प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 221, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २०३
( ततः प्रविशति श्रद्धा )
श्रद्धा—अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे
पीयूषेणेव लोचने पूर्णे ।
असतां निग्रहो यत्र सन्तः पूज्या यमादयः ।
आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥
शान्तिः—( उपसृत्य ) अम्ब, कि मन्त्रयन्ती प्रस्थिता ।
श्रद्धा—( अये, अद्येत्यादि पठति )
शान्तिः—अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्रवृत्तिः ।
श्रद्धा—यादृशी वध्यस्य ग्राह्यस्य भवति ।
राजकुलम्-विवेकपरिवारम् । आरोग्ययुक्तम्-स्वस्थम् । पीयूषेण-अमृतेन । राजकुलं
स्वस्थं दृष्ट्वा तादृशी तृप्तिर्मदीयाभ्यां नयनाभ्यामासादिता यथाऽऽभ्याममृतसेकोऽनु-
भूतः स्यादिति ।
असतामिति० यत्र यस्मिन् राजकुले असतां मोहादीनां निग्रहो दण्डः, यत्र च
यमादयः सन्तः विवेकानुगतत्वेन पूज्याः सत्कारभाजः, यत्र जगत्स्वामी परमात्मा
वश्यैः शमादिभिः करणैः देवानुजीविभिः परमात्मानुगामिभिः जीवैः कर्त्तृभिः आरा-
ध्यते पूज्यते स्वाभिन्नत्वेन भावनमेवात्र जीवकर्त्तृकं परमात्मध्यानम् ॥ २ ॥
प्रस्थिता-चलिताऽसि, त्वमिति शेषः ।
मनसि-मनोविषये । प्रवृत्तिः-व्यवहारः । मनसा सह पुरुषः केन प्रकारेण वर्त्त-
यतीत्यर्थः । वध्यस्य-वधार्हस्य । ग्राह्यस्य-गृहीतस्य । यथा निग्रहीतुं धृते समुचितो
व्यवहारस्तथैव मनसि पुरुषस्य व्यवहारोऽस्तीति भावः ।
( श्रद्धाका प्रवेश )
श्रद्धा—अये, आज राजकुलको स्वस्थ देखकर बहुत दिनोंके बाद मेरी आँखें अमृतसे
पूर्ण-सी हो रही हैं ।
जहाँ दुष्टोंका निग्रह होता हो और यम नियम आदि सज्जनोंका सत्कार किया जाता
है और जितेन्द्रिय तथा देवानुजीवी लोग जगत्पिताकी आराधना करते हैं ॥ २ ॥
शान्ति—मां, तुम क्या कहती जारही थीं ।
श्रद्धा—( 'अये, अद्य' इत्यादि दुहराती है )
शान्ति—अब मनके लिये स्वामीके हृदयमें क्या स्थान है ?
श्रद्धा—जैसा अपराधी वध्य व्यक्तिके पकड़े जानेपर उसके लिये स्थान होता है ।