प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 219, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः २०१
तद्भवतु । ज्ञातीनामुदकदानाय नदीमवतरामः ।
मनः—यदाज्ञापयति देवी ।
( इति निष्क्रान्ताः सर्वे )
इति प्रबोधचन्द्रोदये वैराग्यप्रादुर्भावो नाम पञ्चमोऽङ्कः ।
ज्ञातीनाम्-दायादानाम् , कामादीनामिति तात्पर्यम् । उदकदानाय-जलाञ्जलिं
दातुम् । जलाञ्जलिदानेन निरन्वयनाशं प्रतीङ्गितं कृतं वेद्यम् । एतेन कर्मणि विरा-
गस्याप्रतिबन्धकत्वं समर्थितम् , उक्तश्चायमर्थो याज्ञवल्क्येन-‘ज्ञानिनोऽज्ञानिनो
वापि यावद्देहस्य धारणम्। तावद्वर्णाश्रमाप्तेषु कर्त्तव्यं कर्म मुक्तये’ इति॥ अवतरामः-
प्रविशामः॥
इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते ‘प्रबोधचन्द्रोदय’-‘प्रकाशे’
पञ्चमाङ्क-‘प्रकाशः’
अस्तु । मृतज्ञातिबन्धुओंको तिलाञ्जलि देनेके लिये नदीमें उतरें ।
मन—देवीका जैसा आदेश ।
( सबका प्रस्थान )
पञ्चम अङ्क समाप्त ।