सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 725, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 725

वस्तुनिष्ठप्रश्नाः ६९७
कुत्रास्तीदम्?
(अ) सारावल्याम् (स) सनत्कुमारसंहितायाम्
(ब) भृगुसंहितायाम् (द) गर्गसंहितायाम्
२८२. रक्तं पीनकपोलमुन्नतनासं वक्त्रं सुवर्णोपमं
वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः।
स्रग्दामाङ्कुशशङ्खमत्स्ययुगलखट्वाङ्गकुम्भाम्बुजै-
श्चिह्नैर्हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ॥
कस्य पुरुषस्य लक्षणमिदम्?
(अ) रुचकपुरुषस्य (स) मालव्यपुरुषस्य
(ब) हंसपुरुषस्य (द) शशपुरुषस्य
२८३. हंसपुरुषः कियदङ्गुलपरिमितमुन्नतं धारयति?
(अ) षण्णवत्यङ्गुलपरिमितम् (स) पञ्चनवत्यङ्गुलपरिमितम्
(ब) नवत्यङ्गुलपरिमितम् (द) शताङ्गुलपरिमितम्
२८४. हंसपुरुषः कियति वर्षाणि जीवति?
(अ) नवतिवर्षाणि (स) चतुर्नवतिवर्षाणि
(ब) पञ्चनवतिवर्षाणि (द) शतं वर्षाणि
२८५. पातीहदेशांश्च स शूरसेनान् गान्धारगङ्गायमुनान्तरालम् ।
जीवेन्नवघ्नीं दशवर्षसङ्ख्यां पश्चाद्वनान्ते समुपैति नाशम् ॥
कुत्रे॒दं गृहीतं पद्यम्?
(अ) भृगुसंहितायाम् (स) गर्गसंहितायाम्
(ब) सारावल्याम् (द) सनत्कुमारसंहितायाम्
२८६. सुभ्रूकेशो रक्तश्यामः कम्बुग्रीवो व्यादीर्घास्यः ।
शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥
इति कस्य पुरुषस्य लक्षणम्?
(अ) हंसपुरुषस्य (स) भद्रपुरुषस्य
(ब) रुचकपुरुषस्य (द) शशपुरुषस्य
२८७. उज्जयिन्यां कः पुरुषः राज्यं करोति?
(अ) हंसपुरुषः (स) रुचकपुरुषः
(ब) शशपुरुषः (द) भद्रपुरुषः
२८८. विन्ध्याचलं कः शास्ति?
(अ) रुचकपुरुषः (स) शशपुरुषः
(ब) हंसपुरुषः (द) भद्रपुरुषः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA