सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished274 पृष्ठ

इस ग्रन्थ के बारे में

प्रबोधचन्द्रोदय कृष्णमिश्र का संस्कृत रूपक नाटक है, जिसकी रचना ग्यारहवीं शताब्दी में चन्देल राजा कीर्तिवर्मा के समय में हुई मानी जाती है। इसकी विशेषता यह है कि इसके पात्र मनुष्य नहीं, मन के भाव और दार्शनिक तत्त्व हैं: विवेक, मोह, काम, क्रोध, दम्भ, अहंकार, शान्ति, करुणा, श्रद्धा और उपनिषद्। इनके संघर्ष के अन्त में विवेक और उपनिषद् के मिलन से प्रबोध रूपी चन्द्रमा का उदय होता है। इस प्रकार यह नाटक अद्वैत वेदान्त के मोक्ष-मार्ग को रंगमंच की भाषा में प्रस्तुत करता है।

छह अङ्कों में कथा मोह की सेना के उत्पात से आरम्भ होती है, दम्भ और अहंकार के व्यंग्यपूर्ण दृश्यों और विभिन्न पाखण्डी मतों के चित्रण से गुजरती है, शान्ति और करुणा द्वारा श्रद्धा की खोज, विवेक की सेना की तैयारी, मोह के विनाश और वैराग्य की विजय तक पहुँचती है।

यह चौखम्बा विद्या भवन, बनारस का १९५५ का संस्करण है जिसमें 'प्रकाश' नामक टीका जोड़ी गई है। भूमिका में टीकाकार बताते हैं कि उन्होंने नाण्डिल्लगोप और रामदास दीक्षित की दो पुरानी टीकाएँ और एक अंग्रेज़ी अनुवाद देखा था, पर सामान्य पाठक की सुविधा के लिए यह नई व्याख्या लिखी।

पृष्ठ 206
स्थायी लिंक
पृष्ठ 206 स्कैन

१८८ प्रबोधचन्द्रोदयम्
दधति विरहे मर्मच्छेदं तदर्थमपार्थकं
तदपि विपुलायासाः सीदन्त्यहो बत जन्तवः ॥ १७ ॥
अपि च,
तीर्णाः पूर्णाः कति न सरितो लङ्घिताः के न शैला
नाक्रान्ता वा कति वनभुवः क्रूरसंचारघोराः ।
पापैरेतैः किमिव दुरितं कारितो नासि कष्टं
यद्द्दष्टास्त धनमदमपीम्लानवक्रा दुरीशाः ॥ १८ ॥
एवं सर्वतोऽनभिप्रेतत्वेऽपि तदर्थम् परिग्रहाणां कृते अपार्थकम् व्यर्थम् विपुलायासाः
कृतमहाप्रयत्नाः जन्तवः प्राणिनः सीदन्ति कष्टमालम्बन्ते, अहो बत आश्चर्यमिद्
मिति। इमे परिग्रहाः पुंसां नोपकुर्वन्ति नोपकृतवन्तः न चोपकरिष्यन्तीति निश्चयेन
तवापि नैवोपकरिष्यन्ति, पुस एवोपकारो मनसोऽपि तथा मन्यते स्वतन्त्रस्य
तस्योपकर्त्तव्यत्वायोगात् , तदेवं दशायां पुत्रकलत्रादयः परिग्रहास्तव सुखाय भवि-
ष्यन्तीति मा भावि भवता। न केवलममी नोपकारकाः किन्तु विरहे व्यथका अपि,
तथापि महता प्रयासेनैवां कृते जन्तवः क्लेशमाश्रयन्तीत्याश्चर्यजनकमित्यर्थः ।
हरिणीवृत्तम् , ‘नसमरसलागः षड्वेदैर्हयैर्हरिणी मता’ इति तलक्षणम् ॥ १७ ॥
तीर्णा इति० पूर्णाः संभृतसलिलाः कति कियत्यः सरितः न तीर्णाः तरणकर्मतां
गमिताः ? बहवः सरितस्तीर्णा इति काक्का प्रत्ययः । एवमेव परत्राऽपि । के वा शैलाः
पर्वताः न लङ्घिताः, सर्वेऽपि लङ्घिता इत्यर्थः। क्रूरसञ्चारघोराः हिंस्रजन्तुयुताः
कति वा वनभुवः काननभूमयः न आक्रान्ताः पादचारेण भ्रान्ताः पापैः नीचकार्य-
परैः एतैः परिग्रहैः किमिव दुरितम् पापम् न कारितः कर्त्तुं बाधितः असि ? सर्वमपि
दुरितमाचरितुमिमे त्वां बाधितवन्त इत्यर्थः, यत् यस्मात् कष्टम् समनोव्यथम्
धनमदमषीम्लानवक्त्राः ऐश्वर्याभिमानश्यामकालिकामुखाः तं दुरीशाः प्रसिद्धाः
कुप्रभयो दृष्टाः। एतेषां परिग्रहाणामनुरोधेन धनिनामभिमानश्यामलित्तानि मुखानि
आदि पुरुषोंके सुखार्थ नही हुआ करते है। फिर उनके विरहमे व्यर्थ ही मर्मान्तक कष्ट
करके अथक परिश्रम उठाकर लोग सीदित होते रहते है ॥ १७॥
और — इन धनमदसे म्लानमुख दुष्ट धनिकों के पास जाना पड़ा इन पुत्रदार आदिकोंके
लिये, उसमे कौन सा कष्ट नही हुआ ? भरी हुई नदियाँ कितनी नही पार करनी पड़ीं,
पर्वत नही लांघने पड़े, या क्रूर हिसक प्राणियोंके सञ्चारसे भयङ्कर जंगलों से न गुजरना
पड़ा ? ॥ १८ ॥

पृष्ठ 207
स्थायी लिंक
पृष्ठ 207 स्कैन

पञ्चमोऽङ्कः १८६
मनः—देवि, एवमेतत्। तथापि—
लालितानां स्वजातानां हृदि संचरतां चिरम्।
प्राणानामिव विच्छेदो मर्मच्छेदादरुंतुदः ॥ १६ ॥
सरस्वती—वत्स, ममतावासनानिबन्धनोऽयं व्यामोहः।
उक्तं च—
मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे।
न तादृङ्ममतानून्ये कलविङ्केऽथ मूषके ॥ २० ॥
द्रष्टुं यत्त्वं बाधितत्वमयासीस्तत्तव सरित्तरणपर्वतलङ्घनघोरजन्तुशताघृतकाननलङ्घन-
सदृशं कथमभूदिति वाक्ययोः परस्पर विम्बप्रतिविम्बभावो बोध्यः, यथा नैषधीये-
'तीर्णः किमर्णो निधिरैव नैष दुरन्तिनेऽभूदिह यत्प्रवेशः' इति ॥ १८ ॥
एवमेतत्-त्वदुक्तं नासत्यमित्यर्थः।
लालितानामिति० स्वजातानाम् आत्मजानाम् हृदि वक्षोदेशे चित्ते च चिरम् बहु-
कालपर्यन्तम् सञ्चरताम् लुण्ठताम् लालितानाम् चटूक्तिभिः प्रमोदितानाम् (एषां
कामादीनाम्) विच्छेदः वियोगः प्राणानाम् विच्छेदाद् (विशिष्य) अरुन्तुद-
मर्मव्यथकः। प्राणा अपि स्वस्माज्जायन्ते हृदि वसन्ति चेमेऽपि कामादयो मनसो
जाता मनसा चिरं लालिता हृदयेऽवस्थापिताश्चेत्येषां वियोगस्य मर्मव्यथकत्वाति-
शयो बोध्यः ॥ १९ ॥
ममतावासनानिबन्धनः—ममत्वाभिमानजन्मा व्यामोहः खेदः।
मार्जारभक्षित इति० गृहकुक्कुटे स्वगृहपोषितकुक्कुटे मार्जारभक्षिते विडालेन
प्साते यादृशं दुःखंः खेदः भवति तादृशं दुःखं ममताशून्ये मदीयताऽबुद्धिविषये
कलविङ्के चटके मूषके वा मार्जारभक्षिते न भवति दुःखमतो ममतैव दुःखजननी न
पदार्थमहत्तेति भावः ॥ २० ॥
मन—देवि, आपका कथन ठीक है, तथापि—
जिन्हें पैदा किया, दुलार किया, हृदयमें स्थान दिया, उनका वियोग प्राणों के वियोग
की तरह कष्टप्रद होता है ॥ १९ ॥
सरस्वती—वत्स, ममतावासनासे ही ऐसा मोह होरहा है, कहा है—
विलाड़ घरके गौरैयाको खा जाय तो दुःख होता है, परन्तु वही विलाड़ यदि चटक
या चूहेको चटकर जाता है तो दुःख नही होता है, इससे स्पष्ट है कि ममता ही दुःखका
निदान है ॥ २० ॥

पृष्ठ 208
स्थायी लिंक
पृष्ठ 208 स्कैन

१६० प्रबोधचन्द्रोदयम्
तत्सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः । पश्य—
प्रादुर्भवन्ति वपुषः कति वा न कीटा
यान्यत्नतः खलु तनोरपसारयन्ति ।
मोहः स एष जगतो यदपत्यसंज्ञां
तेषां विधाय परिशोषयति स्वदेहम् ॥ २१ ॥
मनः—देवि, भवत्वेवम् । तथापि दुरुच्छेदस्तु ममत्वग्रन्थिः । (विचि-
न्त्य । सोच्छ्वासम् ) सर्वथा त्रातोऽस्मि भवत्या । (इति पादयोः पतति)
सरस्वती—वत्स, उपदेशसहिष्णु ते हृदयं जातम् । अत एतदपर-
मुच्यते—
सर्वानर्थबीजस्य-सर्वविधानर्थकारिणः । ममत्वस्य-ममेदमित्यध्यासस्य । उच्छे
दे-नाशे ।
प्रादुर्भवन्तीति० वपुषः शरीरात् कति कियन्तः कीटाः क्षुद्रप्राणिनः यूकालिक्षादयः
न वा प्रादुर्भवन्ति उत्पद्यन्ते, तान् तनोः प्रभूतानपि कीटान् (जनाः) यत्नतः
प्रयासेन तनोः शरीरात् अपसारयन्ति दूरीकुर्वन्ति । स एष जगतः संसारस्य मोहः
अविवेकः यत् तेषाम् तनुजातानाम् पुत्रादीनां कीटैः समानमपि अपत्यसंज्ञाम् पुत्रा-
दिपदवाच्यताम् विधाय स्वदेहम् आत्मकायम् शोषयति क्लमयति । शरीरजातत्वेन
समतायां सम्यक् प्रतीतायामपि कीटानां यत्नतः शरीरादपसारणं कुर्वन्त एव
पामरा. सुतादीनां विषये यदात्मानं ग्लपयन्ति तत्तेषां मोहस्यविस्फूर्जितमेव, न
विवेकपूर्वकं कार्यमिति भावः । वसन्ततिलकं वृत्तम् ॥ २१ ॥
दुरुच्छेदः-दुरप्यासः । ममत्वग्रन्थिः-ममताबन्धनम् । त्रातः-रक्षितः ।
उपदेशसहिष्णु-उपदेशश्रवणार्हम् ।
अतः सभी अनर्थों की जड ममताके उच्छेदका ही प्रयत्न करना चाहिये । देखो:—
देहसे कितने कीट उत्पन्न होते रहते हैं जिन्हें हम कोशिश करके शरीरसे दूर करते
रहते हैं, (फिर देहसे उत्पन्न पुत्र आदिके विषयमें) यह मोह होता है कि इन्हें अपत्य
संज्ञा प्रदान कर इनके लिये देहको सुखाया करता हैं ॥ २१ ॥
मन—देवि, ऐसा ही रहे, फिर भी ममताकी गांठ छूटती नहीं है । (सोचकर,
उच्छ्वास लेकर) तुमने सर्वथा बचा लिया । (चरणोंपर गिरता है)
सरस्वती—वत्स, अब तुम्हारा हृदय उपदेशके योग्य होगया । अतः इतना और

पृष्ठ 209
स्थायी लिंक
पृष्ठ 209 स्कैन

पञ्चमोऽङ्कः १६१

वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा
शुचा संतप्यन्ते भृशमुदरताडं जडधियः ।
असारे संसारे विरसपरिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वञ्शमसुखम् ॥ २२ ॥
( ततः प्रविशति वैराग्यम् )
वैराग्यम्—( विचिन्त्य )
अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत-
त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः ।
वशमिति० पितरि जनके तनये पुत्रे सुहृदि मित्रे वा मृत्योः मरणस्य वशं प्राप्ते
मृते सति जडधियः मन्दमतयः उदरताडम् उरस्ताडम् शुचा तद्वियोगजशोकेन
सन्तप्यन्ते पीड्यन्ते । तु पुनः विदुषाम् संसारतत्त्वं ज्ञातवताम् विरसपरिणामे
अवसानदुरन्ते असारे निस्तत्त्वे संसारे शमसुखं वितन्वन् शान्तिसमुत्थमानन्दं
वितरन् वियोगः पुत्रादिभिर्विच्छेदः वैराग्यं द्रढयति दृढीकरोति । येरेव कारणैर्मन्दम
तयः सन्तप्यन्ते तैरेव ज्ञानिनस्ते वैराग्यं द्रढयन्तं शान्तिसहचरमानन्दं लभन्ते
इत्याशयः । 'उदरताडम्' इत्यत्र 'परिक्लिश्यमाने चे'ति णमुल् ॥ २२ ॥
अस्राक्षीदिति० यदि प्रजानां पति ब्रह्मा एतत् दृश्यमानं वपुः लोकानां शरीरम्
नवस्य नूतनस्य नीलनीरजस्य इन्दीवरस्य दल छदस्तस्योपान्तोऽग्रभागस्तद्वत्
सूक्ष्मा अस्थूला आयता दीर्घा च या त्वक् चर्म तन्मात्रेण केवलं तादृश्या त्वचा
अन्तरितामिषम् आवृत्तमांसम् न अस्राक्षीत् न निर्मितवान् विधाता यदि मांस-
पिण्डरूपं वपुरिदं कमलपत्रसूक्ष्मेण दीर्घेण च चर्मणा नावृतं विधाय केवलं मांसमय
मेवाकारिष्यदित्यर्थः, (तदा) प्रत्यग्रं नवं क्षरत् स्रवत् यत् अस्रं शोणितं तेन क्लिन्नम्
आमगन्धि यत् पिशितं मांसं तस्य ग्रासस्य कवलस्य ग्रहं ग्रहणं गृध्नतः कामयमा-
कहती हूं—जब पिता, पुत्र या मित्र की मृत्यु हो जाती है तब जड़बुद्धि लोग छाती पीट
कर शोकसे सन्तप्त हुआ करते है, परन्तु जो संसारका असारत्व या परिणति विरसत्व
जानते है उनके लिये वियोग शमसुख प्रदान करनेवाला तथा वैराग्य दृढ़ करनेवाला हुआ
करता है ॥ २२ ॥
( वैराग्यका प्रवेश ।
वैराग्य—(सोचकर) ब्रह्मा नवीन नीलकमल पत्र के समान अतिसूक्ष्म कोमल त्वचा से
मांसमय इस शरीरको यदि आवृत्त नही करते तो सद्यः प्रवहमान रुधिर तथा मांसके

पृष्ठ 210 स्कैन

१६२ प्रबोधचन्द्रोदयम्
प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृध्नतो
गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥ २३ ॥
अपि च—
श्रियो दोलालोला विषयजरसाः प्रान्तविरसा
विपद्गेहं देहं महदपि धनं भूरि निधनम् ।
बृहच्छोको लोकः सततभवलानर्थबहुला
तथाप्यस्मिन्घोरे पथि वत रता नात्मनि रताः ॥ २४ ॥
सरस्वती—वत्स, एतद्वैराग्यं त्वामुपस्थितम् । तदेतत्संभावय ।
नान् तनौ शरीरे निपततः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

५. पञ्चम अङ्क: मोह-विनाश एवं वैराग्य-विजय

पृष्ठ 211 स्कैन

पञ्चमोऽङ्कः १६३
मनः—क्वासि पुत्रक ! ?
वैराग्यम्—( उपसृत्य ) अहं भो अभिवादये ।
मनः—वत्स, जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम् ।
वैराग्यम्—( तथा करोति )
मनः—वत्स, त्वद्दर्शनात्प्रशान्तो मे शोकावेशः ।
वैराग्यम्—तात, कोऽत्र शोकावेशः । यतः—
पान्थानामिव वर्त्मनि क्षितिरुहां नद्यामिव भ्रश्यतां
मेघानामिव पुष्करे जलनिधौ

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 212 स्कैन

१६४ प्रबोधचन्द्रोदयम्
संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां यदा
सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ २५ ॥
मनः- (सानन्दम्) देवि, एवमेतत् यदाह वत्सः । तथाहि तावदव-
धारयतु भवती ।
निरन्तराभ्यासदृढीकृतस्य
सस्नेहसूत्रग्रथितस्य जन्तोः ।
जानासि किञ्चिद्भगवत्युपायं
ममत्वपाशस्य यतो विमोक्षः ॥ २६ ॥
सरस्वती-वत्स,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 213 स्कैन

न कति पितरो दाराः पुत्राः पितृव्यपितामहा
महति वितते संसारेऽस्मिन् गतास्तव कोटयः ।
तदिह सुहृदां विद्युत्पातोज्जवलान् क्षणसंगमान्
सपदि हृदये भूयो भूयो निवेश्य सुखी भव ॥ २७ ॥
मनः- भगवति, तव प्रसादादपास्त एव व्यामोहः । किन्तु—
भगवति तव मुखशशधरगलितैर्विमलोपदेशपीयूषैः ।
क्षालितमपि मे हृदयं मलिनं शोकोर्मिभिः क्रियते ॥ २८ ॥
दस्य-ममत्वविघटनस्य प्रथमः-आद्यः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 214 स्कैन

१६६ प्रबोधचन्द्रोदयम्
तदस्यार्द्रस्य शोकप्रहारस्य भेषजमाज्ञापयतु भगवती ।
सरस्वती—वत्स, नूनमुपदिष्टमेवात्र मुनिभिः ।
अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम् ।
गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ २६ ॥
मनः—एवमेव भगवत्येतद्दुर्निवारं तु चेतः । यतः—
अप्येतद्वारितं चिन्तासन्तानैरभिभूयते ।
मुहुर्वातहतैर्बिम्बमभ्रच्छेदैरिवैन्दवम् ॥ ३० ॥
खेदतरङ्गैः मलिनं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 215 स्कैन

पञ्चमोऽङ्कः १५७
सरस्वती—वत्स, श्रूयताम्। चित्तस्यायं विकारः। ततः कस्मिंश्चि-
च्छान्ते विषये चित्तं निवेश्यताम्।
मनः—तत्प्रसीदतु भगवती। कोऽसौ शान्तो विषयः।
सरस्वती—वत्स, गुह्यमेतत्, तथाप्यार्तानामुपदेशे न दोषः।
नित्यं स्मरञ्जलदनीलमुदारहार-
केयूरकुण्डलकिरीटधरं हरिं वा।
ग्रीष्मे सुशीतमिव वा हृदमस्तशोकं
ब्रह्म प्रविश्य भज निर्वृतिमात्मनीनाम् ॥ ३१ ॥
मानमपि

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 216 स्कैन

१६८ प्रबोधचन्द्रोदयम्
मनः—एवमेतत् । संप्रति हि—
नार्यस्ता नचयौवना मधुकरव्याहारिणस्ते द्रुमाः
प्रोन्मीलन्नवमल्लिकासुरभयो मन्दास्त एवानिलाः ।
अद्योदात्तविवेकमार्जिततमःस्तोमव्यलीकान्पुन-
स्तानेतान्मृगतृष्णिकार्णवपयःप्रायान्मनः पश्यति ॥ ३२ ॥
सरस्वती—वत्स, यद्यप्येवं तथापि गृहिणा मुहूर्तंमप्यनाश्रमधर्मिणा
न भवितव्यम् । तदद्यप्रभृति निवृत्तिरेव ते सधर्मचारिणी ।
ऽतिस्थूलमेव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 217 स्कैन

पञ्चमोऽङ्कः १६६
मनः- ( सलज्जम् ) यदादिशति देवी ।
सरस्वती-शमदमसन्तोषादयश्च पुत्रास्त्वामनुचरन्तु । यमनियमा-
दयश्चामात्याः । विवेकोऽपि त्वदनुग्रहादुपनिषद्देव्या सह यौवराज्यमनु-
भवतु । एताश्च मैत्र्यादयश्चतस्रो भगिन्यो भगवत्या विष्णुभक्त्या तव
प्रसादाय प्रहितास्ताः सप्रसादमनुमानय ।
मनः-यदादिशति देवी । मूर्ध्नि निवेशिताः सर्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 218 स्कैन

स्वास्थ्यमापन्ने क्षेत्रज्ञोऽपि स्वां प्रकृतिमापत्स्यते । यतः—
त्वत्सङ्गाच्छाश्वतोऽपि प्रभवलयजरोपप्लुतो बुद्धिवृत्ति-
ष्वेको नानेव देवो रविरिव जलधेर्वीचिषु व्यस्तमूर्तिः ।
तूष्णीमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्तौ-
र्भात्यादर्शे प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा ॥३३॥
मनसि विषयोपरक्ते बन्धस्तस्य तदुपरागापगमे च मोक्ष इति सिद्धान्तमनुसृत्यैवा-
न्रत्यो ग्रन्थो बोध्यः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 219 स्कैन

पञ्चमोऽङ्कः २०१
तद्भवतु । ज्ञातीनामुदकदानाय नदीमवतरामः ।
मनः—यदाज्ञापयति देवी ।
( इति निष्क्रान्ताः सर्वे )
इति प्रबोधचन्द्रोदये

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 220 स्कैन

षष्ठोऽङ्कः
( ततः प्रविशति शान्तिः )
शान्तिः—आदिष्टास्मि महाराजविवेकेन । यथा वत्से, विदितमेव
भवत्या किल !
अस्तं गतेषु तनयेषु विलीनमोहे
वैराग्यभाजि मनसि प्रशमं प्रपन्ने ।
क्लेशेषु पञ्चसु गतेषु समं समीहां
तत्त्वावबोधमभितः पुरुषस्तनोति ॥ १ ॥
तद्भवति त्वरिततरं देवीमुपनिषदमनुनीय मत्सकाशमानयत्विति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 221 स्कैन

षष्ठोऽङ्कः २०३
( ततः प्रविशति श्रद्धा )
श्रद्धा—अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे
पीयूषेणेव लोचने पूर्णे ।
असतां निग्रहो यत्र सन्तः पूज्या यमादयः ।
आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥
शान्तिः—( उपसृत्य ) अम्ब, कि मन्त्रयन्ती प्रस्थिता ।
श्रद्धा—( अये, अद्येत्यादि पठति )
शान्तिः—अथ मनसि

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 222 स्कैन

२०४ प्रबोधचन्द्रोदयम्
शान्तिः—तत्किं स्वाम्येव साम्राज्यमलंकरिष्यति ।
श्रद्धा—एवमेतत् यथात्मानमनुसंधत्ते ततो देव एव स्वराट् सम्राट्
च भवति ।
शान्तिः—अथ देवस्य मायायां कीदृशोऽनुग्रहः ।
श्रद्धा—ननु निग्रह इति वक्तव्ये कथमनुग्रहः शक्यते वक्तुम् ।
देवोऽपि हि सर्वानर्थबीजमियं माया सर्वथा निग्राह्येति मन्यते ।
शान्तिः—यद्येवं का तर्हीदानीं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 223 स्कैन

षष्ठोऽङ्कः २०५
श्रद्धा—शृणु,
नित्यानित्यविचारणाप्रणयिनी वैराग्यमेकं सुहृ-
त्सन्मित्राणि यमादयः शमदमप्रायाः सहाया मताः ।
मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा वला-
दुच्छेद्या रिपवश्च मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥
शान्तिः—अथ धर्मे स्वामिनः कीदृशः प्रणयः ।
श्रद्धा—पुत्रि, वैराग्यसंनिकर्षात्प्रभृति नितान्तमिहामुत्रफलभोगविरस
एव स्वामी । तेन,
नित्यानित्येति० किं नित्यं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 224 स्कैन

२०६ प्रबोधचन्द्रोदयम्

स नरकादिव पापफलाद्भयं भजति पुण्यफलादपि नाशिनः ।
इति समुज्झितकामसमन्वयं सुकृतकर्म कथंचन मन्यते ॥ ४ ॥
किन्त्वसौ प्रत्यक्प्रवणतां स्वामिनो विचिन्त्य कृतकर्तव्यमिवात्मानं
मत्वा स्वयमेव धर्मः शून्यव्यापारोऽभूत् ।
शान्तिः-अथ तानुपसर्गान् गृहीत्वा, महामोहो निलीय स्थितस्तेषां
को वृत्तान्तः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 225 स्कैन

षष्ठोऽङ्कः २०७
श्रद्धा—पुत्रि, तथा दुरवस्थागतेनापि महामोहतकैन स्वामिनः
प्ररोचनाय मधुमत्या विद्यया सहोपसर्गाः प्रेषिताः। अयमभिप्रायः। यद्ये-
तेष्वासक्तः स्वामी विवेक उपनिषच्चिन्तामपि न करिष्यतीति।
शान्तिः—ततस्ततः।
श्रद्धा—ततस्तैर्गत्वा कापि स्वामिन्यैन्द्रजालिकी विद्योपदर्शिता तथाहि,
शब्दानेष शृणोति योजनशतादाविर्भवन्ति स्वतः
स्तास्ता वेदपुराणभारतकथास्तर्कादयो वाङ्मयाः।
प्रच्छन्नो भूत्वा।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें