Skip to content
SarvaKosh
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages
Page 455Permalink
३९६रघुवंशमहाकाव्ये

कन्दमूलादिना वर्तञ्जीवन्वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार।

**भावार्थ—**इधर राम भी सीता और लक्ष्मण के साथ जंगली कन्द-मूल-फल से जीवन निर्वाह करते हुए युवावस्था में ही वह व्रत करने लगे जो इक्ष्वाकु-वंशी राजा लोग वृद्धावस्था में करते हैं ॥ २० ॥

प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किञ्चिदिव श्रमात् ॥ २१ ॥

**अन्वयः—**सः कदाचित् प्रभावस्तम्भितच्छायं वनस्पतिं आश्रितः ( सन् ) किञ्चित् श्रमात् इव सीताया अङ्के शिश्ये ।

प्रभावति । स रामः कदाचित्प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया तं वनस्पतिमाश्रितः सन् किञ्चिदीवच्छ्रमादिव सीताया अङ्के उत्सङ्गे शिश्ये सुषुवाप ।

**भावार्थ—**एक समय थकावट से राम सीता की गोद में सिर रखकर एक ऐसे वृक्ष के नीचे लेटे हुए थे जिसकी छाया उन्होंने अपनी अलौकिक शक्ति में स्थिर कर दी थी ॥ २१ ॥

ऐन्द्रिः किल नखस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ २२ ॥

**अन्वयः—**ऐन्द्रिः द्विजः तस्याः स्तनौ प्रियोपभोगचिह्नेषु पौरोभाग्यं आचरन् इव नखैः विददार ।

ऐन्द्रिरिति । ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकः । ‘ऐन्द्रिः काकजयन्तयोः’ तस्याः सीतायाः स्तनौ प्रियस्य रामस्योपभोगचिह्नेषु । तत्कृतनखक्षतेष्वित्यर्थः । पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम् ‘दोषैकदृक्पुरोभागी’ इत्यमरः । दुःश्लिष्टदोषवातामाचरन्कुर्वन्निव नखैर्विददार विलिलेख । किलेत्यैतिह्ये ।

**भावार्थ—**इसी बीच इन्द्र का पुत्र जयन्त कौआ का रूप धारण करके आया और राम के उपभोग से जन्य नखक्षतों में दोष दिखलाते हुए के समान सीता के स्तनों को अपने नखों से विदीर्ण कर दिया ॥ २२ ॥

तस्मिन्नास्यदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ २३ ॥

**अन्वयः—**रामावबोधितः रामः तस्मिन् इषीकास्त्रं आस्थत्, स एकनेत्रव्ययेन तस्मात् आत्मानं मुमुचे ।

तस्मिन्निति । रामया सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम् । ‘इषीका काशमुच्यते’ इति हलायुधः । आस्थदस्यति स्म । ‘असु क्षपणे’

द्वादशः सर्गः ३९७.

Page 456Permalink

द्वादशः सर्गः ३९७.

इति धातोर्लङ् । "अस्यतिवक्तिख्यातिभ्योऽङ्" इत्यप्रत्ययः । "अस्यतेस्थुक्"
इति थुगागमः । स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे
मुक्तवान् । मुचे कर्तरि लिट् । 'धेनुं मुमोच' इतिवत्प्रयोगः ।

भाषार्थ—झट सीता ने रामको जगाया और राम ने तत्काल उसपर सींक
का बाण छोड़ दिया, जिससे बचने के लिए वह कौआ इधर-उधर बहुत चक्कर
लगाया, किन्तु जब तक उसने अपनी एक आंख नहीं दे दी, तब तक उसका
छुटकारा नहीं हुआ अर्थात् राम ने बाण से उसकी एक आँख नष्ट कर दी ॥२३॥

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ ॥ २४ ॥

अन्वयः--रामः तु आसन्नदेशत्वात् पुनः भरतागमनं आशङ्क्य उत्सुकसारङ्गां
चित्रकूटस्थलीं जहौ ।

राम इति। रामस्त्वासन्नदेशत्वाद्वैतोः पुनर्भंरतागमनमाशङ्क्योत्सुकसारङ्गा-
मुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज । आसन्नश्चासौ देशश्चेति विग्रहः ।

भाषार्थ--कुछ दिनों में ही राम ने इस डर से चित्रकूट का वह आश्रम
जहाँ के लोग उनसे इतने हिल मिल गये थे कि सदा उन्हें देखते ही रहते थे
छोड़ दिया, कि अयोध्या पास में ही है, ऐसा न हो कि भरत पुनः यहाँ पहुँच
जाय ॥ २४ ॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षकेष्विव भास्करः ॥ २५ ॥

अन्वयः--आतिथेयेषु ऋषिकुलेषु वार्षकेषु ऋक्षेषु भास्करः इव दक्षिणां
दिशं प्रययौ ।

प्रययाविति । स रामः अतिथिषु साधून्यातिथेयानि । “पथ्यतिथिवसति-
स्वपतेर्ढञ्” इति ढञ्प्रत्ययः । तेष्वृषिकुलेष्वृष्याश्रमेषु । ‘कुलं कुल्ये गणे देहे गेहे
जनपदेऽन्वये’ इति हेमः । वर्षासु भवानि वार्षिकाणि । “वर्षाभ्यष्ठक्” इति
ठक्प्रत्ययः । तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन्दक्षिणां दिशं प्रययौ ।

भाषार्थ--जिस प्रकार वर्षाकाल के आर्द्रा आदि दश नक्षत्रों में ठहरते
हुए सूर्य दक्षिणायन हो जाते हैं उसी प्रकार अतिथि सत्कार करनेवाले ऋषियों
के आश्रमों में ठहरते हुए राम दक्षिण दिशा की ओर बढ़ गये ॥ २५ ॥

बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ २६ ॥

Page 457Permalink

३९८ रघुवंशमहाकाव्ये

अन्वयः—तं अनुगच्छन्ती विदेहाधिपतेः सुता कैकेय्या प्रतिषिद्धा अपि गुणोन्मुखी लक्ष्मीः इव बभौ।

बभाविति। तं राममनुगच्छन्ती अनुयान्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीखिव बभौ ।

भाषार्थ—यद्यपि कैकेयी ने रामको राज्यलक्ष्मी से दूर कर दिया था फिर भी उनके पीछे-पीछे चलनेवाली जनकनन्दिनी सीता ऐसी जान पड़ती थी मानों राम के गुणों से उत्कण्ठित होकर राम के पीछे-पीछे राजलक्ष्मी चल रही है॥ २६ ॥

अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥ २७ ॥

अन्वयः—सा अनुसूयातिसृष्टेन पुण्यगन्धेन अङ्गरागेण काननं पुष्पोच्चलितषट्पदं चकार ।

अनुसूयेति। सा सीताऽनुसूययाऽत्रिभार्ययाऽतिसृष्टेन दत्तेन पुण्यगन्धेनाङ्गरागेण काननं वनं पुष्पेभ्यः उच्चलिता निर्गताः षट्पदाः भ्रमरा यस्मिंस्तत्तथाभूतं चकार ।

भाषार्थ—जब राम अत्रि ऋषि के आश्रम पर पहुँचे तब उनकी धर्मपत्नी सती अनुसूयाजी ने सीता के शरीर में ऐसा सुगन्धित अंगराग लगा दिया कि उसकी पवित्र गन्ध पाकर भौंरे जंगली पुष्पों को छोड़कर उधर ही आने लगे ॥ २७ ॥

सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ २८ ॥

अन्वयः—सन्ध्याभ्रकपिशः विराधः नाम राक्षसः ग्रहः इन्दोः इव तस्य मार्गम् आवृत्य अतिष्ठत् ।

सन्ध्येति। सन्ध्याभ्रकपिशो सन्ध्याभ्रवत्कपिशः पिङ्गो विराधो नाम राक्षसः ग्रहो राहुरिन्दोरिव तस्य रामस्य मार्गमध्वानमावृत्यावरुद्ध्यातिष्ठत् ।

भाषार्थ—जिस प्रकार चन्द्रमा का मार्ग राहु रोक लेता है उसी प्रकार सन्ध्याकाल के बादल के समान लाल वर्णवाला विराध नाम का राक्षस राम के मार्ग को रोक कर खड़ा हो गया ॥ २८ ॥

स जहार तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ २९ ॥

अन्वयः—लोकशोषणः सः तयोः मैथिलीं नभो नभस्ययोः अन्तरे वृष्टिः इव जहार ।

स इति । लोकस्य शोषणः शोषकः जनसन्तापकारीत्यर्थः। स राक्षसतयो राम-

Page 458Permalink

द्वादशः सर्गः ३९९

लक्ष्मणयोर्मध्ये मैथिलीं नभोनभस्ययोः श्रावणभाद्रपदयोरन्तरे मध्ये वृष्टिमवग्रहो वर्षप्रतिबन्ध इव जहार। 'वृष्टिवर्षं तन्निघातेऽवग्राहावग्रहो समौ' इत्यमरः।

**भाषार्थ—**जिस प्रकार कोई खोटा ग्रह श्रावण तथा भादों मास के बीच से वर्षा को गायब कर देता है उसी प्रकार संसार को सन्तप्त करनेवाले उस विराध राक्षस ने राम और लक्ष्मण के बीच से सीता को हर लिया॥ २९॥

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥ ३०॥

**अन्वयः—**काकुत्स्थौ तं निष्पिष्य अशुचिना गन्धेन स्थलीं पुरा दूषयति इति वसुधायां निचख्नतुः।

तमिति। ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। "यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् वसुधायां निचख्नतुर्भूमो खनित्वा निक्षिप्तवन्तौ च।

**भाषार्थ—**राम और लक्ष्मण उसे तत्काल मारकर पृथ्वी में इसलिए गाड़ दिये कि कहीं इसके शरीर से दुर्गन्ध निकल कर इस प्रदेश को दूषित न कर दे॥ ३०॥

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ ३१॥

**अन्वयः—**ततः रामः कुम्भजन्मनः शासनात् पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ इव अनपोढस्थितिः तस्थौ।

पञ्चवट्यामिति। ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात् पञ्चानां वटानां समाहारः पञ्चवटी। "तद्धितार्थोत्तरपदसमाहारे च" इति तत्पुरुषः। "संख्यापूर्वो द्विगुः" इति द्विगुसंज्ञायाम्। "द्विगोः" इति ङीप्। "द्विगुरेकवचनम्" इत्येकवचनम्। तस्यां पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ।

**भाषार्थ—**इसके बाद जिस प्रकार विन्ध्यपर्वत अगस्त्यजी की आज्ञा से अपनी प्रकृति में ही स्थित रहता है उसी प्रकार राम भी अगस्त्यजी के कहने से मर्यादा पूर्वक पञ्चवटी में रहने लगा॥ ३१॥

रावणावरजा तत्र राघवं मदनातुरा।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ ३२॥

Page 459Permalink

४०० रघुवंशमहाकाव्ये

अन्वयः—तत्र मदनातुरा रावणावरजा राघवं निदाघार्ता व्याली मलयद्रुमम् इव अभिपेदे ।

रावणावरजेति। तत्र पञ्चवट्यां मदनातुरा रावणावरजा रावणानुजा शूर्पणखा । “पूर्वपदात्संज्ञायामगः” इति णत्वम् । राघवं निदाघार्ता व्याकुला व्याली भुजङ्गी मलयद्रुमं चन्दनद्रुममिव अभिपेदे प्राप ।

भाषार्थ—वहाँ जिस प्रकार धूप से व्याकुल होकर कोई सर्पिणी चन्दन के वृक्ष के पास पहुँच गई हो, उसी प्रकार काम से पीड़ित होकर रावण की छोटी बहन शूर्पणखा राम के पास जा पहुँची ॥ ३२ ॥

सा सीतासन्निधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥ ३३ ॥

अन्वयः—सा सीता सन्निधौ एव कथितान्वया ( सती ) तं वव्रे । हि अत्यारूढः नारीणां मनोभवः अकालज्ञः ( भवति ) ।

सेति। सा शूर्पणखा सीतासन्निधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती । तथाहि अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो अनवसरज्ञो हि ।

भाषार्थ—पहले तो उस शूर्पणखा ने अपने कुल का परिचय दिया । बाद सीता के सामने ही कहने लगी कि मैं आपको अपना पति बनाने आई हूँ । ठीक ही है जब स्त्रियाँ अधिक कामातुर हो जाती हैं तब उन्हें समय और असमय का ज्ञान नहीं रहता ॥ ३३ ॥

कलत्रवानहं बाले कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ३४ ॥

अन्वयः—वृषस्कन्धः रामः वृषस्यन्तीं तां 'हे बोले ! अहं कलत्रवान्, मे कनीयांसं भजस्व' इति शशास ।

कलत्रवानिति । वृष पुमान् । ‘वृषः स्याद्वासवे धर्म सौरभेये च शुक्ले । पुंराशिभेदयोः शृङ्गयां मूषकश्रेष्ठयोरपि ॥’ इति विश्वः । वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी । ‘वृषस्यन्ती तु कामुकी' इत्यमरः । 'सुप आत्मनः क्यच्' इति क्यच्प्रत्ययः । "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि" इत्यसुगागमः । ततो लटः शत्रादेशः । “उगितश्च” इति ङीप् । श्लोकार्थस्तु—वृषस्कन्धो रामो वृषस्यन्तीं तां राक्षसीं—हे बाले ! अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व—इति शशासाज्ञापितवान् ।

भाषार्थ—शूर्पणखा की बात सुनकर वृष के समान विशाल कन्धेवाले राम

द्वादशः सर्गः ४०१

Page 460Permalink

द्वादशः सर्गः ४०१

मैथुन की इच्छावाली उस शूर्पणखा से बोले—हे वाले ! मेरा तो विवाह हो चुका है तुम मेरे छोटे भाई के पास जाओ ॥ ३४ ॥

ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् ।
साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ ३५ ॥

अन्वयः—पूर्वं ज्येष्ठाभिगमनात् तेन अपि अनभिनन्दिता भूयः रामाश्रया सा उभयकूलभाक् नदी इव अभूत् ।

ज्येष्ठेति । ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाप्यनभिनन्दिता नाङ्गीकृता भूयो रामाश्रया रामसमीपं पुनरागच्छन्ती सा राक्षसी उभे कुले भजतीत्युभयकूलभाक् नदीवाभूत् । सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ।

भाषार्थ—वह झट लक्ष्मण के पास पहुँची लक्ष्मण ने उससे कहा तू मेरे बड़े भाई के पास विवाह की इच्छा से जा चुकी है इसलिए तू मेरी माता के समान है, मैं तुमसे विवाह नहीं कर सकता । यह सुनकर वह फिर राम के पास पहुँची । उस समय उसकी दशा उस नदी के समान हो गई, जो बारी-बारी अपने दोनों तटों का स्पर्श करती हुई बह रही हो ॥ ३५ ॥

संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातस्तिमितं वेलां चन्द्रोदय इवोदधेः ॥ ३६ ॥

अन्वयः—मैथिलीहासः क्षणसौम्यां तां निवातस्तिमितं उदधेः वेलां चन्द्रोदय इव संरम्भं निनाय ।

संरम्भमिति । मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीं । निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम् । अम्बुपूरमित्यर्थः । ‘अब्ध्याम्बुविकृतौ वेला’ इत्यमरः । चन्द्रोदय इव संरम्भं संक्षोभं निनाय ।

भाषार्थ—जिस प्रकार वायु के अभाव में शान्त समुद्र के तरङ्ग को चन्द्रमा संक्षुब्ध कर देता है, उसी प्रकार सीताजी को हँसते हुए देखकर क्षणभर के लिए सुन्दर बनी हुई वह शूर्पणखा बिगड़कर खड़ी हो गई और बोली ॥ ३६ ॥

फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्रचामित्यवेहि त्वया कृतम् ॥ ३७ ॥

अन्वयः—अस्य उपहासस्य फलं सद्यः पाप्स्यसि, मां पश्य, त्वया कृतं व्याघ्रचां मृग्याः परिभव ( इति ) अवेहि ।

फलमिति । श्लोकद्वयेनान्वयः । अस्योपहासस्य फलं सद्यः सम्प्रत्येक

२६ र० सम्पू०

Page 461Permalink
४०२रघुवंशमहाकाव्ये

आप्स्यसि । मां पश्य । त्वया कर्त्र्या कृतमुपहासरूपं करणं व्याघ्र्यां विषये मृग्याः कर्त्र्या परिभव इत्यवेहि ।

भाषार्थ— इस उपहास का फल तुम शीघ्र पाओगी, मुझे देखो तुमने मेरा वैसे ही अपमान किया है जैसे कि कोई हरिणी किसी व्याघ्री का अपमान करे । अर्थात् जिस प्रकार व्याघ्री का अपमान करने वाली मृगी का कुशल नहीं होता, उसी प्रकार तेरे द्वारा किये गये उपहास परिणाम अच्छा नहीं होगा ॥ ३७ ॥

इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ ३८ ॥

अन्वयः— भयात् भर्तुः अङ्के निविशतीं मैथिलीं इति उक्त्वा शूर्पणखा नाम्नः सदृशं रूपं प्रत्यपद्यत ।

इतीति । भयाद्भर्तुरङ्के निविशतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा नाम्नः सदृशम् । शूर्पाकारं नखयुक्तमित्यर्थः । रूपमाकारं प्रत्यपद्यत स्वीचकार । अदर्शयदित्यर्थः ।

भाषार्थ— सीताजी यह सुनते ही भय से राम की गोद में छिप गईं और शूर्पणखा ने अपने नाम के अनुसार सूप के समान बड़े-बड़े नखवाला अपना रूप धारण कर लिया ॥ ३८ ॥

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम् ॥ ३९ ॥

अन्वयः— लक्ष्मणः प्रथमं कोकिलामञ्जुवादिनीं पश्चात् शिवाघोरस्वनां तां श्रुत्वा विकृता इति विबुधे ।

लक्ष्मण इति । लक्ष्मणः प्रथमं कोकिलावन्मञ्जुवादिनीं पश्चाच्छिवावद्-घोरस्वनां जम्बुकीभीषणरवां तां शूर्पणखां श्रुत्वा। तस्या स्वनं श्रुत्वेत्यर्थः। सुस्वनः शङ्खः श्रूयत, इतिवत्प्रयोगः। विकृता मायाविनीति बुबुधे बुद्धवान् । कर्तरि लिट् ।

भाषार्थ— जब लक्ष्मण ने देखा कि अभी तो यह कोयल के समान मधुर बोल रही थी और अब सियारिन के समान भयंकर स्वर से बोल रही है । तब तब उन्होने समझ लिया कि यह मायाविनी राक्षसी है ॥ ३९ ॥

पर्णशालामिथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत् ॥४०॥

अन्वयः— अथ स विकृष्टासिः क्षिप्रं पर्णशालां प्रविश्य भीषणां तां वैरूप्यपौन-रुक्त्येन अयोजयत् ।

पर्णशालामिति । अथ स लक्ष्मणो विकृष्टासिः कोशोद्धृतखड्गः सञ्क्षिप्तं

Page 462Permalink

द्वादशः सर्गः ४०३

पर्णशालां प्रविश्य भीषयतीति भीषणाम्। नन्द्यादित्वाल्ल्युट् कर्तरि। तां राक्षसीं कर्णनासादिच्छेदाद्यावैरूप्यं तस्य वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया तेनायोजय-द्योजितवान्। स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः।

भाषार्थ—इसके बाद लक्ष्मणजी झट से तलवार लेकर पर्णकुटी में गये और वहाँ शूर्पणखा के नाक-कान काट लिये। नाक कान कट जाने से वह और भी अधिक कुरूप दिखाई देने लगो। अर्थात् राक्षसी होने के कारण वह तो पहले से ही कुरूप बन गई थी फिर नाक कान कट जाने पर और अधिक कुरूप हो गई ॥ ४० ॥

सा वक्रनखधारिण्या वेणुकर्कशपर्वया।
अङ्कुशाकारयाऽङ्गुल्या तावतर्जयदम्बरे ॥ ४१ ॥

अन्वयः—सा वक्रनखधारिण्या वेणुकर्कशपर्वया अंकुशाकारया अङ्गुल्या तौ अम्बरे अतर्जयत्।

सेति। सा वक्रनखं धारयतीति वक्रनखधारिणी तया वेणुवत्कर्कशपर्वया अत एवाङ्कुशस्याकार इवाकारो यस्याः सातया अङ्गुल्या तौ राघवावम्बरे व्योम्नि स्थिता। 'अम्बरं व्योम्नि वाससिः' इत्यमरः। अतर्जयद्भर्त्सयत्। 'तर्ज भर्त्सने' इति धातोश्चौरादिकादनुदात्तत्त्वादात्मनेपदेन भाव्यम्। तथापि चक्षिङो ङित्कर-णाज्ज्ञापकादनुदात्तेत्वनिमित्तस्यानित्यत्वात्परस्मैपदमूह्यमित्युक्तमाख्यातचन्द्रिका-याम्। 'तर्जयते भर्त्सयते तर्जयतीत्यपि च दृश्यते कविषु' इति।

भाषार्थ—नकटी होकर वह आकाश में उड़ी अङ्कुश के समान टेढ़े-मेढ़े नखों वाली और बाँस के समान कड़े पोरोंवाली अपनी अङ्गुलियां चमका-चमकाकर राम और लक्ष्मण को धमकाने लगी ॥ ४१ ॥

प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम्।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥ ४२ ॥

अन्वयः--( सा ) आशु जनस्थानं प्राप्य खरादिभ्यः तथाविधं रामोपक्रमं नवं रक्षः परिभवं आचख्यौ।

प्राप्येति। साऽऽशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङ्ग-च्छेदात्मकं नसिकाच्छेदरूपम् उपक्रम्यत इत्युपक्रमः। कर्मणि घञ्प्रत्ययः। रामस्य कर्तुरुपक्रमः रामोपक्रम रामेणादावुपक्रान्तमित्यर्थः। “उपज्ञोपक्रमं तदाद्याचि-ख्यासायाम्" इति क्लीबत्वम्। तं नवं राक्षसां कर्मभूतानां परिभवमाचख्यौ च।

भाषार्थ—वहां से चलकर वह तत्काल जनस्थान में पहुँची तथा खर आदि

Page 463Permalink

४०४
रघुवंशमहाकाव्ये

राक्षसों से राम के उस व्यवहार को बतलाकर उभाड़ा और कहा कि आज प्रथमबार राम ने इस प्रकार राक्षसों का अपमान किया है ॥ ४२ ॥

मुखावयवलूनां तां नैऋता युत्पुरो दधुः ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥ ४३ ॥

अन्वयः—नैऋता मुखावयवलूनां तां पुरः दधुः यत् तत् एव रामाभियायिनां तेषां अमंगलम् अभूत् ।

मुखेति । नैऋता राक्षसाः । 'नैऋती यातुराक्षसी' इत्यमरः । मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति । यत्तदेव रामाभियायिनां राममभिद्रवतां तेषाममङ्गलमभूत् ।

भावार्थ—आगे-आगे नकटी और कनकटी शूर्पणखा और उसके पीछे वे राक्षस राम से लड़ने को निकल पड़े। इस नकटी को आगे करके उन लोगों ने पहले ही अपना सगुन बिगाड़ दिया, क्योंकि ज्योतिष शास्त्र में यात्रा के समय सामने अङ्ग-भङ्ग व्यक्ति को देखना अमंगल बतलाया है ॥ ४३ ॥

उदायुधानापततस्तान्दृप्तानप्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ ४४ ॥

अन्वयः—उदायुधान् आपततः तान् तृप्तान् प्रेक्ष्य राघवः चापे विजयाशंसां लक्ष्मणे सीतां च निदधे ।

उदिति । उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तान्सगर्वांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे धनुषि विजयस्याशंसामाशां लक्ष्मणे सीतां च निदधे । सीतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय सन्नद्ध इति भावः ।

भावार्थ—राम ने दूर से ही देखा कि हाथ में शस्त्र उठाए अहङ्कारी राक्षस आगे बढ़े चले आ रहे हैं। उन्हें यह विश्वास हो गया कि इन्हें तो मैं अकेले ही जीत लूंगा इसलिए उन्होंने सीता की रक्षा का भार लक्ष्मण को सौंप दिया। अर्थात् सीता की रक्षा के लिए लक्ष्मण को नियुक्त कर स्वयं युद्ध के लिए तैयार हो गये ॥ ४४ ॥

एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ ४५ ॥

अन्वयः—दाशरथिः एकः यातुधानाः सहस्रशः तैः तु सः आजौ ते यावन्त एव तावान् ददृशे ।

एक इति । दाशरथी राम एकोऽद्वितीयः या तुधानाः कामं सहस्रशः सन्तीति

Page 464Permalink

द्वादशः सर्गः । ४०५

शेषः । तैर्यातुधानैस्तु स राम आजौ युद्धे, ते यातुधाना यावन्तो यावत्संख्याका एव तावांस्तावत्संख्याकश्च ददृशे ।

भावार्थ— यद्यपि राम अकेले थे और राक्षस हजारों थे पर राम इस प्रकार लड़ रहे थे कि वहाँ जितने राक्षस थे उन्हें उतने ही राम दिखाई पड़ रहे थे ॥ ४५ ॥

असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥ ४६ ॥

अन्वयः— अथ शुभाचारः सः काकुत्स्थः असज्जनेन प्रयुक्तं दूषणं आत्मनः दूषणम् इव न चक्षमे ।

असीदिति । अथ शुभाचारो रणे साधुचारि सद्वृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुच्चारितं च दूषणं । दूषयतीति दूषणस्तं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे । प्रतिकर्तुं प्रवृत्त इत्यर्थः ।

भावार्थ— जिस प्रकार सदाचारी व्यक्ति नीच पुरुषों द्वारा अपने ऊपर लगाये गए दोष को नहीं सहन करता है उसी प्रकार राम युद्ध में दूषण राक्षस का जाना भी नहीं सह सके ॥ ४६ ॥

तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिबोद्ययुः ॥ ४७ ॥

अन्वयः— सः तं खरत्रिशिरसौ च शरैः प्रतिजग्राह । क्रमशः ( प्रयुक्ताः ) तस्य ते पुनः चापात् समं इव उद्ययुः ।

तमिति । स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह प्रतिजहारेत्यर्थः । क्रमशो यथाक्रमं प्रयुक्ता अपीति शेषः । तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः । अतिलघुहस्त इति भावः ।

भावार्थ— राम ने उस दूषण खर और त्रिशिरा पर एक-एक करके अपने बाण चलाये । अत्यन्त शीघ्रता से चलाये हुए वे बाण ऐसे जान पड़ते थे मानों वे एक ही साथ धनुष से छूटे हों ॥ ४७ ॥

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वंविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥ ४८ ॥

अन्वयः— देहातिगैः यथापूर्वंविशुद्धिभिः शीतैः तैः बाणैः त्रयोणां आयुः पीतं, रुधिरं तु पतत्रिभिः पीतम् ।

तैरिति । देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः । तैर्यथास्थिता पूर्वंविशुद्धि-

Page 465Permalink
४०६रघुवंशमहाकाव्ये

येषां तैः । अतिवेगत्वेन देहभेदात्प्रागिव रुधिरलेपरहितैरित्यर्थः । 'शितैस्तीक्ष्णै-
स्तैर्बाणैस्त्रयाणां खरादीनामायुर्जीवितं पीतं। रुधिरं तु पतत्रिभिः पक्षिभिः पीतम्।
भाषार्थ—वे बाण उनके शरीर को छेदकर इतने वेग से बाहर निकल गये कि उनमें रक्त भी नहीं लग सका; क्योंकि बाण तो उनकी आयु पीने के लिये गये थे उनका रक्त तो पक्षियों ने पीया ॥ ४८ ॥

तस्मिन्न्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन ॥ ४९ ॥

अन्वयः—तस्मिन् रामशरोत्कृत्ते महति रक्षसां बले उत्थितं कबन्धेभ्यः अन्यत् च किञ्चित् न ददृशे ।

तस्मिन्निति । तस्मिन्न्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः । 'कबन्घोऽस्त्री क्रियायुक्तमपमूर्धंकलेवरम्' इत्यमरः । अन्यच्चान्यत्किञ्चन न ददृशे । कबन्धेभ्य इत्यत्र 'अन्यारात्*' इति पञ्चमी । निःशेषं हतमित्यर्थः ।
भाषार्थ — राम ने राक्षसों की उस बड़ी सेना को अपने बाणों से इस प्रकार काट डाला कि युद्ध भूमि में राक्षसों के धड़ो छोड़कर और कुछ भी नहीं दिखाई दे रहा था ॥ ४९ ॥

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ ५० ॥

अन्वयः—सा सुरद्विषां वरूथिनी वाणवर्षिणं रामं योधयित्वा गृध्रच्छाये अप्रबोधाय सुष्वाप ।

सेति । सा सुरद्विषां रक्षसां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम् । "छायां बाहुल्ये" इति क्लीबत्वम् । तस्मिन्नप्रबोधायापुनर्बोधाय सुष्वाप । ममारत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिर्ध्वन्यते ।
भाषार्थ—बाण बरसाने वाले राम से लड़कर उन राक्षसों की सेना गिद्धों के पंखों की छाया में सदा के लिए सो गई अर्थात् मर गई ॥ ५० ॥

राघवास्त्राविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ५१॥

अन्वयः—एका शूर्पणखा एव रावणं प्रति राघवास्त्रविदीर्णानां तेषां रक्षसां दुष्प्रवृत्तिहरा अभवत् ।

Page 466Permalink

द्वादशः सर्गः ४०७

राघवेति। एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। "पूर्वपदात्संज्ञायामगः" इति णत्वम्। "नखमुखात्संज्ञायाम्" इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्प्रवृत्तिं वार्त्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः। "हरतेरनुद्यमनेऽच्" इत्यच्प्रत्ययः।

भाषार्थ—राम के अस्त्रों से मारे गये उन राक्षसों की मृत्यु का समाचार रावण के पास पहुँचाने के लिए केवल शूर्पणखा ही बच पाई ॥ ५१ ॥

निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥ ५२ ॥

अन्वयः—स्वसुः निग्रहात् आप्तानाम् वधात् च धनदानुजः रामेण दशसु मूर्धसु पदं निहितं मेने।

निग्रहादिति। स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने।

भाषार्थ—बहन शूर्पणखा का अपमान और खर, दूषण, त्रिशिरा आदि अपने आप्त बन्धुओं का वध रावण को इतना अपमानजनक जान पड़ा कि मानों राम ने उसके दशों सिरों पर पैर रख दिया हो ॥ ५२ ॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५३ ॥

अन्वयः—सः मृगरूपेण रक्षसा तौ वञ्चयित्वा पक्षीन्द्रप्रयासक्षणविघ्नितः ( सन् ) सीतां जहार।

रक्षसेति। स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य। पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः, सन्सीतां जहार।

भाषार्थ—उस रावण ने मारीच को माया से सुवर्ण का मृग बना कर और राम और लक्ष्मण को धोखा देकर सीता का हरण कर लिया। मार्ग में गृद्धराज जटायु कुछ देर लड़ा भी, पर वह सफल न हो सका ॥ ५३ ॥

तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ ५४ ॥

अन्वयः—सीतान्वेषिणौ तौ लूनपक्षं गृध्रं कण्ठवर्तिभिः प्राणैः दशरथप्रीतेः अनृणं अपश्यताम्।

ताविति। सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः

Page 467Permalink

४०८

रघुवंशमहाकाव्ये

प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैविमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ । दृष्टेलंङि रूपम् ।

