प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 211, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १६३
मनः—क्वासि पुत्रक ! ?
वैराग्यम्—( उपसृत्य ) अहं भो अभिवादये ।
मनः—वत्स, जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम् ।
वैराग्यम्—( तथा करोति )
मनः—वत्स, त्वद्दर्शनात्प्रशान्तो मे शोकावेशः ।
वैराग्यम्—तात, कोऽत्र शोकावेशः । यतः—
पान्थानामिव वर्त्मनि क्षितिरुहां नद्यामिव भ्रश्यतां
मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव ।
जातमात्रेण त्वया त्यक्तोऽस्मि-उत्पन्नमात्र एव त्वां मां परित्यक्तवानित्यर्थः ।
परिष्वजस्व-आलिङ्ग।
त्वद्दर्शनात्-तव वैराग्यस्य साक्षात्कारात् । प्रशान्तः-मन्दीभूतः । शोकावेशः-
खेदस्य वेगः ।
पान्थानामिति० वर्त्मनि मार्गे पान्थानाम् पथिकानाम् इव नद्याम् स्रोतस्विन्याम्
भ्रश्यतां पतताम् भूरुहाणाम् वृक्षाणाम् इव, पुष्करे व्योम्नि मेघानाम् जलदानाम्
इव, जलनिधौ सागरे सांयात्रिकाणाम् पोतवणिजाम् इव, पितृमातृबन्धुतनयभ्रातृ-
प्रियाणाम् सर्वेषाम् आत्मीयानाम् संयोगः मिलनं यदा विदुषाम् ज्ञानिनां कृते दूर-
वियोग एव अत्यन्तविच्छेदस्वरूप एव सिद्धस्तदा कः कीदृशः शोकोदयः खेदप्रकाशः ?
यथा पथि पथिका मिलन्ति वियुज्यन्ते च, यथा वा पतन्तो वृक्षा नदीपयःपूरेणोह्य-
मानाः संयुज्यन्ते, वियुक्ताश्च भवन्ति, यथा वा व्योम्नि मेघाः परस्परं मिलित्वा
विश्लिष्यन्ति, यथा वा पोतवणिजो जलधौ परेण तादृशेनैव वणिजा सङ्गताः सन्तो
विच्छिद्यन्ते, तद्वदेवैष पितृमात्रादिभिस्संयोगः। सम्भविना वियोगेनावरुद्ध इति
मन—कहाँ हो बेटा ?
वैराग्य—( समीप जाकर ) यह मैं अभिवादन करता हूँ ।
मन—बेटा, जन्म लेते ही तुमने मुझे छोड़ दिया था, आओ गले लगो ।
वैराग्य—( वैसा करता है )
मन—बेटा, तुम्हें देखनेसे मेरा शोकावेश शान्त हो गया ।
वैराग्य—तात, इसमे शोककी क्या बात है ? क्योंकि—
रास्तेमें पन्थियोंकी तरह, नदीमें गिरनेवाले तटस्थ वृक्षोंकी तरह, पुष्करक्षेत्रमें
मेघों की तरह और समुद्रमें नौयात्रियोंकी तरह जब माता, पिता, बन्धु, पुत्र, भाई तथा
१३ प्र० च०