बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 727, कुल 760 में से
संदर्भ में पढ़ेंवस्तुनिष्ठप्रश्नाः ६९९
(अ) शौनकस्य (स) पराशरस्य
(ब) वसिष्ठस्य (द) समुद्रस्य
२९७. विस्तीर्णमांसोपचितो नितम्बो गुरुश्च धत्ते रसनाकलापम्।
नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणावर्त्तगता च शस्ता॥
कस्यायं श्लोकः?
(अ) वसिष्ठस्य (स) गौतमस्य
(ब) पराशरस्य (द) वराहमिहिरस्य
२९८. स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता।
न चातिदीर्घा चतुराङ्गुला च ग्रीवा च दीर्घा भवतीह धन्या॥
कस्याचार्यस्य वचनमिदम्?
(अ) गर्गाचार्यस्य (स) गौतमस्य
(ब) पराशरस्य (द) समुद्रस्य
२९९. जघनं विपुलं यस्या सुस्पर्शं रोमवर्जितम्।
सुवर्णभरणैर्युक्ता सा भवेद्राज्यभागिनी॥
गम्भीरा विपुला नाभी दक्षिणावर्त्तमाश्रिता।
शस्ता विपर्यये नेष्टा वामावर्त्ता विशेषतः॥
कस्य वचनमिदम्?
(अ) समुद्रस्य (स) पराशरस्य
(ब) गर्गस्य (द) कश्यपस्य
३००. अधरो विम्बसदृशो मांसलो स्फुटितस्तथा।
यस्याः सा राजमहिषी कुमारी नात्र संशयः॥
कस्येदं कथनम्?
(अ) गर्गस्य (स) पराशरस्य
(ब) वसिष्ठस्य (द) शौनकस्य
३०१. द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डुराः।
सर्वे शिखरिणः स्निग्धा राजभार्या च सा भवेत्॥
वाक्यमिदं कस्य?
(अ) शौनकस्य (स) गर्गस्य
(ब) कश्यपस्य (द) समुद्रस्य
३०२. कति दन्ताः शुभाः भवन्ति कुमारीणाम्?
(अ) त्रिंशत् (स) द्वात्रिंशत्
(ब) एकत्रिंशत् (द) अष्टाविंशतिः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA