सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

प्रारंभिक पृष्ठ, प्रस्तावना एवं सट्टक-लक्षण

प्रास्ताविकम्

माधवकृत-शंकरविजय-भोजकृतसरस्वतीकण्ठाभरण-क्षेमेन्द्रकृतौचित्यविचारचर्चा-
सुवृत्ततिलक-कविकण्ठाभरण-सोमदेवकृतयशस्तिलकचम्पू-शार्ङ्गधरपद्धति-आरोह-
कभगदत्तजह्लणसंगृहीतसूक्तिमुक्तावलि-हरिकविसंगृहीतसुभाषितहारावलि-वल्लभदे-
वसङ्गृहीतसुभाषितावलि-राजशेखरकृतबालरामायण-बालभारत-कर्पूरमञ्जरी-विद्ध-
शालभञ्जिकादिसंस्कृतग्रन्थेषु, तथा विल्सनपण्डितकृत‘हिन्दूथिएटर’-भट्टमोक्षमूलर-
कृत ‘इण्डिया, व्हाट् इट् कॅन् टीच् अस्’-वेबरपण्डितकृत ‘हिस्टरी ऑफ् इण्डियन्
संस्कृत लिटरेचर’-अनेकपण्डितसंकलित ‘इण्डियन् ॲण्टिक्वेरी’-डॉक्टरपीटर्सन-
रिपोर्ट-डॉक्टरभाण्डारकररिपोर्टाद्याङ्ग्लभाषानिबद्धेषु ग्रन्थेषु च लिखितं राज-
शेखरविषयं सम्यग्विलोक्य विस्तारभिया चात्र तत्सर्वं परित्यज्य तन्निर्गलितार्थ
एव संक्षेपेण लिख्यते.

— राजशेखरस्य समयनिश्चिताङ्गभूतानि —

तत्र शंकरविजये ‘तत्रोदितं बन्धन राजशेखर’ इति द्वितीयसर्गप्रारम्भे,
‘एवमेनमतिसंप्लवचरित्रं सेवमानजनदैन्यलवित्रम् ।
केरलक्षितिपतिर्नहि दिदृक्षुः प्राहिणोत्सचिवमावृतभिक्षुः ॥’
‘तेन पृष्टमदात्त क्षितिपालः स्वेन सृष्टमथ शास्त्रत्रकालम् ।
हाटकायुतममर्पणपूर्वं नाटकत्रयमयोचयदूर्ध्वम् ॥’ इति पञ्चमसर्गे,
‘कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः ।
मुनिवर्यममुं मुदा वितेने निजकोटीरनिधृष्टपल्लवाग्रम् ॥
प्रथते त्रिषु नाटयत्रयी खेत्यमुना संयमिना ततो नियुक्तः’
इत्यादिचतुर्दशसर्गे च राजशेखरकथा वर्तते, नाटकत्रयनामानि तु शंकरविजये
न सन्ति एतेन नाटकत्रयकर्ता केरलक्षितिपालो राजशेखरः सप्तमशतकप्रारम्भभ-
वद्भूतशंकराचार्यसमकालीन आसीदिति स्फुटमेव प्रतीयते किं तु भोजप्रबन्धादिव-
च्छंकरविजयस्यापि समयादिनिर्णयविषये विद्वांसानैतिहासिकत्वहृदयम् न चास्य
शंकरविजयस्य कर्ता पण्डितशिरोमणिः सायनमाधवाचार्यः, अयं च कश्चिदन्य
एव नवरत्नातिशठापर्यायो माधव इति भाति

४

राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र 'इण्डियन
ॲण्टिक्वेरी'नामकमासिकपुस्तकस्य पञ्चदशे भागे ११२ मिते पृष्ठे 'ॐ स्वस्ति श्रीम-
होदयसमावासितानेकगो हस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्--परमभगवतीभक्तो
महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परम-
भगवतीभक्तो महाराजधीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिवा-
लयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्रतिवासिनश्च
समाज्ञापयति-- संवत्सर १०० ५० ५ माघशुदि १०
निबद्धम्' इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानाम-
ङ्कानां संकलने जाता १५५ मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः, तत्र च
६०६ वर्षेषु योजितेषु जातः ७६१ मितः ख्रिस्तसंवत्सरः. 'अयमेव पूर्वलिखितदान-
पत्रसमयः' इति फ्लीटपण्डितः. एतदनुरोधेनैव सुभाषितावल्युपोद्घाते राजशेखर-
समयो लिखितः; किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति ७६१ मित-
ख्रिस्तसंवत्सरे राजशेखरो बभूवेत्यपि संदिग्धमेव. दानपत्रं त्वेतद्राजशेखरवर्णित-
महेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्रे महोदयस्य नाम वर्तते. राजशेखरकृतबाल-
भारतप्रस्तावनायां च 'कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः'
इत्याद्यस्ति. महोदयमिति कान्यकुब्ज (कनौज)स्य नामान्तरम्, कान्यकुब्जं महो-
दयम्, 'कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत्' इति हैमनाममालायाम्,
'महोदयः कान्यकुब्जे' इति विश्वप्रकाशमेदिनीकोषयोश्च वर्तते. बालरामायणे दश-
मेऽङ्केऽपि 'लक्ष्मणः--इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं
दृश्यते । रामः--शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुर-
स्तात् । वैदेहि देहि शफरीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवदुत्सुसिन्धौ ॥ ८८ ॥
इदं द्वयं सर्वमदापवित्रं परस्परालंकरणैकहेतु । पुरं च हे जानकि, कान्यकुब्जं
सरिश्च गौरीपतिमौलिमाला ॥ ८९ ॥' इत्याद्यस्ति. एतेन राजशेखरकविः कान्य-
कुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पति-
राज-श्रीहर्षादयोऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशो-
धर्मप्रभृतीनां सभासु स्वस्वसमय आसन्.
राजशेखरो दशमे शतके बभूवेति भाण्डारकरपण्डितः, एवमेव वेबरपण्डितः,
एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे चेति विल्सनपण्डितः, बालरामायणकर्ता
राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमूलरनामा वदति.

―― राजशेखरस्य कालनिर्णयः ――
वस्तुतस्तु राजशेखरकवि ८८४ मिताख्रिस्तसंवत्सरादनन्तरम् ९५९ संवत्स-
रात्पूर्वं मध्ये वर्तमानेषु ७५ वर्षेषु बभूव यत ८८४ मितसंवत्सरपर्यन्तं कश्मी-
राज्ञाऽवन्तिवर्मणा समकालीनयोरानन्दवर्धनरत्नाकरयो राजशेखरकृतौ स्तुति-
श्लोकौ सूक्तिमुक्तावलि-सुभाषितहारावल्योर्विशेषकविप्रशंसाप्रकरणे लभ्येते 'तत्कर्ता
कश्चिदन्यो राजशेखर' इत्यपि न वक्तु युक्तम् यतो बालरामायणवर्णितनामकल-
जलद तरल-सुरानन्दकवीनां राजशेखरपूर्वपुरुषाणा नातिप्रसिद्धानामपि देशकुलनाम-
ग्रहणपूर्वकं वर्णनश्लोकास्तत्रैव विद्यन्ते, तन्मध्य एव रत्नाकरानन्दवर्धनयोरपि वर्णन-
मस्ति तेन सर्वेषां श्लोकानां कर्ता एक एव राजशेखर , अथ च ८८१ मिते शके ९५९
मिते वा ख्रिस्ताब्दे जैनसोमदेवेन यशस्तिलकचम्पू प्रणीता तत्र तृतीय आश्वासे
माघादिकविनामसु राजशेखरस्यापि नाम वर्तते तस्मात्तत्कालप्राचीनो राजशेखर ,
न च प्रबन्धकोषकर्तुर्जेनराजशेखरसूरेस्तत्र नामास्तीति वक्तव्यम् प्रबन्धकोषस्य
१३४७ मिते संवत्सरे निर्माणाह्राजशेखरसूरेर्यशस्तिलककर्तुरर्वाचीनत्वात्,
―― राजशेखरस्य वंशदेशादिपरिचय ――
राजशेखरो ब्राह्मण क्षत्रियो वाऽऽसीदिति सन्दिग्धमेव यतो बालरामायणादिषु
'उपाध्याय' 'गुरु' इत्यादिपदैरात्मानं विशिनष्टि, तेन तस्य ब्राह्मणत्वं स्फुटं
प्रतीयते, क्षत्रियस्याप्यापनादिवन्त्वधिकारात. राजा शेखरो राजशेखर इति तु
समासो नोचित राजा चन्द्र शेखरो यस्य स इत्युचित समास यत कर्पूरमञ्-
रीप्रस्तावनायाम् 'रजनीवल्लभशिखण्ड' इति राजशेखरनाम्न पर्यायशब्दो वर्तते
रजनीवल्लभश्चन्द्र शिखण्ड शेखरो यस्य इति तदर्थ, अथ च कर्पूरमञ्जरीप्रस्ताव-
नायामेव 'चाहमानकुलमौलिमालिका राजशेखररुची गृहिणी' इत्यायस्ति चाह-
मानकुलं 'चौहान' इति प्रसिद्ध क्षत्रियकुलम् यस्मि हम्मीरपृथ्वीराजादय क्षिति-
पाला अभूवन्, तत्कुलप्रसूता च कथमस्मिंयुगे ब्राह्मणस्य भार्या भवितुमर्हति ?
तस्माद्राजशेखर क्षत्रिय आसीदिति कथमपि नातीवानुचितं भाति
राजशेखरो महाराष्ट्रदेशोत्पन्नश्चेदिदेशोत्पन्नो वेत्यत्रापि सन्देह एव यतो बाल-
रामायणप्रस्तावनायां स्वप्रपितामहम् अकलजलदं महाराष्ट्रचूडामणि वदति सूक्तिमु-
क्तावल्यादिस्थकविवर्णनश्लोकेषु स्वसूर्यपुरुषं सुरानन्दं चेदिमण्डलमण्डनं च वदति
भाति चायं चेदिदेशोद्भव, चेदिदेशमहीपतीनां करचूलीनामेव विद्धशालभञ्जिकादिषु

