सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 383, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 383
  • ३७० -
    द्विचत्वारिंशोऽध्यायः
    यम उवाच
    नागान्तक खगाधीश कथं क्रुद्धोऽसि मत्कृते ।
    महाकालानलज्वालाभिर्व्याप्तो हि समंततः ॥ १ ॥
    संवेष्टिता संयमिनी ह्यकस्मात्केन हेतुना ।
    तव पक्षानिलोद्भूता उड्डीयन्ते गृहा मम ॥ २ ॥
    पृथिव्यां शेरते दूतास्तव तुण्डनखक्षताः ।
    पीडिताङ्गा वमन्तस्ते शोणितानि भुवि स्थिताः ॥ ३ ॥
    निःश्वसन्तो ह्यतीवार्ताः कदर्थीकृतविग्रहाः ।
    केचित्पलायिता दिक्षु वेपमाना भयातुराः ॥ ४ ॥
    कृतं संयमनीपुर्याः कदनं केन हेतुना ।
    भवान् हि सर्वदेवानामतीव प्रियकारकः ॥ ५ ॥
    अहं च स्थापितो दण्डाधिकारित्वेन विष्णुना ।
    त्वं च तद्वाहनो नित्यं किमित्येवं चकार ह ॥ ६ ॥
    एतत्तेऽनुचितं तार्क्ष्य यद्विष्णोरधिकारिणाम् ।
    उज्जासनं बलवता त्वया यत् कृतमेव तत् ॥
    एतस्य करणं ब्रूहि प्रच्छामि त्वां खगाधिप ॥ ७ ॥
    तार्क्ष्य उवाच
    शृणु वैवस्वत यतो हेतोस्ते कदनं मया ।
    कृतं च तव दूतानमत्यर्थं परिपीडिनम् ॥ ८ ॥
    पृथिव्यां भारते खण्डे भारते नामनिध्रुवम् ।
    आर्यावर्त्ते पुण्यभूमौ नानातीर्थगुणाश्रये ॥ ९ ॥
    अस्त्ययोध्यानाम पुरी विस्तीर्णा रवियोजनैः ।
    सर्वर्तुगुणशोभाढ्या नानाकल्पद्रुमाकुला ॥ १० ॥
    स्वर्णचिन्तामणिमयी यत्र भूमिविराजते ।
    सुवर्णरत्नसोपानमण्डिता यत्र वापिकाः ॥ ११ ॥
    शोभिताः परितः फुल्लसुवर्णसरसीरुहैः ।
    मकरन्दरसस्त्रावाः स्वच्छशीतामृतोदकाः ॥ १२ ॥
    गुञ्जद्भ्रमरपुञ्जाढ्याः कलहंसकलस्वनाः ।
    सरस्यो यत्र राजन्ते रत्नसोपानशोभिताः ॥ १३ ॥