नीलनीरजपत्राभा दृष्टिर्यस्याः भवेत्सदा ।
सा राजमहिषी ज्ञेया ज्योतिःशास्त्रविशारदैः ॥
केनोक्तं वाक्यम्?
(अ) वसिष्ठेन (स) कश्ययेन
(ब) पराशरेण (द) गर्गेण
३०७. नो सङ्गते नाति पृथू न लम्बे शस्ते भ्रुवौ बालशशाङ्कवक्त्रे ।
अर्धेन्दुसंस्थानमरोमशञ्च शस्तं ललाटं न नतं न तुङ्गम् ॥
कुत्रास्ति पद्यमिदम्?
(अ) मदनपारिजाते (स) वाराहीसंहितायाम्
(ब) सनत्कुमारसंहितायाम् (द) भृगुसंहितायाम्
३०८. नातिलम्बौ मृदू तुल्यौ संलग्नौ युक्तमांसलौ ।
कर्णौ यस्याः स्मृता सा तु राजभार्या न संशयः ॥
कस्य वाक्यमिदम्?
(अ) आर्यभट्टस्य (स) गर्गस्य
(ब) वराहमिहिरस्य (द) कश्यपस्य
३०९. सौभाग्यवत्याः करतले किं चिह्नं शुभम्?
(अ) मत्स्यस्य (स) कमलस्य
(ब) कच्छपस्य (द) चामरस्य
३१०. मत्स्यः पाणितले छत्रं कच्छपो वा ध्वजोऽपि वा ।
श्रीवत्सं कमलं शङ्खमासनं चामरं तथा ॥
अङ्कुशश्चैव माला च यस्याः हस्ते तु दृश्यते ।
एकं सा जनयेत्पुत्रं राजानं पृथिवीपतिम् ॥
CC-0. JK Sanskrit Academy, Jammmụ. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७०१
कस्य वाक्यमिदम्?
(अ) समुद्रस्य (स) पराशरस्य
(ब) कश्यपस्य (द) शौनकस्य
३११. निगूढमणिबन्धौ तु पद्मगर्भसमप्रभौ।
विकृष्टाङ्गुलिपर्वाणौ करौ नृपतियोषितः॥
कस्येदं वचनम्?
(अ) वराहमिहिरस्य (स) शौनकस्य
(ब) वसिष्ठस्य (द) कश्यपस्य
३१२. मणिबन्धनसम्भूता मध्याङ्गुलिसमाश्रिता।
रेखा पाणितले यस्याः सा कन्या राजभागिनी॥
कस्य वाक्यमिदम्?
(अ) समुद्रस्य (स) कश्यपस्य
(ब) शौनकस्य (द) पराशरस्य
३१३. कनिष्ठामूलसम्भूता गता मध्यमिकान्तरम्।
प्रदेशिन्याश्च सा रेखा यस्याः सा दीर्घजीविनी॥
कस्य कथनमिदम्?
(अ) वसिष्ठस्य (स) कश्यपस्य
(ब) गर्गस्य (द) समुद्रस्य
३१४. कनिष्ठिकामूलभवा गता या प्रदेशिनीमध्यमिकान्तरालम्।
करोति रेखा परमायुषः सा प्रमाणमूना तु तदूनमायुः॥
कुतः संगृहीतंमिदं पद्यम्?
(अ) बृहत्संहितातः (स) कश्यपसंहितातः
(ब) गर्गसंहितातः (द) गर्गसंहितातः
३१५. कनिष्ठा पादयोर्यस्याः भूमिं स्पृशति नाङ्गुलिः।
न सा तिष्ठति कौमारी बन्धकीं तां विनिर्दिशेत्॥
कस्य वाक्यमिदम्?
(अ) समुद्रस्य (स) पराशरस्य
(ब) कश्यपस्य (द) शौनकस्य
३१६. कुम्भाकारमुदरं कासां कन्यकानाम्?
(अ) दुःखितानाम् (स) पुण्यवतीनाम्
(ब) सुखितानाम् (द) साध्वीनाम्
३१७. लम्बोदरी च या कन्या दीर्घोदरसमन्विता।
भग्नोदरा च दुःखान्ता दासीभावमवाप्नुयात्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७०२ बृहत्संहिता
कस्योक्तिरियम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) शौनकस्य (द) समुद्रस्य
३१८. दीर्घग्रीवा कुमारी भवति—
(अ) कुलक्षयकरी (स) क्रूरप्रकृतिका
(ब) निर्धना (द) कुटिला
३१९. कुलक्षयकरी दीर्घा ग्रीवा ह्रस्वा च निर्धना ।
पृथूत्थया प्रचण्डत्वं ग्रीवया योषितो वदेत् ॥
कस्येदं पद्यम्?
(अ) शौनकस्य (स) कश्यपस्य
(ब) वसिष्ठस्य (द) समुद्रस्य
३२०. पारावताक्षी या कन्या कातराक्षी तथापि या।
उद्भ्रान्तचपलाक्षी च तां कन्यां वर्जयेद्बुधः ॥
यस्यास्तु हसमानाया जायन्ते गण्डकूपकाः ।
भर्तारं हन्ति सा क्षिप्रं नैकत्र रमते चिरम् ॥
कस्य वाक्यमिदं स्पष्टयत?
(अ) पराशरस्य (स) गौतमस्य
(ब) कश्यपस्य (द) समुद्रस्य
३२१. लम्बललाटा कं हन्ति?
(अ) श्वसुरम् (स) देवरम्
(ब) पतिम् (द) ज्येष्ठपतिम्
३२२. लम्बोदरी कं हन्ति?
(अ) श्वसुरम् (स) पतिम्
(ब) देवरम् (द) ज्येष्ठपतिम्
३२३. स्तनरोमा कीदृशी भवति?
(अ) चौरा (स) क्रूरा
(ब) कुटिला (द) परवेश्मरता
३२४. कीदृशाः दन्ताः कुमारीणां वैधव्यकारकाः?
(अ) स्थूलाः (स) बहिर्गताः
(ब) दीर्घाः (द) कृष्णमांसाः
३२५. का स्त्री भर्तुर्निधनकारिणी भवति?
(अ) उच्चोत्तरोष्ठा (स) दीर्घदन्ता
(ब) रूक्षकेशाः (द) विषमदन्ता-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७०३
३२६. कुमारीणां शुभाशुभज्ञानाय कतिभागेषु विभक्तं शरीरम्?
(अ) सप्तभागेषु (स) नवभागेषु
(ब) अष्टभागेषु (द) दशभागेषु
३२७. नूतनवस्त्रधारणे कानि नक्षत्राणि शुभानि?
(अ) अश्विनी (स) कृत्तिका
(ब) भरणी (द) रोहिणी
३२८. कस्मिन्नक्षत्रे परिधाने धनप्राप्तिः?
(अ) रोहिण्याम् (स) कृत्तिकायाम्
(ब) मृगशिरसि (द) आर्द्रायाम्
३२९. कस्मिन्नक्षत्रे परिधाने मरणम्?
(अ) आर्द्रायाम् (स) पुष्ये
(ब) पुनर्वसौ (द) आश्लेषायाम्
३३०. कस्मिन्नक्षत्रे धारणे सर्वसुखं भवति?
(अ) हस्तनक्षत्रे (स) स्वात्याम्
(ब) चित्रायाम् (द) विशाखायाम्
३३१. कदा परिधाने मिष्टान्नभोजनं लभते?
(अ) पूर्वाषाढायाम् (स) अनुराधायाम्
(ब) उत्तराषाढायाम् (द) ज्येष्ठायाम्
३३२. कदा परिधाने मित्रसमागमो भवति?
(अ) अनुराधायाम् (स) मूले
(ब) ज्येष्ठायाम् (द) पूर्वाषाढायाम्
३३३. कार्यसिद्धयै कस्मिन्नक्षत्रे परिधानीयं नूतनं वस्त्रम्?