प्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णन-श्लोकेषु टिप्पण्या स्फुटीभविष्यति.
बिल्हणकविर्यथा स्वदेशं काश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि
स्वदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये.
दशरूपकावलोक-सरस्वतीकण्ठाभरण-क्षीरस्वामिकृतामरकोषटीका युक्तिकल्पतरु-
कोषटीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन-काव्यप्रकाश-साहित्यदर्पण-
शार्ङ्गधरपद्धति-सूक्तिमुक्तावलि सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखर-
श्लोका , श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था
अस्मिन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मी-
रदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत्
( राजतरङ्गिणी ४।४८८ ). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्. यतः
क्षीरस्वामिकृतामरकोषटीकाया 'श्रीभोजः' इति नाम बहुषु स्थलेषु वर्तते. भोजश्चै-
कादशशतकमध्यभाग आसीत्, तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी
कथमष्टमशतकोत्तरार्धसमुद्भूतस्य जयापीडनृपतेरध्यापको भवितुमर्हति ? तस्मात्क्षी-
रोपाध्यायात्क्षीरस्वामी भिन्न एव.
— राजशेखरप्रणीता ग्रन्थाः —
बालरामायणम्, बालभारतम् ( प्रचण्डपाण्डवम् ), कर्पूरमञ्जरी, विद्धशालभ-
ञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव,
बालभारतस्य केवलमङ्कद्वयम्, नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका,
वासुदेव-धर्मदास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते.
बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्म-अकालजलद-तरल-सुरानन्द-कविराजा-
नाम् कर्पूरमञ्जर्यां च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटि-
सानां कवीनां नामानि सन्ति. तेषु शंकरवर्म्मापराजितौ राजशेखरसमकालीनौ, अका-
लजलद-तरल-सुरानन्द कविराजा राजशेखरस्य पूर्वपुरुषाः. तेषु कविराजो राघव-
पाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूतिहाल-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ
चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिर्महेन्द्र-
पालः स्वशिष्यत्वेन वर्णितः. बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोर्महीपाल-
देवस्यापि वर्णनमस्ति. निर्भयराजोऽपि राजशेखरस्य शिष्य एवासीत्. 'बालकविः
कविराजो निर्भयराजस्य तथोपाध्याय' इति कर्पूरमञ्जरीप्रस्तावनायाम् 'विभ्रमराजस्य

७

तथोपाध्याय 'इति कामराजसमत पाठः. निर्भयराज इति महेन्द्रपालस्यैव नामान्त-
रमिति केचित्, महीपालदेवश्च चण्डकौशिकप्रस्तावनायामार्यक्षेमीश्वरेणापि वर्णित .
'कर्णाटीदशनाङ्कित शितमहाराष्ट्रीकटाक्षाद्दत प्रौढान्ध्रीस्तनपीडित प्रणयिनीभ्रू-
भङ्गवित्रासित । लाटीबाहुविचेष्टितश्च मलयस्त्रीतर्जनीतर्जित सोऽयं संप्रति राजशे-
खरकविर्बाराणसीं वाञ्छति ॥' अयं श्लोक औचित्यविचारचर्चायाम्, 'दातुर्वारिध-
रस्य-' इत्यादिश्लोका सुभाषितावल्याम्, 'भासो रामिलसौमिलौ' इत्याद्या श्लोका-
श्शार्ङ्गधरपद्धतौ, 'अकालजलदेन्दो सा' इत्याद्या बहव श्लोका सूक्तिमुक्तावलि-सुभा-
षितहारावल्यो राजशेखरनाम्ना समुद्धता सन्ति ते च प्रसिद्धेषु राजशेखरग्रन्थेषु
न प्राप्यन्ते तस्मात्सन्त्येवेऽपि केचन राजशेखरकृता ग्रन्था इति ज्ञायते 'विद्धि
न षट्प्रबन्धान्' इति च बालरामायणप्रस्तावनाया स्वयमेव राजशेखरो वदति.
अस्य कवे शार्दूलविक्रीडितच्छन्दोनिबद्धा श्लोका अतिसमीचीना सन्ति. 'शार्दूल-
क्रीडितैरेव प्रख्यातो राजशेखर । शिखरीव परं धत्ते सोल्लेङ्घयशेखर ॥' इति
सुवृत्ततिलके क्षेमेन्द्र 'आगस्कारिणि कैटभप्रमयने तच्छाडनार्थं रुषा नाभीपङ्कजमभ्रतां
गमयितुं जाते प्रयत्ने धिय । खावासोन्नयनोपपादितभयभ्रान्तात्मनस्तत्क्षणादन्त-
र्बाष्पपरा पुरातनमुनेर्वाग्दृष्टय पान्तु व ॥' अयं श्लोक सूक्तिमुक्तावलौ राजशे-
खराम्तेवासिनाम्ना समुद्धृत तेन राजशेखरस्य कश्चन शिष्योऽपि कविरासीत्
— राजशेखरकृतोऽन्यकविपरिचयः —
सूक्तिमुक्तावलि-सुभाषितहारावलि-शार्ङ्गधरपद्धतिषु राजशेखरकृता प्राचीनकवि-
प्रशंसाश्लोका केचन समुपलभ्यन्ते, ते सर्वेऽप्युत्तरवादेन कविनामक्रमेण समु-
द्ध्रियन्ते—
अकालजलदेन्दो. सा हृद्या वचनचन्द्रिका ।
नित्य कविचकोरैर्या पीयते न च हीयते ॥
( सूक्तिमुक्तावलि , सुभाषितहारावलि )
अकालजलदकवी राजशेखरस्य प्रपितामह आसीत् 'अकालजलदस्य प्रणप्तु '
इति विद्धशालभञ्जिकाप्रस्तावनायाम् 'स मूर्तो यत्रासीद्गुणगण इवाकालजलद
सुरानन्द सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते-तरुकविराजप्रभृतयो
महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेरकाल-
जलदस्य चतुर्थो दौर्दुकि ( दौहिकि ) शीलवतीसूनुरुपाध्यायश्रीराजशेखर ' इति

च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युप-
लब्धः, केवलं 'भैकैः कोटरशायिभिः' इत्यादिश्लोकः शार्ङ्गधरपद्धत्यादिषु लभ्यते.
ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना ।
आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥
(सूक्तिमुक्तावलि, सुभाषितहारावलिः, )

  • काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवगतिकर्मोपचितमन्त्राशीनोऽयमा-
    नन्दवर्धनाचार्यः प्रसिद्ध एव.
    अकालजलदश्लोकैश्चित्रमात्मकृतैरिय ।
    जातः कादम्बरीरामो नाटके प्रवरः कविः ॥
    (सूक्तिमुक्तावलिः, )
    सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ ।
    या वैदर्भंगिरां वासः कालिदासादनन्तरम् ॥
    (सूक्तिमुक्तावलिः, सुभाषितहारावलिः. )
    'दग्ध्वेऽभूज्जिताशनश्च पुंडिताऽस्मीह्यापारतस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो
    -नमोऽह्यहे । अद्यो यदि गद्यपद्यरचने चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वाम-
    चरणं कर्णाटराजप्रिया ॥' एतच्छ्लोककर्त्री कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्.
    एकोऽपि जीयते हन्त कालिदासो न केनचित् ।
    शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥
    (सूक्तिमुक्तावलिः, सुभाषितहारावलिः, )
    जानकीहरणं कर्तुं रघुवंशे स्थिते सति ।
    कविः कुमारदासश्च रावणश्च यदि क्षमः ॥
    (सूक्तिमुक्तावलिः, )
    काव्यानुशासनपृष्ठे औचित्यविचारचर्चायां १४४ पृष्ठे उत्तरार्द्धस्यनामोपरि
    टिप्पणं विलोकनीयम्.

९
दूरादपि सतां चित्ते लिखिताश्चर्यमञ्जरीम् ।
कुलशेखरवर्मा भ्या(१) चकाराश्चर्यमञ्जरीम् ॥
(सूक्तिमुक्तावलि.)
आश्चर्यमञ्जरी कश्चन ग्रन्थ 'पाणिनिप्रत्याहारो वा महाप्राग्भारमाश्रिण्ये झयादि-
त्रितश्च समुद्र, इत्याश्चर्यमञ्जरी' इत्यमरसोपज्ञीकाया चारित्रेये शतपदव्याख्याने
मुकुट 'केरलोत्पत्ति-केरलविशेषमाहात्म्यनामकग्रन्थाभ्यां समुद्धृते कस्मिंश्चन लेखे
केरलदेशक्षितिपाल कुलशेखर ३३२ मिते प्लवङ्गसंवत्सरे आसीदिति दर्शितम्' इति
वामन-शिवराम-आपटेप्रणीताया राजशेखरवर्णनभूमिकाया १३ पृष्ठे टिप्पण्यां
द्रष्टव्यम् कुलशेखरनृपतिकृता मुकुन्दमाला प्रसिद्धैव कुलशेखर एव राजशेखर
इति मिथ्यैव केरलीयानां प्रवाद, यतो राजशेखरेणात्र कुलशेखरो वर्णित
आदौ गणपतिं वन्दे महामोदविधायिनम् ।
विद्याधरमणेर्यस्य पूज्यते कण्ठगर्जितम् ॥
(सूक्तिमुक्तावलि, सुभाषितहारावलि)
'महामदविधायिनम्' इति पुस्तकान्तरपाठ
हुता शिखिनि गौनाढ्या स्तोकशेषापि सा कथा ।
सुरलीदेन्दुलेखेव लोके पूज्यतमाभवत् ।
(सुभाषितहारावलि.)
गुणाढ्यप्रणीता बृहत्कथा पञ्चशतमितां दग्धा, केवलमेकशतमितावशिष्टा,
इति कथासरित्सागरेऽप्यनन्तरे कथा द्रष्टव्या
अनुमासिनि संदर्भे गोनन्दनसम कृत ।
यथार्थनामतैवास्य यद्द्वाग्भवदति चारुताम् ॥
(सूक्तिमुक्तावलि.)
यायावरकुलश्रेणेरीर्यटेश्च मण्डनम् ।
सुवर्णग्रन्थरुचिरस्तरळस्तरलो यथा ॥
(सूक्तिमुक्तावलि, सुभाषितहारावलि.)

१०
तरलो हारमध्यमणिरपि अयमपि कवी राजशेखरस्य पूर्वपुरुष पूर्वकालजल-
द्धश्लोकटिप्पणे लिखितं बालरामायणप्रस्तावनापद्यं विलोकनीयम् राजशेखरोऽप्या-
त्मानं यायावरकुलोत्पन्नमेन प्रबन्धेषु वर्णयति.
कर्तुं त्रिलोचनादन्यः कः पार्थविजय क्षमः ।
तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥
( सुभाषितहारावलि . )
त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥
( शार्ङ्गधरपद्धति, सुभाषितहारावलि . )
दशकुमारचरितम्, काव्यादर्शश्चेति प्रबन्धद्वयमेव लभ्यते मल्लिकामाधवकर्त्ता तर-
ण्डापरनामा रङ्गनाथकवि, न तु दण्डी कलापरिच्छेद-च्छन्दोविचित्यादय स्त्वन्येऽपि
दण्डिकृता ग्रन्था इति काव्यादर्शाज्ज्ञायते कविरयं सत्समदासकप्रारम्भहृत्सुहृद् .
सरस्वतीपवित्राणां जातिस्तत्र न कारणम् ।
व्यासस्पर्द्धा कुलालोऽभूद्द्रोणो भारते कविः ॥
( शार्ङ्गधरपद्धति . )
पुस्तकान्तरे 'न देहिनाम्' इति पाठ .
द्विसंधाने निपुणता सा ता चक्रे धनंजयः ।
यया जातं फलं तस्य सतां चक्रे धनं जयः ॥
( सूक्तिमुक्तावलि, सुभाषितहारावलि . )
यसुदेवगौडधृतगुहद्विसंधानकाव्यकर्तारं धनंजयमाकर्ण्यैतेन शार्ङ्गधरपद्य-
न्दर्भेऽमपि द्विसंधानकाव्यस्य नामान्तरम् कवियाञ्चल प्रसिद्ध मुदितं च राघ-
वाण्डवीयकाव्ये निरूपम्
सद्धि पाणिनये तस्मै यस्य रुद्रप्रसादतः ।
आसी व्याकरणं काव्यमनु जाम्बवतीजयम् ॥
( सूक्तिमुक्तावलि, सुभाषितहारावलि . )

११

'पद्मं भूपतिभिः स्पृष्टा याति याता शनैः शनैः, इति जाम्बवतीविजयवा-
क्यम्', 'स पदर्पेदैरम्बरमापुपूरे, इति जाम्भवत्यां पाणिनिः' इत्यादि जाम्बवतीज-
यकाव्यस्यैकदेशा मुकुटेनाम्रकोशटीकायामुदाहृता सन्ति 'तथाहि पाणिनैः पाता-
लविजये महाकाव्ये—सन्ध्यावधू गृह्य करेण' इत्यादि काव्यप्रकाशटीकायां नमिसा-
धुना चोदाहृतम् तेन जाम्बवतीजयस्य पातालविजयमित्यपि नामान्तरं भाति
सुभाषितावलि-सदुक्तिकर्णामृतादिषु बहवः पाणिनिश्लोकाः प्राप्यन्ते 'स्पृहणीयत्वं
चरितं पाणिनैरुपजानिभिः । नमत्पार्वकसारामिद्यमानस्वेन जात्रिभिः ॥' इति सुवृत्त-
तिलकस्यक्षेमेन्द्रश्लोकेभोपजातिच्छन्दोनिबद्धा पाणिनिश्लोका अयुतमाः सन्तीति
ज्ञायते य एव व्याकरणसूत्रकर्ता स एव जाम्बवतीजयकाव्यस्य कर्तेत्यस्माद्राज-
शेखरश्लोकात्स्फुटं प्रतीयत तस्मात्पाणिनिद्वयकल्पनं व्यर्थमेव

प्रद्युम्नान्नापरस्येह नाटके पन्नों गिरः ।
प्रद्युम्नान्नापरस्येह पौष्पा अपि शराः खराः ॥
(सूक्तिमुक्तावलिः)

सहर्षचरितारब्धाद्भुतकादम्बरीकथा ।
बाणस्य वाण्यनार्य्येव स्वच्छन्दा भ्रमति क्षितौ ॥
बाणेन हृदि लग्नेन यन्मन्दोऽपि पदक्रमः ।
प्रायः कविकुरङ्गाणां चापलः तत्र कारणम् ॥
(सूक्तिमुक्तावलिः)

सूक्तीनां स्मरकेलीनां कलानां च विलासभूः ।
प्रभुदेवी कविर्लाटी गतापि हृदि तिष्ठति ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः)

दृक्सम्प्रबोधरुद्धाणी भा रवेरिव भारवेः ।
माघेनेव च माघेन कम्पः कस्य न जायते ॥
(सुभाषितहारावलिः)

मायूराजसमो जज्ञे नान्यः करचुलिः कविः ।
उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः ॥
( सूक्तिमुक्तावलिः, सुभाषितहारावलिः. )
हैहयवंशोद्भवाः करचुलि ( कलचुरि ) नामानः केचन क्षत्रिया अद्यापि 'रीमां'
( रेवां )। राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी
तेषां राजधानीत्यासीत्, 'यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च
चित्रभानुः । तामेष पाशितकृतवीर्ययशोवतंसां माहिष्मतीं कलचुरेः कुलराजधानीम् ॥'
इति बालरामायणम् ( ३।३५ ) मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगरा-
द्दक्षिणदिशि पञ्चदशयोजनान्तरे नर्मदादक्षिणतटेऽधुना 'महेश्वर' इति नाम्ना प्रसिद्धा
इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि
कलचुरिराजधान्यासीत्. 'सीतास्वयंवरनिदानधनुर्धरेण दग्धास्तुरङ्गितरतो विभुना
भवेन । खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरीं प्रशास्ति ॥'
इत्यपि बालरामायणम् ( ३।३८ ) 'त्रिपुरी चेदिनगरी' इति हैमनाममाला ( ४।४१ )
राजशेखरकृतविद्धशालभञ्जिकायाश्चनायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामा-
सीत्. 'करचुलितिलको वर्तते चक्रवर्ती' इति, 'स्वस्तिश्रीमत्त्रिपुर्यां तुहिनकरसुतावी-
चियाचालितायाम्' इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते, तुहिनकरसुता
सोमोद्भवा नर्मदा. सा च त्रिपुरी इदानीं 'तेवुर' इति नाम्ना प्रसिद्धा जबलपुरसमीपे
वर्तते इति दक्षिणदेशेतिहासपुस्तके ( ३७ पृष्ठे ) पण्डितवरभाण्डारकरः करचुलि-
वंशोद्भवोऽयं मायूराजोपिचेदिदेश एवोत्पन्नः स्यात्. 'गण्डूषान्तेपिताम्बुप्रविकट-
गलधटोरत्खजातास्मितानी हेलाकृष्टार्धचन्द्राभिभवबृहत्तमहाकुण्डलाभोगभाजम् ।
पीनोरःस्थापितार्ताद्विरदमदगधीमासरस्था रुकानां दूरं यातस्य यस्य स्मरति दश-
शिरास्त्वग्विषूत्पीडितानाम् ॥' इत्याद्याः केचन श्लोका मायूराजनाम्ना समुद्धृताः
सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोचनेन च मायूराजः कस्यचिद्रामायणस्यानु-
कूलनाटकस्य कर्तासीदिति ज्ञायते.
( वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम् ।
आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥ )
मेण्ठो हस्तिपकः ; (पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृही-
तनामा कश्मीरदेशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमार्कसमकालीनो भर्तृमेण्ठः

१४
कवि अय श्लोकः सूक्तिमुक्तावलि-सुभाषितहारावल्यो राजशेखरश्लोकबहिर्भूत-
स्तत्समीप एव तिष्ठति भाति चायमपि राजशेखरस्यैवेत्यतोऽत्र गृहीतः ।
मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे ।
इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥
( सूक्तिमुक्तावलि , सुभाषितहारावलि . )
हरविजयकाव्यकर्ता नवमशतकोत्तरभागे कश्मीरदेशे समुत्पन्नो रत्नाकरमहा-
-कवि प्रसिद्ध एव.
तौ शूद्रककथाकारौ रम्यौ रामिलसौमिलौ ।
काव्यं ययोर्द्वयोरासीदर्धनारीश्वरोपमम् ॥
( सुभाषितहारावलि . )
सौमिलस्य नाम मालविकाग्निमित्रप्रस्तावनायां वर्तते, तेन कालिदासात्सौमिल-
स्तस्मादपि शूद्रक प्राचीन 'सभ्याये कुशता' इत्यादिश्लोक शार्ङ्गधरपद्धतौ
रामिलसौमिलयोर्नाम्ना समुद्धृतः , 'वरपुरुषादिव सवितु' इत्यादिरमिलश्लोक
सुभाषितावलावप्यस्ति.
यथार्थता कथं नाम्नि मा भूद्वररुचेरिह ।
व्यधत्त कण्ठाभरणं यः सदा रोहणप्रियः ॥
( सूक्तिमुक्तावलि . )
कात्यायनापरनामा वररुचि प्रसिद्ध एव सद्‌वृत्तो व्याकरणवार्तिकपाठ प्राकृत-
सूत्राणि च सर्वत्र सुलभान्येव. सुभाषितावल्यादिषु बहवो वररुचिना. श्लोकाः
समुपलभ्यन्ते, तस्मात्किमपि काव्यमपि वररुचिना कृतमेव.
के चैकटनितम्बेन गिरां गुम्फेन रञ्जिताः ।
निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः ॥
( सूक्तिमुक्तावलि , सुभाषितहारावलि )

१५
स्थिता माध्वीकपाकत्वान्निसर्गमधुरापि हि ।
किमपि स्वदते वाणी केषांचिदपि शांकरी ॥
( सूक्तिमुक्तावलि..)
अत्र बालरामायणप्रस्तावनायां गृहीतनामा स्वसमकालीन. कृष्णशंकरवर्मा राज-
शेखरस्य विवक्षित , न तु शंकराचार्य. कश्चिदन्यो वा शङ्कर इति भाति.
शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते ।
शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥
( सूक्तिमुक्तावलि , शार्ङ्गधरपद्धति .)
पृथिव्यां प्रथिता गाथा सातवाहनभूभुजा ।
व्यधुर्वृत्तेस्तु विस्तारमहो चित्रपरम्परा ॥
( सूक्तिमुक्तावलिः.)
पार्थस्य मनसि स्थानं लेभे खलु सुभद्रया ।
कवीना च वचोवृत्तिचातुर्येण सुभद्रया ॥
( सूक्तिमुक्तावलि , सुभाषितहारावलिः. )
'दुग्धं न यादनु' इत्यादिश्लोक सुभद्राकृत सुभाषितावलौ वर्तते.
नदीना मेकलसुता नृपाणां रणविग्रहः ।
कवीना च सुरानन्दश्चेदिमण्डलमण्डनम् ॥
( सूक्तिमुक्तावलि . )
मेकलसुता नर्मदा सुरानन्दो राजशेखरस्य पूर्वपुरुष इत्यकाउलजलदघनेनश्लो-
कटिप्पणमुद्धृते बालरामायणप्रस्तावनापद्ये द्रष्टव्यम् चेदिदेशो डाहलापरपर्याय .
'त्रैपुरास्तु डाहला' स्युश्चैद्यास्ते चेदयश्च ते' इति हेमनाममाला ( ४।२१ ) 'डाह-
लाश्चेद्यचैद्या.' इति त्रिकाण्डशेषे भूमिवर्ग 'नीत्वा गङ्गाधरधरतां डाहलाधीश-
लक्ष्मि' इति विक्रमाङ्कदेवचरितम् ( १८।९५ )

१६
भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि-
र्माघो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः ।
दण्डी बाणदिवाकरा गणपतिः कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥
(शार्ङ्गधरपद्धतिः)
एषु कविषु साहसाङ्क-स्कन्धयोर्विषये न किमपि ज्ञायते. कान्त इति तु रत्ना-
करविशेषणम्.
--- अत्रायं निष्कर्षः ---
अस्य संपूर्णलेखस्य निष्कर्षस्त्वयम्—यन्महाराष्ट्रचेदिदेशयोरन्यतरोद्भवः कान्य-
कुब्ज महीपालस्य महेन्द्रपालस्याश्रितो ब्राह्मण क्षत्रियो वा राजशेखरकविः ८८४
ख्रिस्तसंवत्सरादनन्तरं ९५९ संवत्सरात्पूर्वं चासीत्. राजशेखरस्य विस्तरेण वर्णने तु
पुण्यपत्तनस्थार्यभूषणमुद्रणशालये मुद्रितायां फर्गुसनपाठशालाध्यक्षेण एम्. ए. पदवी-
मण्डितेन शिवरामसूनुवामनपण्डितेन प्रणीतायाम् 'राजशेखर' हिज् लाइफ ऐण्ड
रायटिंग्स्' इति नामाङ्कितायां पुस्तिकायां द्रष्टव्यम्. इत्यलं बहुभिः पिष्टस्य मुहुः
पेषणेन.

महाकविश्रीराजशेखरकृता
कर्पूरमञ्जरी
वासुदेवकृतया टीकया समेता
—प्रथमं जवनिकान्तरम्—
भद्दं होउ सरस्सईअ कइणो णंदंतु वासाइणो
अण्णाणं पि परं पवट्टउ वरा वाणी छइल्लप्पिआ।
वच्छोमी तह मागही फुरदु णो सा किं च पंचालिआ
रीईओ विलिहंतु कव्वकुसला जोण्हं चकोरा विअ ॥ १ ॥
दशास्योद्यद्दाल्यच्छिद्रं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् ।
गणेशं च गण्डोड्डसद्भृङ्गसङ्गं हरोत्तुङ्गसङ्गाच्च गङ्गास्तरङ्गान् ॥
तातं प्रभाकरं नत्वा मातरं गोमतीमपि ।
कर्पूरमञ्जरीटीका वासुदेवेन तन्यते ॥
कर्पूरमञ्जर्याख्यसट्टकारम्भे सूत्रधार आशीरूपा नान्दीं पठति—
भद्दमिति ।
भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः
अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया ।
वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका
रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥
अत्र च 'व्यासादय' इत्यादौ 'सरस्वत्या' इत्येतत्प्रभृति षष्ठ्यन्तत्वोपक्रमभङ्गा-
भासेऽपि 'भवतु' इत्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न
प्रक्रमभङ्गः शङ्क्यः । तेन रीतीनां शब्दगुण । यथोक्तं सरस्वतीकण्ठाभरणे
(१।७६)—'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरस्वत्याः सततं
१ अत्र 'साट्टअ' इति पाठः क्वचित् ; तल्लक्षणं चोक्तं साहित्यदर्पणे (६।२७६) 'सट्टकं
प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः । अङ्का
जवनिकाख्याः स्याद्व्यङ्ग्यादिसमन्वयम् ।' इति । विशेषस्तु भावप्रकाशे द्रष्टव्यः ।
१

२ कर्पूरमञ्जरी
भद्रभाजनत्वादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या
मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यत्र आशंसनम् । ‘भवेत्तल्लिङ्गवचनं
यल्लिङ्गवचनोपमम्’ इत्युक्तत्वाज्ज्योरक्षामित्युपमाने भिन्नवचनतादोषो न शङ्क्यः ।
‘यल्लिङ्गमलिङ्गमित्युक्तं तल्लिङ्गवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीम-
ताम् ॥’ इति वृद्धेः, ‘न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूष-
नायालं यत्रोद्वेगो न धीमताम् ॥’ (का. २।५१) इति दण्डिना चोक्तत्वात्,
अत्र चाल्पीयस्या अपि ज्योत्स्नाया अतितृप्तिजनकत्वेन लोकोत्तरत्वस्य ‘पदैक-
देशरचनावर्णेष्वपि रसादयः’ (४।४३) इति काव्यप्रकाशकृदुक्तेरैशवचनेन
व्यञ्जनादुद्वेगाभावो वेदितव्यः। विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम्।
रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ताः सन्तीति ध्वनितम् । तदिदं वस्तुना
वस्तु व्यज्यते । ‘काव्यकुशला’ इति तादृशानामेव सम्बन्ध्यमत्र सूचितम् ।
तल्लक्षणं भरते—‘सभ्यास्तु विबुधैर्ज्ञेया ये द्विषड्लान्विता जनाः । मध्यस्थाः
सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः ।
अगर्वा रससारशालीर्यश्रितयकोविदाः ॥ असाद्वदनिषेद्धारश्चतुरा मत्सरच्छिदः ।
अमन्दरसानिष्यन्दिहृदया भूषणोज्ज्वलाः ॥ सुवेषा भोगिनो नानाभावोपचारविशा-
रदाः । स्वस्वोचितस्थाननिष्ठाश्चाप्रधर्षसापगत्यणाः ॥’ इति । चकोरोपमानेन विधे-
चानकर्तृत्वप्रार्थना व्यङ्ग्या । सोऽयमलंकारेण वस्तुध्वनिः । विदग्धप्रियेति षष्ठी-
तत्पुरुषो वृत्त्या वाण्या विशेषणम् । यद्वा,—वैदर्भ्यादीनाम् । अस्मिन्पक्षे कर्मधारय-
माश्रित्य वैदर्भ्यादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकारध्वनिः । वैद-
र्भ्याद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे (२।२९)—‘तत्रा-
समासा निःशेषसमप्रगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥
पूर्वैरीतैर्निर्वाहे गण्डरीतिस्तु मागधी । अनल्पस्पष्टपदामोजःकान्तिविवर्जिताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥’ इति । रीतिसामान्यलक्षणं च
तत्रैव—‘वैदर्भ्यादिरिहाः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गतौविधातोः
सा व्युत्पत्त्या रीतिरिष्यते ॥ (स. क. २।२७) इति। गौड़ी लाटीनामेकैकगुणव्यति-
रेकेणैवोपादानम् । चकोरा ईवेत्युपमालंकारः सा यथ—‘साधर्म्यमुपमा भेदे’
(१०।८७) इति काव्यप्रकाशे । वामनेनाप्युक्तम्—(वा. सू. ४।२।४२)
‘उपमानोपमेययोर्गुणलेशेनः साम्यमुपमा’ इति । दण्डिनाप्युक्तम् (का. २।१४)—
‘यथाकथञ्चित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं