याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 277, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २२१
भाषा—( भोग्य आधि होने पर ) ऋण दूना होने पर ऋणी व्यक्ति जब
दूना धन प्राप्त कर ले तो बन्धक की वस्तु छोड़ देवे ॥ ६४ ॥
इति ऋणादानप्रकरणम् ।
अथ ^१उपनिधिप्रकरणम् ४
उपनिधिं प्रत्याह—
वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६५ ॥
निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि, तत्स्थं वासनस्थं
यद्द्रव्यं रूपसंख्यादिविशेषमनाख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं
विश्रम्भादर्प्यते स्थाप्यते तद्द्रव्यमौपनिधिकमुच्यते । यथाह नारदः—'असं-
ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥'
इति । प्रतिदेयं तथैव तत् । यस्मिन्स्थापितं तेन तथैव पूर्वमुद्रादिचिह्नितम-
र्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ ६५ ॥
भाषा—जब किसी पात्र में रखकर रूप या संख्या आदि बताये बिना
कोई वस्तु दूसरे को ( निक्षेप के रूप में ) दी जाती है तब वह द्रव्य उपनिधि
कहलाता है; उसे ज्यों के त्यों लौटाना होता है ॥ ६५ ॥
‘प्रतिदेयम्’ ( व्य० ६५ ) इत्यस्यापवादमाह—
न दाप्योऽपहृतं तं^२ तु राजदैविकतस्करैः ।
तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वाऽपहृतं नष्टं न दाप्योऽसौ
यस्मिन्नुपनिहितम् । धनिन एव तद्द्रव्यं नष्टं यदि जिह्मकारितं न भवति ।
यथाह नारदः ( १।९ )—'ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन्न^३ चेत्तज्जिह्मकारितम् ॥' इति ॥—
अस्यापवादमाह—
भ्रेषै^४श्चेन्मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥ ६६ ॥
स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजा-
दिभिर्भ्रेषो नाशः संजातस्तथापि तद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो
राज्ञे च तत्समं दण्डम् ॥ ६६ ॥
१. निक्षेप । २. तत्तु । ३. तद्भन्नवेत्तज्जिह्म तद्भग्नवेदाजिह्म ।
४. भ्रंशश्चेन्मा ।