Skip to content
SarvaKosh
Back to the archive

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री

Report a copyright issue

DevanagariSanskritpublished493 pages

About this granth

Vikramankadevacharita (विक्रमाङ्कदेवचरितम्) is a historical epic by Bilhana, an eleventh-century Kashmiri poet who left his homeland and became court poet to the Chalukya emperor Vikramaditya VI of Kalyani. It celebrates that king and his dynasty, and with Kalhana's Rajatarangini it stands among the major historical poems in Sanskrit.

The poem traces the Chalukya line from Tailapa to Someshvara I, Vikramaditya's birth, education and conquests, the campaign against the Cholas and the throne of Kalyani, the svayamvara and marriage of Princess Chandralekha, the revolt of Jayasimha, and closes with the poet's account of himself and of Kashmir.

The Sanskrit preface of this edition recalls earlier ones, the first by Georg Bühler in the Bombay Sanskrit Series in 1875 with the help of Vamanacharya Jhalakikar and Bhimacharya; the catalogue names Pt. Vishwanath Shastri as editor. After an introduction and errata come about 470 pages of text, with appendices of choice verses, a verse index, names, a bibliography and a map of eleventh-century India.

Page 438Permalink

( ४३४ )

भाषा

दो वर्ष की कन्या के मुख के समान कोमल कान्ति वाला, कमल, बाहर
रहने वाले भ्रमरों की गुञ्जार से मानो हेमन्त और शिशिर ऋतुओ के बीत
जाने की सूचना पाकर तालाब से प्रकट हुआ। अर्थात् हेमन्त और शिशिर
ऋतुओ में कमल नही उत्पन्न होते और भ्रमर भी गुञ्जार नहीं करते।

नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन ।
उत्सङ्गसङ्गी विपिनस्थलीनां बालो वसन्तः किमपि व्यराजत् ॥३४॥

अन्वयः

विपिनस्थलीनाम् उत्सङ्गसङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण
वासन्तिकाकुड्मलनिर्गमेन किमपि व्यराजत् ।

व्याख्या

विपिनस्थलीनामरण्यभूमीनां 'अटव्यरण्यं विपिनं गहनं काननं वनम्'
इत्यमरः। विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्ग्यम्। उत्सङ्गेऽङ्के मध्ये
वा सङ्गत इत्युत्सङ्गसङ्गी 'उत्सङ्गश्चिह्नयोरङ्कः' इत्यमरः। अङ्कवर्ती वसन्तो
बालः कुमारो नवीनः प्रत्यग्रो दन्तोद्गमो दशनोत्पत्तिस्तद्वत्सुन्दरो मनोहरस्तेन
वासन्तिका माधवीलता 'वासन्ती माधवीलता' इत्यमरः। तस्याः कुड्मलानि
कलिकास्तासां निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत्
शुशुभे। वसन्ते बालत्वारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, विपिनस्थलीनां
धात्रीत्वारोपस्य व्यङ्ग्यत्वाच्च एकदेशविवर्तिरूपकम्।

भाषा

जंगल की भूमियो की गोद में रहने वाला वसन्त रूपी बालक, नये दांत
निकलने के समान सुन्दर माधवीलता की कलियों के निकलने से एक अवर्णनीय
शोभा को प्राप्त हुआ।

सुगन्धिनिःश्वासमिवानुवेलमुद्वेलता दक्षिणमारुतेन ।
मुखं प्रसूनस्मितदन्तुरं वचुचुम्ब मुग्धस्य मधोर्वनश्रीः ॥३५॥

Page 439Permalink

( ४३५ )
अन्वयः
वनश्रीः अनुवेलं सुगन्धिनिःश्वासम् इव उद्वेलता दक्षिणमारुते
मुग्धस्य मधोः तत् प्रसूनस्मितदन्तुरं मुखं चुचुम्ब ।
व्याख्या
वनश्रीर्वनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेलं प्रतिक्षणं सुगन्धिनिःश्वासमि-
सुन्दरगन्धयुक्तमुखनिःश्वासमिवोद्वेलता विस्तारयता दक्षिणमारुतेन मलय-
निलेन मुग्धस्य बालस्य मधोर्वसन्तस्य तदनिर्वचनीयं प्रसूनान्येव पुष्पाण्येव शुभ्र-
त्येन स्मितानीषद्धास्यानि तैर्दन्तुरं दन्तुरितं मनोहरमितिभावः । मुखमाननमग्र-
भागञ्च चुचुम्ब परिचुम्बितवती । वसन्तौ पुष्पोद्गमेन वनशोभाऽभिव्यक्तासीदिति
भावः । समासोक्तिरलंकारः ।
भाषा
वनकी शोभा ने सुगन्धित सास के समान सुगन्धयुक्त दक्षिणानिल के
बहते रहने से बालरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट
से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तऋतु में फूलों
से वन की शोभा प्रकट होती थी ।
संक्रान्तभृङ्गीपदपंक्तिमुद्रं पौष्पं रजः क्ष्माफलके रराज ।
क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेव ॥३६॥
अन्वयः
क्ष्माफलके संक्रान्तभृङ्गीपदपङ्क्तिमुद्रं पौष्पं रजः क्रमात् लिपिज्ञान-
कृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज ।
व्याख्या
क्ष्माफलके पृथ्वीतलपट्टिकायां संक्रान्ताः संलग्ना भृङ्गीणां भ्रमरीणां पदानि
चरणास्तेषां पङ्क्तयः श्रेणयस्तासां मुद्राश्चिह्नानि, यस्मिंस्तत् पुष्पादण्डं पौष्पं
कुसुमसम्वन्धी 'तस्येदमित्यण्' । रजो धूलिः क्रमात् क्रमशो लिपिज्ञानेऽक्षर-
ज्ञानाभ्यासे कृतो विहितः क्षण उत्सवो येन स तस्य 'निर्व्यापारस्थितौ काल-
विशेषोत्सवयोः क्षणः' इत्यमरः । मधोर्वसन्तस्याक्षरमालया वर्णमालया
क्षुण्णमिव संभृतमिव रराज शुशुभे । बालको यदाऽक्षरज्ञानाभ्यासे पट्टिकायां

Page 440Permalink

( ४३६ )
तिर्यगादिरेखाबाहुल्यमेव रचयन्ति तथैव क्ष्माफलके वसन्तागमनात्पुष्पधूलि-
बाहुल्यात्तत्र भृङ्गीणां भ्रमणेन तत्पादजनितरेखाकदम्बकं कविः बालस्य वसन्त-
स्याक्षरज्ञानाभ्यासे क्ष्मापट्टिकायां तिर्यग्रेखादिकमित्युत्प्रेक्षते ।
भाषा
पृथ्वी रूपी पटिया पर भ्रमरियों के पावो की पंक्तियों से अङ्कित कुसुम-
रज, धीरे २ वर्णमाला सीखने का उत्सव मनाने वाले वसन्तऋतु की अक्षर-
माला से मानो अङ्कित हो, ऐसी शोभित होती थी । अर्थात् वसन्त-ऋतु में
पृथ्वीपर बहुत पुष्परज गिरने से और उनपर भ्रमरियो के चलने से बनी लकीरों
से कवि उत्प्रेक्षा करता है कि बालक वसन्त ने मानो अक्षर सीखते समय पृथ्वी
रूपी पटिया पर टेढी मेढी लकीरें खीची हो ।
समारूढोपरि पादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे ।
लताप्रसूनांशुकमाचकर्ष क्रीडन्वनैः किं न चकार चैत्रः ॥३७॥
अन्वयः
चैत्रः पादपानाम् उपरि समारुरोह, पुष्पोत्कररेणुपुञ्जे लुलोठ, लता-
प्रसूनांशुकम् आचकर्ष, वनैः क्रीडन् किं न चकार ।
व्याख्या •
चैत्रो वसन्तमासः पादैर्मूलैः पिबन्तीति पादपास्तेषा पादपाना वृक्षाणामुपर्यूर्ध्वं
समारुरोह वृक्षानामाच्छादितवानित्यर्थ । पुष्पाणा कुसुमानामुत्करास्समूहास्तेषा
रेणवो धूलयः 'रेणुर्द्वयोः स्त्रिया पुंसि पासुर्वा न द्वयो रज.' इत्यमरः । तेषा
पुञ्जे समूहे लुलोठ पपात । लताना वीरुधा प्रसूनान्येव पुष्पाण्येवाऽशुकं श्लक्ष्ण-
त्वान्मृदुत्वान्नाम्बरमाचकर्ष बलाद्गृहीतवान् । इत्थ वनैर्वनस्थैर्वस्तुभिः क्रीडन्
विहरन् किं न चकार किं न कृतवान् । कर्तव्याकर्तव्यविवेक परिहाय बालवत्
यथेच्छ सर्वमेव चैत्रेणानुष्ठितमिति भावः । यथा कश्चित् बालको वृक्षारोहण
धूलिविलुण्ठन, अंशुकाकर्षणञ्च करोति तथा बालो मधु. कृतवानिति भावः ।
अत्र समासोक्तिरलङ्कारः ।
भाषा
(बालक) चैत्र अर्थात् वसन्त वृक्षों पर चढ गया । पुष्पों के समूह के
पराग में अर्थात् मिट्टी में लोट पोट की, लता के पुष्प रूपी वस्त्र को खीच लिया ।

Page 441Permalink

( ४३७ )
इस प्रकार बालक बसन्त ने वन में की सभी वस्तुओं से क्रीडा करते हुए क्या
नहीं किया। अर्थात् बालक बसन्त ने कर्तव्याकर्तव्य का विचार छोड़कर अपनी
इच्छा के अनुसार सब कुछ खेल किया। जैसे कोई बालक वृक्षारोहण, धूर में
लोटना और मा के या अन्य स्त्रियों की साडी खींचना आदि चेष्टाएं करता है
वैसे ही चैत्र ने किया। भाव यह है कि वसन्त ऋतु के आने से वृक्षों पर
वासन्तिक शोभा छा गई, पुष्पों के समूह से खूब मकरन्द चूने लगा और लताओं
में से फूल टूट २ कर गिरने लगे।
दक्षः प्रवालौष्ठसमर्पणाय लतावधूनां मुकुलस्तनीनाम्।
मत्तालिवैतालिकगीतकीर्तिर्भ्रमन्मधुर्यौवनमारुरोह ॥३८॥
अन्वयः
मुकुलस्तनीनां लतावधूनां प्रवालौष्ठसमर्पणाय दक्षः मत्तालिवैतालिक-
गीतकीर्तिः भ्रमन् मधुः यौवनम् आरुरोह।
व्याख्या
मुकुलानि कुड्मलान्येव स्तनाः कुचा यासां तास्तासां लतावधूनां वीरुद्रूपनारीणां
प्रवाला. रक्तकिसलया एवौष्ठा अधरोष्ठास्तेषां समर्पणाय वितरणाय दक्षश्चतुरः
प्रगल्भ इत्यर्थः। मत्ता मदान्धा अलयो भ्रमरा एव वैतालिकाः स्तुतिगायका-
स्तैर्गीता गानेन वर्णिता कीर्तिर्यस्य स भ्रमंस्ततस्ततो गतागतं कुर्वन् मधुर्वसन्तो
यौवनं तारुण्यमारुरोह सम्प्राप्तवान् । प्रत्यग्रकुचभूषितानां किशोरीणाम-
धरोष्ठप्रदाने चुम्बनदाने कुशलो वैतालिकगीतकीर्तिस्सञ्चरन् मनुष्य इव मुकुलि-
तानां लतानां किसलयप्रदाने कुशलो मत्तालिगीतकीर्तिर्भ्रमन् वसन्तो यौवनं
प्रापेति भावः।
भाषा
कली रूपी स्तनों वाली, लता रूपी स्त्रियों को किसलय (नये लाल पत्ते)
रूपी ओठों को (तृप्त करने में) देने में कुशल मदोन्मत्त भ्रमर रूपी स्तुतिगायकों
से गाई गई कीर्तिवाला, चारों ओर विहरण करने वाला वसन्तऋतु युवावस्था
को प्राप्त हुआ। अर्थात् छोटे २ नये कड़े स्तन वाली किशोरियों के लाल ओठों
को चूम लेने में कुशल स्तुतिपाठकों द्वारा कीर्तिगान किए जाने वाले नवयुवक के

Page 442Permalink

( ४३८ )
समान कलियो से युक्त लताओं को नये लाल पत्ते प्रदान करने में कुशल, भौरों
की गुंजाहट से कीर्तिगान किया जाने वाला बसन्त युवावस्था को प्राप्त हुआ।
सलोलमङ्गीकृतपञ्चबाण-साम्राज्यभारस्य मधोरभङ्गः ।
एको भुजस्तस्य लवङ्गवायु-रन्यः पिकस्त्रीकलपञ्चमोऽभूत् ॥३६॥
अन्वयः
सलीलम् अङ्गीकृतसाम्राज्यभारस्य तस्य मधोः अभङ्गः एकः भुजः
लवङ्गवायुः अन्यः पिकस्त्रीकलपञ्चमः अभूत् ।
व्याख्या
लीलया विलासेन सहितं सलील मङ्गीकृतः स्वीकृतः पञ्चबाणस्य कामस्य
साम्राज्यभारोऽखिलराज्यशासनभारो येन स तस्य स्वीकृतकामसाम्राज्यभारस्य
तस्य प्रसिद्धस्य मधोर्वसन्तस्याऽभङ्गोऽविकलो बलिष्ठ इत्यर्थः । एको भुजो
बाहुर्लवङ्गवायुर्दक्षिणानिलोऽन्य इतरो बाहु पिकानां कोकिलानां स्त्रियः
कोकिलास्तासां कलः सुन्दरः पञ्चमः पञ्चमस्वरोऽभूत् । एतेन वसन्तस्य
कामसाम्राज्ये मन्त्रित्वं प्रतीयते ।
भाषा
खेलवाड से ही कामदेव के साम्राज्य के समग्र कामों को करने का स्वीकार
करने वाले उस वसन्त ऋतु का एक बलवान् हाथ दक्षिणानिल था और दूसरा
हाथ कोयल का सुन्दर पञ्चम स्वर था । अर्थात् काम के राज्य में वसन्त ही
प्रधान मन्त्री था जो दक्षिणानिल तथा कोकिला के पञ्चम स्वर का प्रयोग कर
उसका साम्राज्य चलाता था ।
राशीकृताः पुष्पपरागपुञ्जाः पदे पदे दक्षिणमारुतेन ।
मत्तस्य चैत्रद्विरदस्य कर्तु-मक्ष्णूष्णहेतोरिव पांसुतल्पान् ॥४०॥
अन्वयः
दक्षिणमारुतेन पदे पदे मत्तस्य चैत्रद्विरदस्य अक्ष्णूष्णहेतोः पांसुतल्पान्
कर्तुम् इव पुष्पपरागपुञ्जाः राशीकृताः ।

Page 443Permalink

( ४३९ )
व्याख्या
दक्षिणमारुतेन मलयानिलेन पदे पदे स्थाने स्थाने मत्तस्य मदान्धस्य चैत्र
एव द्विरदो गजः ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपोगजः' इत्यमरः। तस्याऽ-
क्षूणहेतोरक्षूण१ विश्रामः सततपरिश्रमेण समागतक्लान्तिरूपन्यूनताया दूरीकरणार्थं
विश्रान्तिरित्यर्थः। स एव हेतुः कारणं तस्मात् पासवो धूलय एव तल्पानि शय्याः
‘तल्पं शय्यादृदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्' इत्यमरः। तानि कर्तुमिव
विधातुमिव पुष्पाणां कुसुमानां परागस्य रजस पुञ्जास्समूहा राशीकृता एकत्री-
कृता। वसन्ते परागस्याऽऽधिक्यं भवति स च मलयमारुतवेगेनेकत्रीभवति श्रम-
निवारणार्थं मत्तचैत्रगजस्य तल्पताञ्च प्राप्नोतीति भावः।
भाषा
दक्षिणानिलने स्थान स्थान पर मदोन्मत्त चैत्र रूपी हाथी के विश्राम के
निमित्त धूलि की कोमल शय्या बनाने के लिये मानो पुष्प की धूलि को
एकत्र किया।
लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः कुसुमं नवीनम् ।
आसादयामास वसन्तमास-जन्मोत्सवे मङ्गलशङ्खलीलाम्२ ॥४१॥
अन्वयः
वसन्तमासजन्मोत्सवे लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः नवीनं
कुसुमं मङ्गलशङ्खलीलाम् आसादयामास।
व्याख्या
वसन्तमासस्य मधुमासस्य जन्मन उत्सवतस्मिन्, लग्नाः संश्लिष्टा द्विरेफा

१ सन्नामु धातुरूपाणि प्रत्ययाश्च तत परे ।
कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥
'क्षू' गतो--आदादिकधातोर्भावे क्तङ् प्रत्यये बाहुलकाद्दीर्घे नञ्समासे
'अक्षूण' शब्दो निष्पन्न । न क्षूणमक्षूण गत्यवरोधो विश्राम इत्यर्थ ।
२ उक्त साहित्यदर्पणे—
मल्लिकासुकुले चण्डि ! भाति गुञ्जन्मपुव्रत ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥

Page 444Permalink

( ४४० )
भ्रमरास्तेषां ध्वनिभिश्शङ्कारैः पूर्यमाणं परिपूरितं वासन्तिकाया माधवीलताया
नवीनं प्रत्यग्रं कुसुमं पुष्पं मङ्गलशङ्खस्य माङ्गलिककार्यचिन्हभूतशङ्खस्य लीलां
विलासमासादयामास संप्राप। कथमम्यस्य लीलामम्यः कर्तुमर्हतीति लीलासद्दशीं
लीलामिति पर्यवसितेऽर्थे सति पदार्थनिदर्शनालङ्कारः। 'अभवन्वस्तुसम्बन्ध
उपमापरिकल्पकः' इति लक्षणात्।
भाषा
बसन्त मास के जन्मोत्सव के अवसर पर छाए हुए भौरों की गुञ्जार से
भरा जाने वाला (बजाया जाने वाला) माधवीलता का पुष्प, माङ्गलिक
अवसरों पर बजाए जाने वाले शङ्ख की शोभा को प्राप्त हुआ।
गते हिमर्तौ ध्रुवमुष्णखिन्नः शीतोपचारं मलयः सिषेवे।
यदाजगाम व्यजनोपमानां समीरश्चन्दनपल्लवानाम् ॥४२॥
अन्वयः
हिमर्तौ गते उष्णखिन्नः मलयः ध्रुवं शीतोपचारं सिषेवे। यत्
व्यजनोपमानां चन्दनपल्लवानां समीरणः आजगाम।
व्याख्या
हिमः शीत ऋतुरिति हिमर्तुस्तस्मिन् गते व्यतीते सति, उष्णेनोष्मणा खिन्नः
संतप्तो मलयो मलयगिरिः ध्रुवं निश्चयेन शीतोपचारं ग्रीष्मनिवारकं शैत्योत्पादकं
साधनं सिषेवे सेवितवान्। यद्यस्मात्कारणाद्वयजनमेवोपमानं येषां ते व्यजनो-
पमास्तेषां तालवृन्तसमानानां चन्दनपल्लवानां श्रीखण्डकिसलयानां समीरणो वायु-
राजगाम संचचाल। चन्दनपल्लवस्य शैत्यात्तत्सम्पर्काद्वायोरपि शैत्यजनकत्व-
मिति भावः।
भाषा
हेमन्त व शिशिर ऋतुओ के बीत जाने पर गरमी से खिन्न मलयपर्वत,
निश्चय ही शीतोपचार का सेवन करने लगा। क्योकि पङ्खों के समान चन्दनवृक्ष
के कोमल पत्तों का वायु बहने लगा। अर्थात् गर्मी से पीडित होकर जन
साधारण पंखा चला कर अपनी गर्मी दूर करते हैं। मलय पर्वत ने चन्दन
के पत्तों से हवा लेकर अपनी गर्मी शान्त की।

