आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
२० । आयुर्वेदीयग्रन्थमाला । [ अध्यायः
तदनु दहनतोये काञ्जिके खेदितः स्यात्
सपटुमरिचशिग्रुयुक्तः श्रीरसेन्द्रः ॥ १३८ ॥
एतावदप्यशक्तः कर्तुं सूतस्य शोधनं मनुजः ।
स्वेदनमर्दनमूर्ध्वं पातनमेतत्त्रयं कुर्यात् ॥ १३९ ॥
रसरत्नाकरे शोधनं यथा—
अथातः संप्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टकारजनीचूर्णैः षोडशांशै रसस्य तु ॥ १४० ॥
मर्दयेत्तप्तखल्वे हि जम्बीरोत्थद्रवैर्दिनम् ।
खल्वं लोहमयं वाऽथ पाषाणोत्थमथापि वा ॥ १४१ ॥
काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ १४२ ॥
राजवृक्षो मलं हन्ति चित्रको वह्निदूषणम् ।
चाञ्चल्यं कृष्णधत्तूरस्त्रिफला विषनाशनम् ॥ १४३ ॥
कटुत्रयं गिरि हन्ति असह्याग्निं त्रिकण्टकः ।
प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ १४४ ॥
सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा यथाक्रमम् ।
प्रत्येकं प्रत्यहं यत्नात् सप्तरात्रं विमर्दयेत् ॥ १४५ ॥
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।
जायते शुद्धसूतोऽयं योजयेद्रसकर्मणि ॥ १४६ ॥
तप्तखल्वलक्षणम् ।—
अजाशकृत्तुषाग्निं च खनयित्वा भुवि क्षिपेत् ।
तस्योपरिस्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ १४७ ॥
अथान्यन्मतम्—
भूगर्तेऽजशकृत्तुषानलपुटे संस्थापिते लोहजे
खल्वे जम्भजकाञ्जिकेन बलिना सार्धं दशांशेन सः ।
१ 'विशोधयेत्' क. । २ 'जम्भल' क. । ३ 'रसांशेन' क. ।
१.] आयुर्वेदप्रकाशः । २१
संमर्द्यः परिपात्य यन्त्रविधिना निष्कासितः सप्तधा ।
शुद्धः पारदमर्दकैर्निगदितो वैद्यैरवैद्यैर्नरैः ॥ १४८ ॥
अथान्यन्मतम्—
श्रीखण्डं देवदारुं च काकतुण्डीजयाद्रवम् ।
कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ॥ १४९ ॥
दिनैकं पातयेत्पात्रे तच्छुद्धं विनियोजयेत् ।
अथान्यत्सिद्धमतम्—
कुमार्या च निशाचूर्णैर्दिनैकं मर्दयेद्रसम् ॥ १५० ॥
पातयेत्पातनायन्त्रे शुद्धो भवति पारदः ।
अथान्यत्सिद्धमतम्—
एकेन लशुनेनापि शुद्धो भवति पारदः ॥ १५१ ॥
तप्तखल्वे मासमेकं पिष्टो लवणसंयुतः ।
अथवा ग्राहयेत्सूतं दरदात्तन्निगद्यते ॥ १५२ ॥
कञ्चुकैर्नागवङ्गाद्यैर्विमुक्तो रसकर्मणि ।
हिङ्गुलाकृष्टसूतस्तु जीर्णगन्धसमो गुणैः ॥ १५३ ॥
निम्बपत्ररसैः पेष्यं हिङ्गुलं याममात्रकम् ।
जम्भीराणां द्रवैर्वाऽथ पात्यं पातनयन्त्रके ॥ १५४ ॥
तं सूतं योजयेत्पश्चात्सप्तकञ्चुकवर्जितम् ।
इत्येवं शुद्धमाख्यातं यथेष्टैकं प्रकारयेत् ॥ १५५ ॥
अन्यत्रापि—
अथवा दरदाकृष्टं स्विन्नं लवणाम्बुभिस्तु दोलायाम् ।
रसमादाय यथेच्छं कर्तव्यस्तेन भेषजो योगः ॥ १५६ ॥
निम्बूरसेन संपिष्टात् प्रहरं दरदाद्दृढम् ।
ऊर्ध्वपातनयन्त्रेण ग्राह्यो निर्मलो रसः ॥ १५७ ॥
इति सुगमशोधनम् ॥
१ ‘पारदकर्मठैः’ क. । २ ‘पातयेत्पश्चात्’ क. ।
२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथैवं शोधितस्य मुखकरणमुक्तं तन्त्रान्तरे ।—
सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः सोषणकैस्त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनुः सुवर्णमुखानयं खादति सर्वधातून् ॥
अन्यन्मतम् ।—
अथ पङ्कबिन्दुकीयैश्च रसो मर्द्यस्त्रिवासरम् ।
लवणाम्लैर्मुखं तस्य जायते ग्रांसलोलुपम् ॥ १५९ ॥
‘अथवा बिन्दुलीकीटैः’ इत्यपि पाठान्तरम् ।
शार्ङ्गधरोऽपि—
कालकूतो वत्सनाभः शृङ्गीकश्च प्रदीपनः ।
हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ॥ १६० ॥
सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ।
अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः ॥ १६१ ॥
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ।
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ॥ १६२ ॥
मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ।
अथवा त्रिकटु क्षारौ राजी लवणपञ्चकम् ॥ १६३ ॥
रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः ।
समांशैः पारदादेतैर्जम्बीरोत्थद्रवेण च ॥ १६४ ॥
निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् ।
अहोरात्रत्रयेण स्याद्रसे धातुचरं मुखम् ॥ १६५ ॥
वस्तुतस्तु दीपनस्यैवापरपर्यायो मुखकरणमिति न पृथक्
संस्कारः, तत्साधकान्यूनविंशतिकर्माणीति नियमभङ्गात् ॥
अथैवं संशुद्धरसे आदौ गन्धकजारणा । शिवागमे—
अजीर्णं तु अबीजं तु सूतकं यस्तु घातयेत् ।
ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ! ॥ १६६ ॥
१ ‘धातुघस्मरम्’ ख. । २ ‘त्वरन्’ क. ।
१. ] आयुर्वेदप्रकाशः । २३
अन्यत्रापि—
गुरुशास्त्रे परित्यज्य विना जारितगन्धकात् ।
रसं निर्माति दुर्मेधाः शपेत्तं परमेश्वरः ॥ १६७ ॥
तत्र गन्धकजारणा बहिर्धूमान्तर्धूमभेदेन द्विविधा । आद्या
यथा—‘तत्र षड्गुणगन्धकजारणक्रिया साधीयसी निगद्यते’
इत्युक्तं प्रागेव ॥
रसगुणबलिजारणं विनाऽयं
न खलु रुजां हरणक्षमो रसेन्द्रः ॥
न जलदकलधौतपाकहीनः
स्पृशति रसायनतामिति प्रतिज्ञा ॥ १६८ ॥
तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते । यथा—निरवधिनि-
ष्पीडितमृद्वस्त्रादिपरिलिप्तामतिकठिनकाचघटीमग्रे वक्ष्यमाण-
प्रकारां रसगर्भिणीमधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायामनुरूप-
स्थालिकायामारोप्य छिद्रस्य परितो द्वित्र्यङ्गुलिमितेन लवणेन
निरन्तरालीकरणपुरःसरं सिकताभिरापूर्य वर्धमानकमारोपणीयः;
क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया
पचनीयमित्येकं यन्त्रं; हस्तैकमात्रप्रमाणभूगर्भान्तर्निखातां
प्रागुक्तकाचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषी-
भाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदन-
विवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्य-
न्यद्यन्त्रम् । ‘यन्त्रमध्ये तु भूधरः’ इति त्रिविक्रमः । ‘कूर्मयन्त्रे
रसे गन्धं षड्गुणं जारयेद्बुधः’ इत्यन्ये । अत्र पक्षे राग-
स्तथा न स्यात्, तेनादौ त्रिगुणं जारयित्वा शेषः कच्छपि-
कोदरे देयः, तदा रागः साधुः स्यात् । अत्र कज्जलिमन्तरेण
केवलगन्धकमपि साम्येन जारयन्ति ॥
१ प्राग्वत्काचघटी’ ख. ।
२४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथ रससिन्दूरादिष्वनुभूतगन्धकजारणाप्रकारमाह ।—
कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं
विज्ञाय ज्वलनं क्रमेण सिकतायन्त्रे शनैः पाचयेत् ।
वारंवारमनेन १वृद्धिविधिना गन्धक्षये सिद्धये
सिन्दूराद्युदितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥
अत्र सप्तमृत्कर्पटैः समुद्रां कूपिकां कृत्वा वालुकायन्त्रे प्रहर-
चतुष्टयमग्निं दद्यात्, यथाद्रव्यं वा पुनःपुनरेवं पाकं कुर्यात्,
कूपिकायन्त्रं दृढं न भवेत्तदा पुनर्नवीनं संपादयेत्, यदि रस-
सिन्दूरं स्यात्तदोर्ध्वपातनेन हिङ्गुलवन्निष्कासयेदित्येके । अन्ये-
ऽपि गन्धकजारणप्रकारा यत्राध्याये द्रष्टव्याः । आरोटकम्-
न्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि सिन्दूररसः संपाद्यः ।
आरोटकशब्दस्तु शुद्धपर्यायवाचकः ॥
अन्यच्च—
त्रिगुणमिह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् ।
रसगुणवलिभिर्विधाय पिष्टिं रचय निरन्तरमम्बुभिः कुमार्याः॥
इति कज्जलीकरणम् ।
आषड्गुणमधरोत्तरसमादिवलिजारणेन योज्योऽयं योगः ।
पिष्टी पात्या कजलिकार्थं जारणार्थं च । प्रकारोऽयमधोयन्त्रे-
णैव सिध्यति, न पुनरूर्ध्वयन्त्रेणेति कज्जली ॥
काचमृत्तिकयोः कुपी हेम्नोऽयस्तारयोरपि ।
कीलालायःकृतो लेपः खटिकालवणाधिकः ॥ १७० ॥
अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वान्यपि जारयन्ति ।
यथेच्छमच्छैः स्वमनोविचारैर्विचक्षणाः पल्लवयन्तु भूयः ॥१७१
एतन्त्रिनेत्रादिप्रयोगविषयं न
१. ] आयुर्वेदप्रकाशः । २५
अन्तर्धूमविपाचितषड्गुणगन्धेन जारितः सूतः ।
स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ १७३ ॥
रसरत्नाकरे ।—
जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ।
सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ॥ १७४ ॥
एतत्प्रकारस्तु तत्रैव द्रष्टव्यः; प्राधान्यं षड्गुणस्य सर्वसं-
मतम् ॥
अथ षड्गुणगन्धकजारणायां कच्छपयन्त्रं यथा—
आकण्ठं कलशं भूमौ निखाय जलसंभृतम् ।
शरावस्तन्मुखे स्थाप्यो मध्ये छिद्रसमन्वितः ॥ १७५ ॥
नीरावियोगिनीं तत्र छिद्रे काचविलेपिताम् ।
मृन्मूषां स्थापयेत्तस्यामूर्ध्वाधस्तुल्यगन्धकम् ॥ १७६ ॥
रसं निक्षिप्य तस्योर्ध्वं शरावेण विमुद्रयेत् ।
वन्योपलानि तस्योर्ध्वं ज्वालयेद्गुरुमार्गतः ॥ १७७ ॥
स्वाङ्गशीतं समुद्धृत्य पुनस्तुर्यांशगन्धकम् ।
दत्त्वा पूर्वक्रमेणैव जारयेत् षड्गुणं बलिम् ॥ १७८ ॥ इति ॥
अथान्यप्रकारः ।—
सूते गन्धं रसैकांशं निक्षिप्य मृदुखल्वके ।
तावत्संकुट्टयेत्पिण्डं भवेद्वा ताम्रपात्रके ॥ १७९ ॥
तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तल्लोहसंपुटे ।
पुटयेद्भूधरे यन्त्रे यावज्जीर्यति गन्धकः ॥ १८० ॥
एवं पुनः पुनर्गन्धं दद्यादाषड्गुणं बुधः ॥ १८१ ॥ इति ॥
अथ कच्छपयन्त्रेण गन्धकजारणमाह शार्ङ्गधरः—
मृत्कुण्डे प्रक्षिपेन्नींर तन्मध्ये च शरावकम् ।
महत्कुण्डपिधानाभं मध्ये मेखलया युतम् ॥ १८२ ॥
१ 'समगुणे' ख. ।
३
२६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् ।
रसस्योपरि गन्धस्य चूर्णं दद्यात्समांशकम् ॥ १८३ ॥
दत्त्वोपरि शरावं च भस्ममुद्रां प्रदापयेत् ।
तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः ॥ १८४ ॥
एवं पुनः पुनर्गन्धं षड्गुणं जारयेद्बुधः ।
गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकार्यकृत् ॥१८५॥इति॥
रसरत्नाकरे—
संस्थाप्य गोमयं भूमौ पक्कमूषां तथोपरि ।
तन्मध्ये कटुतुम्बीयुत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १८६ ॥
काकमाचीद्रवो देयस्तैलतुल्यः पुनःपुनः।
गन्धकं व्रीहिमात्रं च क्षिप्त्वा तां च निरोधयेत् ॥१८७॥
(१तत्पृष्ठे श्रावकं देयं पूर्णं वा वह्निखर्परम् ।
स्वाङ्गशीतलतां ज्ञात्वा जीर्णतैलं च गन्धकम् ।
काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥ १८८ ॥)
मूषाधो गोमयं सान्द्रं दत्त्वा चोर्ध्वं च पावकम् ।
षड्गुणं गन्धकं जार्य सूतस्यैवं मुखं भवेत् ॥ १८९ ॥
इत्याद्यजारणम् ॥
अथान्त्यं यथा—
सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटितेऽल्पभाण्डे ।
तैलावशेषं च रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः १९०
आषड्गुणं गन्धकमल्पमल्पं क्षिपेद्रसो जीर्णबलिर्बलीयान् ।
रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ १९१ ॥
इति गन्धकजारणम् ॥
१. अयं पाठः ख. पुस्तके नोपलभ्यते.
१. ] आयुर्वेदप्रकाशः । २७
अथ स्वर्णजारणम् ।
तदुक्तं—
गन्धकजारणमादौ कुर्यादथ जारणं सुवर्णस्य ।
जलधरसत्त्वस्य ततो जारणमथ सर्वलोहानाम् ॥ १९२ ॥
अथ तदुपयोगिविडकथनम् । काञ्चनादिग्रसनतीव्रबुभुक्षा-
कराणि द्रव्याणि विडानि कथ्यन्ते । यथा—
वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा ।
विलिप्य गोविशाल्पाग्नौ पुटितं तत्र शोषितम् ॥ १९३ ॥
त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादिवज्रसत्त्वादिकं क्षणात् ॥ १९४ ॥
मूर्च्छाध्यायोक्तषड्गुणवलिजीर्णपिष्टिकोत्थितरसः खल्वेऽ-
त्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्य-
प्रकारः। एतद्वयमपि कृत्वा व्यवहरन्त्यन्ये । अथान्ये विडाः—
सतुत्थं टङ्कणं सर्जिः पटु ताम्रे त्र्यहोषितम् ।
काञ्जिकं भावितं तेन गन्धाद्यं चरति क्षणात् ॥ १९५ ॥
बिडे सकाञ्जिके क्षिप्तो रसः स्याद्ग्रासलालसः ।
ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ १९६ ॥
अथान्यप्रकारः ।—
शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजद्रावैर्द्दिनैकं धूमसारकम् ॥ १९७ ॥
सौवर्चलमजामूत्रैर्भाव्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्य दिनैकं नरमूर्तके ॥ १९८ ॥
खर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैर्भाव्यं पृथग्यामचतुष्टयम् ॥ १९९ ॥
२८ | आयुर्वेदीयग्रन्थमाला। [अध्यायः
निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् ।
सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥ २०० ॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः ।
तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वडवानलः ॥ २०१ ॥
अनेन मर्दितः सूतः संस्थितस्तप्तखल्वके ।
स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ २०२ ॥
इति वडवानलो बिडः ॥
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् ।
वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् ।
शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ २०३ ॥
इति सिद्धलक्ष्मीश्वरतन्त्रोक्तो बिडः ॥
एवं बिडान्तराण्यपि तन्त्रान्तरादनुसर्तव्यानि। इति बिडकथनम्॥
चतुःषष्ट्यंशकं हेमपत्रं मायूरमायुना ।
विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् ।
दिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ॥ २०४ ॥
शनैः संस्वेदयेद्दर्जे बद्ध्वा सपटुकाञ्जिके ।
भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥ २०५ ॥
अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि ।
द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत् ॥ २०६ ॥
रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः ।
चूलिकालवणं गन्धमभावे शिखिपित्ततः ॥ २०७ ॥
इति स्वर्णरूप्यादिसर्वसत्त्वजारणविधिः ॥
अथ तप्तखल्वलक्षणम् ।—
अजाशकृत्तुषाग्निं च खातयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितो लोहखल्वः स तप्तखल्वकः ॥ २०८ ॥
इति तप्तखल्वलक्षणम् ॥
१. ] आयुर्वेदप्रकाशः । २१
अथ सिद्धमते दोलायन्त्रेण हेमजारणं यथा—
सग्रासं पञ्चषड्भागैर्यवक्षारैर्विमर्दयेत् ॥
सूतं तत्षोडशांशेन गन्धेनाष्टांशकेन वा ॥ २०९ ॥
ततो विमर्द्य जम्बीररसे वा काञ्जिकेऽथवा ।
दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम् ॥ २१० ॥
दिनत्रयं वा जीर्णावधि दोलापाको विधातव्य इति भावः ॥
इति दोलाजारणम् ॥
अथान्यत्सिद्धमते कच्छपयन्त्रेण काञ्चनग्रसनं, यथा—
शश्वद्धृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता ।
पक्कमूषा जले तस्यां रसोऽष्टांशविडावृतः ॥ २११ ॥
संरुद्धो लोहपात्र्याऽथ मुद्रितो दृढमुद्रया ।
वालुकां तदुपर्यष्टाङ्गुलमानां विनिक्षिपेत् ॥ २१२ ॥
हठात्तदुपरि ध्मातो रसस्तद्गर्भसंस्थितः ।
मायूरमायुना लिप्तं काञ्चनं ग्रसति ध्रुवम् ॥ २१३ ॥
इति कच्छपयन्त्रम् ॥
उक्तं च—
सच्छिद्रं सलिलापूर्णभाण्डवक्त्रे शरावकम् ।
दत्त्वा छिद्रे पक्कमूषा देया नीरावियोगिनि ।
तस्यां विडावृतः सूतो देयो लोहावृते मुखे ॥ २१४ ॥
दत्त्वा वालुकामुपरि मुद्रां दत्त्वा शनैः शनैः ।
ध्मातो ध्मातो ग्रसत्येव काञ्चनं सूक्ष्मतां गतम् ॥ २१५ ॥
खल्पं सपित्तताप्याक्तं शनैर्देयं समावधि ।
देहार्थं, धातुवादार्थं प्रयच्छन्त्यल्पबुद्धयः ॥ २१६ ॥
इत्यपि कच्छपयन्त्रम् ॥
१ 'काञ्चनकरणं' ख. ।
३० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथ मतान्तरं यथा—
कुण्डाम्भसि लोहमये सबिडं सग्रासमीशजं पात्रे ।
अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥२१७
इयतैव रसायनतात्पर्यं पर्यवसति, किंतु वादस्य न प्राधान्यम् ॥
इति हेमजारणा ॥
अथ संप्रत्युभयप्राधान्येन जारणा यथा, तत्र घनसत्त्वजा-
रणम् । यत उक्तं—
घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ २१८ ॥
मुक्त्वैकमभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ २१९ ॥
रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः ।
तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥ २२० ॥
त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि ।
चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूरारम्लैः ॥ २२१
क्षितिखगः कासीसम् । अम्लाभावे पूर्वसाधितकाञ्जिक-
मपि ज्ञेयम् । अन्यच्च—
अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ २२२ ॥
इत्यभ्रकसत्त्वजारणा ॥
अथ गर्भद्रुतिः ।
व्योमसत्त्वसमांशेन ताप्यसत्त्वेन संयुतम् ।
साकल्येन चरेद्देवी गर्भद्रावी भवेद्रसः ॥ २२३ ॥
एवं हेमताराद्यादयः खखरिपुणा निर्व्यूढाः प्रयोजनमव-
लोक्य प्रयोज्याः । गर्भद्रुतिमन्तरेण जारणैव न स्यात् ।
१.] आयुर्वेदप्रकाशः । ३१
अतस्तल्लक्षणमाह—वह्निव्यतिरेकेऽपि रसग्रासीकृतानां (लो-
हानां) द्रवत्वं गर्भद्रुतिः ॥
बीजानां संस्कारः कर्तव्यस्तार्प्यसत्त्वसंयोगात् ।
येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥ २२४ ॥
शिलया निहतं नागं ताप्यं वा सिन्धुना हतम् ।
ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ २२५ ॥
अथ दोलाजारणम् ।—
षडम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते ।
बहिश्च बद्धे वस्त्रेण भूर्जे ग्रासनिवेशितम् ॥ २२६ ॥
क्षारारनालमूत्रेषु स्वेदयेत्रिदिनं भिषक् ।
क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ २२७ ॥
इति गर्भद्रुतिः ॥
अथ ग्रासस्य चारणप्रमाणम् ।
चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः ।
तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ २२८ ॥
चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः ।
जलौकावद्द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ २२९ ॥
ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ २३० ॥
अन्यत्तु दुर्जरत्वान्न लिखितम् । भगवद्गोविन्दपादास्तु
कलांशमेव ग्रासं लिखन्ति । यथा—
पञ्चभिरेवं ग्रासैर्घनसत्त्वं जारयित्वाऽऽदौ ।
गर्भद्रावे निपुणो जरयति बीजं कलांशेन ॥ २३१ ॥
१ 'कोऽपि तादृशः प्रथमम्' इति रसहृदये पाठः । २ 'रसराजस्याम्ल्यो-
गेन' ३ दण्डधारी भवेत् वस्त्रान्न क्षरतीत्यर्थः ।
३२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
तन्मते चतुःषष्टिश्चत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥
अथ रञ्जनम् ।
तारकर्मण्यस्य न तथा प्रयोगो दृश्यते ॥
केवलं निर्मलं ताम्रं वापितं दरदेन तु ।
कुरुते त्रिगुणं जीर्णं लाक्षारसानिभं रसम् ॥ २३२ ॥
गन्धकेन हतं नागं जारयेत्कमलोदरे ।
एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥ २३३ ॥
कमलोदरे ताम्रे । एतत्तु नागसंबंधान्न रसायनकर्मणि ।
किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रोत्तारणादनु तद्बीजं
समजीर्णं सत् तन्नेत्रेणैव रञ्जयति ॥
कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन ।
दरदनिहतासिना वा निर्व्यूढं हेम तद्बीजम् ॥ २३४ ॥
.......................वलिना व्यूढं केवलार्कमपि ॥
[L1
१.] आयुर्वेदप्रकाशः। ३३
वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु ।
एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥ २३८ ॥
अथ हेमबीजम्—
नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च ।
प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥ २३९ ॥
माक्षिकेण हतं ताम्रं तारं वा रञ्जयेन्मुहुः ।
तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥ २४० ॥
बीजमेतद्वरं श्रेष्ठं नागबीजं प्रकीर्तितम् ।
समचारितमात्रेण सहस्रांशेन विध्यति ॥ २४१ ॥
अथ रञ्जनार्थं सारणार्थं च तैलम् ।—
मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् ।
करवीरं देवदारु सरलो रजनीद्वयम् ॥ २४२ ॥
अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु ।
तैलं विपाचयेत्तेन कुर्याद्बीजादिरञ्जनम् ॥ २४३ ॥
द्विगुणं रक्तपुष्पाणां रक्तपीतगणस्य च ।
क्वाथं, चतुर्गुणं क्षीरं, तैलमेकं सुरेश्वरि ॥ २४४ ॥
ज्योतिष्मतीकरञ्जाक्षकडुतुम्बीसमुद्भवम् ।
पाटलाकाकतुण्ड्यम्बुमहाराष्ट्रीरसैः पृथक् ॥ २४५ ॥
भेकशूकरमेषाहिमत्स्यकूर्मजलौकसाम् ।
वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ २४६ ॥
भूलतामलमाक्षीकद्वन्द्वमेलापकौषधैः ।
पाचितं गालितं चैव सारणातैलमुच्यते ॥ २४७ ॥
अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् । अथ द्वन्द्वमेलापकौ-
षधानि—'ऊर्णातङ्कणगिरिजतुमहिषीकर्णाक्षिमलशक्रगोपकर्क-
टकाः' इति द्वन्द्वमेलापकौषधानि ॥
३४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथाऽपरम्—
यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः ।
रसं चतुर्गुणं योज्यं कङ्गुणीतैलमध्यतः ॥ २४८ ॥
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
द्रावितं तारबीजं तदेकविंशतिवारकम् ।
रञ्जितं जायते सम्यग्रसराजस्य रञ्जनम् ॥ २४९ ॥
अन्यच्च—
कुटिले बलमत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले नित्यं¹ प्रशंसन्ति ॥ २५० ॥
बलमास्तेऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धस्तु सारलोहे क्रमणं²मथ नागवङ्गगतम् ॥ २५१ ॥
क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ २५२ ॥
तदपि च दरदेन हतं हत्वा वा माक्षिकेण रविसहितम् ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ २५३ ॥
घनवदभ्रकवत् ॥
सर्वैरेभिर्लोहैर्माक्षिक³मृदितैर्द्रुतैस्तथा गर्भे ।
बिडयोगेन च जीर्णे⁴ रसराजो बन्धमुपयाति ॥ २५४ ॥
निर्बीजे⁵ समजीर्णे पादोने षोडशांशतया ।
अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥ २५५ ॥
समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च; इतो
न्यूनजीर्णस्य पत्रलेपाधिकार एव । यथा—
१ 'शंसन्ति धातुविदः' इति रसहृदये पाठः । २ 'सारणमथ नागवङ्गाभ्यां'
इति रसहृदये पाठः । ३ 'माक्षिकनिहतैः' इति रसहृदये पाठः । ४ 'जीर्णैः'
जीर्णो' ख. । ५ 'निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन । अर्धेन पादयोगं
पादेनैकेन तुल्यकनकं च ॥' इति रसहृदये पाठः ।
१. ] आयुर्वेदप्रकाशः । ३५
अत्यम्लितमुद्वर्तिततारारिष्टादिपत्रमतिशुद्धम् ।
आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥ २५६
पुटः प्रायेण चूलिकाधस्तादस्य ॥
अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् ।
क्षितिखगषड्रक्तमृदा वर्णपुटोऽयं ततो देयः ॥ २५७ ॥
अर्धेनेत्युपलक्षणम् । क्षितिखगः कासीसम् ॥ अन्यच्च—
रज्जुभिर्भेकवङ्गेभैः स्तम्भयोः सारलोहयोः ।
बध्यते रसवेतण्डो युक्त्या श्रीगुरुदत्तया ॥ २५८ ॥
शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् ।
कीलालायःकृतो योगः खटिकालेपनाधिकः ॥ २५९ ॥
मण्डूकपारदशिलाबलयः समानाः
संमर्दिताः क्षितिविलेशयमन्त्रिजिव्हैः ।
यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन
स्वल्पैर्दिनैरिह पतन्ति न विस्मयध्वम् ॥ २६० ॥
लोहं गन्धं टङ्कणं आमयित्वा तेनोन्मिश्रं भेकमावर्तयेत्तु ।
तालं कृत्वा तुर्यवङ्गान्तराले रूपस्यान्तस्तच्च सिद्धोक्तबीजे २६१
लोहभेकि सिद्धमते तारभेकीति बीजद्वयम् ॥
द्रुतदर्दुरपूतिलोहसेकः कुरुते हिङ्गुलखण्डपक्षखण्डम् ॥ २६२
१ भेको अभ्रकं, इभो नागः । २ सारलोहयोः स्वर्णरौप्ययोः । ३ रसवे-
तण्डो रसमातङ्गः । ४ मण्डूको अभ्रकम् । ५ '-यन्त्रजिव्हैः' क. । क्षितिः
कासीसं, विलेशयो नागः, मन्त्रिजिव्होऽग्निः काञ्चनमित्यर्थः । ६ यन्त्रोत्तमेन
भूधरयन्त्रेण । ७ गन्धं टङ्कणं च आमयित्वा संमर्द्य, तेनोन्मिश्रं लोहं भेकं
(अभ्रकं) च वह्नौ आवर्तयेत् द्रावयेत्, तत् 'लोहभेकि' नाम सिद्धबीजम् ।
तुर्यवङ्गान्तराले तालं कृत्वा (तालयोगेन वङ्गं हत्वेत्यर्थः ) तद्वङ्गं रूपस्यान्तर्द्द-
द्यात्, तच्च रूप्यं सिद्धोक्तबीजे (पूर्वोक्तबीजे) आवर्तयेत् । इदं तु 'तारभेकि'
नामसिद्धबीजम् । ८ दर्दुरः अभ्रकं, पूतिलोहौ नागवङ्गौ, तेषां मिलितानां
द्रुतानां सेको हिङ्गुलखण्डस्योपरि कृतश्चेत्तस्य पक्षखण्डं पक्षच्छेदं करोति,
हिङ्गुलभस्म जायते इत्यर्थः ।
३६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
शशिहेलिहिरण्यमूषिका ध्रुवमक्षीणधियामनेन लक्ष्मीम् ।
इति सिद्धमते खोटः ॥
अत्रभेकादिशब्दा धातुवाचका इत्यलं रहस्यप्रकाशेन ॥
गन्धै२तैलयुगलाऽयसिमध्ये पूतिवारिवशं३मेष्यति पिष्टी ।
तैलभेकवलिकल्पितपिष्टीसंयमः प्लवगपूत्यभिषेकैः ॥२६३॥
दरदस्यापि पिष्टीत्वेन गृहीतत्वात्पूर्वकर्मणि संबन्धः ॥
इति सिद्धमते खोटः ॥
अधोऽष्टाङ्गुलतश्चुल्याः सिध्यन्ति सिकतावृताः ।
रसगन्धशिलासर्पाः पाकाद्यग्निविपक्रिमाः ॥ २६४ ॥
खोटान्तरम् ।—
साल्लूर५कुटिलार्कस्वरम्भापामार्गभस्मना ।
हस्तीव बध्यते वक्रलोहखण्डिकया रसः ॥ २६५ ॥
खोटान्तरम् ।—
भेकभास्करगन्धायोवङ्गस्य क्षारभस्मना ।
हस्तीव बध्यते लोहवक्रचक्रिकया रसः ॥ २६६ ॥
इति रञ्जनवेधनानि ॥
अथ बाह्यद्रुतयः ।
एतास्तु केवलामारोटकमेव मिलिता निबध्नन्ति, फलमस्य
कल्पप्रमितमायुः; किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफल-
१ शशिः तारं, हेलिरर्कस्ताम्रं, हिरण्यं स्वर्णं, एतेषां मूषिका ध्रुवं लक्ष्मीं
करोति, तस्यामुपर्युक्तसेकेनेत्यर्थः । २ गन्धतैलयुगला गन्धतैलसहिता पिष्टी
नाम दरदः, पूतिवारिवशमेष्यति पूतिलोहौ यौ नागवङ्गौ तयोर्द्रुतिर्नाम द्रवः
तस्य वशमेष्यति वह्नावनुड्डयनेनेत्यर्थः । ३ 'वशमेति च' ख. । ४ तैल-
भेकवलिभिर्मिलितैः कल्पिता या दररूपा रसगन्धकयोः पिष्टी, तस्याः प्लवगपूत्य-
भिषेकैः प्लवगोऽभ्रकं, पूतिलोहौ नागवङ्गौ, तेषां मिलितानां द्रुतानामभिषेकेन
संयमो भवतीत्यर्थः । ५ 'माल्लूर'—क. ।
CCO Gurukul Kangri Collection, Haridwar, Digitized by eGangotri
प्रदा भवन्ति । उच्यते च—समजीर्णश्चायं शतवेधी, द्विगुण-
जीर्णः सहस्रवेधी; एवं लक्षायुतकोटिवेधी समनुकर्तव्यः,
चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥
अथ सारणोच्यते ।
अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा ।
सैव छिद्रान्विता मन्दगम्भीरा सारणोचिता ॥ २६७ ॥
अस्यामेव मूषायां तत्तै¹लमपगतकल्कविमलमापूर्य तस्मिन्न²-
धिकमूष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समा³वर्तनीयः सूत-
वरः, तदनु सद्यो मूषाननमाच्छादनीयमेतत्तैलाक्तपटखण्डग्र-
न्थिबन्धेन, अरुणसितबीजाभ्याममुना सारणकर्मणा मिलितश्चे-
त्सारितः सम्यक् संयमितश्च विज्ञेयः; प्रतिसारितस्तु द्विगुण-
बीजेन, तद्वदनुसारितस्तु त्रिगुणबीजेन; अत्र त्रिविधायामेव
सारणायामरुणसितकर्मणोः क्रामणार्थमीषत्पन्नगवङ्गौ विश्रा-
णयाविति ॥
सारितो जारितश्चैव पुनः सारितजारितः ।
सप्तसङ्क(शृङ्ख)लिकायोगात्कोटिवेधी भवेद्रसः ॥ २६८ ॥
इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न
प्रपञ्चितानि ॥
(द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् ।
विना शम्भोः प्रसादेन न सिध्यन्ति कदाच⁴न ॥ १ ॥)
अथ क्रामणम् ।
शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ २६९ ॥
१ तत्तैलं सारणतैलम् । २ तस्मिन् सारणतैले, अधिकमूष्मात्मनि सम्यक्
प्रतप्ते । ३ 'समावर्जनीयः' ग. । ४ अयं श्लोकः ख. पुस्तके नोपलभ्यते ।
४
३८ आयुर्वेदीयग्रन्थमाला। [अध्यायः
पीते स्वर्णे, शुक्ले रूप्ये ॥
अथ खोटमार्गेण जारणवेधनरञ्जनानि ।
खोटकं स्वर्णसंतुल्यं समावर्त्त तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिला गन्धं समं समम् ॥ २७० ॥
भूनागैर्मर्दयेद्द्यामं वल्लमात्रं वटीकृतम् ।
एषा बिडवटी ख्याता योज्या सर्वत्र जारणे ॥ २७१ ॥
दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् ।
शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ २७२ ॥
वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः ॥ २७३ ॥
रञ्जितं मृतखोटं च कल्केनानेन संयुतम् ।
वालुकाहाण्डिमध्यस्थं शरावपुटमध्यगम् ॥ २७४ ॥
त्रिदिनं पाचयेच्चूल्ह्यां कल्को देयः पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः ॥ २७५ ॥
लोहं गन्धं टङ्कणं ध्मातमेतत्तुल्यं चूर्णैर्भानुभेकाहिवङ्गैः ।
सूतं गन्धं सर्वसाम्येन कूप्यामीपत्साध्यं चित्त नो विस्मयस्व ॥
इति सिद्धमते कल्कः ॥
रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः ।
पुटमृतशुल्वं तारे त्रिन्यूढं हेमकृष्टिरियम् ॥ २७७ ॥
अष्टानवतिभागं तु रूप्यमेकं च हाटकम् ।
सूतैकेन च वेधः स्याच्छतांशविधिरीरितः ॥ २७८ ॥
चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्करः ।
वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥ २७९ ॥
द्वावेव रजतयोनित्ताम्रयोनित्वेनोपचर्येते; एवं सहस्रवेधा-
दयो जारणबीजवशादनुसर्तव्याः ॥
१ चन्द्रस्य तारस्य, भास्करः ताम्रस्य, वह्निः स्वर्णे, शम्भुः रसः ।
चत्वारः प्रतिवापाः सुलाक्षया मत्स्यपित्तभावितया ।
तारे वा शुल्वे वा तारारिष्टेऽथवा कृतौ ॥ २८० ॥
तदनु क्रोमणमृदितः सिक्थकपरिवेष्टितो देयः ।
अतिविद्रुते च तस्मिन् वेध्योऽसौ कुन्तवेधेन ॥ २८१ ॥
तदनु सिद्धतैलेनाप्लाव्य भस्मावच्छादनपूर्वकमवतार्य स्वा-
ङ्गशैत्यपर्यन्तमपेक्षितव्य इति ॥
विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि ।
तत आनीय नगरे विक्रीणीत विचक्षणः ॥ २८२ ॥
समर्पतः ²सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्यतस्थुपि ।
विशुद्धगन्धादिभिरीषदग्निना समस्तमक्षाल्यशनीयमीशजः २८३
कर्षाष्टङ्कणकज्जलिहरिरथैर्गन्धस्य च द्वौ रजः
सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैरहोभिः शृतम् ।
भूयो गन्धमृतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं
तत्तारे मधुना पुटेन धमनेनार्कच्छवीमीहते ॥ २८४ ॥
कर्षा इति बहुवचनात्त्रयः, त्रिधा पत्रलेपेनेति ज्ञेयम् ॥
इति सिद्धमते चूर्णकल्कः ॥
अथ रसचिन्तामणौ—
चत्वारः स्वर्जिकाभागा यवक्षारस्तथा पुनः ॥ २८५ ॥
क्षारिकालवणं दद्यात्तत्तथाविधमेव च ।
काकमाचीरसस्यान्तर्दीयते सर्वमेव तत् ॥ २८६ ॥
³शुद्धपित्तलपत्राणि सूक्ष्माणि पलयोर्द्वयोः ।
तप्तप्तानि तान्यस्मिन् काकमाचीरसे क्षिपेत् ॥ २८७ ॥
एकविंशतिवाराणि तारतां प्रतियान्ति च ।
एवं शुभ्राणि जायन्ते रूप्यान्न्यूनानि किंचन ॥ २८८ ॥
१ 'क्रमेण मृदितः' ग. । २ 'सैन्धवखण्डकोदरे' ख. । ३ 'नष्ट-
पित्तलपत्राणि' ख. ।