हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
तृतीय स्थान: शल्य स्थान (गज-शल्य क्रिया, अस्त्र-व्रण एवं बन्धन-विधि)
३७२ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
मर्मगते यथोक्तानां मर्मणां लिङ्गानि भवन्ति । प्राणवियोगश्चात्यर्थद-
ग्धस्य वारणस्य ॥
यदा तु गोपुराट्टालकाद्यभिभवंतो वारणस्योल्काज्वालावलीढं भवति शरी-
रम्, तदा रोमत्वेग्ज्वलनं भवति । अङ्गारामेष्वगुडमधूच्छिष्टस्य जतुभिरव-
लीढगात्रस्य भूयो भूयः श्यावता भवति । तत्र द्विविधमेव परंपरादाहमि-
च्छन्ति—द्रवेण वा स्थिरेण वा । तयोस्तु लिङ्गसामान्यं .........भिहतदेहानां
विद्युद्विस्फोटनाङ्गैरवं स्वरमभिशृण्वतां हृदयमवदीर्यते द्विरदानां केषांचित् ।
घोरघोषत्वात्केचिद्वाधिर्यमेवाऽऽप्नुवन्ति । केचित्त्वभिहतदेहा गतासवो भवन्ति ।
अत्यर्थाध्वगमनाद्दिवसकरकराभिहतदेहस्य संतापाद्रुद्धेभ्यो रुधिरागमः, पिपा-
सात्वक्संकोचोरुस्तम्भाः, श्र(स्र)स्तकरचरणकर्णवालमेहनत्वं च भवति । स
दिवसकरकरदग्धतनुर्यदा ग्रहणमुपगतो भवति द्विरदपतिः, ततोऽस्य मन-
स्तापः, यवसकवलकुवलानामपयुक्तानां स विदाहमुपजनयति । स विदग्धो
धातुत्वङ्मांसधमनीसिरास्नायूनां भूयो भूयो विदाहमभिनिर्वर्तयति । तस्य
संतापद्ग्धोत्पन्नास्तीक्ष्णवेदनाः शरीरे कृष्णपर्यन्ताः सिताः स्फोटाः शोषरुग्दा-
हप्राया भवन्ति । इत्येतत्संतापद्ग्धस्य लक्षणम् ॥
अभ्यासादाशीर्वि(वि)षाणां निःश्वासग्रहणनयनैः संमूर्च्छितकोपानां संनिपाता-
द्विरदपतिगात्रेषु रक्तमण्डलानि प्रादुर्भवन्ति। प्रियङ्गुतण्डुलवर्णैः स्फोटैरुपचयोऽ-
प्रतिकारोदस्य मांससादः पिपासा वेपथुर्वमथुरभीक्ष्णं संभवति । इत्येतदाशी-
र्वि(वि)षदग्धलक्षणं भवति । इति सद्यःक्षतदग्धमशेषेणोक्तमस्माभिः ॥
व्रणस्तु सर्व एव किंचित्कालमागन्तुर्भूत्वा दोषाणामन्यतमसंसर्गमुपगम्य
सदोषो भवति । तस्याऽऽकृतिविशेषाद्व्रणकरणाविशेषाणामन्यतमेनाऽऽहतस्य
तांचिकित्सितमुपदेक्ष्यामः—
अथ सद्यःक्षतं मधुघृताभ्यक्तं कृत्वा विमलशिशिरसलिलं द्विरदमवगाहये-
द्चिरात्रम् । एवं क्रमेणानुबध्नीयात् । ततः क्लिन्नोत्थितव्रणमपि विज्ञेयपूतिमां-
सावनद्धमुत्सङ्गयुक्तं गत्या वा ततः शस्त्रेण पूतिमांसं विशोध्यैषण्याऽन्वेषणमसंमूढः
कृत्वा, यत्रैषण्या गतिर्नावरुध्यते ततो व्रणं निरुत्सङ्गं सालिलानवस्थाथिनं
कुर्यात् । सालिलं हि रक्तमूर्च्छितं वायुनोच्छ्रितत्वं पूयत्वं च व्रजति । पूयः
स दोषमूर्च्छितो गतिमापादयांत । तं घृतेनावासिच्य गजशकृतेन किण्वलवण-
१ क. °त्वक्चल° । २ क. °र्थमुपलभन्ते । के° । ३ क. °ताक्ष्णोशोष° ।
४ क. °भ्यासन्नैर्दाशी° । ५ क. °रास्पद° । ६ क. °कित्सामु° । ७ क °स्त्रेणा-
त्यमां° ।
[-षं सद्यःक्षताध्यायः ] हस्त्यायुर्वेदः । ३७३
संयुक्तेन पूरयेत् । उपचरति मासार्धव्य(?) येष्वपि पूरणं दद्यात् । तृतीये
चाहनि यथोक्तेन प्रक्षालनेन प्रक्षाल्य व्रणं घृतेन परिषेचयेत् । अनेनैव
विधिना व्रणमुपाचरेदाक्लेदात् । ततः शोधनादिकल्कैरुपक्रमेत्, घृतपानं च
दद्यात् । घृतसंयुक्तं शाल्योदनं मुद्गयूषेण संसृष्टं दद्यात् ॥
अथ सिंहव्याघ्रनखदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषा-
येण विमलशिशिरसलिलेन परिषेचयेत् । शीतैस्तु प्रदेहैर्घृतसंयुक्तैश्च प्रदेहयेत् ।
व्रणांश्च व्रणोपक्रमैरुपक्रमेत् ॥
अग्निदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयःसुराभ्योऽन्यतरेण वा
शीतैश्च प्रदेहैः, मञ्जिष्ठायष्टीमधुकचन्दनोशीरपद्मकनलवञ्जुलशालिमूलसारिवा-
र्जुनोदुम्बरप्लक्षैः, वटनालिकानलजविशमृणालोत्पलपद्मिनीकर्दमभद्रमुस्ततृण-
शूल्यैश्च सुरादधिघृतयुक्तैः प्रदेहं कुर्यात् । कषायोदकपिष्टैः परिषेकांश्च कुर्यात् ।
व्यपगताग्निमभिज्ञाय विमलशिशिरसलिलेऽवगाहयेत् । निवृत्तमवगाहाद्घृतेन
परिषेचयेत् । व्रणं च पूर्वोक्तैरुपक्रमैरुपक्रमेत् । गुडजतुमधूच्छिष्टामेध्यदग्ध-
( *ऽनलदग्धसमानक्रियं तस्योपक्रमं कुर्यात् ।) घृतेनाभ्यज्य शीतैः प्रदेहैरुप-
क्रमेत् ॥
अर्कविद्युत्सन्तापदिग्धस्य............ *समानमुपक्रमं कुर्यात् । संतापदिग्धं
तु विशेषेणाऽऽहारैः सात्म्यकालाविरुद्धैरुपाचरेत् । घृतयुक्तं च शालीनामोदनं
मुद्गयूषरसंयुक्तं दद्यात् ॥
क्षारदग्धं च द्विव्रणीयेन क्षारकर्मण्युपदिष्टेनोपक्रमेत् । घृतमधुघृतेनाभ्यज्य
शीतैः प्रदेहैरुपक्रमेत् ॥
विषदग्धं च शस्त्रकर्मादिभिरुपक्रमेत् । दग्धं चाऽऽशीविषनिःश्वासैः शत-
धौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टैः प्रदेहैरुपक्रमेत् । घृतपानं च दद्यात्, शीत-
परिषेकं च कुर्यात् । भोजनं विषजग्धोद्दिष्टं दद्यात् ॥
तत्र श्लोकः—
क्षतं दग्धं च यो नागे(गं) विधिना समुपाचरेत् ।
पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यरोगस्थाने
सद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः ॥ २ ॥
* खपुस्तके त्रुटितः ।
१ क. ॰दिभिः क॰ । २ क. ॰गाह्ये॰ । ३ क. ॰दग्धं ।
३७४ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
अथ तृतीयोऽध्यायः ।
नन्दनोपवने पुण्ये नानाद्विजसमाकुले ॥
आश्रमे स्वर्गसोपाने महर्षिगणसेविते ॥ १ ॥
हुताग्निहोत्रमासीनं ज्वलन्तमिव पावकम् ॥
पालकाप्यं महातेजा अङ्गराजो महायशाः ॥ २ ॥
प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान् ॥
सद्यःक्षतविधानं तु भगवन्वक्तुमर्हसि ॥ ३ ॥
छिन्नविच्छिन्ननिर्विद्धं सावनष्टाविदारिते ॥
उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः ॥ ४ ॥
दग्धे दूषीविषे चैव क्षतेषु विविधेषु च ॥
विध्यं(धिं) सद्यःक्षते नागे कृपया वक्तुमर्हसि ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु भद्रमुख स्वस्थो यत्त्वं पृच्छसि संशयम् ॥ ६ ॥
अतिदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते ॥
पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप ॥ ७ ॥
सद्यःक्षतेषु नागानां संधानं हितमुत्तमम् ॥
गम्भीराणां तु सर्वेषामेषण्या निर्दहेदसृक् ॥ ८ ॥
श्वेताभासो व्रणो यस्तु तस्मिन्नक्तं न निःस्रवेत् ॥
वृक्षोत्सङ्गी व्रणो यस्तु तस्मिन्नक्तमतिश्रु(स्रु)तम् ॥ ९ ॥
दूषयेत्तु प्रदुष्टं तत्स्व(च्छ्र)पथुं च नियच्छति ॥
संतापयति तिष्ठन्तं पाकं चाऽऽशु नियच्छति ॥ १० ॥
तस्माद्व्रणं शोधयित्वा घृतेन परिषेचयेत् ॥
संसृष्टां मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत् ॥ ११ ॥
अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत् ॥
कुमुदोत्पलपत्राणि हीवेरं च कुटंनटम् ॥ १२ ॥
करवीरस्य पत्राणि क्षीरवृक्षत्वचस्तिलान् ॥
कृष्णमृत्तिकया सार्धं दृषद प्रतिपेषयेत् ॥ १३ ॥
घृतेन शतधौतेन संप्रोज्याथ प्रलेपनम् ॥
शीतक्रियांमिमां वाऽन्यां यथावत्समुपाचरेत् ॥ १४ ॥
१ क. वृत्तोत्सङ्गी । २ क. प्रदिष्टं । ३ क. संसृष्टं ।
कन्दैर्बिशमृणालानां क्षीरवृक्षत्वचाऽन्वितैः ॥
छायायां परिषेकं हि कारयेद्विधिवद्भिषक् ॥ १५ ॥
अभ्यङ्गैः परिषेकैश्च शीतैः पानैर्घृतस्य च ॥
सुखमस्य भवेत्तेन न च दोषः प्रबाधते ॥ १६ ॥
अभिघाताद्विषाद्वाऽपि द्विपस्य श्वयथुर्यदा ॥
उत्पद्यते भिषग्वीरस्तदेनं कारयेद्विधिम् ॥ १७ ॥
चन्दनं पद्मकं पत्रं १शैवलं सुनिषण्णकम् ॥
क्षीरपिष्टानि सर्वाणि घृतेनैतत्प्रलेपनम् ॥ १८ ॥
सर्पिषाऽभ्यञ्जनं कार्यं प्रदेहो वा न संशयः ॥
अथवैतेन कल्पेन विशेषो नोपलभ्यते ॥ १९ ॥
कुठाराकृतिकशस्त्रेण तत२स्तं प्रच्छयेद्भिषक् ॥
नातिगाढं न च लघुं न घनं विरलं न च ॥ २० ॥
पदे पदं न दद्याच्च शिरासंधींश्च वर्जयेत् ॥
जम्बूशीरपलाशैश्च पद्मिन्याश्चैव कर्दमैः ॥ २१ ॥
लेपयेद्धृतसंयुक्तैस्ततः संपद्यते सुखी ॥
ईषत्कषायमधुराः कषायास्तु रसास्तिलाः ॥ २२ ॥
रक्तपित्तानिलहरास्तेषां कल्कः प्रशस्यते ॥
कषायात्तु रसाच्छ्लेष्मा माधुर्यात्पित्तमेव च ॥ २३ ॥
स्नेहाच्च शमयेद्वातं तस्मात्कल्कोऽपमिष्यते ॥
घृष्टेदष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः ॥ २४ ॥
हितो गजानामत्यर्थं लेपः सद्यःक्षतेषु च ॥
उद्गमो द्विविधो राजन्यदि मर्माश्रितो भवेत् ॥ २५ ॥
सुपक्वं छेदयेदाशु नापकं तु कदाचन ॥
मर्मसंरक्षणार्थं च यत्नं कृत्वा तु दन्तिनाम् ॥ २६ ॥
दोषमन्तरतः कृत्वो ततः शस्त्रं निपातयेत् ॥
मर्मण्यभिहतो यस्माद्द्विपो मरणमृच्छति ॥ २७ ॥
मर्मेति मारणादुक्तं नैरुक्तेनैव हेतुना ॥
निमित्तैर्विविधैर्देहं गजानां विवृणोति यत् ॥ २८ ॥
तस्माद्धि वारणेन्द्राणां व्रण इत्यभिधीयते ॥
रूढेऽपि हि व्रणे यस्माद्व्रणवस्तु न नश्यति ॥ २९ ॥
१ क. शैलेयं । २ क. ०स्तं पृच्छ० । ३ क ०दृष्ट० ।
Here is the Devanagari text transcription of the Sanskrit verses from the provided image:
३७६ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
आ देहधारणादेव व्रण इत्यभिशब्दितः ॥
अर्बुदा गलगण्डाश्च ये च संधिगता व्रणाः ॥ ३० ॥
एतान्क्षारैरुपक्रान्मेन्नेतांञ्छस्त्रैरूपाचरेत् ॥
संनिपातैस्तु दन्तानां ( *दारितानां ) द्विपादिभिः ॥ ३१ ॥
भिण्डिमालैः सकणयैरसिशक्त्यृष्टितोमरैः ॥
भिन्नमर्मशिरा गाढं वहन्ति यदि शोणितम् ॥ ३२ ॥
अतिप्रवृत्ते रुधिरे लभेयुरपतानकम् ॥
मूर्छां वा दारुणां नागाः क्षयं मरणमेव वा ॥ ३३ ॥
तेष्वसृक्स्थापनं कार्यमेभिः सर्वैरुपक्रमैः ॥
कषायवृक्षचूर्णैर्वा भस्मना गोमयस्य च ॥ ३४ ॥
भस्मना तान्तवानां वा शोणितस्थापनं भवेत् ॥
(†शीतैः पानैश्च सेकैश्च शोणितस्थापनं भवेत्) ॥ ३५ ॥
अथवैतेन कल्पेन शोणितं नैव तिष्ठति ॥
अग्निकर्म ततः कुर्यात्क्षारं चात्र प्रदापयेत् ॥ ३६ ॥
न चातिक्रामयेद्वेलां समुद्रः समये स्थितः ॥
न चातिक्रमितुं शक्यमग्निक्षारादसृग्बलात् ॥ ३७ ॥
अत्यम्ललवणात्युष्णादत्याशात्यम्बुसेवनात् ॥
असृक्स्थितं चिरमपि वारणस्य प्रवर्तते ॥ ३८ ॥
नात्यम्लं नातिलवणं नात्युष्णं नातिभोजनम् ॥
नात्यर्थमम्बुपानं च तस्मान्नागाय दापयेत् ॥ ३९ ॥
अभिघातात्प्रकुप्येत वायुः पित्तं च दन्तिनः ॥
तस्मात्सद्यःक्षते नागे घृतमेव हितं भवेत् ॥ ४० ॥
पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेन सेचयेत् ॥
दोषातिरिक्तं विज्ञाय व्रणं प्रकृतिसात्म्यतः ॥ ४१ ॥
क्रियापथं प्रयुञ्जीत पंथ्यश्वास्मै प्रदापयेत् ॥
ततोऽङ्गराजः पप्रच्छ विनयात्पुनरुत्थितः ॥ ४२ ॥
किमर्थं दीयते क्षीरं व्रणितेभ्यो महामुने ॥
इत्येवमुक्तः शिष्येण पालकाप्यस्ततोऽब्रवीत् ॥ ४३ ॥
- कपुस्तके त्रुटितः । † खपुस्तके नोपलभ्यते ।
१ क. भिण्डिपालैः । २ क. अथास्यैते° । ३ क. पथ्यं चास्मै । ४ क. ख.
शेषेण ।
सद्यःक्षतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ३७७
शृणुष्व मे महाराज यदर्थं दीयते पयः ॥
(* इमे च सर्वे ऋषयः) संहितास्तु त्वयाऽनघ ॥ ४४ ॥
अत्यर्थं शोणितं १यस्य निःसृतं वारणस्य वै ॥
तस्मै क्षीरं प्रदेयं स्याद्घृतयुक्तं महीपते ॥ ४५ ॥
जातिसात्म्यात्तु नागानां श्रेष्ठं कायाग्निदीपनम् ॥
क्षीरं सर्वत्र मधुरं बल्यं रक्तप्रसादनम् ॥ ४६ ॥
जीवनं वातरोगघ्नं बलवृद्धिकरं च २तत् ॥
रसायनं च पथ्यं च हृद्यं वृष्यं गदापहम् ॥ ४७ ॥
अतिप्रवृत्ते रुधिरे धातूनां जायते क्षयः ॥
† तन्मूला धातवः सर्वे क्षयाच्च मरणं ध्रुवम् ॥ ४८ ॥
तस्मात्क्षीरं भवेद्देयं सर्वैर्मधुरकैः सृ(शृ)तम् ॥
एतदर्थं महाराज क्षीरपानं विधीयते ॥ ४९ ॥
—:()::—
अतः परं प्रवक्ष्यन्ते व्रणोपक्रमहेतवः ॥
प्रहारविगतोष्माणं स्थितं च रुधिरं यदा ॥ ५० ॥
द्विव्रणीयोपचारेण साधयेच्छोधनादिना ॥
यवसैः प्रतिपानैश्च स्नेहयुक्तैश्च भोजनैः ॥ ५१ ॥
संजातप्राणमांसस्य प्रतिपूर्णेषु धातुषु ॥
स्नेहपानोपचारेण स्नेहमच्छं प्रयोजयेत् ॥ ५२ ॥
स्नेहेन च विर(रि)क्तस्य बस्तिकर्म प्रशस्यते ॥
सुविरिक्तं च विज्ञाय स्नेहपानं ३प्रवर्त्तयेत् ॥ ५३ ॥
अविरिक्तस्य तैलेन शृणु दोषं नराधिप ॥
आक्षेपं वा विलभते अतीसारमरोचकम् ॥ ५४ ॥
अथवा पाकलं घोरं मरणं वा नियच्छति ॥
एते चान्ये च बहवो दोषाः स्युर्दुर्विरिक्ततः ॥ ५५ ॥
सुविरिक्तस्य वै राजन् बलं तेजश्च वर्धते ॥
स्नेहपानविधिश्चैव बस्तिदानविधिस्तथा ॥ ५६ ॥
तस्मिंस्तस्मिन् ४प्रकरणे पुरस्तादेव कीर्त्यते ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ॥ ५७ ॥
*कपुस्तके नोपलभ्यते । †धातूनां क्षये हेतुप्रदर्शनपरोऽयं पादः ॥
१ क. तस्य । २ ख. यत् । ३ ख. निवर्त्तयेत् । ४ क. ॰न्प्रकारेण पु० ।
४८
३७८ पालकाप्यमुनिविरचितो- [१ शल्यस्थाने-
भूयः किमन्यदिच्छेत्त्वं(स्त्वं) वरदोऽस्मि तवानघ ॥
—:०:—
ततोऽङ्गपतिरक्षुद्रो विनयात्पुनरुत्थितः ॥ ५८ ॥
अकल्पानां च नागानां कल्पानां च तपोधन ॥
अरिष्टं ज्ञातुमिच्छामि दूतानां चैव लक्षणम् ॥ ५९ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु मे सर्वमेवैतदविक्षिप्तेन चेतसा ॥ ६० ॥
अत्यर्थं दुर्मना यस्तु स्तब्धकर्णशिरोधरः ॥
न च वेदयते संज्ञां यथा प्रेतस्तथैव सः ॥ ६१ ॥
अत्यर्थं तु यदा नागो मक्षिकाभिरुपास्यते ॥
अकस्मादेव राजेन्द्र नायमस्तीति निर्दिशेत् ॥ ६२ ॥
(※ छायायां गच्छतो यस्य शिरो यस्य न दृश्यते ॥
वारणस्य नरव्याघ्र तं प्रेतमभिनिर्दिशेत् ॥ ) ६३ ॥
क्रिया सम्यक्प्रयुक्ताऽपि यदा नागस्य हीयते ॥
रोगेषु साध्यमानेषु तदरिष्टस्य लक्षणम् ॥ ६४ ॥
—:०:—
अतः परं प्रवक्ष्यामि दूतानामपि लक्षणम् ॥
चित्रमाल्याम्बरधरान्स्पृशतश्च नखांस्तथा ॥ ६५ ॥
मुक्तकेशैकवस्त्रांश्च दीनां व्याहरतो गिरम् ॥
पृच्छकांस्तादृशो दृष्ट्वा न गन्तव्यं भिषग्वरैः ॥ ६६ ॥
आमं मांसं सवत्सां गां ब्राह्मणाञ्छुक्लवाससः ॥
उद्धृतां च महीं दृष्ट्वा वाराहं चक्रमुत्थितम् ॥ ६७ ॥
श्वेतं छत्रं पताकां च श्वेतं च वृषभं तथा ॥
दधि प्रभिन्नं च गजं पूर्णं च कलशं तथा ॥ ६८ ॥
एतानि च निमित्तानि शुभानि च शिवानि तु ॥
प्रस्थितैर्यदि दृश्यन्ते सद्यः सिद्धिर्ध्रुवा भवेत् ॥ ६९ ॥
शुभशब्दे च गन्धे च सानुलोमे च मारुते ॥
प्रस्थिते सर्वकार्याणां सद्यःसिद्धिर्ध्रुवा भवेत् ॥
क्रिया सम्यक्प्रयुक्ताऽपि भिषग्भिः कालसंभृतैः ॥ ७० ॥
※ धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके ॥
[ सद्यःक्षतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ३७९
या न सिध्यति विप्रेन्द्र तन्मे शंसितुमर्हसि ॥
इत्यङ्गपतिना पृष्टः पालकाप्यस्ततोऽब्रवीत् ॥ ७१ ॥
तिथिष्वशस्तपूर्वेषु पक्षच्छिद्रेषु हस्तिनाम् ॥
आर्द्रासु त्रिषु पूर्वांसु भरणीषु मघासुच ॥ ७२ ॥
रोगेस्याऽऽगमनेऽन्यां वा क्रियां सर्वां विवर्जयेत् ॥
कृत्तिकाश्लेषयोश्चैव मूले वरुणदैवते ॥ ७३ ॥
वारणास्त्वभिभूयेरन्हतास्त्वेतेषु राक्षसैः ॥
तस्मात्सर्वप्रयत्नेन तिथीनेतान्विवर्जयेत् ॥ ७४ ॥
क्रिया सम्यक्प्रयुक्ताऽपि गजानां शास्त्रकोविदैः ॥
न सिध्यति महाराज तस्मादेतान्विवर्जयेत् ॥ ७५ ॥
—:(0):—
आमच्छेदे तु ये दोषास्तान्सर्वाञ्छृणु पार्थिव ॥
आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ॥ ७६ ॥
कुपितं कोपयेत्पित्तं त्वङ्मांसं चापि दूषयेत् ॥
वायुना सह संगम्य श्वयथुं जनयेद्भृशम् ॥ ७७ ॥
ततोऽस्य वेदना घोरा दाहश्चैव प्रवर्तते ॥
अतिप्रवृत्ते दाहे² च विसर्पस्तस्य जायते ॥ ७८ ॥
नीलपीतारुणनिभैः स्फोटैः समुपचीयते ॥
न तिष्ठत्यथवा रक्तं स्नायुच्छेदोऽपि वा भवेत् ॥ ७९ ॥
स्नायुच्छेदेन खञ्जत्वं गद्गदत्वं च जायते ॥
स्कन्दरोगं च लभते शोणितस्य प्रवर्तनात् ॥ ८० ॥
एतदर्थं न कुर्वीत आमच्छेदं तु कुञ्जरे ॥
तस्मात्सुपक्वं श्वयथुं छेदयेत्क्रमशो भिषक् ॥ ८१ ॥
चतुर्दंष्ट्राहिदष्टस्य यथा नास्ति चिकित्सितम् ॥
एवं तु कुपिते रक्ते नेर्चेग्रे(?)रस्ति भेषजम् ॥ ८२ ॥
—:(0):—
अत ऊर्ध्वं प्रवक्ष्यामि वह्निर्यत्रावतिष्ठति ॥
जाठरः पृथिवीपाल नाभावग्निः प्रतिष्ठितः ॥ ८३ ॥
सम्यक्पचति तत्रस्थमाहारं तु चतुर्विधम् ॥
यथाऽग्निर्विपचेद्बाह्यो जलं स्थालीमदूषयन् ॥ ८४ ॥
१ क. ॰गमागतमन्यां । २ क. ॰त्ते रुधिरे वि॰ ।
An exact line-by-line transcription of the Sanskrit text provided in the image:
३८० पालकाप्यमुनिविरचितो— [१शल्यस्थाने-
दीप्तः सम्यक्परिक्लिभांस्तण्डुलानेवमेव तु ॥
आमाशयविभागार्थं नाभ्यामग्निः प्रतिष्ठितः ॥८५॥
कायेऽन्नं प्रपचेत्सर्वं सम्यग्वातसमीरितः ॥
यथा संप्रतिपूर्णस्य शुद्धकोष्ठस्य हस्तिनः ॥ ८६ ॥
सम्यग्वि पच्येताऽऽहारो.बलवर्णकरस्तथा ॥
दोषधातुसमत्वं च करोतीति विनिश्चयः ॥ ८७ ॥
असम्यक्पच्यमानश्चै व्यापन्नस्तु यदा भवेत् ॥
एतदेव विपर्यस्तं करोतीति विनिश्चयः ॥ ८८ ॥
यवसं परिपूर्णार्थं पीतायाम्बु सचेतसे ॥
या विधा दीयते राजन्सा विधाऽर्थाय कल्पते ॥ ८९ ॥
यवसानि विचित्राणि कुवलं पल्लवानि च ॥
यवसार्थे प्रदेयानि निग्रहाच्च निवारयेत् ॥ ९० ॥
व्याप्य तिष्ठति यावत्तु शरीरं शुक्रमेव तु ॥
आप्यो धातुर्द्रवो रक्ततेजसा स तु रज्यते ॥ ९१ ॥
मूर्तिमच्चैव भूस्तत्र स्वधातुर्विवरं स्मृतम् ॥
स्पर्शनं चैव वायव्यमेवं पञ्च गुणाः स्मृताः ॥ ९२ ॥
ईषत्क्षारस्य यः क्षारः स क्षारः क्षार एव तु ॥
स निर्दहति भूतानि स्थावराणि चराणि च ॥ ९३ ॥
शीतलस्तीक्ष्णवीर्यश्च तेजो दहति द्विपान् ॥
ये व्रणाः संधिदेशस्था येषां चासृङ्न तिष्ठति ॥ ९४ ॥
उष्णताकृतभीरूणां दाहो येषु प्रयुज्यते ॥
ये व्रणा दूषिता नित्यं येषां चासृङ्न तिष्ठति ॥ ९५ ॥
तेषां प्रयोजयेत्क्षारं ये च दाहेऽतिशङ्किताः ॥
अत एव विनिश्चित्य ऋषिभिः ससुरासुरैर्नृप ॥ ९६ ॥
तुषारक्षारयोगोऽयं निर्मितो ब्रह्मणा स्वयम् ॥ ९७ ॥
क्षारोऽग्निकर्म कुरुते न च त्रासयते द्विपम् ॥
मृगा ह्येते प्रकृत्या च वनवासात्स्वभीरवः ॥ ९८ ॥
इत्यर्थं कल्प्यते क्षारो गजानां मनुजाधिप ॥
शीतलोऽग्निर्भगवत्ता कृतो लोकहितेप्सया ॥ ९९ ॥
१ ख. ०क्लिश्यंस्त० । २ क. ०विधानार्थं । ३ क. ०ये न प्र० । ४ क. ०श्व मामात्न० । ५ क. ०क्ष्णवायुश्च तेजसा तुदति । ६ क. ०गोऽपि नि० । ७ क. गजा ।
[४ षडत्ययोपचाराध्यायः ] हस्त्यायुर्वेदः । ३८१
भस्म कृत्वा रसान्षट्सु क्षरणात्क्षारसंज्ञितः ॥
संयोगात्तु रसस्त्वेष रसः प्रकृतिसंभवः ॥ १०० ॥
तुषाराग्नियथा नागान्निर्दहेच्छिरसः पुनः ॥
विद्युन्मालिविनिर्दिष्टा तथा तस्य प्रतिक्रिया ॥ १ ॥
वर्जयित्वाऽवगाहं च परिषेकं च शीतलम् ॥
पलाशशय्या नागस्य निर्वाते पूजिता भवेत् ॥ २ ॥
आमये पूर्वमुत्पन्ने यश्च मिथ्योपचारतः ॥
उपद्रवति यत्पश्चात्तेन स स्यादुपद्रवः ॥ ३ ॥
कायसंरक्षणार्थं च वर्णज्ञानार्थमेव च ॥
एकामेव च्छविं विद्याद्यत्र रोम प्रतिष्ठितम् ॥ १०४ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ॥
सद्यःक्षतविधानं तु कृत्स्नकल्पमरिंदम ॥ १०५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
सद्यःक्षतचिकित्सितं नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ।
अथाङ्गराजो मतिमानभिवाद्य मुनिं स्थितम् ॥
पालकाप्यमृषिश्रेष्ठं पुनरेवेदमब्रवीत् ॥ १ ॥
शिरास्नाव्यस्थिसंध्यानां छेदे तिर्यक्तथैव च ॥
(*पक्वस्यापाटने चैव) तन्मे ब्रूहि षेडत्ययान्¹ ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
हीनं तत्रातिरिक्तं च द्विविधं शस्त्रनिश्चयात् ॥ ३ ॥
वैद्योपचारान्नागानां शस्त्रकर्म विगर्हितम् ॥
गम्भीरानुगतं दोषं शस्त्राप्राप्य वारणे ॥ ४ ॥
अदृष्टकर्मा तु भिषक्पाटयित्वाऽवसीदति ॥
रुजाः शस्त्रकृतास्तस्य यथा पूयसमुद्भवाः ॥ ५ ॥
दन्तिनो दाहबहुलाः हीने स्याच्छ(स्युः श)स्त्रकर्मणि ॥
व्रणे त्वल्पाश्रये शस्त्रमवगाढं यदा बलात् ॥ ६ ॥
- कपुस्तके त्रुटितः पाठः ।
१ क. गडत्परान् ।
३८२ पालकाप्यमुनिविरचितो- [३शल्यस्थाने-
पातयेत्सहसा वैद्यस्तदा हिंस्यादनेकपम् ॥
वेपथुं श्वयथुं चैव शोषं सहृदयामयम् ॥ ७ ॥
एषामन्यतमं ह्याशु व्याधिमाप्नोत्यनेकपः ॥
स्नायुच्छेदेन खञ्जत्वं गद्गदत्वं च जायते ॥ ८ ॥
मृणालमुखसंस्थानो व्रणश्चास्योपजायते ॥
चिरकालश्रु(स्रु)तश्चापि संधानं नैव गच्छति ॥ ९ ॥
तिर्यक्प्रणिहिते शस्त्रे शृणु दोषानतः परम् ॥
दाहदोषान्वितः स्तब्धः सरागः सपरिश्र(स्र)वः ॥ १० ॥
न रोहति व्रणश्चास्य क्रियमाणेऽपि भेषजे ॥
आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ॥ ११ ॥
कुपितं कोपयेत्पित्तं त्वङ्मांसं चापि दूषयेत् ॥
वायुना सह संगम्य श्वयथुं जनयेद्भृशम् ॥ १२ ॥
ततोऽस्य वेदना घोरा वायुश्चैव प्रवर्त्तते ॥
अतिप्रवृत्ते दाहे तु विसर्पस्तस्य जायते ॥ १३ ॥
पीतनीलारुणनिभैः स्फोटैः समुपचीयते ॥
न तिष्ठत्यथवा रक्तं स्नायुच्छेदो यथा भवेत् ॥ १४ ॥
संधिच्छेदे त्वसंख्येया दोषो दृष्टा नराधिप ॥
निर्हरेत्संधिदेशं तु जलौकोभिस्तु शोणितम् ॥ १५ ॥
दुष्टं न मुक्तं रुधिरं घनी भवति वायुना ॥
तेजसा पित्तवार्ता व पाकं चैव नियच्छतः ॥ १६ ॥
एते दोषाः प्रदुष्टस्य रुधिरस्याप्रवर्तनात् ॥
अप्रदुष्टस्य निश्रा(स्रा)वे दोषान्वक्ष्याम्यतः परम् ॥ १७ ॥
केवलं दृष्टकर्माणो ह्यशास्त्रज्ञाश्चिकित्सकाः ॥
भागाभागमजानन्तः शिरा हिंसन्त्यबुद्धयः ॥ १८ ॥
ततः श्र(स्र)वति नागस्य शोणितं जलयन्त्रवत् ॥
न च तिष्ठति दाहेन यदुर्वर्णमथो क्षतः ॥ १९ ॥
गजानां मांसशोषैर्याह्वीर्यं संप्रवेर्तते ॥
ततो रक्तक्षयान्नागे वायुर्मर्माणि कृन्तति ॥ २० ॥
१ क. ०हवेषा० । २ क. ०षादपि न० । ३ क. ०शेषु ज० । ४ क. ०वाते
मामाग्न० । ५ क. ०क्षणवा०। ६ ख. ०वर्धते ।
षडत्ययोपचाराध्यायः ] हस्तिहस्त्यायुर्र्वेदः । ३८३
वाताभिभूता नीरक्ताः स्फुटन्त्यस्य शिरारततः ॥
हृदयं पीड्यते चास्य तृष्णा चैवोपजायते ॥ २१ ॥
स पाण्डुवर्णो विमना म्रियते शोणितक्षयात् ॥
तस्माच्छिराव्यथो नित्यं वारणानां विगर्हितः ॥ २२ ॥
अपाटने च पंकस्य प्रवृद्धो दोषसंचयः ॥
दहत्यग्निरिवोदीर्णः सदोषोऽन्तर्गतो गजम् ॥ २३ ॥
तस्य मांसानि मेदश्च सिरा स्नाय(यू)नवाप्यथ ॥
*शतार्यत्यतिवृद्धस्तु चिरकालमुपेक्षितः ॥ २४ ॥ <sup>†</sup>
इत्येते प्राप्तकालस्य दोषा दृष्टास्त्वपाटनम् ॥
इत्येष पालकाप्येन शस्त्रकर्मणि हस्तिनाम् ॥ २५ ॥
षडत्ययोपचारस्तु यथावत्समुदाहृतः ॥
न तिर्यक्पातयेच्छस्त्रं सर्वेष्वङ्गेषु पार्थिव ॥ २६ ॥
शिरास्थिमर्मसंधीनामन्तरेषु निपातयेत् ॥
यथौ शिरास्तथा यन्त्रं सर्वगात्रेषु वो हरेत् ॥ २७ ॥
एषण्याऽन्वेष्य विधिवदनुलोमं प्रपाटयेत् ॥
आसनेऽथ कलाभागे क्षये वंशे कटे तथा ॥ २८ ॥
भागेष्वेतेषु नागानां वृत्तच्छेद्यानि कारयेत् ॥
शेषेष्वेतेषु भोगेषु वृत्तच्छेदं न कारयेत् ॥ २९ ॥
न काकपदकं कुर्यान्न चातिबहुपादकम् ॥
तत्र शस्त्रपदं कुर्याद्व्यङ्गुलत्र्यङ्गुलान्तरे ॥ ३० ॥
पञ्चाङ्गुलान्तरे वा स्यादथवा चतुरङ्गुलम् ॥
नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते ॥ ३१ ॥
यदृच्छया सिद्धिरपि पण्डितानामसंगता ॥
नयेन क्रियमाणेन विपत्तिरपि शोभना ॥ ३२ ॥
नैवातिशीतो नात्युष्णः शीर्णरोमाऽथ पिण्डितः ॥
पक्वोदुम्बरसंकाशः श्वयथुः पाकमागतः ॥ ३३ ॥
शस्त्रेण वृद्धिपत्रेण वार्डास(शि)तेन सि(शि)तेन वा ॥
शस्त्रकर्मणि निष्णातः सुपक्कं पाटयेद्भिषक् ॥ ३४ ॥
- 'स तावत्प्रति' इति भवेत् । <sup>†</sup> इतः परं कियच्छ्रुटितं प्रतिभाति ।
१ ख. पक्वश्च । २ क. ॰षोऽवगतो । ३ क. ॰यत्प्रति॰ । ४ ख. ॰था शरा-
स्तथा शस्त्रं स॰ । ५ ख. वारयेत् । ६ क. भागेषु ।
३८४ पालकाप्यमुनिविरचितो— [३शल्यस्थाने-
स्नेहपानं च सेकं च सर्पिः स्निग्धं च भोजनम् ॥
नित्यमेव हितं तस्य कारयेत्स सुखी भवेत् ॥ ३५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने षड-
त्ययोपचारो नाम चतुर्थोऽध्यायः ॥ ४ ॥
———
अथ पञ्चमोऽध्यायः ।
———
अथ भगवन्तं पालकाप्यं रोमपादः पुनरेवापृच्छत्—'भगवन्निरवशेषा-
णामामन्तुकानां लक्षणमभिहितम्, ये त्विमे व्रणा आसन्नप्रत्ययाः, तेषां प्रयोग-
सामर्थ्यं योनिदोषं पृथक्त्वेनाऽऽकृतिविशेषानुपक्रमविशेषांश्च (?) कति च व्रणो-
पक्रमाः, किं साध्यासाध्यलक्षणम्, अन्वयप्रकृतिसात्म्यम्, इत्येतद्यथोपदिष्यमा-
नमिच्छामि वेदितुम्' इति ॥
एवं महर्षिभिरभिहितः, शुश्रूषा च (?) रोमपादाय संस्कृतपदविचित्रं हेतूप-
नयननिगमयुक्तमुवाच वाक्यम्—'वत्स, एतेषु चतुर्षु कर्मस्कन्धेषु द्विरदपतयो
व्याख्याताः । तेषां यथास्थानोपगतानां व्रणानां लक्षणविशेषमनुव्याख्या-
स्यामः । तद्यथा—अल्पवयसः कवलकुवलभोजना महान्तमध्वानं च यदा
वाह्यन्ते (*दिवसकरकराभिसंतप्तशरीरा बह्वपगूढैरिव च पवनबलप्रवेगैरभिह-
न्यमानाः क्षितितलमभिपतन्ति पांशुप्रमाथान्निषेवमाणाश्च न सलिलमवगा-
हन्ते ।) शुष्कोष्ठकण्ठवदनाः केचित्, केचित्सुदूराध्वानमुपगताः पांशुकर्द-
मशैवालपर्णकर्दमजुष्टं सलिलमुपसेवन्ते । तेषां वायुरतिबलः खरपरुषः शीतो
ध्मानात्मकः संघातवियोगकारी प्रकोपमुपगच्छति द्विरदपतीनां देहेषु । तेषां
त्वक्चरणहस्तकुक्षिवदननखकर्णेष्वेवमादिषु चाङ्गप्रदेशेषु व्रणाः संभवन्ति खराः
स्फोटवन्तः परुषाः फेनानुविद्धाः पिच्छिलाः स्राविणः प्रायशश्च गम्भीरा-
नुगतभावा भवन्ति, अस्थिविवरभागाश्रयाश्च मांसमभि विगाहन्ते, तद्वातव्रण-
लक्षणं भवति ॥
अथ सलिलधरविसर्गकाले वीरुद्वनस्पतिवानस्पत्यानामौषधीनामुपर्यात-
त्कीर्यत्वादम्लरसभूयिष्ठत्वंम(मु)पगतानां सेवनात्पित्तसंजननं भवति ।
भूयश्च शरदि दिवसकरकराभिहतदेहानां सुजातपवसकवलकुवलानां वीर्य-
- धनुश्चिह्नान्तरगतो नास्ति पाठः खपुस्तके ।
१ ख. रोमपादीयं । २ क. ०मिदुष्टं । ३ ख. ०नामप० । ४ क. ०त्वमग० ।
५ क. ०तबयसः क० ।
९ व्रणोपक्रमलक्षणोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३८५
घर्ता भक्षणादतिमधुरसलिलपानादिभिः पित्तसंजननैराहारप्रचारैः पित्तं प्रको-
पमुपगच्छति तेनैषां देहेष्वरूंषि प्रादुर्भवन्ति क्षिप्रपाकक्लेदीन्यतीव कुणपगन्धि-
बहुपरिश्रा(स्रा)वीणि हारिद्रवत्कपोतवर्णानि प्रकोपमुपगतानि त्वङ्मांसशिरा-
स्नायूनां शान्तेनातिमात्रं प्रवर्तन्ते। दाहदोषाश्च व्रणानां परिव्यापनं(णं) कुर्वन्ति
पित्तसमुत्थेष्विति ॥
अथ शिशिरकालमुपगतानामसात्म्यरससेवनात्प्रचुरपानभक्षणादल्पपादसं-
चारणादतिव्यायामानुपसेवनाद्विशेषतो दिवा निद्रोपसेवनाच्च श्लेष्मा संचयमु-
पगच्छति ।
नित्यमेकरसोपसेवनाद्वसन्तकालेऽपि शीतः पिच्छिलो घनः स्वयोनित्वा-
न्माधुर्यभूयिष्ठत्वाच्च कफः प्रकोपमुपगच्छति करचरणगुल्फसंधिपर्वस्वतिमात्रम्।
अथ श्लेष्मणा महामूलपर्यन्तानि कण्डूभूयिष्ठमध्यभागानि निरुजस्केतयाऽ-
ग्रगात्राणामरूष्यभिनिवर्तयन्ति ॥
ततः क्षितिरुहोपलक्षिततलेषु कण्डूपनाद्रतिमुपगच्छन्ति। यावान्शोणितप-
रिश्रा(स्रा)वः, तन्निमित्तं च भूयः कण्डूयते । एष श्लैष्मिको व्रणः ॥
इत्येवमेतैरेव त्रिभिर्दोषैः समन्वितं त्रिदोषसमुत्थं व्रणं विद्यात् ॥
एषां दोषान्वयानामाकृतिविशेषान्वक्ष्यामः । तद्यथा—ऋजूर्ध्वमध्यस्त्रिपुटश्च-
तुरस्रः कुटिलो मण्डलो दीर्घोऽर्धचन्द्ररूपसस्तिरश्चीनगतिरेखागतो बाणाकृ-
तिर्वल्मीकशरावाकृतिर्निम्न उन्नतमण्डलः पिपीलिकागृहसंस्थानः पणवमध्यो
भगसंस्थान आडम्बरमुखश्चेत्येता एकोनविंशतिर्व्रणाकृतयो भवन्ति । तासां
व्रणाकृतीनां व्रणवस्तुविशेषास्त्रयो भवन्ति—त्वक्, संधिः, मर्म चेति ।
त्वगाश्रयो द्विविधः—तनुः, स्थूलश्च ॥
मर्मभागाश्रितस्त्रिविधः—मर्मजः, मर्मसंधिजः, मर्मातिगश्चेति । तत्र मर्मभा-
गाश्रितौ द्वौ व्रणौ ॥
मर्मनिर्देशभागान्व्यारूपामः-अथाऽऽहाराचारोपवायोपाय्यामसंभवाना-
मपक्वपच्यमानपक्वानां त्रैकाल्योपगतानां च प्रत्येकशो लक्षणमुपदेक्ष्यामः ॥
एवमेतेषां वातपित्तश्लेष्मणां युगपत्संनिपतितानां दोषसमुच्छ्रायो ग्रन्थिः
पाकमुपगच्छति। श्लेष्मशोणितयोर्यत्तु(?) स्वैराहारप्रचारैः संघातों भवति । कर-
चरणसंधिवङ्कक्षणबालगात्रपृष्ठवंशाक्षिकूटकुम्भासनकर्णण्डकोशमेन्द्रबस्तिगुद-
रन्ध्रकोष्ठानामन्यतमे प्रदेशे सुषिरमार्गप्रचारो वायुरतिबलत्वाद्व्रन्थिभागमाध्मा-
१ क. श्लेष्मांशमु॰ । २ क. ॰तो वीणा॰ । ३ क. ॰भावान्न्या॰ । ४ क.
॰निपाता॰ ।
४९
३८६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
पयति । स परिणाहविवृद्धेर्भवत्युपल इव घनच्छविः, सवर्णः परुषोऽल्पवेदनः ।
इत्येवमपक्वस्य ग्रन्थेर्लक्षणम् ॥
तस्यैव विदह्यमानस्य तोददाहभेदाङ्गतोदनादयो वेदनाविशेषाः प्रादुर्भवन्ति ।
स तैर्वेदनाविशेषैरभिद्रुतः संनिशेषेण करं पिनष्टि। तदङ्गं प्रत्यङ्गं वाऽवमृश्यो-
द्विजते पर्यश्रुः परिम्लानमुखः, तथाऽभीक्ष्णं क्रौञ्चवन्नदति, तुदति। इत्येतद्विद-
ह्यमानस्य (*ग्रन्थेर्लक्षणं भवति ॥
श्वयथुवद्ग्रन्थेः पकलिङ्गानि ल)क्षयेत् । अथ लक्षणम्—विदह्यमानस्य पूर्वो-
क्तैर्वेदनादिभिः, तथैवानुबद्धः श्यावतां रक्ततां वा पुष्णाति । स कतिपयाहाद्वै-
वर्ण्येन महताऽभिभूयते, स विवर्णतनुः स्पर्शमात्रं न सहते, तथा वा लेपप्रदेहै-
रनुबध्यमानः परिशुष्यति, घृतेनाभ्यक्तस्य शीतोष्णाभिभूतत्वाद्घृतं विस्य-
न्दते । न च यवसकवलकुवलानुपसेवते । तथा व्याददाति विष्टम्भते विनमति
पिपासुरतिमात्रं भवति, परिवमति वमथुना, हस्तिजीविभिः स्पृष्टं नेच्छति,
स्पन्दनं घट्टनं वा । तस्मिन्नस्पृश्यमाने स्तम्भं पर्येति, नदत्यूर्ध्वशिरा भूत्वा,
न स्तम्भस्थानशय्यासनेषु शर्म लभते । इत्येतत्पच्यमानस्य श्वयथोर्लक्षणं
भवति ॥
पक्के तु श्वयथौ वेदनोपशमः, परिपद्यते चास्य च्छविः, मन्दमन्दं चास्य
श्वयथुरुपशाम्यति । शीर्यन्ते चास्य रोमाणि, गतोष्मा नाति शैत्यमुपगच्छति,
श्वेतः पाण्डुश्च पू(†यसंचारार्द्भवति, पीड्यमानश्च विनमति । इत्येतत्पक्वस्य श्वय-
थोर्लक्षणं भवति ॥
त्वङ्मांसमेदोमर्मशिरास्नाव्यस्थिसंधय इति व्रणवस्तूनि भवन्ति ।) निर्देश-
मेतेषां पुरस्ताद्वक्ष्यामः ॥
अथ विलापनावसाधनरक्तापकर्षणपाचनभेदनसंधानपीडनसीवनशोषनेषणर-
क्षणक्षाराग्निकर्मकृमिहरणोत्सादनशीतीकरणास्रवस्थापनक्षीरपानमृदुकरणच्छेद-
नधूपनरोपणवेधनापकर्षणक्रियाबृंहणस्थिरीकरणस्वेदनलेखनकण्डूष्मास्थापन-
बन्धविधिवर्त्तितैलचूर्णकषायलेपनस्नेहपानानुवासनरसक्रियासवरणकरणवर्णप्रसा-
दनयन्त्रविधिरित्येते चतुश्चत्वारिंशद्व्रणोपक्रमा भवन्ति ॥
तत्र श्लोकौ—
*धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके । †धनुराकारमध्यस्थो नास्ति पाठः
खपुस्तके ॥
१ क. ख. ०शिरो भू० । २ ख. ०ययोर्वेद० । ३ क. ०णरक्षामि० ।
१ द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः। [ ३८७
दारणानां यथाशास्त्रं क्रियां कुर्यादतन्द्रितः ।
विज्ञाय तु यथावत्तं यथाकालं प्रयोजयेत् ॥
प्रयोगकुशलो यस्मादसंमूढो जितेन्द्रियः ।
स कर्मसु परां सिद्धिं प्राप्नोति भिषगुत्तमः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने तृतीये शल्यस्थाने
व्रणोपक्रमलक्षणोपक्रमो नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथ षष्ठोऽध्यायः ।
अथ खलु रोमपादोऽङ्गपतिरपृच्छद्भगवन्तं पालकाप्यम्—'भगवन्, किं
ज्ञात्वा वैद्यो भवति । एतन्मे व्याख्यातुमर्हसि' ॥
ततः प्रोवाच भगवान्पालकाप्यः—'इह खलु भोः पञ्च, सप्त, त्रीन्, द्वौ,
चतुरो, नव, चतुर्दश, चतुरश्च ज्ञात्वा भवेद्भिषक्' इति ॥
तत्र 'पञ्च' इति पदवोचत, तदनुव्याख्यास्यामः ॥ तत्र 'पृथिव्यापस्तेजो
वायुराकाशम्' इति ॥
तत्र पञ्चगुणा पृथिवी । चतुर्गुणा आपः । त्रिगुणं तेजः । द्विगुणो वायुः ।
एकगुणमाकाशम् ॥
शब्दस्पर्शरसरूपगन्धवती पृथिवी । शब्दस्पर्शरसरूपवत्य आपः। शब्दस्प-
र्श१रूपवत्तेजः । शब्दस्पर्श२वान्वायुः । शब्दवदाकाशम् ॥
तत्र पृथिवी धारणे । आपः क्लेदने । तेजः पाचने । वायुर्व्यूहने । आका-
शमवकाशदाने ॥
तस्मात्पञ्चवर्गोऽयं प्रधानः, ततोऽ३भिप्रणीतं सर्वं दन्तिनाम् ॥
तत्र खमित्याकाशः । आकाशाच्छब्दः शौषिर्यं च । अनिलात्स्पर्शः प्राणा-
दयश्च । दृष्टिः पाकः प्रकाश ऊष्मा पित्तं च तेजसः । स्नेहः क्लेदः शैत्यं रसो
रसनं चोदकात् । घ्राणवान्गन्धः संघातश्च भूमेरिति ॥
सप्तैते शरीरे धातवः—रसो रुधिरं मांसं मेदोऽस्थि मज्जा शुक्रम् । इति ॥
त्रीनिति वातपित्तश्लेष्माणः । तैर्हि शरीरं धार्यते । समैः सा४म्यम्, वैषम्यं
१ ख. ०थिव्यतेजो । २ ख. ०र्शवद्वायुः । ३ क. ०भिप्राणान्तं स० । ४ क.
सात्म्यम् ।
३६६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
विपरीतैः । तत्र बलतृप्त्युपचयकरः श्लेष्मा । पित्तमाहारं पचति । वायुश्चेष्टाप्रव-
र्तकः पञ्चधा प्रविभक्तः ॥
—:() :—
द्वावित्याहारोपचारौ । ताभ्यामिष्टदेशकालोपपन्नाभ्यां वातादयः समीभवन्ति ॥
चतुर इति चतुर्विधो¹ भूतग्रामः स्वेदजाण्डजोद्भिज्जजरायुजाख्याः । तदधीना
चिकित्सा । तत्रापि द्विविधा योनिः—चरा स्थावरा च । तत्र कृमिकीटपतङ्ग-
पिपीलिकादंशमशकनागचतुष्पदाश्चराः । ओषधिर्वनस्पतिर्वानस्पत्यो वीरुधः
स्थावराः । तत्र स्तम्भवत्यः फलपाकान्ता ओषधयः । पुष्पफलवत्यो वानस्पत्यः ।
अपुष्पाः फलवत्यो वनस्पतयः । गुल्मलतावल्लीप्रतानवत्यो वीरुधः । इत्येष
चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवर्तते । ततो रसाः प्रजायन्ते, इति ॥
—:०:—
नव इति । प्राणापानव्यानोदानसमाना मानसचेतना (*धातु)बुद्धयः ।
तत्रोर्ध्वः प्राणः । स ऊर्ध्वगोऽभिन्यस्तनिःश्वासक्षवथुकर्मा शरीरं श्रेयसे²
नियुनक्ति । अपानोऽधस्तात्पकं पक्वं मूत्रपुरीषमुत्सृजति । समानः पुनर्मध्ये
चाभ्यवहृतं पचति धारयति । व्यानोऽभिवहति शरीरं धातुष्वाहारमनुपकम् ।
उदानस्त्वाहारमनुपकमपनयत्यामाशयादूर्ध्वम् । एवमेते योगवाहाः प्रविभक्ताः
पञ्च धातुषु प्रतिपद्यन्ते ॥
विप्रतिपन्नास्ते मध्येऽधस्तिर्यगूर्ध्वबहिरन्तरवस्थिता भ्रमन्तो वा विविधा-
न्रोगानुत्पादयन्ति । तत्र प्राणविप्रतिपत्तौ दुःसोच्छ्वासमहोच्छ्वासानुच्छ्वासचित्त-
विभ्रमक्षवथुवमथूच्छ्वासाः प्रादुर्भवन्ति।अपानविप्रतिपत्तौ गृध्रसीश्वासजघनशूलक-
³ण्ठूवर्त्मेन्द्रियोपरोधाश्मरीबस्तिमुष्कगुददेशोपसृष्टमूत्रपुरीषविकाराः प्रादुर्भवन्ति।
समानविप्रतिपत्तौ चाग्निदौर्बल्यारोचकहृद्दद्योत्क्लेदापसरणानाहोपद्रव⁴दाहज्वर-
जठरशूलगुल्महृद्रोगदर्दूर्(र्ध्व): संभवन्ति । व्यानविप्रतिपत्तौ धातुवैषम्यव्यतिक-
रश्च, तेषां वैषम्यव्यतिकरेभ्यो गदास्त्वग्दोषश्वपथुरेकाङ्गगलरोगनिर्भोगमन्थन-
तोदनभेदनवेपथुश्वासरोमहर्षग्रन्थिहृदयप्रसेकोन्मथनोदावर्ताः संभवन्ति । उदाना-
विप्रतिपत्तावन्तःप्रतीघाततृष्णाश्लेष्माभिषण्णशिरोरोगमन्याग्रहकण्ठेश्वरश्रोतो-
⁵क्षिविकारा घुरघुरावसेकोत्कर्णकाः संभवन्ति । इत्येष प्राणादिपञ्चवायुरुपको-
पतो रोगसमुद्देशः ॥
————————————————————————
- धातुपदं प्रक्षिप्तमग्रिमग्रन्थानुरोधात् ।
————————————————————————
१ ख. °विधाभू° । २ क. श्रेयसा । ३ क. °ण्डूतावत्र्तेन्द्रि° । ४ क. °होयत्प्र-
वदा° । ५ क. °ण्ठश्रवसोतो० ।
? It's पो! Wait, could it be हृत्पोत्क्लेद?
Wait, what if it is: कच्छृदयोत्क्लेद?
Let's check if कच्छृदयोत्क्लेद is a known typo in this edition.
Yes, transcription should reflect the printed text faithfully!
Let's look at:
भेदांस्त्वेत एव निवृत्ताः—श्लेष्मप्रकोपाद्गुरुश्वेतस्तनकच्छृदयोत्क्लेदप्रसेका-
Wait, let's look closely at स्तन:
Could it be स्तन? Yes, स्त न.
Wait, could it be स्वर?
In this font, र has a wedge head and thin tail. न has a loop on the left and vertical bar. That character definitely has a loop on the left and a vertical bar: it is न!
And before it is स्त.
So स्तन is definitely what is printed.
Now between स्तन and त्क्लेद:
क
च्छृ (or च्छ्र)
द
यो (or पो)
Wait, look at पो vs यो:
In यो, the left part curves down and then up, like a 'u' or '2'.
In पो, the left part goes down and right, forming a U-shape.
Here,
१९० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने
तत्र दोषरसविशेषा व्याख्याताः ॥
इदानीं येन यथा दोषो हीयते वर्धते वा, तद्वक्ष्यामः ॥
मधुरो रसः समानरसत्वाच्छ्लेष्माणं वर्धयति, शैत्याच्छैत्यम्, गौरवाद्वौर-
वम्, एकयोनित्वात् (योनिरिति) । अम्लः पुनः प्रसेकित्वात्प्रसिञ्चति । तत्प्र-
त्यक्षमुपलभामहे । यथा दाडिमाम्रातकमातुलिङ्गदर्शनाज्जन्तोरस्यात्कफः प्रसि-
च्यते । तेन हि सिद्धं श्लेष्मलवणत्वं च । तेन चास्योन्निबन्ध इति । लवणः
पुनः संधिमर्मप्रसक्तमेकान्तमाश्रितं विस्यन्दयति श्लेष्माणम्, फेनाकुलां गङ्गा-
मिव महामेघः । स वातपित्ते अभिभूय सर्वं शरीरमवाप्नोति, विकुरुते च विका-
रम्, स्नेहाच्चैनमभिवर्धयते, बलेनेवानुबलम्, स्पर्शाच्च विधीयमानः कोपाय
कल्पते । इति मधुराम्ललवणास्त्रयः श्लेष्माणं वर्धयन्ति ॥
तिक्तस्तं विरोधित्वात्प्रशमयति । माधुर्यं चास्य बलाद्विनिहन्ति, लाघवेन
गौरवमभिभूय शमयति । कषायोऽपि रूक्षादेनमुपशोषयति । स हि रूक्षाभिभू-
तोऽपि शोषमापद्यते, इति । कटुकस्त्वौष्ण्याच्छ्लेष्मणो विलयनमानयति ।
शोषं चोपजनयति । लाघवेन गौरवमभिभूय शमयति । इति तिक्तकटुकषाया
रसास्त्रयः श्लेष्माणं शमयन्ति ॥
कटुको रसः समानरसत्वात्पित्तं वर्धयेत् । तैक्ष्ण्यात्तैक्ष्ण्यम्, औष्ण्यादौ-
ष्ण्यम्, रौक्ष्याद्रौक्ष्यम्, लाघवाल्लाघवमेकयोनिरिति । अम्लः पुनः समानगुण-
त्वात्पित्तं वर्धयति । विदाहित्वाद्विदाहं वर्धयेत् । तैक्ष्ण्यात्तैक्ष्ण्यं कोपयति ।
बलेनास्य बलमनुविधीयमानं प्रकोपाय कल्पत इति । लवणस्तैक्ष्ण्यादौष्ण्या-
चाभिवर्धयते पित्तम्, विस्यन्दित्वाद्व्रवी करोति । इति कटुकाम्ललवणास्त्रयः
पित्तमभिवर्धयन्ति ॥
तिक्तः पुनः पित्तं प्रशमयति, शीतवीर्यत्वादौष्ण्यम्, मार्दवेन चास्य तैक्ष्ण्य-
मभिभवति । कषायस्तैक्ष्ण्यं मृदूकरोति, शैत्यादौष्ण्यम्, मधुरानुबन्धित्वाद्वल-
मुपहन्ति, इति । मधुरः पुनर्माधुर्यात्कटुत्वमभिभवति, शैत्यादौष्ण्यम्, स्नेहा-
द्रौक्ष्यम्, अविदाहित्वं गौरवेणाप्यभिभवति । इति तिक्तकषायमधुरास्त्रयः पित्तं
शमयन्ति ॥
कषायः पुनर्वातं वर्धयति, रौक्ष्यात्परिशोषित्वान्माधुर्याच्छैत्यादभिष्यन्दि-
त्वाच्च कोपयति । तिक्तस्तु रसः कषायरसस्वभावत्वात्कषायसमानगुणः समु-
द्दिष्टः, इति वातं वर्धयेत् । कटुकोऽप्येनमुदीरयति । रौक्ष्याल्लाघवाच्चैनम् । कषा-
यतिक्तकटुकास्त्रयो वातं वर्धयन्ते, इति ॥
१ क. वर्धयते । २ क. ॰दाहं च व॰ ।
१ द्वादशोऽध्यायः ] हस्त्यायुर्वेदः । ३९१
अम्लो रसो वातमनुलोमयति । क्षिप्रपाकित्वात्तैक्ष्ण्यात्प्रक्लेपित्वात्स्नेहादो-
ष्णयाच्च शोषितत्वशैत्यरौक्ष्यमार्दवान्यभिभवतीति ॥ लवणोऽप्येनमौष्ण्यात्प्रशम-
यति । तैक्ष्ण्यात्प्रणुदति । स्नेहाज्जयति परिशोषमन्त्रं चास्य विस्यन्दित्वाद्व्र-
वीकरोति । लवणो हि रसो वातप्रत्यनीकत्वाद्रासानामतिवीर्यत्वाद्वातमतिबल-
मपि दोषाणां बहुगुणत्वादतिरसबाहुल्याद्वा हन्ति ॥ मधुरोऽप्यस्य रसः
स्नेहाद्रौक्ष्यमभिभवति । गौरवेण लाघवम्, अतिवीर्यत्वाद्द्विदाहित्वाद्बलेन
चैनमभिभूय जयति, इति । अम्ळलवणमधुरा रसास्त्रयो वातं शमयन्ति ।
इत्येतै रसैः प्राणादिषु विप्रतिपन्नेषूक्तो यो रोगसमुद्देशः, स शाम्यति ॥
वर्धते च यथारोगं—तदशान्तौ मनसो ( विप्रतिपत्तिः । मनसो ) विप्र-
तिपत्तौ मानसो द्वौ रोगौ—पूर्वाबद्धहृदयस्फालिनौ ॥ तदशान्तौ व्यापद्यते
चेतना बुद्धिः । ततो नागानामभावः ॥ एवमेते प्राणादयः पञ्च, द्वौ च मानसो
चेतना बुद्धिश्चेति नव ॥
तत्र श्लोकाः—
गजानां देहजा नित्यं वातपित्तकफास्त्रयः ।
व्याधयस्तु गुणाश्चैव तेषां रसनिमित्तजाः ॥
त्रिषु दोषेषु ये दृष्टा गुणा गुर्वादयो दश ।
रसेष्वपि त एव स्युर्विज्ञातव्या विचक्षणैः ॥
शीतोष्णौ स्निग्धरूक्षौ च तथा विशदपिच्छिलौ ।
मृदुतीक्ष्णौ गुरुलघू विज्ञेयास्तु गुणा दश ।
बुद्ध्वा सम्यग्गुणानेतान् रसदोषेषु बुद्धिमान् ॥
प्रतिहन्यादुदीर्णत्वैः प्रत्यनीकैर्गुणैर्गुणान् ।
एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुर्दशेमानि ज्ञातव्यानि भवन्ति—
निमित्तम्, आयुः, बलम्, सत्त्वम्, सात्म्यम्, प्रकृतिः, व्याधिः, शरीरम्,
कालः, वयः, देशः, ग्रहणी, अभिचारः, आशास्तकम्, इत्येतानि सम्यगुपल-
क्षयितव्यानि । यस्मादेतेषु चिकित्साऽऽयत्ता ॥
अथैषां निर्देशमनुव्याख्यास्यामः । तत्र निमित्तं दूतागम आतुरस्य पूर्वा-
ख्याने प्रस्थाने प्रवेशे च परिप्रश्ने परिग्रहौषधसंस्कारारम्भेषु च भिषजा
परीक्ष्यम् ॥
तत्र श्लोकः—
प्रस्थाने च प्रवेशे च निमित्तान्युपधारयेत् ।
ततः क्रियां प्रयुञ्जीत यदीच्छेद्भूतिमात्मनः ॥