कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 4, कुल 172 में से
संदर्भ में पढ़ेंप्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णन-श्लोकेषु टिप्पण्या स्फुटीभविष्यति.
बिल्हणकविर्यथा स्वदेशं काश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि
स्वदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये.
दशरूपकावलोक-सरस्वतीकण्ठाभरण-क्षीरस्वामिकृतामरकोषटीका युक्तिकल्पतरु-
कोषटीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन-काव्यप्रकाश-साहित्यदर्पण-
शार्ङ्गधरपद्धति-सूक्तिमुक्तावलि सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखर-
श्लोका , श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था
अस्मिन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मी-
रदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत्
( राजतरङ्गिणी ४।४८८ ). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्. यतः
क्षीरस्वामिकृतामरकोषटीकाया 'श्रीभोजः' इति नाम बहुषु स्थलेषु वर्तते. भोजश्चै-
कादशशतकमध्यभाग आसीत्, तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी
कथमष्टमशतकोत्तरार्धसमुद्भूतस्य जयापीडनृपतेरध्यापको भवितुमर्हति ? तस्मात्क्षी-
रोपाध्यायात्क्षीरस्वामी भिन्न एव.
— राजशेखरप्रणीता ग्रन्थाः —
बालरामायणम्, बालभारतम् ( प्रचण्डपाण्डवम् ), कर्पूरमञ्जरी, विद्धशालभ-
ञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव,
बालभारतस्य केवलमङ्कद्वयम्, नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका,
वासुदेव-धर्मदास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते.
बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्म-अकालजलद-तरल-सुरानन्द-कविराजा-
नाम् कर्पूरमञ्जर्यां च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटि-
सानां कवीनां नामानि सन्ति. तेषु शंकरवर्म्मापराजितौ राजशेखरसमकालीनौ, अका-
लजलद-तरल-सुरानन्द कविराजा राजशेखरस्य पूर्वपुरुषाः. तेषु कविराजो राघव-
पाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूतिहाल-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ
चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिर्महेन्द्र-
पालः स्वशिष्यत्वेन वर्णितः. बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोर्महीपाल-
देवस्यापि वर्णनमस्ति. निर्भयराजोऽपि राजशेखरस्य शिष्य एवासीत्. 'बालकविः
कविराजो निर्भयराजस्य तथोपाध्याय' इति कर्पूरमञ्जरीप्रस्तावनायाम् 'विभ्रमराजस्य