विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 450 of 493
Read in context( ४४७ )
पदार्थेषु लोकसीमातिवर्त्तिषु । 'विस्तारश्चेतसो यस्तु स विस्मय उदाहृत' इति
साहित्यदर्पणे । घूर्णमानेभ्यो भ्रमद्रूपेभ्यो मूर्द्धभ्यो मस्तकेभ्य उच्चलतान्यूर्ध्वं
गच्छन्तो कुण्डलानो कर्णभूषणानि विभ्रमेण व्याजेन पिकानां कोकिलानां शब्दस्य
रवस्यानुसारोऽनुसरणं तेनाऽमुकहणान्त शब्द समायातीत्यनुमानेन तेषां
बन्धनाय कण्ठपाशा कण्ठरज्जय इव क्षिप्ता मुक्ता । पिकस्वराणां पीडादाय-
कत्वेन पिकानां बन्धनार्थं विरहिणीभि कर्णभूषणचक्रमणव्याजात्पाशा क्षिप्ता
इयेति भावः । अत्रापन्हुतिरलङ्कारः ।
भाषा
वियोगिनिओ ने कोकिल के शब्दो को सुन कर मार्मिक वेदना के आधिक्य
से मस्तको को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणो
के मिष से मानो कोयल के शब्दो का अनुसरण कर उनके गलो को बाध कर
उनका प्राणान्त करने वाले पाशा को छोडा ।
उद्दर्शयन्किंशुकपुष्पसूचीः सलीलमाधूतलतारुशाग्रः ।
वियोगिनां निग्रह्णाय सज्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥
अन्वयः
किंशुकपुष्पसूचीः उद्दर्शयन् सलीकम् आधूतलताकशाग्रः दक्षिण-
मारुतः कामाज्ञया वियोगिना निग्रह्णाय सज्जः अभूत् ।
व्याख्या
किंशुकपुष्पाणि पलाशकुसुमान्येव सूचय स्ताः (कर्म) किंशुकपुष्पसूची
रुद्दर्शयन्नुद्भवन् लीलया विलासेन सहितं सलीलं यथायत्तथा आधूतं कम्पितं
लतैव कशा तस्या अग्र येन स दक्षिणमारुतो मलयपवन कामस्य मकरध्वजस्या-
ऽऽज्ञयाऽनुशासनेन वियोगिन्यश्च वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां
'पुमान्स्त्रियायेकशेष' । निग्रहणाय शासनाय सज्ज उद्यत सन्नडोऽभूत् । यथा
शठरथबलीवर्दप्रेरणाय सूचीकशाद्यो प्रयोग क्रियते तथैव कामाज्ञया कामिजन-
पीडनाय वसन्तेन किंशुकपुष्पलतायो प्रयोग कृत इति भाव । अत्र रूपका-
लङ्कार ।
भाषा
पलाश के फूल रूपी काँटे को लिए हुए विलास से लता रूपी कोड़े