Page 445Permalink

( ४४१ )
मनस्विनीनां मनसोऽवतीर्य मानस्य वेगेन पलायितस्य ।
जीवग्रहायेव वसन्तमित्रं बभ्राम वायुः ककुभां मुखानि ॥४३॥
अन्वयः
वसन्तमित्रं वायुः मनस्विनीनां मनसः अवतीर्य वेगेन पलायितस्य
मानस्य जीवग्रहाय इव ककुभां मुखानि बभ्राम ।
व्याख्या
वसन्तस्य वसन्तर्तोर्मित्रं सुहृद्वायुर्दक्षिणानिलः प्रशस्तं मनो यासां ता मनस्वि-
न्यस्तासां मनस्विनीनां मानिनीनां मनसो हृदयादवतीर्य निष्क्रम्य वेगेन जवेन
पलायितस्य प्रधावतो गच्छत इत्यर्थः । मानस्याऽहङ्कारस्य जीवस्य प्राणानां
ग्रहाय ग्रहणाय इव प्राणवधार्थमिवेत्यर्थः । ककुभां दिशां 'दिशस्तु ककुभः
काष्ठा आशाश्च हरितश्चता.' इत्यमरः । मुखानि मण्डलानि बभ्राम चचारान्वेष्टुं
गतवानित्यर्थः । दक्षिणानिलेन मानवतीनां मानो दूरीभवतीति भावः ।
उत्प्रेक्षालङ्कारः ।
भाषा
वसन्तऋतु का मित्र दक्षिणानिल, मानवती स्त्रियों के मन में से निकल
पर वेग से भाग चलने वाले मान का प्राणान्त करने के लिये मानो उसकी खोज
में सब दिशाओं में घूमने (बहने) लगा । अर्थात् दक्षिणानिल के लगते ही
मानवती का मान एक दम दूर हो जाता है ।
वियोगिनीनामवशान्लुलोठ कण्ठेषु लीलाकलपञ्चमो यः ।
तेनैव चक्रे मदनस्य कार्यं पुण्यैर्यशोऽभृत्पिकपञ्चमस्य ॥४४॥
अन्वयः
अवशात् वियोगिनीनां कण्ठेषु यः लीलाकलपञ्चमः लुलोठ तेन एव
मदनस्य कार्यं चक्रे । पुण्यैः पिकपञ्चमस्य यशः अभूत् ।
व्याख्या
अवशात्प्रियविरहवेदनया मनसोऽसामर्थ्यात् स्वशरीरचेष्टायाः पारतन्त्र्या-
द्वियोगिनीनां विरहिणीनां कण्ठेषु गलेषु यो लीलया विलासेन कलः मधुरः पञ्चमः

Page 446Permalink

( ४४२ )
पञ्चमस्वरो लीलाकलपञ्चमो सुलोठ समुच्चारितस्तेनैव तासां कण्ठस्थित-
पञ्चमस्वरेणैव मदनस्य कामस्य कार्यं सर्वलोकविजयात्मकं चक्रे अकारि ।
पुण्यैस्सुकृतैरेव पिकपञ्चमस्य कोकिलपञ्चमस्वरस्य यशः कीर्तिरभूत् बभूव ।
कोकिलपञ्चमस्वरस्य यत्कामोद्दीपनात्मकं कार्यं तद्वियोगिनीकण्ठगतपञ्चमस्वर-
निनादेनैव सम्पादितम् । परन्तु प्रसिद्धिवशात् पुराकृतपुण्यैः कोकिलपञ्चमस्व-
रस्यैव तद्विषये यशो जातम् ।
भाषा
विरहजन्य पीडा जनित असामर्थ्य से विरहिणियो के गलों में से जो विलास
से भरा सुन्दर पञ्चम स्वर निकलता है वही कामदेव के सब कामोद्दोपक
कार्यों को करता है । किन्तु प्रसिद्धि के कारण उसका यश, पुरातन सुकृतो से,
कोयल के पञ्चम स्वर को प्राप्त हुआ है ।
पदातिसंवर्गणकारणेन पदे पदे चम्पकराशिभङ्ग्या ।
वसन्तसामन्तविकीर्यमाणं हेमेव रेजे स्मरपार्थिवस्य ॥४५॥
अन्वयः
पदे पदे चम्पकराशिभङ्ग्या स्मरपार्थिवस्य पदातिसंवर्गणकारणेन
वसन्तसामन्तविकीर्यमाणं हेम इव रेजे ।
व्याख्या
पदे पदे स्थाने स्थाने 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ।
चम्पकराशिभङ्ग्या चम्पकपुष्पसमूहव्याजेन स्मरः काम एव पार्थिवस्तस्य कामनृपतेः
पदातीनां कामसैनिकानां संवर्गणमावर्जनमाकर्षणमित्यर्थः । तस्य कारणेन
वसन्त एव सामन्तस्सहायकनृपस्तेन मन्त्रिणेत्यर्थः । विकीर्यमाणं पुरस्काररूपेण
दीयमानं हेमेव सुवर्णमिव रेजे शुशुभे । सापह्नवोत्प्रेक्षालङ्कारः ।
भाषा
स्थान स्थान पर, कामदेव की पैदल सेना के लिये, चम्पे के फूलो के ढेर के
मिष से, मानो वसन्त रूपी सामन्त राजा अर्थात् मन्त्री के द्वारा पुरस्कार के रूप
में दिया जाने वाला सोना ही शोभित हो रहा था ।

Page 447Permalink

( ४४ )
व्याख्या
त्रयाणां लोकानां समाहारस्त्रिलोकी त्रिभुवनं तस्यां विलासिन्यश्च विला-
सिनश्चेति विलासिनस्तेषां विलासिनां 'पुमान् स्त्रिया' इत्येकशेषः । काम-
विलासयुक्तानामन्योन्यस्य परस्परस्य लीलायां कामक्रीडायां भुजबन्धनानि
बाहुबन्धनानि तेषु कामक्रीडाबाहुबन्धनविशेषेष्व्वादिगुरुः प्रथमाचार्यो हठात्प्रवर्तकः,
नितरां कामोद्दीपकत्वात् । उत्तम्भितौ युद्धाह्वानायोत्थापितौ, अशोकश्च पला-
शश्चाशोकपलाशावेव पाणी येन सः चैत्र एव मल्लो वीरश्चैत्रमल्लः प्रतिमल्लं
प्रतिपक्षवीरं न आप युद्धार्थं न प्राप । चैत्रमासः सर्वोत्कृष्टत्वेन कामिनामुद्दीपकः ।
तेन तुल्यः कोऽपि नैत्यर्थः ।
भाषा
तीनो भुवनो में काम विलास से युक्त प्राणियो को परस्पर कामक्रीडा में
भुजबन्ध की शिक्षा देने वाला, आदि गुरु, और अशोक और पलास रूपी दोनो
हाथों को उठाकर युद्ध के लिये ललकारने वाले चैत्र मास रूपी योद्धा को लडने
के लिये कोई विपक्षी योद्धा न मिल सका । अर्थात् चैत्र मास में कामोद्दीपक
अशोक और पलास के वृक्षो को देख कर सभी प्राणी कामासक्त हो जाते हैं
और चैत्र के प्रभाव से कोई भी वञ्चित नही रह सकता ।
पुरन्ध्रिगण्डूषसुराभिलापं पश्यन्नशोको बकुलद्रुमस्य ।
प्रियप्रियापादतलप्रहार–मात्मानमल्पव्यसनं विवेद ॥४८॥
अन्वयः
बकुलद्रुमस्य पुरन्ध्रिगण्डूषसुराभिलापं पश्यन् अशोकः प्रियप्रियापाद-
तलप्रहारम् आत्मानम् अल्पव्यसनं विवेद ।
व्याख्या
बकुलद्रुमस्य केसरवृक्षस्य 'अथ केसरे । बकुलो वञ्जुलोऽशोके' इत्यमरः ।
'मौलसरी' इति भाषायाम् । पुरन्ध्रीणां कामिनीनां गण्डूषस्य या सुरा मुखवर्ति
मद्यं तस्याऽभिलाषमिच्छां पश्यन्निरीक्षमाणोऽशोकः अशोकद्रुमः प्रियोऽभीष्टः
प्रियायाः कान्तायाः पादतलस्य चरणतलस्य प्रहारस्ताडनं यस्य स तमात्मानं स्वमल्पं
क्षुद्रं न्यूनं वा व्यसनं प्रवृत्त्या प्रियवस्तु यस्य स तमल्पव्यसनं विवेद ज्ञातवान् ।
कान्तामुखोच्छिष्टमद्याभिलाषस्य निन्दितत्त्वात्तदपेक्षया कान्तापादतलप्रहारस्याल्प-

Page 448Permalink

( ४४५ )
व्यसनत्वं, तत्र कामिनीस्पर्शजनितसुखानुभवश्चेति भावः। 'पादाघातादशोकं
विकसति बकुलं योषितामास्यमधैः' इति कविसमयः।
भाषा
मोलसरी के वृक्ष की, (फूलने के लिये) कामिनी के शराब के कुल्ले की
अभिलाषा को जानने वाला अशोक वृक्ष, (अपने फूलने के लिये) कामिनी के
पाद प्रहार की अभिलाषा रखने वाले अपने को अपेक्षाकृत कम व्यसनी समझने
लगा। अर्थात् अपने ऊपर झूठी शराब के थूके जाने से कामिनी की लात खा
लेना अच्छा है ऐसा समझने लगा। क्योकि उसमें कामिनीस्पर्शजनित सुखानुभूति
होती है।
चूतद्रुमालीभुजपञ्जरेण रणद्विरेफावलिकङ्कणेन।
मित्रं मधुः कोकिलमञ्जुनाद-पूर्वाभिभाषी स्मरमालिलिङ्ग ॥४६॥
अन्वयः
मित्रं कोकिलमञ्जुनादपूर्वाभिभाषी मधुः रणद्विरेफावलिकङ्कणेन
चूतद्रुमालीभुजपञ्जरेण स्मरम् आलिलिङ्ग।
व्याख्या
मित्रं सुहृत् 'अथ मित्रं सखा सुहृत्' इत्यमरः। कोकिलानां पिकानां
मञ्जुनादः प्रियध्वनिः पूर्वो यस्मिन्कर्मणि तत् कोकिलमञ्जुनावपूर्वं यथास्यात्तथा-
भिभाषते स्वागतं वदतीति अथवा कोकिलनादेन पूर्वाभिभाषी प्रथमस्वागतकर्ता
मधुर्वसन्तो रणन्तो झङ्कारशब्द कुर्वन्तो द्विरेफाः भ्रमरास्तेषामावलिः पद्धतिः
'वीथ्यालिरावलिः पक्तिः श्रेणी लेखास्तु राजयः' इत्यमरः। एव कङ्कणं यस्य
स तेन भ्रमरपङ्क्तिरूपकङ्कणयुक्तेन चूतद्रुमाणां सहकारवृक्षाणामावलिः पंक्तिरेव
भुजपञ्जरं बाहुपिञ्जरं बाहुपाश इत्यर्थः। तेन सहकारवृक्षावलिरूपबाहुपाशेन
स्मरं काममालिलिङ्ग परिरब्धवान्। मधौ मित्रत्वारोपश्चूतद्रुमाल्यां भुजपञ्ज-
राद्यारोपो रणद्विरेफावल्यां कङ्कणत्वारोपश्च स्मरकर्मकालिङ्गने हेतुरिति रूपकम्।
भाषा
मित्र तथा कोयल की कोमल कूक से प्रथम स्वागत करने वाले वसन्त ऋतु
ने गुंजार करने वाले भौरों की कतार रूपी कंगन वाले आम के पेड़ों की कतार
रूपी बाहुपाश में कामदेव का आलिङ्गन किया।

Page 449Permalink

( ४४६ )
उन्निद्रपङ्क्तिस्थितचम्पकानि चकाशिरे केलिवनान्तराणि ।
वियोगिनीनां कवलीकृतानां सुवर्णकाञ्चीभिरिवाञ्चितानि ॥५०॥
अन्वयः
उन्निद्रपङ्क्तिस्थितचम्पकानि केलिवनान्तराणि कवलीकृतानां वियोगि-
नीनां सुवर्णकाञ्चीभिः अञ्चितानि इव चकाशिरे ।
व्याख्या
उद्गता दूरीभूता निद्रा संकोचो येषां तान्युन्निद्राणि विकसितानि पंक्तीषु
श्रेणीषु स्थितानि विद्यमानानि चम्पकानि चम्पककुसुमानि येषु तानि केलिवनानां
क्रीडोद्यानानामन्तराणि मध्यभागाः कवलीकृतानां चम्पकादिपुष्पसमृद्धिमता वसन्तेन
भक्षितानां हृतानामित्यर्थः । वियोगिनीनां विरहिणीनां सुवर्णकाञ्चीभिः काञ्चनर-
शनाभिरञ्चितानि तत्समानपीतवर्णत्वात्समन्वितान्येव चकाशिरे विविद्युतिरे ।
वसन्ते पतिविरहाद्दशमविरहावस्थां प्राप्तानां मृतानामित्यर्थः । वियोगिनीनां
पीतवर्णत्वात्काञ्चनकाञ्चीरूपाणीय चम्पकपुष्पाणि शुशुभिर इति भावः ।
उत्प्रेक्षालंकारः ।
भाषा
फूले हुए और कतार में लगे पीले चम्पे के फूलो से युक्त क्रीडा कानन के
मध्यस्थल, बसन्त ऋतु के कारण पति वियोग से दशम विरहावस्था को प्राप्त
अर्थात् मृत वियोगिनियो की मानो सोने की पीली करधनियो के रूप से शोभित
हो रहे थे ।
मर्मव्यथाविस्मयघूर्णमान-मूर्धोच्छलत्कुण्डलविभ्रमेण ।
शब्दानुसारेण वियोगिनीभिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥
अन्वयः
वियोगिनीभिः मर्मव्यथाविस्मयघूर्णमानमूर्धोच्छलत्कुण्डलभ्रमेण
पिकानां शब्दानुसारेण कण्ठपाशाः क्षिप्ताः ।
व्याख्या
वियोगिनीभिर्विरहिणीभिर्मर्मव्यथायाः कोकिलकूजितश्रवणजनितमार्मिकवेद-
नाया विस्मयेनाऽऽधिक्येनाऽथवा विस्मयो लोकसीमातित्वतित्वं तेन 'विविधेषु

Page 450Permalink

( ४४७ )
पदार्थेषु लोकसीमातिवर्त्तिषु । 'विस्तारश्चेतसो यस्तु स विस्मय उदाहृत' इति
साहित्यदर्पणे । घूर्णमानेभ्यो भ्रमद्रूपेभ्यो मूर्द्धभ्यो मस्तकेभ्य उच्चलतान्यूर्ध्वं
गच्छन्तो कुण्डलानो कर्णभूषणानि विभ्रमेण व्याजेन पिकानां कोकिलानां शब्दस्य
रवस्यानुसारोऽनुसरणं तेनाऽमुकहणान्त शब्द समायातीत्यनुमानेन तेषां
बन्धनाय कण्ठपाशा कण्ठरज्जय इव क्षिप्ता मुक्ता । पिकस्वराणां पीडादाय-
कत्वेन पिकानां बन्धनार्थं विरहिणीभि कर्णभूषणचक्रमणव्याजात्पाशा क्षिप्ता
इयेति भावः । अत्रापन्हुतिरलङ्कारः ।

भाषा
वियोगिनिओ ने कोकिल के शब्दो को सुन कर मार्मिक वेदना के आधिक्य
से मस्तको को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणो
के मिष से मानो कोयल के शब्दो का अनुसरण कर उनके गलो को बाध कर
उनका प्राणान्त करने वाले पाशा को छोडा ।

उद्दर्शयन्किंशुकपुष्पसूचीः सलीलमाधूतलतारुशाग्रः ।
वियोगिनां निग्रह्णाय सज्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥

अन्वयः
किंशुकपुष्पसूचीः उद्दर्शयन् सलीकम् आधूतलताकशाग्रः दक्षिण-
मारुतः कामाज्ञया वियोगिना निग्रह्णाय सज्जः अभूत् ।

व्याख्या
किंशुकपुष्पाणि पलाशकुसुमान्येव सूचय स्ताः (कर्म) किंशुकपुष्पसूची
रुद्दर्शयन्नुद्भवन् लीलया विलासेन सहितं सलीलं यथायत्तथा आधूतं कम्पितं
लतैव कशा तस्या अग्र येन स दक्षिणमारुतो मलयपवन कामस्य मकरध्वजस्या-
ऽऽज्ञयाऽनुशासनेन वियोगिन्यश्च वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां
'पुमान्स्त्रियायेकशेष' । निग्रहणाय शासनाय सज्ज उद्यत सन्नडोऽभूत् । यथा
शठरथबलीवर्दप्रेरणाय सूचीकशाद्यो प्रयोग क्रियते तथैव कामाज्ञया कामिजन-
पीडनाय वसन्तेन किंशुकपुष्पलतायो प्रयोग कृत इति भाव । अत्र रूपका-
लङ्कार ।

भाषा
पलाश के फूल रूपी काँटे को लिए हुए विलास से लता रूपी कोड़े

Page 451Permalink

( ४४८ )

या चाबुक के अग्रभाग को हिलाने वाला दक्षिण वायु, कामदेव की आज्ञा
से, वियोगी और वियोगिनिओ पर शासन करने के लिए तयार हो गया।
गाड़ी के बैल को हांकने के लिये चाबुक और चाबुक के दण्डे में एक काँटा
भी लगा रहता है जिससे गाड़ीवान बैलों को ठीक चलाता है। उसी प्रकार
वियोगी और वियोगिनिओ पर अपना शासन चलाने के लिए काम की आज्ञा
से वसन्तऋतु पलाश का फूल रूपी कांटा और लता रूपी चाबुक लेकर, तयार
हो गया।
प्रसूननाराचपरम्पराभिर्वर्षत्सु योधेष्विव पादपेषु ।
वसन्तमत्तद्विरदाधिरूढः प्रौढत्वमाप स्मरभूमिपालः ॥५३॥
अन्वयः
योधेषु इव पादपेषु प्रसूननाराचपरम्पराभिः वर्षत्सु (सत्सु) वसन्त-
मत्तद्विरदाधिरूढः स्मरभूमिपालः प्रौढत्वम् आप।
व्याख्या
योधेषु भटेष्विव 'भटा योधाश्च योद्धारः' इत्यमरः। पादपेषु वृक्षेषु प्रसूनानि
पुष्पाण्येव नाराचाः प्रक्ष्वेडना लोहनिर्मितशरास्तेषां परम्परास्ताभिः प्रसूननाराच
परम्पराभिर्वर्षत्सु पुष्पबाणधाराः पातयत्सु सत्सु, पादपेभ्यः पुष्पेपु पतत्स्विति-
भावः । वसन्त एव मत्तो मदान्धो द्विरदो गजस्तमधिरूढोऽधिष्ठितः स्मरः काम
एव भूमिपालो राजा प्रौढत्वं प्रकर्षमौन्नत्यमित्यर्थं । आप प्राप । पुष्पोद्गमेन
बसन्ते कामस्य प्रभावः प्रसृत इति भावः ।
भाषा
योधाओ के समान वृक्षो के पुष्परूपी लोहे के बाणो की वृष्टि करते रहने
पर अर्थात् अत्यधिक फूलो के उत्पन्न होकर नीचे गिरते रहने पर वसन्त रूपी
मदोन्मत्त हाथी पर सवार कामरूपी राजा उन्नत अवस्था को प्राप्त हुआ अर्थात्
काम का साम्राज्य चारो ओर फैल गया।
समर्प्यमाणाद्भूतेकौसुमास्त्र-श्चैत्रेण चित्रीकृतकाननेन ।
अधिज्यधन्वापि पराङ्मुखोऽभून्निषङ्गभारे भगवाननङ्गः ॥५४॥

Page 452Permalink

( ४४९ )
अन्वयः
चित्रीकृतकाननेन चैत्रेण समर्प्यमाणाद्भुतकौसुमास्त्रः अधिज्यधन्वा
अपि भगवान् अनङ्गः निषङ्गभारे पराङ्मुखः अभूत् ।
व्याख्या
चित्रीकृतमलङ्कृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं 'अट-
व्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । येन स तेन चैत्रेण वसन्तमासे-
नेत्यर्थः । समर्प्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै
स ज्यां मौर्वीमधिगतमधिज्यं धनुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योऽनङ्गः
कामो निषङ्गभारे तूणीरभारग्रहणे पराङ्मुखो निरभिलाषोऽभूत् । चैत्रेण
कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च कामाय येन बाणसंरक्षणाय
तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः ।
भाषा
जंगलो को रंगबिरंगी फूलों से सुशोभित करने वाले चैत्र से, आश्चर्यजनक
फूलों के बाणों को पाकर, धनुष चढ़ाकर रखने वाले भी भगवान् कामदेव, तरकस
धारण करने में विमुख रहे । अर्थात् सदैव चैत्र द्वारा पुष्पबाण दिये जाने के
कारण धनुष चढ़ाए रहने पर भी तरकस में बाण रखकर उसे पीठ पर लटका
रखने की आवश्यकता भगवान् कामदेव को न पड़ी ।
शृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव नियन्त्रणमुच्छलन्त्या ।
प्रक्षाल्यमानस्य शनैरवापु-रनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥
अन्वयः
नियन्त्रणम् उच्छलन्त्या शृङ्गारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य
इव इन्दोः किरणाः शनैः अनिन्द्यं प्रसादम् अवापुः ।
व्याख्या
नियन्त्रणं निरर्गलमुच्छलन्त्योर्ध्वं प्रसरन्त्या शृङ्गारिणीभिरङ्गनाभिर्माजिता-
स्स्वच्छीकृता धवलीकृता इत्यर्थः । दन्ता दशनास्तेषां कान्तिस्तया प्रक्षाल्यमानस्य
संभाजितस्येव धवलीकृतस्येवेत्यर्थः । इन्दोश्चन्द्रस्य किरणाः कराः शनैः_क्रमशोऽ-
निन्द्यं निर्मलं प्रसादं धावल्यमवापुः प्रापुः । उत्प्रेक्षालङ्कारः ।
२९

Page 453Permalink

( ४५० )
भाषा
बिना रोक टोक ऊपर की ओर फैलनेवाली, अङ्गनाओ द्वारा साफ किए
हुए दांतो की कान्ति से मानो धोए हुए अर्थात् साफ किए हुए चन्द्रमा के
किरण, धीरे धीरे अपूर्व स्वच्छता अर्थात् धवलता को प्राप्त हुए।
अथ विरहिणीविलापं वर्णयति कविः—
त्वं चैत्र मित्रं यदि मन्मथस्य तस्मिन्ननङ्गे कथमक्षताङ्गः।
ज्ञातं तवान्तर्गतमागतोऽसि मिषेण नाशाय वियोगिनीनाम् ॥५६॥
अन्वयः
हे चैत्र यदि त्वं मन्मथस्य मित्रं (तर्हि) तस्मिन् अनङ्गे (सति) त्वं
कथम् अक्षताङ्गः। तव अन्तर्गतं (मया) ज्ञातम्। त्वं मिषेण वियोगिनीनां
नाशाय आगतः असि।
व्याख्या
हे चैत्र ! हे वसन्त ! यदि त्व मन्मथस्य कामस्य मित्र सुहृत्तर्हि तस्मिन्का-
मेऽनङ्गेऽङ्गहीने सति त्व कथमक्षतान्यङ्गानि यस्य स अभग्नावयवोऽविकलश-
रीर असीत्यर्थ । तव वसन्तस्यान्तर्गतं मानसगतो भावो मया विरहिण्या ज्ञात
बुद्धम्। त्व मिषेण व्याजेन वियोगिनीना विरहिणीना नाशाय विध्वंसनायाऽऽ-
गतस्समायातोऽसि। कामस्याऽनङ्गत्वे जातेऽपि त्वमधुना पुष्पविकासादिष्व्याजेन
तदीयं वियोगिनीनाशरूप कार्यं सम्पादयसीति भाव ।
भाषा
हे वसन्त ! यदि तुम कामदेव के मित्र हो तो कामदेव के शरीर रहित
होने पर तुम कैसे अविकल शरीर वाले हो अर्थात् तुम कैसे बिना आघात
रह गये। तुम्हारे हार्दिक भाव को मैने समझ लिया। तुम बहाने से वियोगिनिय
का नाश कर डालने के लिये आए हो ! अर्थात् कामदेव के काम में तुम, फूल
को पैदा कर बहाने से सहायता कर ही रहे हो।
नूनं महापातकिनं वितर्क्य वियोगिवर्गक्षयदीक्षितं त्वाम्।
पस्पर्श न त्र्यम्बकनेत्रवह्निः पापैस्त्वदङ्गैः प्रियखण्डितानाम् ॥५७

Page 454Permalink

( ४५१ )
अन्वयः
त्र्यम्बकनेत्रवह्निः प्रियखण्डितानाम् अखण्डैः पापैः त्वां वियोगिवर्ग-
क्षयदीक्षितं नूनं महापातकितं वितर्क्य न पस्पर्श ।
व्याख्या
त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य नेत्रवह्निर्नयनाग्निः
शिवनेत्रवह्निः प्रियेण कान्तेन खण्डिता विरहितास्तासां विरहिणीनामथवा प्रियाः
खण्डिता सुदूरं गता यासां तासां वियोगिनीसम्बन्धिताभिरित्यर्थः । अखण्डैरतिमहद्भिः
पापैर्दुष्कृतैः प्राणापहरणरूपैरित्यर्थः । त्वां वसन्तं वियोगिनां विरहिणां वर्गस्य
समूहस्य क्षये नाशकार्य दीक्षितं समात्तदीक्षं सन्नद्धमत एव नूनं निश्चयेन महापा-
तकिनं महापापिनं वितर्क्य विचार्य न पस्पर्श न स्पृष्टवान् न दग्धवानित्यर्थः ।
भाषा
शङ्कर की आख की आगने, वियोगिनिओ के सम्बन्ध में किये हुए बड़े २
पापो से, तुम को विरही लोगो के समूह को नाश करने में लगे हुए अत एव
निश्चय पूर्वक महापातकी समझ कर, नहीं छूवा अर्थात् नही जलाया ।
हराहवे पञ्चशरं विमुच्य पलायितः क्षत्रपराङ्मुखस्त्वम् ।
अस्य क्षताङ्गस्य पुरोऽधुनात्र हा चैत्रचाण्डाल कथं स्थितोऽसि ॥५८॥
अन्वयः
क्षत्रपराङ्मुखः त्वं हराहवे पञ्चशरं विमुच्य पलायितः । हे चैत्र-
चाण्डाल ! अधुना अत्र क्षताङ्गस्य अस्य पुरः हा ! कथं स्थितः असि ।
व्याख्या
क्षत्रियकुलवाचकस्य क्षत्रशब्दस्याऽत्र लक्षणया क्षत्रियधर्मोऽर्थः । क्षत्रात्-
क्षत्रियधर्मात्पराङ्मुखो निरपेक्षस्त्यक्तक्षत्रियधर्मस्त्वं हरस्य शङ्करस्याहवो युद्धं
तस्मिन्, शङ्करेण सह संजाते युद्धे पञ्चशरं कामं 'कामः पञ्चशरः स्मरः'
इत्यमरः । विमुच्य परित्यज्य पलायितोऽपसृतः । प्राणभयात्तमेकाकिनं परित्यज्य
पलाय्य दूरं गत इत्यर्थः । चैत्र एव चाण्डालस्तत्सम्बोधने हे चैत्रचाण्डाल !
हे चैत्राधम ! अधुनेदानीमत्राऽस्मिन्प्रदेशे क्षतं भग्नं शरीरं गात्रं यस्य स तस्य
भग्नगात्रस्याऽस्य कामस्य पुरोऽग्रे हा खेदसूचकमव्ययम् । कथं केन प्रकारेण

Page 455Permalink

( ४५२ )
स्थितोऽसि विद्यमानोऽसि । घोरसङ्कटे त्यक्तसङ्गस्य कामस्य पुनः सम्मुखे
समागमस्ते निर्लज्जत्वमेव द्योतयतीति भावः ।
भाषा
क्षत्रियधर्म से विमुख तुम, शिव के साथ भये हुए युद्ध में कामदेव को
छोड़कर भाग गये थे । हे नीच चैत्र ! इस समय, इस स्थान पर भग्न शरीर
कामदेव के सम्मुख हाय ! कैसे उपस्थित हो सके हो । अर्थात् घोर संकट
में कामदेव का साथ छोड़कर भाग जाने वाले तुम, इस समय यहाँ कामदेव के
सम्मुख कैसे उपस्थित होकर निर्लज्जता प्रकट कर रहे हो ।
इहैव सङ्गः फलवान्बभूव त्वया महापातकिना पिकानाम् ।
यदर्थदग्धोल्मुककश्मलेन देहेन लोकस्य बहिश्चरन्ति ॥५६॥
अन्वयः
महापातकिना त्वया पिकानां सङ्गः इह एव फलवान् बभूव । यत्
(ते) अर्धदग्धोल्मुककश्मलेन देहेन लोकस्य बहिः चरन्ति ।
व्याख्या
महापातकिनाऽत्युग्रपापिना त्वया वसन्तेन पिकानां कोकिलानां सङ्गस्सहवास
इहैवाऽस्मिन्नेव जन्मनि फलवान् फलसंयुक्तो बभूव जात । 'अत्युग्रपुण्यपापा-
नामिहैव फलमश्नुते' इति वचनात् । यद्यस्मात्कारणात् ते पिका अर्धं दग्धं
ज्वलितमुल्मुकमलातम् 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । तद्वत्कश्मलेन
कृष्णवर्णेन देहेन शरीरेण लोकस्य जनस्थानस्य जनसमुदायस्य वा बहिर्वाह्यदेशे
वने इत्यर्थ । चरन्ति भ्रमन्ति । महापातकिना वसन्तेन सह पिकानां संसर्गात्
तेषामपि पापसम्बन्धात्कृष्णवर्णत्वं लोकाद्वहिर्निष्कासनञ्च जातमिति भावः ।
भाषा
महापापी तुम्हारे साथ कोयलो का साथ होने से कोयलो को उसका फल
इसी जन्म म मिल गया । क्योकि कोयल अधजली मशाल के समान काले रंग
के शरीर से जन समूह के बाहर जंगलो में भटकने लगी । अर्थात् पापी थे
संसर्ग के पाप से काली पड़ कर नगर से दूर जंगलो में रहने लगी ।

Page 456Permalink

( ४५३ )
त्वं दृष्टदोषोऽपि पुनः स्मरेण यत्संगृहीतः शृणु तत्र हेतुम् ।
अङ्गीकृतस्त्रीवधपातकेन केनापि न स्वीकृत एष भारः ॥६०॥
अन्वयः
यत् दृष्टदोषः अपि त्वं स्मरेण पुनः संगृहीतः तत्र हेतुं शृणु । अङ्गी-
कृतस्त्रीवधपातकेन केन अपि एष भारः न स्वीकृतः ।
व्याख्या
यत् यतो दृष्ट परिज्ञातो दोषो मित्रसाहाय्यकारित्वाभावरूपो दुर्गुणो यस्य स
विज्ञातदुर्गुणोऽपि त्वं वसन्तः, स्मरेण कामेन पुनर्मुहु संगृहीतोऽङ्गीकृतस्तत्र
तस्मिन्विषये हेतुं कारणं शृणु समाकर्णय । अङ्गीकृतमुररीकृतं स्त्रीणां नारीणां
वधरूपं पातकं पापं येन स तेन स्वीकृतनररोदनरूपपापेन केनाऽपि केनाऽपि
व्यक्तिविशेषेण एष स्त्रीवधरूपो भार कार्यं न स्वीकृतो नोररीकृत ।
भाषा
कामदेव ने, मित्र की सहायता न करने के दोष से युक्त भी तुमको फिर से
क्यों अपने साथ रख लिया, इसका कारण सुनो । स्त्रीवध का पाप स्वीकार
करने वाले, तुम्हारे सिवाय किसी ने भी इस बोझ को उठाना अर्थात् इस कार्य
को करना स्वीकार नहीं किया । अर्थात् स्त्रीवध का पाप किसी के स्वीकार
न करने से, तुम जैसे दोषी को भी उसने अपना लिया ।
इत्थं वियोगज्वरजर्जराणा-मुद्वेजितानां मधुमासलक्ष्म्या ।
आसन्मुहुः पक्ष्मललोचनानां चैत्रे विचित्रोक्तिविचेष्टितानि ॥६१॥
अन्वयः
चैत्रे मधुमासलक्ष्म्या उद्वेजिताना वियोगज्वरजर्जराणां पक्ष्मललोचना-
नाम् इत्थं विचित्रोक्तिविचेष्टितानि मुहुः आसन् ।
व्याख्या
चैत्रे वसन्ते मधुमासलक्ष्म्या वसन्तशोभयोद्वेजितानां पीडितानां वियोगज्वरेण
पतिविरहरूपज्वरेण जर्जराणां शिथिलीभूतानां पक्ष्मानि घनपक्ष्मयुक्ता
'पक्ष्मलोम्नि किञ्जल्के तत्वाद्यंशेऽप्यणीयसि' इत्यमरः । लोचनानि नयनानि

Page 457Permalink

( ४५४ )
यासां तास्तासां पक्ष्मललोचनानामङ्गनानामित्यमनेन पूर्वोक्तप्रकारेण विचित्रा
आश्चर्योत्पादिका उक्तयो भाषितानि 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः'
इत्यमरः । तासां विचेष्टितानि विलासितानि मुहुर्वारम्वारमासन् बभूवुः ।
भाषा
वसन्त ऋतु में वसन्त की शोभा से पीड़ित, और पति विरह से जर्जरित,
सुन्दर गशीन पखौनियों वाली नारियों के इस प्रकार के आश्चर्य कारक उक्तियो
के विलास बार २ होते थे । अर्थात् विरह के कारण पीड़ित हो, स्त्रियाँ इस
प्रकार के अनेक विचित्र उद्गार बार २ निकालती थीं ।
गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्कः ।
दोषोऽपि यूनां गुण एव मेने पुरन्ध्रिभिर्मानपराङ्मुखीभिः ॥६२॥
अन्वयः
मानपराङ्मुखीभिः पुरन्ध्रिभिः यूनां गम्भीरता चाटुपराङ्मुखत्वं
सौभाग्यं अन्यप्रमदारदाङ्कः दोषः अपि गुणः एव मेने ।
व्याख्या
माने दर्पे पराङ्मुख्यो यत्तन्तर्तुकरणेनोत्सुक्यादुदासीनास्ताभिर्मानरहिताभिः
पुरन्ध्रिभिरङ्गनाभिर्यूनां युवजनानां गम्भीरता धैर्यं चाञ्चल्याभाव इत्यर्थः ।
चाटुपराङ्मुखत्वमनुनयानुकूल्यप्रेमवार्ताप्रचाररहितत्वं 'अस्त्री चाटुश्चटुश्लाघा
प्रेम्णा मिथ्या विकत्थनम्' इत्यमरः । सौभाग्यं सुन्दरभाग्यशालित्वं स्त्रीसमाग-
माप्तीच्छायां क्लेशराहित्यमित्यर्थः । अन्यासां प्रमदाना स्त्रीणां रदानां दशना-
नामङ्कश्चिह्नं 'कलङ्काङ्कौ लाञ्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः ।
इति दोषोऽपि गुण एव मेने तत्र दोषत्वबुद्धिरेव न जातेतिभावः । वसन्तर्तुकृता-
ध्युपकामवेदनया यूनां सकलदोषान् विस्मृत्य ताः कामपरवशञ्जाता इत्यर्थः ।
यूनां दोषा अपि तासां कृते तस्मिन्काले कामोद्दीपका जाता इति भावः ।
भाषा
स्त्री के सामने विद्यमान रहने पर भी युवकों का धीरता से बिना किसी
प्रकार की चञ्चलता दिखाते हुए बैठे रहना, मीठी २ रस भरी प्रेम की बातें न
करना, स्त्री समागम की इच्छा रहते हुए भी किसी प्रकार के क्लेश से पीड़ित
न होकर, अपनी ही ऐंठ में रहना, और उनके शरीर पर के अन्य स्त्री के या