प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 223, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २०५
श्रद्धा—शृणु,
नित्यानित्यविचारणाप्रणयिनी वैराग्यमेकं सुहृ-
त्सन्मित्राणि यमादयः शमदमप्रायाः सहाया मताः ।
मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा वला-
दुच्छेद्या रिपवश्च मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥
शान्तिः—अथ धर्मे स्वामिनः कीदृशः प्रणयः ।
श्रद्धा—पुत्रि, वैराग्यसंनिकर्षात्प्रभृति नितान्तमिहामुत्रफलभोगविरस
एव स्वामी । तेन,
नित्यानित्येति० किं नित्यं किमनित्यमिति प्रसङ्गे ब्रह्म नित्यं ततोऽन्यदनित्यमिति
विचारणा भावना एव प्रणयिनी स्निग्धा प्राणप्रिया, एकं वैराग्यम् केवलं विषय-
विरागः, सुहृत् मित्रम्, यमादयः यमनियमप्राणायामप्रभृतयः, मित्राणि सखायः,
शमदमप्रायाः शममुख्याः, सहायाः सहकारिणः, मैत्र्याद्याः मैत्रीकरुणामुदितोपेक्षाश्च-
तस्रः परिचारिकाः दास्यः, मुमुक्षा मुक्तिकामना नित्यं सततं सहचरी पार्श्ववर्त्तिनी,
मोहममतासङ्कल्पसङ्गादयश्च रिपवः बलात् प्रसह्य उच्छेद्याः विनाशनीयाः । कस्यापि
राज्ञः परिवारे स्त्रियो मन्त्रिणः सुहृदादयश्च तिष्ठन्ति तथाऽस्यात्मनः परिवारे—नित्या-
नित्यवस्तुविचारणा प्राणप्रिया, वैराग्यमेकं सदानुगामितया सुहृत्, यमादयो
मित्राणि, शमदमादयः सहायकाः, मैत्र्यादयः परिचारिकाः, मुमुक्षा च नित्यपार्श्व-
वर्त्तिनी, शत्रुभूताश्च ममतादय उच्छेद्या इत्याशयः । यमादयो योगोक्ताः—यमनिय-
मासनप्राणायामप्रत्याहारध्यानधारणासमाधयः । शमः—मनोनिग्रहः, दमः—इन्द्रिय-
सामान्यनिग्रहः, मोहः—अतस्मिंस्तद्बुद्धिः, ममता—स्वीयत्वाभिमानः, सङ्कल्पो-मन-
सोऽभिनिवेशः, सङ्गो विषयसाम्मुख्यम् । स्पष्टमन्यत् । शार्दूलविक्रीडितमेव वृत्तम् ॥३॥
धर्मे—धर्मविषये । स्वामिनः—पुरुषस्य । धर्मं केन प्रकारेण पश्यति पुरुष इति
प्रश्नः । वैराग्यसन्निकर्षात्—वैराग्यस्य समीपस्थत्वात् । प्रभृति—आरभ्य । इहामुत्र
श्रद्धा—सुनो—
नित्यानित्यवस्तु विचारणा ही प्रिया है, वैराग्य ही एकमात्र मित्र है, यम, नियम
आदि साथी तथा शम, दम प्रभृति सहाय हैं । मैत्री आदि वृत्तियाँ परिचारिकाएं हैं, मुमुक्षा
सदा साथ रहती है, मोह, ममता, सङ्कल्प, सङ्ग आदि शत्रु हैं जिनका उच्छेद करना है ॥३॥
शान्ति—और धर्मके विषयमें स्वामीका कैसा स्नेह है ?
श्रद्धा—पुत्रि, जबसे विराग आगया है तबसे स्वामी इहामुत्र फलभोग विरक्त ही रहा
करते हैं ।