भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- ३५९ -
इत्याद्यनेकानि दधच्चरित्राण्युपागतो राघवेन्द्रस्य गेहे।
कौसल्याया दृष्टिसुख वितन्वन्नेको रामः सम्प्रतीतश्चतुर्धा ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
षट्त्रिंशोऽध्यायः ॥ ३६ ॥
सप्तत्रिंशोऽध्यायः
जना ऊचुः
अहो अतः श्रीरघुवर्यगेहे श्रीमत्ययोध्यानगरे तदैव।
अत्यद्भुताः सम्पद आविरासुर्यास्ताः प्रमोदाख्यवने प्रसिद्धाः ॥ १ ॥
ऋतुर्वसन्तोऽत्र समावसत्सदा गुञ्जद्द्विरेफावलिरुक्तणात्मकः।
गृहे गृहे चात्र समृद्धयोऽभवन् साक्षाद्रमावल्लभवासयोग्याः ॥ २ ॥
कदाचिदेष प्रभुश्रात्मनः पितुश्चक्रे गृहादानयनं प्रचेतः।
दधत्स्रजं चापि तदोपढौकितां महार्हरत्नप्रकरैरूपेताम् ॥ ३ ॥
रमन् वसन्तोत्स्तवजैर्विलासैः समागतश्चारुसाकेतपुर्याम्।
छायामय सन्यवधीन्महासुरं शरेण रुद्रादिसुरानिवार्यम् ॥ ४ ॥
वसन्नयोध्यानगरे यदीशः करोति विश्लेषरुजां निवारणम्।
आभीरिकाणा हृदयेषु नित्यं जगत्त्रयव्यापकरूपसारः ॥ ५ ॥
प्राणाधारश्च यस्यापि प्रायः प्रमुदकाननम्।
विना तेन क्षणमपि वर्त्तते घनसुन्दरः ॥ ६ ॥
व्रजं दृष्ट्वा व्रजतः प्रेममग्नं यः स्वात्मदूतप्रवरान् कुमारान्।
संस्थापयामास निजैकपार्श्वे तत्रैव संदर्श्य व्रजं समस्तम् ॥ ७ ॥
विश्वामित्रेण तौ ज्ञात्वा पूर्णौ श्रीपुरुषोत्तमौ।
नीतवान् स्वगृहं यज्ञविघ्नराक्षसहन्तवे ॥ ८ ॥
न ह्यन्येन विना रामं भगवन्तं रमापतिम्।
विश्वामित्रयज्ञरक्षां कर्तुं शक्या स्ववीर्यतः ॥ ९ ॥
मैथिली चोपयेमे यो सह भ्रात्रा रमां प्रियाम्।
साक्षात्परा स्वयं लक्ष्मी चतुर्धा शर्मसंगिनीम् ॥ १० ॥
- ३६० -
निन्ये सुबाहुप्रमुखानसुरान् यमसादनम् ।
यज्ञं प्रवर्त्तयामास यज्ञभुक्प्रवरः स्वयम् ॥ ११ ॥
विश्वामित्रस्य तुष्टाव यज्ञऋक्सामसूक्तिभिः ।
भङ्क्त्वाहरधनुः सद्यः प्रचलद्बाहुलीलया ॥ १२ ॥
मैथिल्या च स्वयंलक्ष्म्या शोभयामास सुन्दरः ।
अजयत्समरे पश्चाद् भार्गवं स्वांशमूर्जितम् ॥ १३ ॥
न ह्यन्योऽपि विधातुंस्याच्छक्त ईदृशं कर्म तत् ।
येन त्रिःसप्तकृत्वो भूद्विजेभ्यः प्रतिपादिता ॥ १४ ॥
लतारूपास्ततो नारीर्विधिमानससम्भवाः ।
स्वाऽङ्घ्रयब्जधूलिसंस्पर्शमुदिता ऊढवान् विभुः ॥ १५ ॥
इदं चापि ऋते साक्षाद् रामचन्द्रं करोति कः ।
परस्तात् प्राकृतं सर्गमनादृत्य स्थिताश्चिरात् ॥ १६ ॥
अप्राकृतं मनोहारि दृष्ट्वा रूपं रमापतेः ।
मोहिताः कामतश्चैता विधिमानसजाः श्रियः ॥ १७ ॥
कदाचिद्भगवाञ्छेषो साकेतं श्रीहरेः पदम् ।
ययौ तत्र च भूरीणि दृष्ट्वा सिंहासनानि सः ॥ १८ ॥
अपश्यत्तेषु निखिलानवतारांश्च मध्यतः ।
दिव्ये सिंहासने पश्चादमुमेव वरं प्रभुम् ॥ १९ ॥
अन्यांश्च रामवदने दत्तदृष्टीन् व्यलोकत ।
ततः क्षणेन सर्वांस्तान् विलीनान् रामविग्रहे ॥ २० ॥
दृष्ट्वा प्रमुदितः शेषः पूर्णमेनमन्यत ।
इदमद्भुतचारित्रमस्य पूर्णत्वबोधकम् ॥ २१ ॥
सीतापतेः श्रीरामस्य भगवत्त्वं च शुश्रुम ।
पितुश्चाप्यश्वमेधांश्च गन्धर्वान् प्रविजित्य यः ॥ २२ ॥
समानिन्ये हयांश्चान्यान् गान्धर्वीश्चापिकन्यकाः ।
ताभ्यः स्वरूपं समदाद् भक्ताभ्यः पूर्वजन्मनि ॥ २३ ॥
इदमस्य श्रीरामस्य चरित्रं परमाद्भुतम् ।
भुवि कर्तुं क्षमः कः स्याद्विनाश्रीपुरुषोत्तमम् ॥ २४ ॥
अग्नींश्चैष समानिनाय भगवान् यत्रेति कोऽन्यस्ततः-
श्रीनारायणधामतः परममुं दृष्ट्वा च नारायणः ।
तुष्टाव प्रणवाधिदैवतवरः पूर्णः पुरा पुरुषं
प्राप्यानन्यनिजाधिदैवततया प्रेमप्रमोदालयम् ॥ २५ ॥
- ३६१ -
एतान्यस्य चरित्राणि सकलान्यनुशुश्रुम ।
पुरुषेभ्यः पुराणेभ्यो वेदविद्भ्यो वयं सदा ॥ २६ ॥
तदत्रं भगवान् साक्षात्पूर्णः श्रीपुरुषोत्तमः ।
सर्वावताराणां मूलभूतः श्रीराम उच्यते ॥ २७ ॥
रामेति द्व्यक्षरं मन्त्रं जपंतां पठतां सदा ।
संसारातपसंतापः शान्तिमेति निरन्तरम् ॥ २८ ॥
धन्या ह्यस्य पदाम्भोजं भजन्ते प्रकृतेः परम् ।
विशुद्धं सच्चिदानन्दरूपमक्षरतः परम् ॥ २९ ॥
नाम्नां श्लोकेन रूपस्य ध्यानेन भगवान् स्वयम् ।
विमोचयति संसारादित्येवमनुभूयते ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
सप्तत्रिंशोऽध्यायः ॥ ३७ : ।
अष्टात्रिंशोऽध्यायः
जना ऊचु
अहो ऽयं पश्यतां नो मनांसि दृष्टीः समाकर्षति नित्यमेव ।
पारेपरार्द्धेन्दुविभासिनीभिरनल्पश्रीविग्रहमाधुरीभिः ॥ १ ॥
कदाचिद्भवसंतप्ता नाम चेदस्य जिह्वया ।
गृह्णीमस्तद्द्रवत्येव मनःपीयूषशीतलम् ॥ २ ॥
रूपेण कान्त्या वयसा माधुर्येण स्वभावतः ।
गुणैश्चारित्रकैर्लीलासौन्दर्यैः सर्वमोहनः ॥ ३ ॥
नात्र संदेहलेशोऽस्ति साक्षादेष स्वयं रामः ।
कारणं द्विजगोभूमिरक्षणं प्राप्य दृश्यते ॥ ४ ॥
लीलामानुषनाट्योऽसौ परब्रह्म स्वरूपतः ।
शरणं गृह्यता मेष गृह्यतां च दृढं प्रभुः ॥ ५ ॥
श्रद्धया भक्तितो मर्त्यैः सर्वस्वं क्रियते निजम् ।
तथा ह्यानेन कार्याणि कृतप्रायाणि सर्वशः ॥ ६ ॥
४६
- ३६२ -
अधुना रमतेपारं निजं धाम परात्परम्।
अक्षरं कालमायादि समतीत्य तदूर्जितम् ॥ ७॥
तदाकारं न जानन्ति ह्यासुरं भावमाश्रिताः।
तैरात्मा वञ्चितः स्वस्य भवसागरजैर्भ्रमैः ॥ ८॥
केचिदेनं वदन्तीह मानुषं भावमाश्रितम्।
नहि क्वापि परं ब्रह्म दृश्यरूपं यदक्षरम् ॥ ९॥
केचिदेनं जगुर्लोकाः पुरुषं प्रवरं भुवि।
न तु रामचन्द्रं साक्षान्मोहितास्तस्य मायया ॥ १०॥
केचिदेनं परब्रह्म प्रवदन्ति स्वबुद्धितः।
अनुभावविशेषेण विस्फुरन्तं निजैर्गुणैः ॥ ११॥
ते सर्वे दुरदृष्टेन वञ्चिताः प्रभुमायया।
कृतार्था न भवन्त्येव दैवोपहतमानसाः ॥ १२॥
वयं त्वेनं भजिष्यामो ज्ञात्वा श्रीपुरुषोत्तमम्।
अनादिनिधनं साक्षात्सच्चिदानन्दविग्रहम् ॥ १३॥
वयं हि ज्ञातवन्तोऽस्य स्वरूपं परमेशितुः।
अभाग्यास्तंमृतयो वै ह्यधुना न भजेम चेत् ॥ १४॥
को विशेषः पशुभ्यो नो ज्ञात्वैनं संत्यजाम चेत्।
अयं श्रीभगवानस्मानुद्धर्त्ता दुःखसागरात् ॥ १५॥
य एनं भेजिरे पूर्वे त्यक्त्वाहंभावमात्मनः।
मोचितास्तेऽनेकजन्मसंचिताद् दुःखसागरात् ॥ १६॥
कर्मणापि ह्यमुं देवं भेजिरे सनकादयः।
ततः पक्ककषायास्ते स्वात्मबोधमवाप्नुवन् ॥ १७॥
अमुमेव ज्ञानमार्गं ये विदुःशुद्धचेतसः।
वामदेवप्रभृतयस्तेऽपि चैनमवाप्नुवन् ॥ १८॥
तथा हि वामदेवेन प्रतिपेदे स्वतेजसि।
अहं हि मनुरभवं लोकमर्यादपालकः ॥ १९॥
स्वस्वरूपाखिलान् देवान् जानामि ज्ञानचक्षुषा।
आत्मोपादानकं विश्वमात्मन्येव प्रलीयते ॥ २०॥
मृदुपादानका अर्थाः प्रलीयन्ते यथा मृदि।
आदावन्ते च मध्ये च मृद्रूपेण महीयते ॥ २१॥
तथानादिः कालमानरहितोऽहं न संशयः।
देशतः कालतश्चापि स्वरूपाच्च न मे त्विमाः ॥ २२॥
– ३६३ –
इत्येवं प्रतिपन्नः स बभूवामृतरूपकः ।
आत्मन्येव तथा ह्येनमुपासीत विचक्षणः ॥ २३ ॥
न ह्येतस्मात्परः कश्चिदुपासा विधिगोचरः ।
भक्तिस्तु सुतरामस्मिन् क्रियमाणा शुभप्रदा ॥ २४ ॥
चातुर्विध्येन मार्गस्य साधयन्ति प्रयोजनम् ।
स्वकं स्वकं जनाः सर्वे ह्याधिकारप्रभेदतः ॥ २५ ॥
तद्रूपमस्मिन् मनुजा यथारुचिप्रभेदतः ।
आसंजयन्तु हृदयं नित्यं फलमवाप्स्यथ ॥ २६ ॥
अथवा प्रकटे देवे साक्षाच्छ्रीपुरुषोत्तमे ।
सर्वान् मार्गान् परित्यज्य कायमानसदुःखदान् ॥ २७ ॥
कुर्वन्तु भजनं शुद्धं समाधाय मनःसुखम् ।
शृण्वन्त्वेवं कथास्सन्तः कीर्तयन्तु तथा मुहु ॥ २८ ॥
१अभिवादयन्तु शिरसा कुर्वन्तु पादसेवनम् ।
अर्चन्तु चोपचारौघैः स्मरन्तु नामरूपतः ॥ २९ ॥
तथा शरणिकुर्वन्तु मैत्रीं कुर्वन्तु चामुना ।
निवेदयन्तु चात्मानममुष्मिन्नेव दैवते ॥ ३० ॥
अङ्गीकरिष्यति परं युष्मानेष महाप्रभुः ।
ततस्तरिष्यथ जना दुस्तरं भवसागरम् ॥ ३१ ॥
न कालो ग्रसते कच्चिदेनमाश्रित्य तिष्ठताम् ।
कालस्यापि परं कालं श्रीमन्तं भवतारकम् ॥ ३२ ॥
इदानीं व्यक्ततां यात एतदर्थमयं जनाः ।
साधूना च मुमुक्षूणां भक्तानां च विशेषतः ॥ ३३ ॥
सर्वदुःखप्रहारार्थं प्रकटः परमार्थतः ।
य एनं निर्गुणं मायारहितं सुनिरञ्जनम् ॥ ३४ ॥
वदन्ति वेदविद्वांसो विदद्यागम्यस्वरूपकम् ।
अविद्यानाशद्वारेण स्वरूपेण प्रकाशितम् ॥ ३५ ॥
मुख्यं कार्यमिदं ह्यस्य प्राकट्ययुतवर्ष्मणः ।
अप्राकट्यं निजे धाम्नि कर्तृसंज्ञमगोचरम् ॥ ३६ ॥
तदा स्वेच्छैकमात्रेण ह्यवितर्केण मानवैः ।
जनं यमनुगृह्णीयात्तस्यैव सम्प्रकाशकः ॥ ३७ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
- ३६४ -
अन्यस्य तु फलं राति प्रभुर्मर्यादमास्थितः ।
अनुग्रहस्य रीतिः स्यादामर्यादा यथा भवेत् ॥ ३८ ॥
मर्यादापोषणं चेति रीतिद्वयमुदाहृतम् ।
अप्राकट्ये भगवतः प्राकट्ये च परादरात् ॥ ३९ ॥
ब्रजेदेनं स्ववाञ्छास्ततं गृह्णातीति निश्चितः ।
यथा सर्वं परित्यज्य प्राप्तः श्रीमान् विभीषणः ॥ ४० ॥
सकृदेव ᾿प्रपद्येत यस्तवास्मीति भाषया ।
तस्मै राघवशार्दूलो ददात्येवाभयं पदम् ॥ ४१ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सवप्रबोधे-
ऽष्टात्रिंशोऽध्यायः ॥ ३८ ॥
एकोनचत्वारिंशोऽध्यायः
ब्रह्मोवाच
इति सर्वे मतिं कृत्वा साकेतपुरवासिनः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव समंततः ।
ज्ञातस्वरूपाः सकला उपसेदुर्मुमुक्षवः ॥ १ ॥
जना ऊचुः
ज्ञातोऽसि राम परमार्थत आत्मना त्वमात्मासि सर्वविषयाव्यभिचारिसत्त्वः ।
आकाशवद्भवसि नित्यममेयरूपस्त त्वाममी शरणदं शरणं प्रपन्नाः ॥ २ ॥
एकोऽसि पूर्वमथ तद्वहुधासि जातः कल्पावसानसमये पुनरेक एव ।
स्वे नित्य एव महिमन्यसि संस्थितस्त्वं तं त्वाममी शरणदं शरणं प्रपन्नाः ॥३॥
भक्तोद्धृतिक्षममनेकमनन्तपारमाविर्भवत्स्वमतनो सततं भवेऽस्मिन् ।
मायागुणव्यतिकृतप्रचुरस्वरूपं तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ ४ ॥
आचार्यतां प्रतियुगं वितनोषि वेद वाक्यार्थसारविनिरूपणलब्धदीक्षः ।
वैद्योऽसिभूरि भवरोगनिवारणाय तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ ५ ॥
ब्रह्मादयोऽपि तव रूपमपारमेतत्त्वन्मायया विततयाप्रतिरुद्धबोधाः ।
जानन्ति नैव भुवनेश्र्वर मानिनस्ते तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ ६ ।
चेष्टात्मकस्तव विभो ननु काल एष ब्रह्माण्डकोटिघटनापटुरप्रमेयः ।
यस्मिन् गताः प्रलयमब्जभुवोऽतिसंख्यास्तं त्वाममी शरणदं शरणं प्रपन्नाः ॥७॥
ब्रह्माक्षरं तव विभो प्रवदन्ति लिङ्गं पूर्तिं गता यदवधि श्रुतिवाक्समूहाः ।
त्वां न स्पृशन्ति पुरुषोत्तमभ्रनीलं तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ ८ ॥
हंहो विचित्ररचनाप्रविधानदक्षं कर्मेति यत्तव वपुः फलदायि नृणाम् ।
यज्ञैस्तदिज्यमिति प्रविदन्ति केचित्तत्वाममी शरणदं शरणं प्रपन्नाः ॥ ९ ॥
भक्तेषु राम वितनोषि परानुकम्पामन्येषु कर्मसदृशं फलमादधानः ।
अप्यासुरान् हरसि ते च खलुस्वभावस्तं त्वाममी शरणदं शरणं प्रपन्नाः ॥१०॥
अप्येधतां जगति कामलवापवेषामापाततः किमशुभं त्वदुपाश्रितानाम् ।
त्वद्दिव्यरूप करुणामृतसेचितानां तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ ११ ॥
कालस्य सर्वकवलीकरणोग्रमूर्ते मूर्ध्निपदं च प्रविधाय निवृत्तशोकाः ।
क्रीडन्ति तावकदृशामृतसिक्तगात्रास्तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ १२ ॥
नेष्टेषु धर्म निवहेषु कलौ जनानां संतारणाय तव नाम परं समर्थम् ।
उच्चारणेन मखकोटिफलप्रदं यत्त त्वाममी शरणदं शरणं प्रपन्नाः ॥ १३ ॥
नाम्नैव यो बत समस्तजनांघिहन्ता वाच्यः स्वरूपमहिमा किमु तावकीनः ।
निर्विघ्नसाधनशताधिककीर्तनं च त त्वाममी शरणदं शरणं प्रपन्नाः ॥ १४ ॥
संतारिताः कति न राघव सार्वभौमपापाजनाः खसकिरातपुलिन्दहूणाः ।
माहात्म्यबोधविमुखा अपि काननस्थास्तं त्वाममी शरणदं शरणं प्रपन्नाः ॥१५॥
आनन्दसारमनवद्यमहामहिम्ना लोकान्धकारविनिवर्तनसाधुशक्तिम् ।
स्वच्छन्दलोलममृतांवांमृष्टदर्शं तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ १६ ॥
उज्जागरद्युतिमुदारमनोज्ञहासभासा पराजितशरद्विधुरश्मिवृन्दम् ।
कर्णस्फुरन्मकरकुण्डलदीपितास्यं तं त्वाममी शरणदं शरणं प्रपन्नाः॥ १७ ॥
त्वत्पादपङ्कजपरागपवित्रतायाः साकेतपत्तनभुवो महिमाप्यवाच्यः ।
यज्जन्मिनां तु सुगमश्चतुरर्थलाभस्तं त्वाममी शरणद शरणं प्रपन्नाः ॥ १८ ॥
दामोदराच्युतमुकुन्दमुरारिराम श्रीराघवप्रभुजनार्दनबाणपाणे ।
श्रीरामराजकुलचन्द्ररघूत्तमेति तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ १९ ॥
प्रारब्धहारि भजनं तव राघवेन्द्र ज्ञानं च कर्म च भवेत् किमु तेन तुल्यम् ।
मायागुणव्यतिकृतैकविशुद्धभक्त्या तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ २० ॥
सत्त्वेन ते व्यवहितं तव रामरूपमेतच्चिदेकमयमद्भुतमद्वितीयम् ।
अन्यावतारतुलया न हि वर्णनीयं तं त्वाममी शरणदं शरणं प्रपन्नाः ॥ २१ ॥
- ३६६ -
दृष्टिप्रमोदमनुभूय जगत्त्यनन्यं त्वां तर्कयन्ति मनुजाः पुरुषप्रकाण्डम् ।
भक्त्योपयान्ति न मुमुक्षुतया प्रकामं तं त्वाममी शरणदं शरणं प्रपन्नाः ॥२२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
🞶
चत्वारिंशोऽध्यायः
ब्रह्मोवाच
तत्र केचिज्जना धन्याः प्रमोदवनवासिनः ।
अयोध्यास्थं रामचन्द्रं भजमाना अनन्यवत् ॥ १ ॥
ऊचिरे वचनं तुष्ट्या तेष् नित्योपसत्तयः ।
कृतार्थं मन्यमानाः स्वं पुरुषोत्तमदर्शिनः ॥ २ ॥
जना ऊचुः
ईश प्रमोदविपिने नटवेषवेषी गोपाङ्गनावलयरासविलासकादीन् ।
यत्त्वं चकार मणिरत्नकिरीटशाली तत्किं मुहुः स्मरसि राघव राजसूनो ॥३॥
यच्चित्रकूटगिरिकन्दरगह्वरेषु त्रैलोक्यराजनरदेवकुमारिकाभिः ।
त्वं भूरि दुष्करविलासभरैररंसीस्तत्किं मुहुः स्मरसिराघव राजसूनो ॥ ४ ॥
यत्त्वं मनोज्ञसरयूपुलिनाङ्गणेषु चान्द्रीः क्षपाः क्षपितसर्वजगत्तमिस्राः ।
साकं श्रिया विहरसे परयानुरक्त्यार्तिकं मुहुः स्मरसि राघव राजसूनो ॥५॥
सामानि ऋग्यजुरथर्वऋचः स्ववश्याधेनूः शुभाः सुखकदम्बभृताः सवत्साः ।
यत्त्वं वने किमपि चारितवान् सजोषं तत् किं मुहुः स्मरसि राघव राजसूनो ॥६॥
यत्त्वं प्रमोदवनमध्यगतो विशालप्रासाददिव्यशिखरे व्रजसुन्दरीभ्यः ।
हारान् ददौ मधुपुरी मथ कोसलां च तत्किं मुहुः स्मरसि राघव राजसूनो ॥ ७ ॥
यद्राजसूनुपदवीमभिपद्य धन्या माभीरराजसुतभावकरी चकार ।
स्वच्छन्दकेलिकलयातिसुखं चकार तत्किं मुहुः स्मरसि राघव राजसूनो ॥ ८ ॥
साकेतधामवसतेर्महिषीं परां तां विज्ञाय पूर्णतमसर्वकलाधिराज्ञीम् ।
आनन्ददो व्रजवधूवलये समस्ते तत्किं मुहुः स्मरसि राघव राजसूनो ॥ ९ ॥
(ta)
G L L (bha)
L G L (ja)
L G L (ja)
G G (ga ga)
Now let's apply this to:
Syllables:
1: G (ते)
2: G (ते)
3: L (स)
4: G (खा)
5: L (य)
6: L
7: L
8: G
9: L (वि? wait, if 9 is L, then 10 must be G! But in वि-र-हा..., 9 is वि(L), 10 is र(L)... wait!)
Look at the text again!
What IS written there?
Let's look at line 17:
"ते ते सखाय उदयाद्विरहातुरास्ते"
Wait, is it "उदपि"?
Look at the characters:
उ (or अ) - द - या - द् - ?
Wait! Look at the letter:
Is it 'उ'?
Let's zoom into line 17, between 'सखाय' and 'तुरास्ते':
स-खा-य
Next character:
It's 'उ' with a curve at the bottom: no, wait, it has a top horizontal line, a left vertical with...
Wait, look at 'उ' in 'उन्मत्तवद्' (line 20):
Line 20 first word: 'उन्मत्तवद्'
I will transcribe the text line by line as printed in the image.
- ३६८ -
एकचत्वारिंशोऽध्यायः
ब्रह्मोवाच
इति तेषां वचः श्रुत्वा जनानां स्वाश्रितात्मनाम् ।
पूर्वं प्रभुरयोध्यास्थान् बभाषे रघुनन्दनः ॥ १ ॥
श्रीराम उवाच
शृण्वन्तु भो अयोध्यास्थाः जनाः सर्वे हि मामकाः ।
अनायासेन वो मुक्तिर्भविता न च संशयः ॥ २ ॥
यूयं हि नित्यमुक्ताः स्थ मत्सांनिध्ययुजः सदा ।
मद्दर्शंकथालापश्रवणादिषु तत्पराः ॥ ३ ॥
दूरतोऽपि च ये मर्त्या मन्नामग्रहणे स्थिताः ।
तेषामप्यहमुद्धर्ता भवदुःखभयात्सदा ॥ ४ ॥
यूयं त्वयोध्यापुरवासमायात्सङ्घृष्टान्तःकलुषाःपुनीताः ।
‘श्रीसारवाम्भःपरिपानपूताः किमिच्छथान्यां बत मुक्तिमुच्चैः ॥ ५ ॥
. एतावज्जन्निसाफल्यं जनानामत्र
- ३६९ -
प्रबलानिलमुत्पाद्य स तां कम्पितवान् पुरीम् ।
कल्पान्तवह्निज्वालाभिर्यमालयमवेष्टयत् ॥ १५ ॥
ततो विनिर्गता दूता योद्धुकामा अनेन ते ।
खड्गशक्त्यृष्टिमशलदण्डमुद्गरपाणयः ॥ १६ ॥
भूशुण्डीपरिघाशूलपाशहस्ताः समंततः ।
निपेतुर्गरुडस्योच्चैरङ्गमाच्छाद्य सत्वरम् ॥ १७ ॥
कृत्वा प्रचण्डनादं ते पिष्टान्तै रदनै रदान् ।
महाकिलकिलाशब्दं कुर्वन्तस्तेऽतिवेगिनः ॥ १८ ॥
स्वानि स्वान्यस्त्रवर्याणि मुमुचुर्गरुडोपरि ।
गरुडोऽपि तदस्त्राणि बभञ्ज क्षणमात्रतः ॥ १९ ॥
लीलामात्रेण तान् सर्वान् यमदूतानपोथयत् ।
पक्षतुण्डनखाघातैरहनद्विक्रमी स तान् ॥ २० ॥
रुधिराणि वमन्तस्ते पतिताः पृथिवीतले ।
परे च दुद्रुवुर्दूता यमस्य सर्वतो दिशम् ॥ २१ ॥
महाकालाग्निज्वालाभिर्वेष्टितां स्वपुरीं यमः ।
विलोक्य सर्वतो भीतः किमेतदिति चिन्तयन् ॥ २२ ॥
पक्षीन्द्राभिमुखं सद्य आजगाम ततः परम् ।
आः किमेतदिति क्रुद्धः उक्त्वा वचनमग्रतः ॥ २३ ॥
नानाविधैरस्त्रशस्त्रैर्गरुडं समयोधयत् ।
पराजितः स तेनासौ तुण्डाघातैर्नखक्षतैः ॥ २४ ॥
पक्षोद्भूतैर्महावातैः स कृतान्तमभीषयत् ।
महावज्रसमैः पत्रैस्तदङ्गं किंचिदस्पृशत् ॥ २५ ॥
वित्रासितस्तेन ततो गरुडेन कृतान्तकः ।
पक्षाहतोऽस्य महिषो दुद्राव भयसंवृतः ॥ २६ ॥
ग्रैवेयकमहाघण्टानादघोषितदङ्मुखः ।
कृत्वा घोरं महानादं पातयित्वा यमं भुवि ॥ २७ ॥
ततो दण्डे प्रभग्नेऽसौ तुण्डघातैः खगेशितुः ।
निःश्वसंश्छन्नकैः प्राह खगेन्द्रं रणदुर्मदम् ॥ २८ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
एकचत्वारिंशोऽध्यायः ॥ ४१ ॥
✻
४७
- ३७० -
द्विचत्वारिंशोऽध्यायः
यम उवाच
नागान्तक खगाधीश कथं क्रुद्धोऽसि मत्कृते ।
महाकालानलज्वालाभिर्व्याप्तो हि समंततः ॥ १ ॥
संवेष्टिता संयमिनी ह्यकस्मात्केन हेतुना ।
तव पक्षानिलोद्भूता उड्डीयन्ते गृहा मम ॥ २ ॥
पृथिव्यां शेरते दूतास्तव तुण्डनखक्षताः ।
पीडिताङ्गा वमन्तस्ते शोणितानि भुवि स्थिताः ॥ ३ ॥
निःश्वसन्तो ह्यतीवार्ताः कदर्थीकृतविग्रहाः ।
केचित्पलायिता दिक्षु वेपमाना भयातुराः ॥ ४ ॥
कृतं संयमनीपुर्याः कदनं केन हेतुना ।
भवान् हि सर्वदेवानामतीव प्रियकारकः ॥ ५ ॥
अहं च स्थापितो दण्डाधिकारित्वेन विष्णुना ।
त्वं च तद्वाहनो नित्यं किमित्येवं चकार ह ॥ ६ ॥
एतत्तेऽनुचितं तार्क्ष्य यद्विष्णोरधिकारिणाम् ।
उज्जासनं बलवता त्वया यत् कृतमेव तत् ॥
एतस्य करणं ब्रूहि प्रच्छामि त्वां खगाधिप ॥ ७ ॥
तार्क्ष्य उवाच
शृणु वैवस्वत यतो हेतोस्ते कदनं मया ।
कृतं च तव दूतानमत्यर्थं परिपीडिनम् ॥ ८ ॥
पृथिव्यां भारते खण्डे भारते नामनिध्रुवम् ।
आर्यावर्त्ते पुण्यभूमौ नानातीर्थगुणाश्रये ॥ ९ ॥
अस्त्ययोध्यानाम पुरी विस्तीर्णा रवियोजनैः ।
सर्वर्तुगुणशोभाढ्या नानाकल्पद्रुमाकुला ॥ १० ॥
स्वर्णचिन्तामणिमयी यत्र भूमिविराजते ।
सुवर्णरत्नसोपानमण्डिता यत्र वापिकाः ॥ ११ ॥
शोभिताः परितः फुल्लसुवर्णसरसीरुहैः ।
मकरन्दरसस्त्रावाः स्वच्छशीतामृतोदकाः ॥ १२ ॥
गुञ्जद्भ्रमरपुञ्जाढ्याः कलहंसकलस्वनाः ।
सरस्यो यत्र राजन्ते रत्नसोपानशोभिताः ॥ १३ ॥
- ३७१ -
कोककारणडवध्वानमिश्रसारसनादिताः ।
राजहंसकलक्वाणमुखरीकृतदिङ्मुखाः ॥ १४ ॥
फुल्लत्कमलकह्लारहल्लका¹मोदमेदुराः ।
उपकूलमहीरुढकुञ्जद्रुममनोहराः ॥ १५ ॥
मुक्ताशुक्तिपुटोद्भूतनानारत्नगणोद्भवाः ।
यत्र रत्नाचलो नाम सीतारामविहारभूः ॥ १६ ॥
महारत्नमयानेकशेखरद्युतिदीपितः ।
नाशिताशेषदिक्कूलतमःपटलरात्रिकः ॥ १७ ॥
यत्र सा सरयू र्नाम सरित्पानीयनिर्मला ।
मणिबद्धो भय तटी दधती हेमवालुकाः ॥ १८ ॥
परमानन्ददा नित्यं निजकूलजुषां नृणाम्।
तपस्विनां मुनीन्द्राणां विरक्तानां भवेत् पुनः ॥ १९ ॥
रिगत्तरङ्गरुचिरा क्षालयन्ती तटावनीम्।
पूज्यमाना सुरव्रातैः पारिजातभवैः सुमैः ॥ २० ॥
पुराणपुरुषप्रेमसमुद्भूताश्रुसम्भवा ।
क्वचिच्छनैः क्वचिद्वेगाद्गच्छन्ती मधुरस्वना ॥ २१ ॥
जनाश्चतुर्भुजा यत्र रामप्रेमावघूर्णिताः ।
जनकेन्द्रसुताकीर्त्तिगाननिर्धूतकल्मषाः ॥ २२ ॥
चतुराश्रमसंशुद्धाश्चतुर्वर्णक्रियाजुषः ।
प्रेमानन्दपरीपाकसुस्थिरीकृतमानसाः ॥ २३ ॥
अनादृतज्ञानकर्मोपासनासाधनान्तराः ।
श्रीरामचरणाम्भोजे सुविश्वस्ताः समंततः ॥ २४ ॥
प्रपत्तिमार्गशरणाः सर्वे विमलबुद्धयः ।
देवतायतनैर्यंत्र सस्वर्णघटमस्तकैः ॥ २५ ॥
पताकाध्वजवस्त्राढ्यै स्तोेरणाद्यैरलङ्कृतैः ।
स्थूलैः स्थूलैः कृता शोभा गगनस्पर्शमूर्द्धभिः ॥ २६ ॥
प्रासादैर्भूभुजां यत्र शोभा चमत्कृतीकृता ।
विततश्चापणे यत्र विकीर्णमणिधोरणिः ॥ २७ ॥
नवभिर्निधिभिर्युक्ता मोदन्ते यत्र नैगमाः ।
उत्सवांश्च प्रतिगृहं प्रत्यहं यत्र बिभ्रति ॥ २८ ॥
१. ‘हल्लकं रक्तसन्ध्यकम्’ टि०-बड़ौ० ।
- ३७२ -
तूर्यंत्रिक्समाघोषो यत्रास्ते प्रतिमन्दिरम् ।
ईदृग्विधगुणैर्युक्ता ह्ययोध्यानगरी भुवि ॥ २९ ॥
यस्यां दशरथो राजा नित्यमेव विराजते ।
महाराजकुमारश्च यत्र श्रीरामसंज्ञकः ॥ ३० ॥
चतुर्द्धामूर्त्तिसंयुको नित्यं खलु विराजते ।
परब्रह्म परं धाम परमात्मा परात्परः ॥ ३१ ॥
नित्यलीलारसानन्दी प्रमोदवनचन्द्रमाः ।
सहजानन्दिनीनामनित्यशक्तिविभूषितः ॥ ३२ ॥
वनैर्यंत्र द्वादशभिः प्रमोदवनमेधते ।
श्रिया परमया युक्तं परब्रह्मसुखालयम् ॥ ३३ ॥
गवेन्द्रसुखिताख्यस्य यत्र गोष्ठं विभाति तत् ।
ऊधोभारविनम्राभिर्धेनुभिः समुपासितम् ॥ ३४ ॥
कूर्दमानकुरङ्गाभवत्सवत्सतरीयुतम् ।
रामप्रेमवशीभूतगोपगोपीजनावृतम् ॥ ३५ ॥
प्रत्यूषे दधिनिर्मन्थघोषमङ्गलपूरितम् ।
श्रीमद्रामगुणोद्गानपूर्वकं निर्वृतात्मना ॥ ३६ ॥
मथनन्त्या दधिपाथोधिं श्रीमन्माङ्गल्यया युतम् ।
इति भव्यगुणोदीर्णमयोध्यामण्डलं महत् ।
साक्षात्परमधामैव श्रीरामस्थानमद्भुतम् ॥ ३७ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
✤
त्रिचत्वारिंशोऽध्यायः
गरुड उवाच
अयोध्यामण्डले कश्चिद्दुष्पीतिर्नाम पातकी ।
जात्यापि खलु चाण्डालो वर्णानामधमोऽन्त्यजः ॥ १ ॥
समृBack खलु पूर्वेद्युः सरयूपुलिनाऽङ्गणे ।
तत्तोयवातसंस्पृष्टं शरीरं तस्य जम्बुकैः ॥ २ ॥
- ३७३ -
लुञ्चितं लुण्ठितं तावत्खण्डशः कृन्तितं मुहुः ।
तटान्ते प्रापितं चापि तरङ्गैर्लोलितं मुहुः ॥ ३ ॥
तं दण्डधर दूतास्ते निन्युः संयमिनीमिमाम् ।
तदानयनकार्यार्थमहंमत्रागतो रुषा ॥ ४ ॥
कृतं प्रत्युत दूतैस्तै महद्युद्धं मया सह ।
दुष्पीतिर्नाम चाण्डालो न तु तैरुपढौकितः ॥ ५ ॥
इह आनेतुमर्होऽयमयोध्यामण्डले मृतः ।
अहं हि प्रभुणा पूर्वमुक्तोऽस्मि बहुधा यमः ॥ ६ ॥
य एतस्मिन् महापुर्या मण्डले म्रियते जनः ।
तस्य त्वं वाहनो भूत्वा प्रापयेथा मदन्तिके ॥ ७ ॥
प्रमोदविपिने तार्क्ष्य नित्यमेव वसाम्यहम् ।
महा'वैकुण्ठात्परमिदं विज्ञेयं धाम मामकम् ॥ ८ ॥
न यत्रकालः प्रभवत्यनन्तो मायाथवा तद्गुणसम्प्रवाहः ।
न चापि कर्म व्यभिचारिरूपं न चापि दैवं न मनःप्रवृत्तिः ॥ ९ ॥
अथैतन्मण्डलं नित्यं योजनद्वादशात्मकम् ।
अक्षरं ब्रह्मानन्दमप्रेमानन्दमयोजितम् ॥ १० ॥
न कालकर्ममर्यादाप्यत्र सम्बाधते नृणाम् ।
नानेन सदृशं तीर्थं नानेन सदृशं तपः ॥ ११ ॥
नानेन सदृशं क्षेत्रं त्रिषु लोकेषु विद्यते ।
नानेन सदृशी गङ्गा नानेन सदृशी गया ॥ १२ ॥
गङ्गाद्वारादितीर्थानि गङ्गासागरसङ्गमः ।
मुक्तिक्षेत्रं तथा काशी तथा चामरकण्टकम् ॥ १३ ॥
गोदावरी नर्मदा च व्यासगङ्गा सरस्वती ।
कृष्णा च यमुना चापि कावेरी भीमशाङ्करी ॥ १४ ॥
चन्द्रभागा शतद्रुश्च तद्वच्चान्ये सुपावनाः ।
पुष्करादीनि तीर्थानि तीर्थराजस्तथैव च ॥ १५ ॥
पुरुषोत्तमार्ख्यं क्षेत्रं क्षेत्राण्येतानि षोडशी ।
तीर्थानि च पवित्राणि यावन्ति धरणीतले ॥ १६ ॥
तानि सर्वाण्ययोध्यायाः कलां नार्हन्ति षोडशीम् ।
प्रकटाश्चैव गुप्ताश्च यावन्तस्तीर्थराशयः ॥ १७ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
- ३७४ -
तावन्तः सर्व एवैतन्मण्डलं समुपासते ।
जले चैव स्थले चैव नास्ति भेदोऽत्र कश्चन ॥ १८ ॥
स्नानाद्दानाद्विधानाच्च वपनात्पिण्डदानतः ।
होमाज्जपाद्दीक्षणाच्च यत्ननाद्देवतार्चनात् ॥ १९ ॥
विवाहाद्व्रतबन्धाच्च यात्रया च प्रदक्षिणात् ।
निवासाद्दर्शनाच्चैव स्मरणाच्चाभिवन्दनात् ॥ २० ॥
कथनात्स्तवनाच्चैव मरणाद्दाहनात्तथा ।
इत्येवं द्वाविंशतिधा ह्यायोध्यामण्डलं नृणाम् ॥ २१ ॥
मोचयत्युग्रपापेभ्यो मुक्तिं चापि प्रयच्छति ।
यदद्यद्वाञ्छति तत्सर्वं ददात्यत्र न संशयः ॥ २२ ॥
प्रतितीर्थमयोध्यायां धनुर्मात्रमिते स्थले ।
विद्यन्ते कोटितीर्थानि पुष्कराद्यानि संततम् ॥ २३ ॥
वक्त्रकोटिशतेनापि जिह्वाकोटिशतेन च ।
अयोध्यायास्तु माहात्म्यं क्षमो वक्तुं नरः कथम् ॥ २४ ॥
तस्मादत्र प्रजातानामागन्तूनां तथान्यतः ।
मृतानां चापि गरुड सद्यस्त्वं वाहनो भव ॥ २५ ॥
इत्येवं भगवान् रामो मा प्रबोधितवान् पुरा ।
ततश्च मामनादृत्य दूतास्ते रविनन्दन ॥ २६ ॥
आनिन्युस्तं किमिति च मृतं दुष्पीतिमन्त्यजम् ।
अपि चेत्पातकी दुष्टो यावज्जन्मविहिंसकः ॥ २७ ॥
दुराचारः क्रूरकर्मा रोऽप्योध्यापुरे मृतः ।
सद्यो मत्पृष्ठमारुह्य रामधाम व्रजेन्नरः ॥ २८ ॥
तस्मादेनं विमुञ्च त्वं नाम्ना दुष्पीतिमन्त्यजम् ।
स्मरन् प्रतिज्ञां रामस्य स्वाधिकारं यदीच्छसि ॥ २९ ॥
न रामो द्विवचो ब्रूते नाभयं द्विर्ददाति च ।
द्विशरं नाभिसंधत्ते न द्विरङ्गीकरोति च ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
- ३७५ -
चतुश्चत्वारिंशोऽध्यायः
यम उवाच
नागान्तक खगाधीश सुपर्ण हरिवाहन ।
अजानद्भिः प्रमादेन कृतं कार्यमिदं खलु ॥ १ ॥
मम दूतैस्तस्य फलं प्राप्तमेतावदाततम् ।
अतः परं क्षमस्वेनमपराधं मम प्रभो ॥ २ ॥
अयोध्यामण्डलस्थोऽयं यदानीतो विजानता ।
अतः परं पुनरपि न कार्यं कृत्यमीदृशम् ॥ ३ ॥
गृह्यतामेष भगवन् साकेतं नियतां पुनः ।
अयोध्यामण्डले तस्मिन् रवियोजनसम्मिते ॥ ४ ॥
यः कश्चिन्म्रियतां नाम पशुपक्ष्यन्त्यजोऽपि वा ।
स दूतैर्मम नानेयः प्रतिजानेऽस्मि सत्यतः ॥ ५ ॥
इत्युक्त्वा सन्निवेदयोच्चैर्गरुडाय तमान्त्यजम् ।
कृताञ्जलिर्नमस्कृत्य गरुत्मन्तं व्यसर्जयत् ॥ ६ ॥
गरुडः पृष्ठमारोप्य मम धाम निनाय तम् ॥ ७ ॥
श्रीरामचन्द्र उवाच
एवमेतन्मया प्रोक्तमयोध्यावैभवंजनाः ।
इह संवसता नॄणां सर्वथा मत्फलं भवेत् ॥ ८ ॥
किं पुनः शुद्धचित्तानां शास्त्रमार्गानुयायिनाम् ।
वर्णाश्रमाचारवतां मद्भक्तिकलितात्मनाम् ॥ ९ ॥
तस्मादत्रय विमुक्ताः स्थ नात्र कार्या विचारणा ॥ १० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
✤
पञ्चचत्वारिंशोऽध्यायः
श्रीराम उवाच
अथान्यदपि वक्ष्यामि महात्म्यमिह सम्भवम् ।
चैत्रे जन्मोत्सवं कुर्याद्विधिना मम यः सदा ॥ १ ॥
- ३७६ -
नित्यं प्राप्नोति मत्पित्रोः प्रेमानन्दं स मानुषः ।
वैशाखे मासि यः कुर्याच्चन्दनैश्चार्चनं मम ॥ २ ॥
स लभेदूद्भवसंतापशान्तिं नैवात्र संशयः ।
ज्येष्ठे मासि च यः कुर्याच्चन्दनागुरुमिश्रितैः ॥ ३ ॥
जलयन्त्रोद्भवैस्तोयैर्ज्योत्स्नाभिर्मम तोषणम् ।
विषयेषु वितृष्णत्वं स लभेन्नियतं नरः ॥ ४ ॥
आषाढे मांसि यः कुर्याच्छीतलान् व्यजनानिलान् ।
भवतायोद्भवा बाधा तस्य नो जायते क्वचित् ॥ ५ ॥
श्रावणे मासि कुर्वीत हिन्दोलैः परिदोलनम् ।
वामे श्रीसहजानन्दायुक्तस्य मम सर्वदा ॥ ६ ॥
विचित्रवस्त्राभरणैः पवित्रारोपणैस्तथा ।
शाद्वलैर्हरिते कुञ्जे हरिद्रूरुहमञ्जुले ॥ ७ ॥
इन्द्रगोपौघयुक्तायां भुवि वर्षति वारिदे ।
तस्याहं सर्वदा तुष्टः प्रयच्छामि परां मुदम् ॥ ८ ॥
भाद्रे मासि च यः कुर्यात्प्रमोदविपिनस्य मे ।
वनैर्द्वादशभिः साकं यात्रां चैव प्रदक्षिणाम् ॥ ९ ॥
तस्य किं नु फलं वाच्यमश्वमेधसहस्रकैः ।
वाजपेयमखैर्लक्षैः सोमकोटिभिरेव च ॥ १० ॥
न पुण्यं समतां याति जलस्थानावगाहनात् ।
आश्विने शुक्लपक्षे तु दशम्यां विजयोत्सवम् ॥ ११ ॥
यः कुर्यात्तु विधानेन स लभेग्विजयं भुवि ।
शमीपूजनवेलायां रथारूढं तु मां स्मरेत् ॥ १२ ॥
स्वस्तिवाचनमन्त्राद्यैर्जयघोषैश्च भूरिशः ।
प्रस्थापयेन्मां महत्या वेष्टितं कपिसैनया ॥ १३ ॥
भक्तैः प्रतिकृतिं कुर्यात् सर्वामन्यूनभावतः ।
कृत्वा च गोमयैलंङ्कां ध्वंसयेद्गजवाजिभिः ॥ १४ ॥
संस्कुर्याच्च ध्वजपटानुत्तुङ्गास्तरणादिभिः ।
इदं कृत्यं महीपानामावश्यकमुदाहृतम् ॥ १५ ॥
कार्तिके दीपमालाभिरन्नकूतोत्सवेन वा ।
कृत्वा मत्तोषणं मर्त्यः कोटियज्ञफलं लभेत् ॥ १६ ॥
नित्यं रासविलासाद्यै रमयेच्चन्द्रिकामये ।
देवोत्थानविधानेन तत उत्थापयेच्च माम् ॥ १७ ॥
- ३७७ -
कृत्वैवं शारदीं पूजां मत्प्रेम लभते नरः ।
हेमन्ते शिशिरे चैव तूलवस्त्रैर्विशेषतः ॥ १८ ॥
गर्भालियसमावेशैर्हसन्तीभिश्च भूरिशः ।
उष्णोदकैरूष्णभोज्यैर्नानाभोगविधानतः ॥ १९ ॥
कालागुरुप्रधूपैश्च ताम्बूलीवीटिकार्पणैः ।
सेवते मां सदा भक्त्या तस्य पुण्यं न गण्यते ॥ २० ॥
अथ प्राप्ते वसन्ते च वसन्तोत्सवरीतिभिः ।
सेवयेन्मां सदाभक्त्या दोलादिपरिदोलनैः ॥ २१ ॥
एष वो विधिरुद्दिष्ट ऋतुसेवनपूर्वकम् ।
अनेन विधिना नित्यं तोषयेन्मां समाहितः ॥ २२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसम्वादे उत्तरखण्डे सर्वप्रबोधे
पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
✤
षट्चत्वारिंशोऽध्यायः
श्रीराम उवाच
अथ यूथमोध्यास्थाः सर्वे वै मामका जनाः ।
मम लीलायां नित्यायां 'यूयं प्राप्ताः सदैव हि' ॥ १ ॥
प्रारब्धध्वंसमागत्य नेष्ये वः स्वान् स्वधामनि ।
तस्मिन् काले परिप्राप्ते आगमिष्यन्ति मद्गिरा ॥ २ ॥
दिव्यानि चैव भास्वन्ति विमानानि सहस्रशः ।
लक्षशः कोटिशश्चैव ह्यनेकानि समंततः ॥ ३ ॥
तेष्वास्थाय प्रयास्यन्ति मदीये नित्यधामनि ।
पशवः पक्षिणश्चापि तथान्ये नीचजातयः ॥ ४ ॥
कुविन्दकुम्भकाराद्या आचाण्डालमथान्त्यजाः ।
किं पुनर्यूयमात्मस्था वर्णाश्रमसुसंस्थिताः ॥ ५ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्त्रीयोनिसम्भवाः ।
सर्वथैव परिप्राप्ताः परमे मम धामनि ॥ ६ ॥
१. नास्ति - बडौ० ।
४८
- ३७८ -
यूयं रंस्यथ केलिभिः सुखरूपाभिरुच्चकैः ॥ ७ ॥
जना ऊचुः
अयोध्यापि परं धाम तव चेत्यनुशुश्रुम ।
किमर्थमेनां संत्यज्य भवान् यास्यसि तत्पदम् ॥ ८ ॥
श्रीराम उवाच
अहो जना अत्र सदा मम स्थितौ युगप्रवृत्तिर्न भवेदितोऽन्यथा ।
सर्वेऽपि जीवा भुवि मुक्तिभाजो भवेयुरुत्सीदति¹ चैव लोकः ॥ ९ ॥
ततोऽहमव्यक्तमशेषलोकैः स्वं नित्यधामाद्यचित्सुखैकम् ।
अविद्या सर्वजनानुभूतेरगोचरं सम्प्रति सम्प्रयास्ये ॥ १० ॥
चतुष्पथस्थितं वस्तु यथा गृह्णन्ति पामराः ।
अपामराश्च सर्वेऽपि प्रतिबन्धो भवेत् कथम् ॥ ११ ॥
तेन तद्गोपनीयं चेत्सज्जनैरधिकारिभिः ।
केवलं खलु गृह्येत नेतरैः पामरैरपि ॥ १२ ॥
एवं ममाविर्भावस्य काले सर्वजगद्दृशाम् ।
गोचरत्वं भवत्येवेत्यन्तर्धानं करोम्यहम् ॥ १३ ॥
'अनायासाद्विमुच्येत य एवोपव्रजेत माम् ।
प्रकटं हि मदैश्वर्यं कस्य नो भाति दृग्वतः ॥ १४ ॥
तस्मात्सर्वेषु कालेषु यूयं सर्वमपि स्थिताः।
सदा मया सह परं धाम रमण मज्जनाः ॥ १५ ॥
निर्गुणं निष्क्रियं शान्तं निर्विकारं निरञ्जनम् ।
मायासम्बन्धरहितं निर्मलं निष्कलं तथा ॥ १६ ॥
आत्मानन्दाकारयुक्तं सर्वतः पादपाणिकम् ।
सर्वतोऽक्षिश्रुतिघ्राणं सर्वतोमङ्गलालयम् ॥ १७ ॥
सर्वतो भासमानंतद्विरजाया परे तटे ।
त्रिपाद्ब्रह्मासनी कृत्य संस्थितं मत्परं पदम् ॥ १८ ॥
तस्यापि सारभूतं यद् बृहतोऽपि बृहत्तमम् ।
गणितागणितानन्दभेदेन सुनिरूपितम् ॥ १९ ॥
अवशा मे परा लीला तथा क्रीडामि नित्यशः ।
भवन्तोऽपि मया साकं क्रीडिष्यन्ति तदन्तरे ॥ २० ॥
इति नैश्चिन्त्यमालम्ब्य तिष्ठध्वं मामका जनाः ।
तावत्पूर्वोक्तविधिना मम सेवां करिष्यथ ॥ २१ ॥
१. 'रिक्तोभवेत्' टि०-बड़ौ० ।