प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 222, कुल 274 में से
संदर्भ में पढ़ें२०४ प्रबोधचन्द्रोदयम्
शान्तिः—तत्किं स्वाम्येव साम्राज्यमलंकरिष्यति ।
श्रद्धा—एवमेतत् यथात्मानमनुसंधत्ते ततो देव एव स्वराट् सम्राट्
च भवति ।
शान्तिः—अथ देवस्य मायायां कीदृशोऽनुग्रहः ।
श्रद्धा—ननु निग्रह इति वक्तव्ये कथमनुग्रहः शक्यते वक्तुम् ।
देवोऽपि हि सर्वानर्थबीजमियं माया सर्वथा निग्राह्येति मन्यते ।
शान्तिः—यद्येवं का तर्हीदानीं राजकुलस्य स्थितिः ।
साम्राज्यम्-आत्मारामत्वम् । मनोनिगृह्यात्माऽऽत्मारामतालक्षणं साम्राज्य-
मधिकरिष्यति कच्चिदिति प्रश्नः ।
यथा-यतः । आत्मानमनुसन्धत्ते प्रपञ्चभिन्नत्वमास्थाय परमात्माभेदेन भावयति ।
स्वाराट्-स्वस्मिन्त्रासमन्ताद्राजत इति स्वाराट् । स्वाराट्पदस्य स्वात्माराम इत्यर्थः ।
सम्राट्-सम्यक्चिदानन्दाभेदेन राजत इति सम्राट् । ज्ञानस्वरूप इत्यर्थः । उक्तञ्च—
'स एष एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराट्
भवति' इति ।
मायायाम्-मूलाविद्यायाम् । तद्विषये इति बोध्यम् । अनुग्रहः-कृपा । निग्रहः-
वधबन्धादिदण्डः । मायायां विक्षेपकारिण्यां निग्रहः कीदृश इति प्रष्टव्ये कीदृशोऽनु-
ग्रह इति प्रश्नो न युज्यत इति प्रसङ्गार्थः । सर्वानर्थबीजम्-सर्वेषामनर्थानां विषया-
सङ्गादिरूपाणां मूलकारणम् । मायावशादेवात्मनोऽनर्थेषु प्रवृत्तिरिति माया न कृपा-
स्थानं किन्तु दण्डपात्रमिति तात्पर्यम् ।
का स्थितिः ?-कीदृशी व्यवस्था ? मनसि बद्धे मायायां च निगृह्यमाणायां राज-
कुलं, कथं व्यवस्थामारचयति, तयोरेवेतः पूर्वव्यवस्थाधिकृतत्वादिति प्रश्नः ।
शान्ति —तो क्या स्वामी ही साम्राज्य अलङ्कृत करेंगे ।
श्रद्धा —जिस प्रकार वह अपना अनुसन्धान कर रहे हैं उससे पता चलता है कि
स्वामी हीं स्वराट् और सम्राट् दोनों होंगे ।
शान्ति —और देवकी कृपा मायापर कैसी रहती है ?
श्रद्धा —निग्रह कहना चाहिये उसकी जगह अनुग्रह कैसे कहा जा सकता है ? देवकी
भी यही धारणा है कि सभी अनर्थों की जड यह माया ही है । इसे सभी प्रकारसे
निगृहीत करना चाहिये ।
शान्ति—जब यह बात है तो इस समय राजकुलकी क्या स्थिति है ?