(अ) हस्तनक्षत्रे (स) पूर्वाषाढानक्षत्रे
(ब) मूलनक्षत्रे (द) उत्तराषाढानक्षत्रे
३३४. कस्मिन्नक्षत्रे परिधाने जलाद्भयं जायते?
(अ) रोहिण्याम् (स) पुष्ये
(ब) आर्द्रायाम् (द) पूर्वभाद्रपदि
३३५. कदा परिधाने पुत्रलाभो जायते?
(अ) उत्तरभाद्रपदि (स) श्रवणे
(ब) मूले (द) धनिष्ठायाम्
३३६. कदा परिधाने विषभयं जायते?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७०४ बृहत्संहिता
(अ) शतभिषजि (ब) रेवत्याम्
(ब) पूर्वभाद्रपदि (द) अश्विन्याम्
३३७. कस्मिन्नक्षत्रे नववस्त्रधारणे रत्नलाभो भवति?
(अ) रेवत्याम् (स) मृगशिरसि
(ब) अश्विन्याम् (द) पुनर्वसौ
३३८. अविहितनक्षत्रे कदा नूतनवस्त्रपरिधानं शुभं भवति?
(अ) विवाहकाले (स) यात्राकाले
(ब) राजसम्माने (द) मित्रसमागमकाले
३३९. वस्त्रं कतिधा विभक्तं भवति?
(अ) अष्टधा (स) दशधा
(ब) नवधा (द) सप्तधा
३४०. कति कोणेषु वस्त्रस्य देवता निवसन्ति?
(अ) त्रिकोणेषु (स) षट्कोणेषु
(ब) पञ्चकोणेषु (द) चतुष्कोणेषु
३४१. वस्त्रमूले के वसन्ति?
(अ) राक्षसाः (स) मानवाः
(ब) देवताः (द) गन्धर्वाः
३४२. वस्त्रस्य शेषभागे के निवसन्ति?
(अ) मनुजाः (स) पशवः
(ब) देवाः (द) राक्षसाः
३४३. 'चतुर्षु कोणेषु सुराः पाशान्ते मध्यमे नराः मध्यभागे निशाचराः'
इति कस्य मतम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) कश्यपस्य (द) पराशरस्य
३४४. पीतवर्णः चामरदण्डः केषां कृते शोभनम्?
(अ) विप्राणाम् (स) वैश्यानाम्
(ब) क्षत्रियाणाम् (द) शूद्राणाम्
३४५. रक्तवर्णकः दण्डः केषां कृते शोभनम्?
(अ) शूद्राणाम् (द) क्षत्रियाणाम्
(ब) वैश्यानाम् (द) विप्राणाम्
३४६. कृष्णवर्णकः चामरदण्डः केषां कृते शुभदः?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७०५
(अ) शूद्राणां कृते (स) वैश्यानां कृते
(ब) क्षत्रियाणां कृते (द) विप्राणां कृते
३४७. कतिपर्वयुतो दण्डः यात्रायां विजयप्रदः?
(अ) द्विपर्वयुतः (स) चतुःपर्वयुतः
(ब) त्रिपर्वयुतः (द) पञ्चपर्वयुतः
३४८. कति पर्वयुतो दण्डः भूमिलाभं करोति?
(अ) सप्तपर्वयुतः (स) नवपर्वयुतः
(ब) अष्टपर्वयुतः (द) पञ्चपर्वयुतः
३४९. पशून् वृद्धिं कतिपर्वको दण्डः करोति?
(अ) दशपर्वकः (स) सप्तपर्वकः
(ब) एकादशपर्वकः (द) नवपर्वकः
३५०. कतिपर्वको दण्डः स्वामीनामभीष्टदः?
(अ) एकादशपर्वकः (स) त्रयोदशपर्वकः
(ब) द्वादशपर्वकः (द) पञ्चदशपर्वकः
३५१. शत्रुनाशं करोति—
(अ) द्विपर्वकः दण्डः (स) चतुःपर्वकः दण्डः
(ब) त्रिपर्वकः दण्डः (द) पञ्चपर्वकः दण्डः
३५२. दशपर्वको दण्डः किं करोति?
(अ) रोगं करोति (स) धनं वर्द्धयति
(ब) आरोग्यं करोति (द) सर्वसिद्धिं करोति
३५३. केन वस्तुना छत्रं रचयेत्?
(अ) खगपक्षैः (स) पट्टवस्त्रैः
(ब) वस्त्रैः (द) ऊर्णवस्त्रैः
३५४. छत्रे केन वस्तुना समाच्छादनीयम्?
(अ) नूतनपट्टैः (ब) कार्पासपट्टैः
(ब) पाटाम्बरैः (द) अन्यैः वस्त्रैः
३५५. छत्रदण्डं कति हस्तपरिमितम्?
(अ) त्रिहस्तपरिमितम् (स) पञ्चहस्तपरिमितम्
(ब) चतुर्हस्तपरिमितम् (द) षड्ढस्तपरिमितम्
३५६. केनं सच्छत्रं छत्रदण्डं भवेत्?
(अ) रजतसच्छत्रम् (स) हेमसच्छत्रम्
(ब) तामसच्छत्रम् दत्र. लौहसच्छत्रम्
बृ० भ० द्वि०-४५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७०६ बृहत्संहिता
३५७. कति पर्वान्वितं छत्रदण्डं भवेत्?
(अ) सप्तपर्वान्वितम् (स) नवपर्वान्वितम्
(ब) अष्टौ पर्वान्वितम् (द) दशपर्वान्वितम्
३५८. किंवस्तूमूलं छत्रदण्डं भवेत्?
(अ) स्फटिकमूलम् (स) ताम्रमूलम्
(ब) रजतमूलम् (द) लौहमूलम्
३५९. कति हस्तविस्तीर्णं भवेद्दण्डम्?
(अ) द्विहस्तविस्तीर्णम् (स) चतुर्हस्तविस्तीर्णम्
(ब) त्रिहस्तविस्तीर्णम् (द) पञ्चहस्तविस्तीर्णम्
३६०. युवराजादीनां दण्डानि कति हस्तपरिमितानि?
(अ) त्रिहस्तपरिमितानि (स) पञ्चहस्तपरिमितानि
(ब) सार्धचतुर्हस्तपरिमितानि (द) षड्ढस्तपरिमितानि
३६१. सेनानायकस्य दण्डं कति हस्तपरिमितं भवति?
(अ) द्विहस्तपरिमितम् (स) चतुर्हस्तपरिमितम्
(ब) त्रिहस्तपरिमितम् (द) सार्धचतुर्हस्तपरिमितम्
३६२. महिष्याः दण्डं कियत् परिमितम्?
(अ) चतुर्हस्तपरिमितम् (स) पञ्चहस्तपरिमितम्
(ब) सार्द्धचतुर्हस्तपरिमितम् (द) त्रिहस्तपरिमितम्
३६३. अन्येषां कृते कति हस्तपरिमितं छत्रदण्डमपेक्षते?
(अ) त्रिहस्तपरिमितम् (स) चतुर्हस्तपरिमितम्
(ब) पञ्चहस्तपरिमितम् (द) द्विहस्तपरिमितम्
३६४. समवृत्तदण्डयुक्तं छत्रं कस्य कृते भवति?
(अ) विप्रस्य कृते (स) वैश्यस्य कृते
(ब) क्षत्रियस्य कृते (द) शूद्रस्य कृते
३६५. राज्यसुखस्य सारं किम्?
(अ) स्वपुरम् (स) शय्या
(ब) स्वगृहम् (द) रत्नविभूषिता स्त्री
३६६. कः कं विभूषयति?
(अ) स्त्री रत्नं विभूषयति (स) स्त्री रत्नानि च गृहं भूषयतः
(ब) रत्नं स्त्रियं भूषयति (द) स्नेहः सर्वं भूषयति
३६७. नृपाणां किं वस्तु सुखं करोति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७०७
(अ) राज्यम् (स) पुत्राः
(ब) प्रजाः (द) महिषी
३६८. वनिता सर्वेषां भवति—
(अ) लक्ष्मी (स) सुखदा
(ब) पुत्रदा (द) आनन्ददा
३६९. 'गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैर'यं सूक्तिः कुतः गृहीतः?
(अ) वाराहीसंहितातः (स) अगस्त्यसंहितातः
(ब) भृगुसंहितातः (द) अत्रिस्मृतितः
३७०. स्त्रीभ्य तैः गुणाः दत्ताः—
(अ) सोमेन शौचम् (स) अग्निना सर्वभक्षित्त्वम्
(ब) गन्धर्वेण वाचम् (द) मनुना निष्कतुल्यत्वम्
३७१. पादतः के मेध्याः?
(अ) विप्राः (स) वैश्याः
(ब) क्षत्रियाः (द) शूद्राः
३७२. पृष्ठतः के मेध्याः?
(अ) अश्वाः (स) अजाः
(ब) गावः (द) स्त्रियः
३७३. मुखतः के पूताः?
(अ) अजाः (स) गावः
(ब) अश्वाः (द) विप्राः
३७४. सर्वतः के मेध्याः?
(अ) अश्वाः (स) अजाः
(ब) गावः (द) स्त्रियः
३७५. मासिकं रजः स्त्रीणां किमपसारयति?
(अ) पापात् (स) धर्मात्
(ब) गुणात् (द) दुष्कृतात्
३७६. कानि गृहाणि नश्यन्ति?
(अ) यानि स्त्रियः शपन्ति (स) यानि स्त्रियः तिरस्कुर्वन्ति
(ब) यानि स्त्रियः परित्यजन्ति (द) यानि स्त्रियः निन्दन्ति
३७७. कदा शपन्ति कुलस्त्रियः?
(अ) अपमानिताः (स) पीडिताः
(ब) तिरस्कृताः (द) त्यक्ताः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७०८ बृहत्संहिता
३७८. मनुष्याणां समुत्पत्तिः कुतः?
(अ) ब्रह्मणः (स) पशुतः
(ब) प्रकृतिः (द) स्त्रीतः
३७९. दम्पत्योर्व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः ।
नरा न तमवेक्ष्यन्ते तेनाऽत्र वरमङ्गनाः ॥
इति कस्य वचनम्?
(अ) मनोः (स) शौनकस्य
(ब) कश्यपस्य (द) अगस्त्यस्य
३८०. परस्त्रीगामी कति मासान् भीक्षित्वा शुद्ध्यति?
(अ) पञ्चमासान् (स) सप्तमासान्
(ब) षण्मासान् (द) चतुर्मासान्
३८१. मदनाशय नैव गच्छति?
(अ) दशवर्षेण (स) पञ्चाशद्वर्षेण
(ब) विंशतिवर्षेण (द) शतवर्षेणापि
३८२. राज्यस्य सारवस्तूनि कियन्ति?
(अ) त्रीणि (स) पञ्च
(ब) चत्वारि (द) द्वे
३८३. कियन्ति कर्मेन्द्रियाणि?
(अ) चत्वारि (स) पञ्च
(ब) त्रीणि (द) षट्
३८४. कियन्ति ज्ञानेन्द्रियाणि?
(अ) पञ्च (स) सप्त
(ब) चत्वारि (द) त्रीणि
३८५. सूक्ष्मतमजीवात्मा कस्य हृदयेऽस्ति?
(अ) मनुष्याणाम् (स) पशूनाम्
(ब) स्त्रीणाम् (द) परमात्मनः
३८६. परमात्मा कुत्र निवसति?
(अ) सर्वभूतानां हृदये (स) पशूनां हृदये
(ब) मनुष्याणां हृदये (द) जन्तूनां हृदये
३८७. स्त्रियां किमुत्पन्नो भवति?
(अ) पुत्रः (स) स्वयमात्मा
(ब) पुत्री (द) अन्यः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७०९
३८८. मनसा सह को गच्छति?
(अ) आत्मा (स) ज्ञानेन्द्रियाणि
(ब) कर्मेन्द्रियाणि (द) बुद्धिः
३८९. ‘यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा’ कुतः समागता सूक्तिरियम्?
(अ) वाराहीसंहितातः (स) अगस्त्यसंहितातः
(ब) भृगुसंहितातः (द) गर्गसंहितातः
३९०. ‘योऽयं विचिन्तयति याति स तन्मयत्वम्’ इयं सूक्तिः कस्मिन् ग्रन्थे?
(अ) भृगसंहितायाम् (स) गर्गसंहितायाम्
(ब) कश्यपसंहितायाम् (द) बृहत्संहितायाम्
३९१. स्त्रीणां प्रतिकूलाचरणे जायते—
(अ) विद्वेषः (स) वैमनस्यम्
(ब) दोषः (द) असन्तोषः
३९२. किं परित्यक्त्वा मनुष्यः सर्वप्रियो जायते?
(अ) रागम् (स) पापम्
(ब) द्वेषम् (द) गर्वम्
३९३. कः पुरुषः विलम्बेन कार्यसिद्धिं करोति?
(अ) अभिमानी (स) प्रमादी
(ब) क्रोधी (द) आलसी
३९४. सज्जनः कथं कार्यं साधयति?
(अ) तल्लीनतया (स) प्रसन्नमनसा
(ब) मधुरभाषणेन (द) धैर्येण
३९५. कस्तेजवान् भवति?
(अ) निरभिमानी (स) कर्मठः
(ब) सिद्धकार्यः (द) निरालसः
३९६. सर्वप्रियत्वं वाञ्छति चेत्—
(अ) परोक्षे प्रशंसां कुर्यात् (स) दोषान् परिहरेत्
(ब) गुणान् गणयेत् (द) वाचं यच्छेत्
३९७. सर्वे कमुपकुर्वन्ति?
(अ) यो नित्यमुपकर्तुमुद्यतः (स) यो नित्यं ददाति
(ब) यो नित्यं सेवते (द) यो नित्यं प्रसन्नमना
३९८. विपत्तौ कस्योपकरणे कीर्तिं लभते?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७१० बृहत्संहिता
(अ) शत्रोः (स) स्वजनस्य
(ब) मित्रस्य (द) सर्वस्य
३९९. दौर्जन्यं को लभते?
(अ) यः परगुणान्नाशयितुमिच्छति (स) योऽन्यं तिरस्करोति
(ब) योऽन्यं निन्दति (द) योऽन्यं कुटिलदृष्ट्य पश्यति
४००. कथं समुत्पत्तिर्जायते कस्य?
(अ) रक्ताधिक्ये स्त्री (स) समाने नपुंसकः
(ब) वीर्याधिक्ये पुरुषः (द) व्यत्यये गर्भपातः
४०१. कामदेवस्य बन्धनरज्जुः का?
(अ) प्रासादपृष्ठः (स) नीलोत्पलम्
(ब) चन्द्रः (द) मदालसाप्रिया
४०२. शुक्रहानिर्भवति—
(अ) अत्यम्लभोजनात् (स) अतितिक्तभोजनात्
(ब) अतिमधुरभक्षणात् (द) अतिकटुभक्षणात्
४०३. गन्धार्णवनिर्माणे कियन्ति वस्तूनि समपेक्षन्ते?
(अ) षोडश (स) चतुर्दश
(ब) पञ्चदश (द) त्रयोदश
४०४. कतिविधाः केशरगन्धाः?
(अ) अशीतिप्रकाराः (स) द्व्यशीतिविधाः
(ब) एकाशीतिविधाः (द) चतुरशीतिविधाः
४०५. कति कोष्ठकः कच्छपुटः?
(अ) सप्तकोष्ठकः (स) नवकोष्ठकः
(ब) अष्टौ कोष्ठकः (द) दशकोष्ठकः
४०६. विरक्ताभिः स्त्रीभिः को मृतः?
(अ) विदूरथः (स) धुन्धुकारी
(ब) काशिराजः (द) अन्यः कश्चित्
४०७. अनुरागस्थिता रक्ता विरक्ता वेशमानिनी' कस्येदं पद्यम्?
(अ) कश्यपस्य (स) शौनकस्य
(ब) पराशरस्य (द) गौतमस्य
४०८. अनुरक्ता किं करोति?
(अ) प्रियेण प्रियं वदति (स) समक्षं बालकं समालिङ्गति
(ब) प्रियं वस्तु प्रियं याचते (द) शब्देन सह हसति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७११
४०९. 'अकस्मात् पुरतो भूत्वा कश्चिदालिङ्गति भृशमि'ति कस्य वाक्यम्?
(अ) शौनकस्य (स) पराशरस्य
(ब) गर्गस्य (द) कश्यपस्य
४१०. 'पश्चात् समुत्तिष्ठति पूर्वसुप्ता' कुत्रेयं सूक्तिः?
(अ) शौनकसंहितायाम् (स) गर्गसंहितायाम्
(ब) पराशरसंहितायाम् (द) बृहत्संहितायाम्
४११. 'तीर्थयात्राटनं भेदे परवेश्मसमागमम्' इति कस्य वाक्यम्?
(अ) कश्यपस्य (स) वसिष्ठस्य
(ब) शौनकस्य (द) पराशरस्य
४१२. स्त्रीणां स्वभावजाः प्रमुखा चेष्टा कति?
(अ) पञ्च (स) अष्टौ
(ब) सप्त (द) दश
४१३. 'आत्मगुप्ता भर्तृभक्ता सा श्रीरित्युच्यते बुधै'रिति कस्य वाक्यम्?
(अ) व्यासस्य (स) शौनकस्य
(ब) पराशरस्य (द) कश्यपस्य
४१४. 'सुप्तेऽनुसुप्ता प्रथमं विबुद्धा' इयं सूक्तिः कुत्र?
(अ) गर्गसंहितायाम् (स) शौनकसंहितायाम्
(ब) भृगुसंहितायाम् (द) बृहत्संहितायाम्
४१५. रजस्वलायां स्त्री कदा चाण्डाली तुल्या भवति?
(अ) प्रथमेऽहनि (स) तृतीये दिने
(ब) द्वितीये दिने (द) चतुर्थे दिने
४१६. कतिषु दिनेषु रजस्वला स्त्री शुद्ध्यति?
(अ) त्रिषु (स) चतुर्षु
(ब) पञ्चसु (द) सप्तसु
४१७. कतमे दिने रजस्वला स्त्री ब्रह्मघातिनी भवति?
(अ) तृतीये दिने (स) प्रथमे दिने
(ब) चतुर्थे दिने (द) द्वितीये दिने
४१८. कदा भवति रजस्वला स्त्री रजकी?
(अ) प्रथमे दिने (स) तृतीये दिने
(ब) द्वितीये दिने (द) पञ्चमे दिने
४१९. केन दारुणा निर्मितं नृपासनं शुभं भवति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७१२ बृहत्संहिता
(अ) देवदारोः (स) शाल्मलीवृक्षस्य
(ब) शिंशपावृक्षस्य (द) काश्मरीवृक्षस्य
४२०. के वृक्षाः त्याज्याः?
(अ) कण्टकिनः (स) शीर्णाः
(ब) कुब्जाः (द) श्मशानस्थाः
४२१. कति कर्माङ्गुलतुल्या शय्या नृपस्य शुभा?
(अ) शतंकर्माङ्गुलयुता (स) अशीतिकर्माङ्गुलयुता
(ब) नवतिकर्माङ्गुलयुता (द) पञ्चाशीतिकर्माङ्गुलयुता
४२२. सामान्येन कियन्ति रत्नानि भवन्ति?
(अ) अष्टादश (स) विंशतिः
(ब) एकोनविंशतिः (द) एकविंशतिः
४२३. कुतः सञ्जातानि रत्नानि?
(अ) 'वल'नामकाद्दानवात् (स) पृथिवीसकाशात्
(ब) दधीचेरस्थिथतः (द) निर्मितानि भवन्ति
४२४. कतिविधाः वज्रममणयः?
(अ) पञ्चविधाः (स) सप्तविधाः
(ब) षड्विधाः (द) अष्टविधाः
४२५. विशुद्धं हीरकं कुत्र लभ्यते?
(अ) वेणानदीतटे (स) सौराष्ट्रे
(ब) कौशलदेशे (द) शूर्पारकदेशे
४२६. कृष्णवर्णं हीरकं कुत्र मिलति?
(अ) सौराष्ट्रदेशे (स) कौशलदेशे
(ब) मालवदेशे (द) शूर्पारकदेशे
४२७. शिरीषपुष्पतुल्यं हीरकं कुत्र प्राप्यते?
(अ) वेणातटे (स) शूर्पारकदेशे
(ब) सौराष्ट्रे (द) कौशलदेशे
४२८. पीतं हीरकं कुत्र लभ्यते?
(अ) कलिङ्गदेशे (स) सौराष्ट्रे
(ब) कौशलदेशे (द) मातङ्गदेशे
४२९. पौण्ड्रदेशे किंवर्णकं हीरकं जायते?
(अ) श्यामवर्णकम् (स) कृष्णवर्णकम्
(ब) पीतवर्णकम् (द) रक्तवर्णकम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ७१३
४३०. कलिङ्गदेशे किंवर्णकं हीरकं लभ्यते?
(अ) पीतवर्णकम् (स) श्यामवर्णकम्
(ब) कृष्णवर्णकम् (द) रक्तवर्णकम्
४३१. विंशतितण्डुलपरिमितस्य हीरकस्य कियन्मूल्यं भवति?
(अ) लक्षैकम् (स) पादोनलक्षम्
(ब) पञ्चाशच्छहस्रात्मकम् (द) द्विलक्षपरिमितम्
४३२. कति पणस्य कार्षपणः भवति?
(अ) विंशतिपणस्य (स) त्रयोविंशतिपणस्य
(ब) द्वाविंशतिपणस्य (द) चतुर्विंशतिपणस्य
४३३. शुद्धहीरकस्य का परिभाषा?
(अ) केनापि नैव त्रुट्यते (स) इन्द्रधनुषसमानवर्णः
(ब) जलेनैव प्लवते (द) किरणवत्तरति
४३४. हीरकं का न धारयेत्?
(अ) पुत्रकामिनी वनिता (स) धान्यफलतुल्यम्
(ब) त्रिपुटयुक्तम् (द) साधारणं हीरकम्
४३५. 'सुतार्थिनीभिर्धन्याभिर्न धार्यं वज्रसंज्ञकम्' इति कस्य वचनम्?
(अ) समुद्रस्य (स) कश्यपस्य
(ब) शौनकस्य (द) पराशरस्य
४३६. मुक्तोत्पत्तिस्थानानि कियन्ति?
(अ) पञ्च (स) सप्त
(ब) षट् (द) अष्टौ
४३७. सर्वोत्तमा मुक्ता कुतः समुत्पद्यते?
(अ) शुक्तितः (स) शङ्खतः
(ब) सर्पतः (द) वंशतः
४३८. मुक्तायाः कियन्ति आकरस्थानानि?
(अ) पञ्च (स) सप्त
(ब) षट् (द) अष्टौ
४३९. धवलवर्णा मुक्ता कस्मिन् देशे भवति?
(अ) सिंहलदेशे (स) परलोकदेशे
(ब) सौराष्ट्रे (द) पारशवदेशे
४४०. श्यामलवर्णिकायाः मुक्तायाः देवता भवति—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA