सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ
  • २५६ -

तडिल्लतामण्डलमञ्जुलानां चलन्महाहेमलतोपमानाम् ।
विलोलचिन्तामणिमालिकानां ज्वलाच्छिखावह्निविदीपितानाम् ॥ ७६२ ॥
मुदान्वितानां नटनोद्धुराणां वाद्यत्पदाम्भोरुहनूपुराणाम् ।
स्विद्यत्तत्तूनां प्रचलाञ्चलानां श्रीरामनृत्योत्सवचञ्चलानाम् ॥ ७६३ ॥
शब्दायमानोद्धुरकिंकिणीनां स्वान्दोलशोभामणिमालिकानाम् ।
चलाधरीयोद्द्रुतधूर्णिकानां विलोलकान्तालकमञ्जरीणाम् ॥ ७६४ ॥
ऊर्ध्वं विलोलद्भुजवल्लरीणामधः समुद्यत्करपङ्कजानाम् ।
तनुत्विषा रञ्जितकाननानां स्वेदाञ्चितेषद्धसिताननानाम् ॥ ७६५ ॥
भ्रमत्तरङ्गाभ्रुकुटीलतानां कटाक्षनिक्षेपभृतेक्षणानाम् ।
तत्थेइतत्थेइरवोन्मदानां भावोद्दुराकुञ्चितनासिकानाम् ॥ ७६६ ॥
कण्ठस्वरैर्लज्जितकोकिलानां वेणीभ्रमैर्भीषितपन्नगीनाम् ।

  • २५७ -
    अन्यां नितम्बयोर्विध्यत्यन्यां वक्षसि कौतुकी ।
    अन्यामाकर्षति कचेष्वन्यां तुदति जङ्घयोः ॥ ७७७ ॥
    अन्यामासज्जति हठादन्यां मृशति कक्षयोः ।
    अन्यां चुम्बति गण्डाभ्यामन्यां चुम्बति नेत्रयोः ॥ ७७८ ॥
    अन्यां नाभिस्थले मृश्य करोति मदनोन्मदाम् ।
    सहजानन्दिनीचित्तमनस्तर्पणहेतवे ॥ ७७९ ॥
    करीव गाहतेऽत्यर्थं तरुणीपद्मिनीवनम् ।
    अन्यां स्खलयति स्वैरमन्यां क्षोभयते भृशम् ॥ ७८० ॥
    अन्यामञ्चलमाकृष्य निवारयति १गच्छतीम् ।
    इत्थमाक्रीडरसिको रेमे प्रतिवधूजनम् ॥ ७८१ ॥
    रममाणस्य तस्याभून्मन्मथः प्रीतिवर्द्धनः ।
    आस्फालितधनुःसूत्रभ्रूयुगैर्हरिणीदृशाम् ॥ ७८२ ॥
    आविद्धो रामहृदयो ममाद रसिकाङ्गणे ।
    एकैककामिनीः कान्तो निन्ये कुञ्जकुटीगृहे ।
    रतवान् विविधैर्बन्धैर्नवैर्निधुवनोत्सवैः ॥ ७८३ ॥
    ताः सम्भोगमृदितवसनालङ्कृतिव्यस्तवेशाः-
    स्विन्ने रङ्गैः पुलकतनुतोत्कम्पभावादियुक्ताः ।
    स्वस्वालीभिः समुपहसिताः सेर्ष्याससूयनेत्रा-
    मन्द मन्दं द्विरदगतयो निर्ययुः केलिकुञ्जात् ॥ ७८४ ॥
    पुनर्भूषाः संविधाय वासोरञ्जनमालिकाः ।
    उपतस्थुर्वल्लभं तं रुचिरैरासमण्डले ॥ ७८५ ॥
    रासोत्सवः पुनरभूत्पूर्णकामकलाभृतः ।
    संगीतभेदविदुषो रामस्याद्भुतकर्मणः ॥ ७८६ ॥
    काश्चिन्मानवतीस्तत्र दूतिसम्प्रेषणादिभिः ।
    रामः प्रसादयामास पादयोः पतनेन च ॥ ७८७ ॥
    काश्चिदुत्कण्ठिता रामाः श्रीकान्तः समतोषयत् ।
    एकान्तकुञ्जलीलाभिरत्यासक्तिप्रदर्शनः ॥ ७८८ ॥
    काश्चित्प्रेमकलहादन्तरायमुपागताः ।
    सम्प्रेषितसखीदूतीर्जगाम रसिकाग्रणीः ॥ ७८९ ॥
    काश्चिद्रूपमहामाना नरनागेन्द्रकन्यकाः ।
    स्वाधीनपतिका भावैर्मानयामास राघवः ॥ ७९० ॥
    १. आर्षप्रयोगः ।
    २२

)
ओषध्ये दीपकप्रायास्तत्रासन् केलिकौतुके ॥ ८०५ ॥ (Wait: 'ओषध्ये' or 'ओषध्यो'? Look at the vowel: 'ओषध्ये' or 'ओषध्यो'? It has 'े' -> 'ओषध्ये'? Wait, look at 'ध्ये': there is an 'े' above it. Wait, or 'ओषध्यो'? No, it looks like 'ओषध्ये'. Wait, 'ओषधयः' -> 'ओषध्यः'? Look: 'ओषध्ये' - wait, is it 'ओषध्यो'? In sandhi, ओषध्यः + दीपकप्रायाः -> ओषध्यो दीपकप्रायाः! But look at the letter: 'ओ' 'ष' 'ध्ये'? There is only one slant stroke above 'ध्य', no 'ा'! So it is printed as 'ओषध्ये'. Let's look very carefully: yes, single matra 'े', 'ओषध्ये'.)

महती सा निशा चासीदखण्डविधुचन्द्रिका ।
मध्यंदिवगतो रेजे शशाङ्कः पूर्णमण्डलः ॥ ८०६ ॥ (Wait: 'मध्यंदिवगतो' or 'मध्यंदिनगतो'?
Look at the letter: 'म' 'ध्यं' 'दि' 'व' 'ग' 'तो' - wait, is it 'व' or '

– २५९ –
कोटिचन्द्रसमुद्भासी एक एव व्यदृश्यत ।
महानिद्रावशं प्राप्ता मोहिताश्च निशाचराः ।
निभृतं राघवो रेमे सम्पन्ने रक्षसां पुरे ॥ ८०७ ॥
आविर्भाववशात् प्रमोदविपिनस्याङ्घ्रिप्रसादात्तथा-
तस्य श्रीरघुपुङ्गवस्य पतितव्यूहैकसंतारिणः ।
आसीदासुरभावतो विरहितं स्थानं विशुद्धं ततः-
केलीभाजनतां गतं कमलया संशोभिवैकुण्ठवत् ॥ ८०८ ॥
त्रैलोक्यं स्थगितं बभूव सहजारामस्य रासोत्सव-
क्रीडायां ववृधे महारसमयप्रेमप्रमोदार्णवः ।
तस्यैवोच्छलिताः कणाः कतिपये व्याप्ता समंतात् पर
ब्रह्मानन्दमयाः सुरासुरवरव्यालात्मविद्योतिषु ॥ ८०९ ॥
स्वस्वस्थानस्थिता देवा असुराश्चापि तादृशाः ।
नरा भुजङ्गमाश्चैव पातालतलवासिनः ॥ ८१० ॥
ज्ञानिनो योगिनश्चापि तथा पश्वादियोनयः ।
निवृत्ताखिलव्यापाराः सर्वेन्द्रियलयं गताः ॥ ८११ ॥
अकस्मात् सम्मुमुदिरे येषां गोत्रभवाश्च ताः ।
इत्येवं परमानन्दः सर्वविस्मारणो नृणाम् ॥ ८१२ ॥
अकस्माद्धृदि संजातास्त्रैलोक्यस्थानवासिनाम् ।
केचिद्द्रुकवरास्तत्र नारदाद्याः सुरर्षयः ॥ ८१३ ॥
प्राप्ताः सुविपुलोत्कण्ठा अन्तरिक्षपथे स्थिताः ।
कौतूहलसमाविष्टा ददृशुः केलिनिर्भरम् ॥ ८१४ ॥
एवं तास्त्रिजगद्रामः कृत्वा पूर्णमनोरथाः ।
तासां मनः समाकृष्य स्वात्मैकविषयं स्थिरम् ॥ ८१५ ॥
केलीसरोवरे स्नात्वा दत्त्वा रतिसुखं महत् ।
अन्योन्यमुक्षणं कृत्वा सुधानिर्मलपाथसा ॥ ८१६ ॥
स्थले केलीवने केलीं विधाय विपुलां विभुः ।
वितीर्य विविधं ताभ्यो मनोऽभिलषितं वरम् ॥ ८१७ ॥
सुप्रभातोन्मुखीं रात्रिं निरीक्ष्य भगवान् स्वयम् ।
सर्वा आज्ञापयामास यथास्थानं निवेशितुम् ॥ ८१८ ॥
काश्चिदत्युत्सुका रामा विलीनास्तस्य रश्मिषु ।
आविर्भावः पुनस्तासां प्रमोदवनकेलये ॥ ८१९ ॥
काश्चित् सीतासखीभूय तस्याः पार्श्वेषु संस्थिताः ।
काश्चिल्लतास्वोषधीषु संलीय निभृतं स्थिताः ॥ ८२० ॥

  • २६० -

अनुज्ञाय प्रियां रामो माल्यवन्तमुपागमत् ।
अथ सुग्रीवमादाय सुमित्रातनयः स्वयम् ।
किष्किन्धायाः संनिवृत्तः कृत्तिकायां महामतिः ॥ ८२१ ॥
चरित्रमिदमद्भुतं किमपि राघवेन्द्रस्य यः-
शृणोति भवमङ्गलं रसविलासरासाभिधम् ।
स याति परमां मुदं जगति भक्तिमासाद्ये-
द्यथा रघुवरः स्वयं भजति वश्यतां तद्‌हृदि ॥ ८२२ ॥
त्रैलोक्यवरकन्यानां समुद्धारं महाद्भुतम् ।
सहजायाश्च प्राकाम्यं भक्तेषु करुणां तथा ॥ ८२३ ॥
लीलां श्रीरामचन्द्रस्य स्वप्रियायाश्च वश्यताम् ।
यो जानाति नरश्चित्तेसन मुह्येत् कदाचन ॥ ८२४ ॥
एकैव परमा लक्ष्मीः प्रमोदवनचन्द्रिका ।
सहजानन्दिनी साक्षाद्रमते रामसंगिनी ॥ ८२५ ॥
सैव श्रीजानकी सीता नित्यमद्भुतकेलिनी ।
[L15

  • २६१ -
    सप्तषष्टितमोऽध्यायः
    श्रीशुक उवाच
    इत्थं शिवस्य वचसा विज्ञाय परमार्थतः ।
    स्वरूपं सहजेशान्या ननन्द खलु गोपिका ॥ १ ॥
    सहजारामयोर्लीलां पश्यन्ती रसरञ्जिता ।
    परमानन्दपाथोधिं विजगाह दिने दिने ॥ २ ॥
    सौगन्धिकगिरौ रम्ये रत्नाद्रौ च मनोरमे ।
    कन्दरासु च शृङ्गेषु दरीगह्वरवेश्मसु ॥ ३ ॥
    कुञ्जेषु च निकुञ्जेषु सर्वर्तुसुखदायिषु ।
    भूरुहेषु च वल्लीषु घनेषु विपिनेषु च ॥ ४ ॥
    प्रासादशिखरेष्वेवं विमलादर्शवेश्मसु ।
    आरामेषु मनोज्ञेषु चतुःशालविराजिषु ॥ ५ ॥
    विप्रकृष्टेषु रम्येषु वनेषु विविधेषु च ।
    लतापिहितवृक्षेषु गुल्मराजीघनाध्वसु ॥ ६ ॥
    संनिकृष्टेषु का
  • २६२ -
    सेतुबन्धविधानेश्च सरसीजलमध्यतः ।
    वापीहिन्दोलनैश्च व सरितां तरणैस्तथा ॥ १५ ॥
    स्निग्धच्छायावस्थितिभिः कल्लोलानिलसेवनैः ।
    चन्दनद्रवसंदोहस्निग्धकर्पूरसेवनैः ॥ १६ ॥
    व्यजनानिलसंस्पर्शैर्जल यन्त्रनिषेवणैः ।
    चन्द्रज्योत्स्नादर्शनैश्च सायं स्नाननिषेवणैः ॥ १७ ॥
    वर्षासु नीपकुञ्जेषु सौरभानिलसेवनैः ।
    घनाम्बुदघटारम्यबलाकातनिदर्शनैः ॥ १८ ॥
    कृष्णाभिसारविधिभिस्तडिल्लेखाकुतूहलैः ।
    इन्द्रचापचमत्कारवीक्षणैर्घनविन्दुभिः ॥ १९ ॥
    रक्तवस्त्रभिरुचिभिः शाद्वलासनकौतुकैः ।
    मयूरनादश्रवणैर्घनधारानिरीक्षणैः ॥ २० ॥
    प्रासादशिखरारोहैश्चानकध्वनिशीलनैः ।
    मल्हाररागबन्धैश्च सरिद्व
  • २६३ -
    तारकागणशोभाभिर्मुनिद्रुमसुकोरकैः ।
    मल्लिकावलिकुसुमविकासोद्गारिसौरभैः ॥ ३० ॥
    जलनैर्मल्यशोभाभिः सरित्पुलिनदर्शनैः ।
    विकासिकासशोभाढ्यदिगनन्तपरिदर्शनैः ॥ ३१ ॥
    तुषारकणसम्पातमौक्तिकक्षणदर्शनैः ।
    नित्यभोजनसंतोषपितृब्राह्मणदर्शनैः ॥ ३२ ॥
    नवदुर्गार्चनोत्साहैर्विजयादशम्युत्सवैः ।
    कार्तिकस्नानमिलितनरनारीसुसङ्गमैः ॥ ३३ ॥
    प्रत्यूषसमयोन्निद्रस्तनसंगतकाहलैः ।
    प्रकाशदीपमालानां शोभादर्शनकौतुकैः ॥ ३४ ॥
    सितमन्दिरशोभाभिर्दीपावलिमहोत्सवैः ।
    द्यूतकेलिविनोदैश्च तुलसीवनपूजनैः ॥ ३५ ॥
    अन्नकूतोत्सवसुखै रत्नाचलसमर्चनैः ।
    सरयूसलिलस्नानसंगतापसरसां गणैः ॥ ३६ ॥
    कुञ्जमन्दिरशोभाभिर्नृत्यगीतविनोदनैः ।
    स्वयं रासविलासैश्च गानतालविधानकैः ॥ ३७ ॥
    हरिप्रबोधकौतुकैः किन्नरीगणनर्तनैः ।
    सर्वतोभद्रपद्मादिमहामण्डलमण्डनैः ॥ ३८ ॥
    पञ्चभीष्मविधानोत्थनृत्यवाद्यादिदर्शनैः ।
    दम्पतिव्रतपूजाभिः सुन्दरीगणदर्शनैः ॥ ३९ ॥
    प्रातःस्नानसमायातस्निग्धगोपिनिभालनैः ।
    अनेकमिश्रसम्प्राप्तपट्टाम्बरधराद्भुतैः ॥ ४० ॥
    गोपीगणैः कृतानेकहावभावनिरीक्षणैः ।
  • २६४ -
    क्रीडन्तौ सहजारामौ जनयामासतुर्मुदम् ।
    त्रैलोक्यमङ्गलभर सुख पुपुषतुश्च तौ ॥ ४५ ॥
    श्यामां चैव तथा रामां समस्नेहेन मोदयन् ।
    रामानुगत एवासौ ववृते केलिकोविदः ॥ ४६ ॥
    मुक्ताहारधरः किरीटतटयोः प्रोद्बुद्धमुक्तासरः-
    क्रीडानाट्यकरः कलापदुतरः कैशोरवेशोत्तरः ।
    वद्धाधोनटकच्छसुन्दरवरः प्रोल्लासिपीताम्बरः-
    श्रीरामः शुशुभेतरां त्रिजगतामेकानुकम्पाकरः ॥ ४७ ॥
    प्रमोद्वनचन्द्रमाः सकलसतकलाभूषितः-
    समस्तसुखितव्रजप्रवणगोपिकासौहृदः ।
    अनेकपरिलालनप्रचयकारिमाङ्गल्यका निकेतन-
    महामणिविजयते रघूणांपतिः ॥ ४८ ॥
    शृङ्गारस्यैष सीमा परममधुरताधोरिणीनां धुरीणः-
    श्रीमान् श्रीमत्प्रियायाः प्रणयरसधुनीस्रोतसिस्नानशीलः ।
    पूर्णानन्दव्रजेन्दुस्त्रिजगति वितरन् भक्तिपीयूषपानं-
    श्रीमन्माङ्गल्यका यास्त नय इतिमुदं राघवेन्द्रो विधत्ते ॥ ४९ ॥
    इत्यहं राघवेन्द्रस्य रामस्य परमा

– २६५ –
अष्टषष्टितमोऽध्यायः
जनक उवाच
तव प्रसादान्मुनिवर्य तत्त्वं ज्ञातं मया सहजायाः परं यत् ।
इयं चिदानन्दघनासनातनी पूर्णा कला योगविदामगोचरा ॥ १ ॥
ब्रह्मतत्त्वं परं यत्तदक्षरं परमं पदम् ।
सर्ववेदान्तवाक्यानां स्थानमेकं निरूपितम् ॥ २ ॥
समासन्यासयोगेन शब्दब्रह्म प्रतिष्ठितम् ।
यत्र दिक्कालसम्बन्धरहिते परमात्मनि ॥ ३ ॥
तदेव सर्वभूतानामन्तर्यामितया स्थितम् ।
अवतारकलानां च स्रोतसामिव तत्सरः ॥ ४ ॥
अनवद्यं पदं पूर्णं मायासम्बन्धवर्जितम् ।
प्रकृतिं पुरुषं चापि यदतीत्य व्यवस्थितम् ॥ ५ ॥
पूर्णं चिदानन्दमयं नभश्च यद्योगीश्वराणां धिषणाभिरस्पृशम् ।
सर्वंकषं साम्येन युतं निरन्तरं क्षरातिगं च प्रतियोगिशून्यम् ॥ ६ ॥
ततः परं तत्पुरुषोत्तमाख्यं परं तत्त्वं सहजारामशब्दितम् ।
अर्वाग् यतो ब्रह्म यदक्षरं तद्दीपस्य यद्वच्च विभा प्रसृत्वरी ॥ ७ ॥
इति त्वदाख्यातगिरां मुनीन्द्र सर्वस्वमेतन्मयका न्यबोधि ।
अतोऽहमग्रेतनयोगसंविदां परिशीलनादस्मि सुमन्थरादरः ॥ ८ ॥
विहाय कर्माणि च तत्त्वसंविदां परिश्रमोत्काश्च हिता उपासाः ।
श्री श्रितोऽस्मि सर्वस्य फलं स्वरूपतः प्रमाणमेकं सहजारामसंस्थम् ॥ ९ ॥
धन्यास्ते भक्तिभावैर्निजहृदि सहसा रामलीलानुभावे
हृष्यन्तो मुक्त्यतीते पथि परमतमानन्दपूर्णे प्रतिष्ठाः ।
रोमाञ्चस्वेदसंस्तम्भननयनजलोद्भावकम्पादियुक्ता
मुक्ताः संसारदुःखैरहमिह सततं दासदासोऽस्मि तेषाम् ॥ १० ॥
येषां रामे सहजासंगयुक्ते श्रीमत्प्रमोदाटविवासहृष्टे ।
नित्यं मनः प्रेमसमाधिमग्नं तेऽसि धन्या यूयमेते मुनीन्द्राः ॥ ११ ॥
इमां चिदानन्दकलां स्वयंभुवं स्वरूपतः श्रीसहजात्मिकामहम् ।
विज्ञाय पूर्णेश्वरतागुणाक्तां धियं किमु स्नेहपथे निवेशये ॥ १२ ॥
ऐश्वर्यमस्याः स्मरतः प्रतिक्षणं कथं नु वात्सल्यरसो भविष्यति ।
इत्यस्मि चिन्ताकुलितोऽधुना मुने त्वयोपदिष्टे निभृते प्रेममार्गे ॥ १३ ॥
३४

  • २६६ -
    श्रीशुक उवाच
    अस्याः काचित् परामाया या लीलाङ्गोपयोगिनी ।
    तयैव विस्मृतैश्वर्यवात्सल्येनु भविष्यसि ॥ १४ ॥
    पुत्रीस्नेहमयी बुद्धि प्राप्य ब्रह्मरसातिगाम् ।
    लीलानुभवानन्दः कृतकृत्यो भविष्यसि ॥ १५ ॥
    अनुग्रहो मयीशस्य रामस्य परमात्मनः ।
    यल्लीलानुभवं दातुमुद्यतोऽसौ भवादृशे ॥ १६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे श्रीशुकजनकसंवादेऽष्टषष्टितमोऽध्यायः ॥ ६८ ॥
    ✤
    एकोनसप्ततितमोऽध्यायः
    लक्ष्मण उवाच
    इत्युदीर्य शुको नाम योगीन्द्रः परमोहभित् ।
    द्योतयन् हरितः कान्त्या जगाम जनकालयात् ॥ १ ॥
    तमनुप्रययुः केचिन्मुनयस्तत्त्वदृष्टयः ।
    आसाकेतपरं धाम व्रजत्येष महामुनिः ।
    आ च शेषालयमधो जगत्कल्याणदायकः ॥ २ ॥
    तदान तात्परिज्ञाय रामतत्त्वं परात्परम् ।
    कृतकृत्योऽभवद्राजा नेमिचन्द्रः समात्मवित् ॥ ३ ॥
    भुवमप्सु समावेश्य तास्तेजसि मरुत्सु तत् ।
    मरुतो व्योमनि व्योम मनस्तत्त्वे प्रवेश्य च ॥ ४ ॥
    मनो बुद्धौ च बुद्धिन्तामहंकृतिगतां स्मरन् ।
    अहंकृतिं स्मरेच्चित्ते चित्तं विज्ञानगं स्मरन् ॥ ५ ॥
    विज्ञानं महति प्राप्य महत् प्रकृतिगं स्मरन् ।
    प्रकृतिं बहिरङ्गायां मायाशक्तौ प्रवेश्य च ॥ ६ ॥
    मायाशक्तिं च पुरुषे पुरुषं चाक्षरे परे ।
    अक्षरं चित्स्वरूपायां सहजायां परात्मनि ॥ ७ ॥
  • २६७ -
    सहजां भावयन् रामे पुरुषोत्तमशब्दिते ।
    परमे ब्रह्मणि सदा पूर्णानन्दे विपश्चिता ॥ ८ ॥
    तद्भावभाविताभावात्सदा तद्भावभावितः ।
    ततः सप्रमोदवनगुहायां निहितं च तत् ॥ ९ ॥
    भावयानः परं ब्रह्म भूयो न व्युदतिष्ठत ।
    गच्छञ्जल्पञ्जगत् पश्यन् बाधिताकारमात्मनि ॥ १० ॥
    कुर्वन् विविधकर्माणि लोकयात्रावहान्यपि ।
    जिघ्रंश्च रसयन्नश्नन् स्पृशन्निन्द्रियगोचरात् ॥ ११ ॥
    न व्यवच्छिद्यत ततो वस्तुनः परमार्थिकात् ।
    निर्दिष्टं यच्छुकेनास्मै सहजानन्दिनीपदम् ॥ १२ ॥
    ध्यानधारणयोगेन यज्ज्ञानेन स्थिरीकृतम् ।
    आत्मनीषच्चिदानन्दसम्पर्कानुमितं बलात् ॥ १३ ॥
    ईक्षाञ्चक्रे तदप्येष प्रकटं दिव्यचक्षुषा ।
    एकदा क्षुधिता बाला मातुस्तन्यपिपासया ॥ १४ ॥
    न गृहीता जवादेत्य मात्रा गौर्यर्चनस्थया ।
    तावज्जनक आगत्य स्वापत्यस्नेहकातरः ॥ १५ ॥
    उत्थाप्यैनां निजाङ्कस्थां कर्तुं समकरोन्मतिम् ।
    तावत्प्रदर्शयामास परमैश्वर्यमात्मनः ॥ १६ ॥
    यत्रानेकरवीन्दुमण्डलचयं वह्नित्रयं दृष्ट्वा
    निन्द्राद्यान्दशदिक्पतींश्च बहुधा ब्रह्मादिकांल्लोकपान् ।
    अन्यान् स्थावरजङ्गमस्थविषयग्रामान् जगच्चाखिलं-
    स्थूलं सूक्ष्ममथो परं च सकलं तस्याः शरीरस्थितम् ॥ १७ ॥
    अपश्यत्तामेव कचन पुरुषं पीतवसनं
    परं सुद्विभुजं धनुर्बाणधरं किरीटिनम् ।
    अलौकिक्या कान्त्या त्रिभुवनपरिव्याप्ततमया
    तपन्तं श्रीरामाह्वयमयमथो तां च महिषीम् ॥ १८ ॥
    कदाचित्पुरुषाकारं स्त्र्याकारं च कदाचन ।
    दृष्ट्वा महो विचित्रं तन्निश्चेतुं नाशकन्नृपः ॥ १९ ॥
    उज्ज्वलोज्ज्वलमत्यर्थं प्रसृत्वरमनन्तकम् ।
    विश्वव्यापकमात्मैकं महस्तदतिनिर्मलम् ॥ २० ॥
    त्रयस्त्रिंशत्कोटिसंख्यत्रिदशालयसंश्रयम् ।
    अपूर्वमपराबाह्यमनन्तरमनश्वरम् ॥ २१ ॥

-भhas a loop. Look at line 12:बभूवास्य-भhas a loop. Look at line 13:बहिःप्रत्ययभाङ्-भhas a loop. Now look at line 23: Does the letter in...र्त्रींhave a loop? Wait! Look atजगदेककर्त्रीं: कर्त्रींhas क, र्, त, ्, र, ी, ं. Then the next word: It isभर्त्रीं! Look at the left side: it is open at top, vertical stroke, loop, horizontal bar, vertical stroke! It looks EXACTLY like भ! Wait, why would it be भर्त्रीं? Because in Sanskrit: भर्त्री = fem. of भर्तृ (sustainer, maintainer, lord)! Vishnu is 'भर्ता' (भर्ता भोक्ता महेश्वरः). Devi is कर्त्री (creator), भर्त्री (sustainer), हर्त्री (destroyer)! "कर्त्री भर्त्री च हर्त्री" is a very standard Shakta/Vaishnava epithet for the Divine Mother! कर्त्री (creates), भर्त्री (nourishes/maintains), हर्त्री (withdraws/destroys). Yes! भर्त्री from भरण (nourishing, sustaining)! And look at the letter: it IS भर्त्रीं

  • २६९ -
    अथवैककृपामात्राद् दृश्यते मे दृशा महः।
    निःसाधनानां स्वीकारे हीदमेव निदर्शनम् ॥ ३७ ॥
    १लक्ष्मण उवाच
    इति स्तुवत एवास्य प्रणिपत्य मुहुर्मुहुः।
    तद्रूपमुपसंजह्रे सहजानुग्रहात्मकम् ॥ ३८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥
    ✤
    सप्ततितमोऽध्यायः
    लक्ष्मण उवाच
    ततस्तां बालवेशेन शोभयन्ती स्वमालयम् ।
    विलोक्य जनको राजा अपत्यस्नेहकातरः ॥ १ ॥
    तत्क्षणाद्विस्मृतैश्वर्यो बभूव प्रीतमानसः ।
    बाल्यक्रीडनकैः सा तु क्रीडमाना स्वमातृभिः ॥ २ ॥
    लाल्यमाना गृहे राज्ञा अङ्कभृशमभूषयत् ।
    शिक्यस्था दोल्यमाना सा तात तातेति भाषती२ ॥ ३ ॥
    उद्वर्तनेन संस्निग्धा साञ्जनाञ्जनबिन्दुभिः ।
    डाकिनीनां दृष्टिदोषादुत्तरारसवैभवात् ॥ ४ ॥
    डाकिनी पूतना या तु कूष्माण्डा भैरवादयः ।
    बालां तामुपसंयातास्तेजसागुः पराहताः ॥ ५ ॥
    इत्थमैश्वर्यकलिता गुणसंदोहभाविता ।
    तयोर्मनसि दम्पत्योः प्रेमपुष्टिं ततान सा ॥ ६ ॥
    तज्जन्मदिवसादेव राज्ञो जनकभूपतेः ।
    मन्दिरं सर्वशोभाढ्यमवर्तत रमालयम् ॥ ७ ॥
    वैकुण्ठमिव भूमिष्ठं जनकस्य पुरं बभौ ।
    भूरभूत् काञ्चनमयी तत्क्षणात् पश्यतां नृणाम् ॥ ८ ॥
    १. नास्ति-बड़ौ० । २. आर्षप्रयोगः ।

कमलेशो घोषवती साक्षादमृतवाहिनी ।
जातरूपमहाकूला जनकस्य पुरे वभौ ॥ ९ ॥
शिवलिङ्गानि दिव्यानि तत्र तत्र चकाशिरे ।
सद्यः पूजयतां नृणां मनसः कामदानि च ॥ १० ॥
श्रीमन्नारायणस्तत्र श्रीरामस्य कलांशकः ।
निवासं तत्र कृतवान् यथा वैकुण्ठगः स्वयम् ॥ ११ ॥
इतः प्रमोदविपिनं जनकस्य पुरं ततः ।
मध्ये ब्रह्मादिदेवानां वासस्थानं बभूव तत् ॥ १२ ॥
सर्वर्तुसुखशोभाढ्यं चन्दनानिलसेवितम् ।
जनकस्य पुरं रम्यमयोध्यासदृशं वभौ ॥ १३ ॥
निवासः सर्वसिद्धानां योगसिद्धेः सदैव तत् ।
जनकेन्द्रपुरं नित्यं तत्क्षणेन व्यरोचत ॥ १४ ॥
सरांसि फुल्लकमलानि नित्यं माद्यन्महाराजहंसीकुलानि ।
रत्नोपहेमोज्ज्वलक्लृप्तपुष्पनिःश्रेणिकाशोभितनिर्मलानि ॥ १५ ॥
वनानि वल्गुस्फुरितच्छदानि संफुल्लपुष्पाणि फलान्वितानि ।
गुञ्जत्प्रमत्तभ्रमरावलीभिर्मुहुः समास्वाद्य मधुश्रवाणि ॥ १६ ॥
देशः स तावन्मिथिलेति संज्ञो मिथः प्रमोदाः खलु यत्र लोकाः ।
नार्यश्च सर्वाः सुभगा रमाभा भास्वन्मणिद्योतितहेमभूषाः ॥ १७ ॥
सीताजनुर्भूरिमहोत्सवेन व्याप्तान्तरा याज्ञवल्क्यादयोऽपि ।
विस्मृत्य चित्तेषु समाधियोगं प्रेमैकमग्ना मुनयो बभूवुः ॥ १८ ॥
स्थले स्थलेऽभूत कमलाविलासो विलासिनीनां मतिविभ्रमेषु ।
वीथीषु यत्रस्फुटहेमयूथीसवर्णभासां प्रमदोत्तमानाम् ॥ १९ ॥
पर्यङ्कपुष्पास्तरणान्वितेषु शुद्धान्तसौधेषु सुमङ्गलानि ।
गीतानि वीणास्वरवादिनीनां स्त्रीणां महासौभगभूषितानाम् ॥ २० ॥
स्खलद्गतीनां मदमन्थराणां मधूत्तमास्वादसुविह्वलानाम् ।
कटाक्षनिक्षेपभुजोन्नतिश्रीवश्या बभूवुः १कमनाप्रियाणाम् ॥ २१ ॥
बाला युवानश्च तथैव वृद्धाः सर्वे जनाः सोत्सवपूर्णचित्ताः ।
सीताजनौ जातमुदो विरेजुर्यथैव साकेतपुराधिवासाः ॥ २२ ॥
कलाकलापाः सहसाऽविरासुर्विलासभूमौ जनकेन्द्रपुत्र्याः ।
दिने दिने शैशवमुत्तरन्ती कैशोरमेषा वयसा प्रपेदे ॥ २३ ॥
१. कमनाः=कामुकाः ।

  • २७१-
    कैशोरमारभ्य रघूत्तमस्य संशृण्वती साथ गुणान् मनोज्ञान् ।
    रोमाञ्चसंदोहचिताङ्गयष्टिः प्रकम्पमाना ददृशे सखीभिः ॥ २४ ॥
    नवं प्रमोदप्रचुरं वयः सा कैशोरमासाद्य विराजमाना ।
    अत्यर्थमादौ सुरभेर्बभूव सपल्लवा काञ्चनवल्लरीव ॥ २५ ॥
    अथास्याश्चरितं वक्ष्ये मुक्तिदानक्रियात्मकम् ।
    ये जीवा वेदशास्त्राणां निन्दका गुरुनिन्दकाः ॥ २६ ॥
    अभ्यागतार्चारहिताः शुद्धकायाश्च पुण्यतः ।
    ते जीवा जानकीजन्मत्युत्पन्नाः कर्मयोगतः ॥ २७ ॥
    वृक्षगुल्मलताुरूपाः पशुपक्ष्यादिरूपिणः ।
    तद्वीक्षणक्षणेनैव धूतपापकदम्बकाः ॥ २८ ॥
    जीवन्मुक्ता बभूवुर्वै येषां मुक्तिश्च नान्यतः ।
    ये जीवाः कामिकाश्चैव यज्ञकर्मपरायणाः ॥ २९ ॥
    शुद्धान्वयोद्भूवा दैवाद्योध्यारामनिन्दकाः ।
    सीमान्तः कर्मनिष्ठानां भक्तिनिष्ठाविदूषकाः ॥ ३० ॥
    सीतोपासननिन्दायां प्रसक्ता भवदूषकाः ।
    तेषामासुरनिष्ठानां जीवानां मूढचेतसाम् ॥ ३१ ॥
    सीताजन्मोद्भूवानां वै वृक्षगुल्मादिरूपिणाम् ।
    पशुपक्ष्यादिदेहानां विमुक्तिर्दर्शनात्तदा ॥ ३२ ॥
    रामेण मोचिता ये न ये न ज्ञानेन मोचिताः ।
    दृढपाशैः कर्मभिर्ये बद्धाः सांसारिकाः जनाः ॥ ३३ ॥
    सीता जन्मप्रसंगेन तांस्तारयति निश्चितम् ।
    इममर्थं पुरस्कृत्य प्रादुर्भूतेयमद्भुता ॥ ३४ ॥
    नान्यथा मोचनं तेषां जानक्या दर्शनं विना ।
    अयमेवानुभावोऽस्या आनन्दिन्याश्चिदाकृतेः ॥ ३५ ॥
    स्वरूपेणैव सामर्थ्यान्मोचयति चेतनान् ।
    दर्शनात् स्पर्शनाल्लापात्पादनिक्षेपणातथा ॥ ३६ ॥
    अङ्गसंगिनो वातात्तारिता बहवस्तया ।
    एतद्धि शैशवं कर्म तस्याः सामर्थ्यसंयुक्तम् ॥ ३७ ॥
    मूढभावानुकरणे मर्यादात्रयलङ्घिता ।
    मूढभावं समुत्तीर्य कैशोरे सा व्यवस्थिता ॥ ३८ ॥
    मुनीनां ज्ञानिनां चित्ते योगिनां च विशेषतः ।
    निजदर्शनमात्रेण प्रेमाणं साव्यवर्घयत् ॥ ३९ ॥

ततः प्रेमप्रभावेण बभूवुर्भक्तिसंयुताः ।
एतत्कौशोरकं कर्म तस्या लीलानुभावनम् ॥ ४० ॥
श्रोतव्यं स्मरणीयं च रामलीलारसाधिकम् ।
अन्यच्चापि वयस्तस्या नित्यलीलाचिदाकृतेः ॥ ४१ ॥
अवस्थारूपनियतं चरित्रैर्जन्मतारकम् ।
लीला गुणाश्चरित्रं च तस्याः संसारतारकम् ॥ ४२ ॥
अस्या जनिस्त्वेतदर्थं विज्ञेयाखिलकोविदैः ।
तारयन्ती जनांस्तांस्तात् स्वलीलारसरञ्जिता ॥ ४३ ॥
ववृधे जानकी गेहे पितुरानन्दकारिणी ।
बाललीलारसं भूयः शीलयन्ती स्वभावतः ॥ ४४ ॥
कैशोरं जुषमाणापि ददृशे बाल्यशालिनी ।
रूपं तस्याः समुद्वीक्ष्य त्रैलोक्यवरयोषिताम् ॥ ४५ ॥
व्यगलत्सौन्दर्यमदः सद्य एव समंततः ।
तन्मायामोहिताः केचिच्चित्ते च कमिरे जनाः ॥ ४६ ॥
रावणस्तां समाकर्ण्य त्रैलोक्येऽनन्यसुन्दरीम् ।
वाञ्छापि महावीरश्चुक्षोभ हृदये स्वके ॥ ४७ ॥
अथो जनकराजेन पणीचक्रे स्वके हृदि ।
य इदं शाम्भवं चापं समाकृष्याधिरोपयेत् ॥ ४८ ॥
स मे कन्यां समुद्वाह्य पाणिग्रहविधानतः ।
लोकोत्तरगुणरामो यास्यते मम मान्यताम् ॥ ४९ ॥
सर्वे वितथसंरम्भा बभूवुश्चापरोपणे ।
[L2

  • २७३ -
    तत्र स्वयंवरे पूर्वं सगतौ बाणरावणौ ।
    भग्नमानौ ततौ भूत्वा हरचापाधिरोहणे ॥
    ययतुः स्वगृहे तौ च श्रीरामासूययान्वितौ ॥ ५५ ॥
    समासाद्य प्रियां रामः स्वयं श्रीपुरुषोत्तमः ।
    जनकस्य गृहे रम्ये मुमोद परया मुदा ॥ ५६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    श्रीशुकजनकसंवादे सीताजन्मोत्सवे सप्ततितमोऽध्यायः ॥ ७० ॥
    पश्चिमखण्डः समाप्तः ॥
    ३५

श्रीमदादिरामायणम्
( भुशुण्डरामायणम् )
उत्तरखण्डः
प्रथमोऽध्यायः
ब्रह्मोवाच
एकदा विबुधाः सर्वे सुखिता रावणे हते ।
मघवन्तं पुरस्कृत्य ब्रह्मलोकमुपाययुः ॥ १ ॥
तत्र गत्वा स्वयं देवं परमेष्ठिनमीश्वरम् ।
रावणस्य वधादेशादूचुः स्वकृतकृत्यताम् ॥ २ ॥
देवा ऊचुः
कृतकृत्याः स्म भगवान् स हतो राक्षसेश्वरः ।
रामेण देवदेवेन १रसिकेन लोकरञ्जिना ॥ ३ ॥
स्वर्गे वयं स्वस्वपदानि२ सर्वे लभेम दुःखं विनिवारितं ततः ।
स्वाहास्वधाकारकृतानि हव्यकव्यानि सस्थामगमन् स्वकीयाम् ॥ ४ ॥
एवं त्रिलोकस्य निवारितं तमस्तत्पापसंज्ञं हरचण्डीवरोत्थम् ।
लङ्काधिराज्ये चाभिषिक्तोः वरेण्यो विभीषणो वैष्णवः स्वस्य भक्तः ॥ ५ ॥
त्रयी च३ धर्मश्च चिरेण नष्टौ संस्थापितौ गोद्विजविप्रभक्तिः ।
स्वीया च भक्तिस्त्रिदशैरप्यलभ्या प्रसादनाम्नोर्महिमा वैष्णवानाम् ॥ ६ ॥
कृतानि कर्माणि तथा विचित्राण्यानन्ददानिस्वेषु दुःखं परेषु ।
तीर्थानि सीताचरणाङ्कितानि विनिर्मितानि स्वपदैरङ्कितानि ॥ ७ ॥
नामानि देवेन सुमङ्गलानि स्फुटीकृतान्यद्भुतपावनानि ।
चाण्डालहूँणोत्खसपुक्कसाद्यैः स्मृतानि सद्यो निजसायुज्यदानि ॥ ८ ॥
कृतानि रामेण नरोत्तमेन पुण्यस्थलानिस्वपदानिभूम्याम् ।
सीतासुमित्रातनयाभ्यां हनूमता युक्तः स्वयं यत्र सदावतिष्ठते ॥ ९ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
२. 'सर्वे' नास्ति-बड़ौ० ।
३. 'च' नास्ति-बड़ौ० ।

  • २७६ -
    विक्रीडितं प्रमुदकाननमध्यगेन माङ्गल्यकासुखितयोः सदने परेण ।
    आभीरबालवनितावधितन्निजस्य वैकुण्ठधाम नयता निशि सुप्तलोकम् ॥ १० ॥
    विक्रीडितं दशरथस्य गृहे तथोच्चैरीशेन दिव्यवपुषा पुरुषोत्तमेन ।
    स्वांशैः समं भरतलक्ष्मणशत्रुसूदैर्देव्या स्वयं कमलया च युतेन नित्यम् ॥ ११ ॥
    तच्चित्रकूटगिरिवर्यचरित्रमीशकः स्तोतुमीष्टइति किं भगवन्नवेत्सि ।
    यत्रार्यपादरजसाशतशः स्थलेषु भक्तिप्रदं प्रतिपदं खलु कोटितीर्थम् ॥ १२ ॥
    यद्दण्डकावनभुवि प्रभुणानुजेन विक्रान्तमेवमितरेषु च काननेषु ।
    तत्तत्र तत्र विपुलं स यशो दधार पुण्याश्रमेषु च महत्कुशलं मुनीनाम् ॥ १३ ॥
    शत्रुहंतश्च जगतां सगणः सवर्गः सद्यः प्रसादसुमुखेन विभीषणश्च ।
    राज्ये सुनिश्चिततरे वचसाभ्यषिञ्चद्दूरीकृतश्च दयिताविरहोऽविषह्यः ॥ १४ ॥
    भूर्यश्वमेधमखमङ्गलदीक्षितेन यूपाङ्किताः सरयुकूलभुवः कृताश्च ।
    अभ्युद्धताश्च भवसागरतो मनुष्या आपामरा अपिशठा अधिकारहीनाः ॥ १५ ॥
    रामेति नाम रसनेन सकृद्रमन्तः पक्ष्यन्त्यजा अपिजयन्त्युररीकृताश्च ।
    जाता वयं च कृतकार्यसमस्तकृत्या भूमिः सनाथमभवद्वहुलक्ष्यवल्लिः ॥ १६ ॥
    को वर्णयेदपि सहस्रमुखो गिरीशो नामानि तस्य चरितानि गुणांश्च भर्तुः ।
    नायं प्रभुः स्पृहयते भुवि राज्यलक्ष्मी वैकुण्ठनाथप्रतिपूजितपादपद्मः ॥ १७ ॥
    किं तु स्वभक्तजनदुःख निवारणाय सम्भूय भूरि वितनोति शुभं चरित्रम् ।
    सम्पन्नमद्य तदशेषमनन्तकीर्त्तेर्भूयोऽद्भुतैर्भुजबलेः प्रबलैर्निजांशैः ॥ १८ ॥
    स्वं धाम सर्वजनगुह्यमतोऽभ्युपैतु देवः परात्परवरः परमस्त्रधीशः ।
    जातं सदा भुवनमङ्गलमीशितुश्च ते तेंऽशकाः स्वनिलयेषु वहन्तु राज्यम् ॥
    ये येऽधुना समुदिताः पुरुषे परस्मिन् स्वयं भगवति स्पृहणीयमूर्त्तौ ॥ १९ ॥
    नारायणो हरो ब्रह्मा शक्राद्यास्त्रिदिवालयाः ।
    सहस्रशीर्षा भगवान् महानायणस्तथा ॥ २० ॥
    सर्वेषामंशव्यूहो रामे लीनोऽद्य तिष्ठति ।
    न च विद्योतितुं शक्तो दिवसे तेजसामिव ॥ २१ ॥
    तस्मात्स्वयं स भगवान् निजधामैतु सम्प्रति ॥
    अधर्षितप्रभावाश्च राजन्तु दिवि देवताः ॥ २२ ॥
    इत्थं निगद्य विरतेषु सुरेश्वरेषु देवोऽब्रवीदखिलधातृपतिः सुरौघान् ।
    स्वयं सुशीलाचरितो भगवांस्तदर्थमभ्यर्थनीय इव वेत्ति च सर्वमेषः ॥ २३ ॥
    कालात्मना कलयते सकलं सदीश एतस्य नाविदितमग्रविधेयकार्यम् ॥
    प्रार्थ्यस्तथापि भजनीयगुणः स एतत्कालेन कालकलनः किलकालकालः ॥ २४ ॥
    इत्युक्त्वा सकलान् देवान् विरंचिर्विससर्ज ह ।
    भगवन्तं कालमीशं सस्मार च महामतिः ॥ २५ ॥