सामग्री पर जाएँ
सर्वकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 2, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 2

४

राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र 'इण्डियन
ॲण्टिक्वेरी'नामकमासिकपुस्तकस्य पञ्चदशे भागे ११२ मिते पृष्ठे 'ॐ स्वस्ति श्रीम-
होदयसमावासितानेकगो हस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्--परमभगवतीभक्तो
महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परम-
भगवतीभक्तो महाराजधीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिवा-
लयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्रतिवासिनश्च
समाज्ञापयति-- संवत्सर १०० ५० ५ माघशुदि १०
निबद्धम्' इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानाम-
ङ्कानां संकलने जाता १५५ मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः, तत्र च
६०६ वर्षेषु योजितेषु जातः ७६१ मितः ख्रिस्तसंवत्सरः. 'अयमेव पूर्वलिखितदान-
पत्रसमयः' इति फ्लीटपण्डितः. एतदनुरोधेनैव सुभाषितावल्युपोद्घाते राजशेखर-
समयो लिखितः; किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति ७६१ मित-
ख्रिस्तसंवत्सरे राजशेखरो बभूवेत्यपि संदिग्धमेव. दानपत्रं त्वेतद्राजशेखरवर्णित-
महेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्रे महोदयस्य नाम वर्तते. राजशेखरकृतबाल-
भारतप्रस्तावनायां च 'कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः'
इत्याद्यस्ति. महोदयमिति कान्यकुब्ज (कनौज)स्य नामान्तरम्, कान्यकुब्जं महो-
दयम्, 'कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत्' इति हैमनाममालायाम्,
'महोदयः कान्यकुब्जे' इति विश्वप्रकाशमेदिनीकोषयोश्च वर्तते. बालरामायणे दश-
मेऽङ्केऽपि 'लक्ष्मणः--इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं
दृश्यते । रामः--शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुर-
स्तात् । वैदेहि देहि शफरीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवदुत्सुसिन्धौ ॥ ८८ ॥
इदं द्वयं सर्वमदापवित्रं परस्परालंकरणैकहेतु । पुरं च हे जानकि, कान्यकुब्जं
सरिश्च गौरीपतिमौलिमाला ॥ ८९ ॥' इत्याद्यस्ति. एतेन राजशेखरकविः कान्य-
कुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पति-
राज-श्रीहर्षादयोऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशो-
धर्मप्रभृतीनां सभासु स्वस्वसमय आसन्.
राजशेखरो दशमे शतके बभूवेति भाण्डारकरपण्डितः, एवमेव वेबरपण्डितः,
एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे चेति विल्सनपण्डितः, बालरामायणकर्ता
राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमूलरनामा वदति.