सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

इति ऋणादानप्रकरणम् ।

व्यवहाराध्यायः २२१
भाषा—( भोग्य आधि होने पर ) ऋण दूना होने पर ऋणी व्यक्ति जब
दूना धन प्राप्त कर ले तो बन्धक की वस्तु छोड़ देवे ॥ ६४ ॥
इति ऋणादानप्रकरणम् ।
अथ ^१उपनिधिप्रकरणम् ४
उपनिधिं प्रत्याह—
वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६५ ॥
निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि, तत्स्थं वासनस्थं
यद्द्रव्यं रूपसंख्यादिविशेषमनाख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं
विश्रम्भादर्प्यते स्थाप्यते तद्द्रव्यमौपनिधिकमुच्यते । यथाह नारदः—'असं-
ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥'
इति । प्रतिदेयं तथैव तत् । यस्मिन्स्थापितं तेन तथैव पूर्वमुद्रादिचिह्नितम-
र्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ ६५ ॥
भाषा—जब किसी पात्र में रखकर रूप या संख्या आदि बताये बिना
कोई वस्तु दूसरे को ( निक्षेप के रूप में ) दी जाती है तब वह द्रव्य उपनिधि
कहलाता है; उसे ज्यों के त्यों लौटाना होता है ॥ ६५ ॥
‘प्रतिदेयम्’ ( व्य० ६५ ) इत्यस्यापवादमाह—
न दाप्योऽपहृतं तं^२ तु राजदैविकतस्करैः ।
तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वाऽपहृतं नष्टं न दाप्योऽसौ
यस्मिन्नुपनिहितम् । धनिन एव तद्द्रव्यं नष्टं यदि जिह्मकारितं न भवति ।
यथाह नारदः ( १।९ )—'ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन्न^३ चेत्तज्जिह्मकारितम् ॥' इति ॥—
अस्यापवादमाह—
भ्रेषै^४श्चेन्मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥ ६६ ॥
स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजा-
दिभिर्भ्रेषो नाशः संजातस्तथापि तद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो
राज्ञे च तत्समं दण्डम् ॥ ६६ ॥


१. निक्षेप । २. तत्तु । ३. तद्भन्नवेत्तज्जिह्म तद्भग्नवेदाजिह्म ।
४. भ्रंशश्चेन्मा ।

भाषा—किन्तु उसके राजा, दैविक उत्पात द्वारा नष्ट या चोरों द्वारा चुरा
लिये जाने पर वह (उपनिधि द्रव्य) प्रतिदेय नहीं होता। और यदि उपनिधि
रखने वाले के मांगने पर भी वह वस्तु नहीं लौटाई जाती एवं उसके बाद
राजा आदि द्वारा नष्ट हो जाती है तो उसे देना होता है और साथ ही उसके
बराबर दण्ड भी चुकाना होता है ॥ ६६ ॥
भोक्तारं प्रति दण्डमाह—
आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीवन्नुपभुङ्क्ते व्यवहरति वा
प्रयोगादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यः, तं चोपनिधिं
सोदयमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धेःप्रमाणं च
कात्यायनेनोक्तम्—'निक्षेपं वृद्धिशेषं च क्रयं विक्रयमेव च । याच्यमानो न
चेद्दद्याद्वर्धते पञ्चकं शतम् ॥' इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाज्ञाननष्टे तु
तेनैव विशेषो दर्शितः—'भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन्न्यूनं प्रदाप्यः स्याद् द्रव्यमज्ञाननाशितम् ॥' इति । 'किंचिन्न्यूनम्' इति
चतुर्थांशहीनम् ॥
उपनिधेर्धर्मान्याचितादिष्वतिदिशति—
याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः ॥ ६७ ॥
विवाहोद्युत्सवेषु वस्त्रालंकारादि याचित्वाऽऽनीतं याचितम् । यदेकस्य हस्ते
निहितं द्रव्यं तेनाप्यनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् ।
न्यासो नाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेप्यो गृहस्वामिने
समर्पणीयमिति । समक्षं तु समर्पणं निक्षेपः । 'आदि'शब्देन सुवर्णकारादिहस्ते
कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोजनापेक्षया
'त्वयेदं मदीयं रक्षणीयं, मयेदं त्वदीयं रक्ष्यते' इति न्यस्तस्य ग्रहणम् । यदाह
नारदः (२।१४)—'एष एव विधिर्दृष्टो याचितान्वाहितादिषु । शिल्पिषूपनिधौ
न्यासे प्रतिन्यासे तथैव च ॥' इति । एतेषु याचितान्वाहितादिष्वयं विधिः
उपनिधेर्यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥
भाषा—जो अपनी इच्छा से उपनिधि द्रव्य का भोग करता है उसे
उसके लाभ के साथ उपनिधि दिलावे और साथ ही दण्ड भी दे । यही नियम
याचित (मगनी), अन्वाहित (मांगने वाले से किसी अन्य व्यक्ति द्वारा
स्वामी के पास भिजवाई गई), न्यास (परोक्ष में घर के किसी अन्य व्यक्ति के
१. आजीवेत्युप आजीवन्फलं भुंक्ते । २. याक्ष्यमानं । ३. पेक्षायां त्वयेदं ।