भावार्थ — सीता को ढूंढ़ते हुए राम और लक्ष्मण दोनों ने मार्गमें देखा कि जटायु के पङ्ख कट गये थे और उसके प्राण कण्ठ तक आ गये थे, किन्तु उसने सीता के हरण करने वाले रावण से लड़कर अपने मित्र दशरथ का ऋण चुका दिया था ॥ ५४ ॥

स रावणहृतां ताभ्यां वचसाऽऽचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ॥ ५५ ॥

अन्वयः— सः रावणहृतां मैथिलीं ताभ्यां वचसा आचष्ट, आत्मनः सुमहत्कार्यं व्रणैः आवेद्य संस्थितः ।

स इति । स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम् । 'क्रिया-ग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी । वचसा वाग्वृत्त्याऽऽचष्ट । आत्मनः सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः ।

भावार्थ— वह जटायु राम और लक्ष्मण से बतलाया कि सीता को रावण हर ले गया है । जटायु के घावों को देखकर ही यह स्पष्ट हो रहा था कि वह कितने जी जान से रावण से लड़ा था । बाद उसका प्राण निकल गया ॥५५॥

तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात्पराववृतिरे क्रियाः ॥ ५६ ॥

अन्वयः— नवीभूतपितृव्यापत्तिशोकयोः तयोः तस्मिन् पितरि इव अग्निसंस्कारात् पराः क्रिया ववृतिरे ।

तयोरिति । व्यापत्तिर्मरणं नवीभूतः पितृव्यापत्तिशोको पितुः दशरथस्य व्यापत्तेर्मरणस्य शोकः ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त । तस्य पितृवदौर्ध्वदैहिकं चक्रतुरित्यर्थः ।

भावार्थ — जटायु केवल इतना ही कहकर चल बसा । उसके मरने से राम और लक्ष्मण को उतना ही शोक हुआ जितना उन्हें अपने पिता दशरथ के मरने पर हुआ था । बाद उसका विधिवत् दाह संस्कार करके पिता के समान ही उन्होंने उसका प्रेत आदि कर्म किया ॥ ५६ ॥

वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमुक्षुः सख्यं रामस्य समानव्यसने हरौ ॥ ५७ ॥

Page 468Permalink

द्वादशः सर्गः ४०९

अन्वयः—वधनिर्धूतशापस्य कबन्धस्य उपदेशतः रामस्य समानव्यसने हरौ सख्यं मुमूच्छं ।

वधेति । वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशे-षस्योपदेशतो रामस्य समानव्यसने समानापदि कलत्रवियोगदुःखिते सख्यार्थिनीत्यर्थः । हरौ कपौ सुग्रीवे । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । सख्यं मुमूच्छं ववृधे ।

भाषार्थ—वहाँ से कुछ आगे बढ़ने पर उन्हें कबन्ध मिला, जो एक ऋषि के शाप से राक्षस हो गया था, राम ने उसकी भुजायें काट डालीं जिससे उसका शाप छूट गया और वह पुनः देवता हो गया । इससे प्रसन्न होकर उसने सुग्रीव का पता बतलाया जिसके भाई बाली ने उसके राज्य और स्त्री को छीन लिया था इसलिए स्त्री वियोगी राम ने स्त्री वियोगी उस सुग्रीव से मित्रता कर ली ॥ ५७ ॥

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थानं इवादेशं सुग्रीवं संन्यवेशयत् ॥ ५८ ॥

अन्वयः—वीरः सः वालिनं हत्वा चिरकांक्षिते तत्पदे धातोःस्थाने आदेशम् इव सुग्रीवं संन्यवेशयत् ।

स इति । वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकांक्षिते तत्पदे वालि स्थाने धातोः स्थान आदेशमिव । आदेशभूतं धात्वन्तरमिवेत्यर्थः । सुग्रीवं सन्नयवेशयत्स्थापितवान् । यथा "अस्तेर्भूः" इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः । आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ।

भाषार्थ—उस वीर राम ने बाली को मारकर चिरकाल से अभिलषित उसके सिंहासन पर सुग्रीव को उसी प्रकार बैठा दिया । जिस प्रकार वैयाकरण लोग लिट् लुट् आदि लकारों में "अस्तेर्भूः" इस पाणिनी के सूत्र के आधार पर अस् धातु के स्थान पर भू आदेश को बैठा देते हैं ॥ ५८ ॥

इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥ ५९ ॥

अन्वयः—वैदेहीम् अन्वेष्टुं भर्तृ चोदिताः कपयः आर्तस्य रामस्य मनोरथा इव इतस्ततः च चेरुः ।

इतस्ततश्चेति । वैदेहीमन्वेष्टुं मागितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्ताः कपयो हनूमत्प्रमुखाः । आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव इतस्ततश्चेरुर्नानादेशे बभ्रमुश्च ।

Page 469Permalink
४१०रघुवंशमहाकाव्ये

**भाषार्थ—**सुग्रीव के द्वारा सीता का पता लगाने के लिए आज्ञा पाकर वानर भी उसी प्रकार इधर-उधर घूमकर सीता की खोज करने लगे, जिस प्रकार विरही राम का मन सीताजी की खोज में इधर-उधर भटकता था ॥५९॥

प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥ ६० ॥

**अन्वयः—**सम्पातिदर्शनात् तस्याः प्रवृत्तौ उपलब्धायं मारुतिः सागरं निर्ममः संसारमिव तीर्णः ।

प्रवृत्ताविति । सम्पातिर्नाम जटायुषो ज्येष्ठायान्भ्राता तस्य दर्शनात् । तन्मुखादिति भावः । तस्याः सीतायाः प्रवृत्तौ वार्तायाम् । ‘वार्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः । उपलब्धायं ज्ञातायां सत्याम् । मरुतस्यापत्यं पुमान्मारुतिः हनूमान्सागरं । ममेत्येतदव्ययं ममतावाचि । तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव तीर्णस्ततार । तरतेः कर्तरि क्तः ।

**भाषार्थ—**मार्ग में जटायु के भाई सम्पाति से उनकी भेंट हो गई, उसने बतलाया कि समुद्र के पार लंका का राजा रावण सीताजी को हर ले गया है, यह सुनकर हनुमान् जी उसी प्रकार समुद्र को लांघ गये जिस प्रकार निर्मोही पुरुष संसार को पार कर जाता है ॥ ६० ॥

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परीतेव महौषधिः ॥ ६१ ॥

**अन्वयः--**लङ्कायां विचिन्वता तेन राक्षसीवृता जानकी विषवल्लीभिः परीता महौषधिः इव दृष्टा ।

दृष्टेति । लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी, विषवल्लीभिः परीता परिवृता महौषधिः सञ्जीवनीलतेव दृष्टा ।

**भाषार्थ—**लंका में पहुँचकर सीता को ढूंढ़ते हुए हनुमान् जी ने एक स्थान पर देखा कि चारों ओर राक्षसियों से घिरी हुई वे ऐसी लग रही थी जैसे विष की लताओं के बीच में सञ्जीवनी बूटी हो ॥ ६१ ॥

तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ॥ ६२ ॥

**अन्वयः-**कपिः भर्तुः अभिज्ञानं अङ्गुलीयं तस्यै अनुष्णैः तदानन्दाश्रुभिः प्रत्युद्गतम् इव ।

Page 470Permalink

द्वादशः सर्गः ४११

तस्या इति । कपिर्हनुमान् भर्तू रामस्य सम्बन्ध्यभिज्ञानं । अभिज्ञायत इत्यभिज्ञानं साधकमङ्गुलीयमूर्मिकाम् । ‘अङ्गुलीयकर्मिका’ इत्यमरः । “जिह्वामूलाङ्गुलेश्छः” इति छप्रत्ययः । तस्यै जानक्यै ददौ । किविधमङ्गुलीयम् । अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम् । भर्तृभिज्ञानदर्शनानन्दबाष्पो जात इत्यर्थः ।

**भाषार्थ—**उनके पास जाकर हनुमान् जी ने राम की अँगूठी दे दी, जिसका स्वागत सीताजी ने आनन्द के शीतल आँसुओं से किया ॥ ६२ ॥

निर्वाप्य प्रियसन्देशैः सीतामक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ ६३ ॥

**अन्वयः—**सः प्रियसन्देशैः सीतां निर्वाप्य अक्षवधोद्धतः क्षणसोढारिनिग्रहः लङ्कापुरीं ददाह ।

निर्वाप्येति । स कपिः प्रियस्य रामस्य सन्देशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा । अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन्, क्षणं सोढ़ोऽरेरिन्द्रजितः कर्तुः निग्रहो बाधो ब्रह्मास्त्रबन्धरूपो येन स तथोक्तः सन्, लङ्कां पुरीं ददाह भस्मीचकार ।

**भाषार्थ—**पहले तो हनुमान् जी ने रामजी का प्रिय सन्देश सुनाकर सीता जी को ढाढस बँधाया, फिर रावण के पुत्र अक्षयकुमार को मार डाला, और कुछ देर शत्रुओं के हाथ बन्दी रहकर लंका में आग लगा कर जला दिया ॥ ६३॥

प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥ ६४ ॥

**अन्वयः—**कृती ( स ) स्वयं आयातं मूर्तिमत् वैदेह्या हृदयम् इव तस्याः प्रत्यभिज्ञानरत्नं च रामाय आदर्शयत् ।

प्रत्यभिज्ञेति । कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ।

**भाषार्थ—**कृतकृत्य उस हनुमान् जी ने सीताजी के मिलने की पहचान के लिए उनके चूड़ामणि लेकर राम के पास आकर उन्हें दिखलाया । वह मणि पाकर रामजी को वैसा ही आनन्द हुआ, मानों साक्षात्सीता का हृदय ही मूर्तिमान् बनकर अपने आप चला आया हो ॥ ६४ ॥

स पाप हृदयन्यस्तमणिस्पर्शनिमीलितः ।
अपयोधरसंसर्गा प्रियालिङ्गननिर्वृतिम् ॥ ६५ ॥

Page 471Permalink

४१२ रघुवंशमहाकाव्ये

अन्वयः—हृदयन्यस्तमणिस्पर्शन्निमीलितः स अपयोधरसन्सर्गां प्रियालिङ्गन-निर्वृतिं प्राप ।

स तति । हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूताम् । प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ।

भाषार्थ—उस चूड़ामणि को हृदय से लगाकर राम आनन्दमग्न होकर आँखें बन्द कर लिए । उस समय उन्हें ऐसा मालूम होता था मानों स्तनस्पर्श से रहित सीताजी ही हृदय से आ लगी हों ॥ ६५ ॥

श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥

अन्वयः—प्रियोदन्तं श्रुत्वा तत्संसर्गोत्सुकः रामः लङ्कायाः महार्णवं परिक्षेपं परिखालघुम् मेने ।

श्रुत्वेति । प्रियाया उदन्तं वार्ताम् । ‘उदन्तः साधुवार्तयोः’ इति विश्वः । श्रुत्वा तस्याः सीतायाः सङ्गम उत्सुकः रामो लङ्कायाः सम्बन्धी यो महार्णव एव परिक्षेपः परिवेष्टस्तं परिखालघुं दुर्गवेष्टनवत्सुतरां मेने ।

भाषार्थ—सीताजी का समाचार सुनकर उनसे मिलने के लिए राम अत्यन्त उत्सुक हो गये उस उत्सुकता में उन्हें लंका के चारों ओर का चौड़ा और गहरा समुद्र खाई से भी छोटा लगने लगा ॥ ६६ ॥

स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ ६७ ॥

अन्वयः—केवलं भुवः पृष्ठे न किन्तु व्योम्नि (च) संबाधवर्तिभिः हरिसैन्यैः अनुद्रुतः स अरिनाशाय प्रतस्थे ।

स इति । केवलमेकं भुवः पृष्ठे भूतले न किन्तु व्योम्नि च सम्बाधवर्तिभिः सङ्कठगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोरन्वितः सन् रामोऽरिनाशाय प्रतस्थे चचाल ।

भाषार्थ—वे वानरों की अपार सेना लेकर शत्रु का संहार करने के लिए चल पड़े । वह सेना इतनी अधिक थी कि पृथ्वी की कौन कहे, आकाश में भी बड़ी कठिनाई से चल पाती थी ॥ ६७ ॥

निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६८ ॥

Page 472Permalink

द्वादशः सर्गः ४१३

अन्वयः—उदधेः कूले निविष्टं तं विभीषणः राक्षसक्ष्म्या स्नेहात् बुद्धिम् आविश्य इव प्रपेदे ।

निविष्टमिति । उदधेः कूले निविष्टं तं रामं । विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः । राक्षसक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रणोदित इव प्रपेदे प्राप्तः ।

भाषार्थ—जब राम समुद्र तट पर पहुँचे, तब रावण के छोटे भाई विभीषण उनसे मिलने के लिए आये, मानों राक्षसों की राजलक्ष्मी ने उनकी बुद्धि में बैठकर वह समझा दिया हो कि अब राम की शरण में जाने पर ही तुम्हारा कल्याण है ॥ ६८ ॥

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ ६९ ॥

अन्वयः—राघवः तस्मै निशाचरैश्वयं प्रतिशुश्राव काले समारब्धा नीतयः फलं बध्नन्ति खलु ।

तस्मा इति । राघवस्तस्मै विभीषणाय । "प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" सम्प्रदानत्वाच्चतुर्थी । निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान् । तथाहि कालेऽवसरे समारब्धाः प्रक्रान्ता नीतयः फलं बध्नन्ति गृह्णन्ति खलु जनयन्तीत्यर्थः ।

भाषार्थ—राम ने भी उनसे यह प्रतिज्ञा कर ली कि मैं आपको राक्षसों का राजा बना दूंगा । ठीक है, समय पर काम में लाई हुई नीति आगे चलकर अवश्य ही सफल होती है ॥ ६९ ॥

स सेतुं बबन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥ ७० ॥

अन्वयः—स लवणाम्भसि प्लवगैः शार्ङ्गिणः स्वप्नाय रसातलात् उन्मग्नं शेषं इव सेतुं बन्धयामास ।

स इति । स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भस्तस्मिंल्लवणाम्बधौ प्लवगैः प्रयोज्यैः शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात्पातालादुन्मग्नमुत्थितं शेषमिव स्थितं सेतुं बन्धयामास ।

भाषार्थ—राम ने वानरों के द्वारा क्षार समुद्र पर जो पत्थरों का पुल बँधवाया, वह ऐसा जान पड़ता था कि मानों विष्णु को अपने ऊपर सुलाने के लिए स्वयं शेषनाग ही पाताल से ऊपर आये हों ॥ ७० ॥

द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

Page 473Permalink
४१४रघुवंशमहाकाव्ये

तेनोत्तीर्य पथालङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

अन्वयः— ( रामः ) तेन पथा ( सागरं ) उत्तीर्य पिङ्गलैः द्वितीयं हेमप्राकारं कुर्वद्भिः इव वानरैः लङ्का रोधयामास ।

तेनेति । रामस्तेन पथा सेतुमार्गेणोत्तीर्य सागरमिति शेषः । पिङ्गलै सुवर्णवर्णै रत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ।

भाषार्थ— उस पुल से समुद्र पार करके पीले-पीले वानरों ने लंका को चारों ओर से घेर लिया। उनसे घिरी हुई लंका ऐसी जान पड़ती थी मानो लंका के चारों ओर सोने का दूसरा परकोटा बन गया है ॥ ७१ ॥

रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ ७२ ॥

अन्वयः— तत्र प्लवगरक्षसां भीमः दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषण रणः प्रववृते ।

रण इति । तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयङ्करो दिग्विज़ृम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः । 'अस्त्रियां समरानीकरणाः कलविग्रहौ' इत्यमरः ।

भाषार्थ— लंका में वानरों और राक्षसों का ऐसा भयंकर युद्ध होने लगा कि राम और रावण की जयकारों से दिशायें गूंज उठीं ॥ ७२ ॥

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ॥ ७३ ॥

अन्वयः— पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ( रण प्रववृते ) ।

पादपेति । किविधो रणः पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः । 'परिघः परिघातनः' इत्यमरः । शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोधना यस्मिन्स तथोक्तः 'द्रुघणो मुद्गरघनो' इत्यमरः । अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः । शैलै रुग्णा भग्ना मतङ्गजा यस्मिन्स तथोक्तः ।

भाषार्थ— उस युद्ध में वानर वृक्षों से मार-मारकर परिघों को तोड़ देते थे, पत्थर बरसा कर राक्षसों के मुद्गरों को चूर-चूर कर देते थे, अपने नखों से ऐसे

द्वादशः सर्गः ४१५

Page 474Permalink

द्वादशः सर्गः ४१५

भयंकर घाव करते थे कि शस्त्रों से भी वैसे घाव नहीं हो सकते थे और लड़ाकू हाथियों के शिरों पर बड़ी-बड़ी चट्टानें फेंककर उनका कचूमर निकाल देते थे ॥ ७३ ॥

अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥

अन्वयः—अथ शिरच्छेददर्शनोद्भ्रान्तचेतनां सीतां त्रिजटा माया इति शंसन्ती समजीवयत् ।

अथेति । अथानन्तरं छिद्यत इति छेदः खण्डः शिर एव छेद इति विग्रहः । रामशिरच्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं नत्वेतत्सत्यमिति शंसन्ती ब्रुवाणा । "इयप्स्यनोर्नित्यम्" इति नित्यं नुमागमः। समजीवयत् ।

भाषार्थ—इसी बीच विद्युज्जिह्व नामक एक राक्षस ने माया से कटा हुआ राम का शिर बनाकर सीताजी के सामने ला पटका, उसे देखते ही सीताजी व्याकुल हो गई, पर त्रिजटा ने उन्हें समझाया कि यह राक्षसी माया है, तब सीता जी को जान में जान आ गई ॥ ७४ ॥

कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीविताऽस्मीति लज्जिता ॥ ७५ ॥

अन्वयः—सा मे नाथः जीवति इति शुचं कामं विजहौ, ( किन्तु ) प्राक् अस्य अन्त सत्यं मत्वा जीविता अस्मि इति लज्जिता ।

काममिति । सा सीता मे नाथो जीवतीति हेतोः शुचं शोको कामं विजहौ तत्याज । किन्तु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता - जीवतवत्यस्मीति हेतोर्लज्जिता लज्जावती । कर्तरि क्तः । दुःखादपि दुःसहो लज्जाभार इति भावः ।

भाषार्थ—यह जानकर सीताजी ने शोक करना तो छोड़ दिया कि मेरे पतिदेव राम अभी जीवित हैं, पर उन्हें इस बात की बड़ी लज्जा हुई कि पहले पति के मारे जाने का समाचार सुनकर भी मैं जीती रह गई, उसी क्षण मर नहीं गई ॥ ७५ ॥

गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ ७६ ॥

अन्वयः—गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः क्षणक्लेशः दाशरथ्योः स्वप्नवृत्त इव अभवत् ।

गरुडेति । गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण