हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 397, कुल 742 में से
संदर्भ में पढ़ें३७८ पालकाप्यमुनिविरचितो- [१ शल्यस्थाने-
भूयः किमन्यदिच्छेत्त्वं(स्त्वं) वरदोऽस्मि तवानघ ॥
—:०:—
ततोऽङ्गपतिरक्षुद्रो विनयात्पुनरुत्थितः ॥ ५८ ॥
अकल्पानां च नागानां कल्पानां च तपोधन ॥
अरिष्टं ज्ञातुमिच्छामि दूतानां चैव लक्षणम् ॥ ५९ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु मे सर्वमेवैतदविक्षिप्तेन चेतसा ॥ ६० ॥
अत्यर्थं दुर्मना यस्तु स्तब्धकर्णशिरोधरः ॥
न च वेदयते संज्ञां यथा प्रेतस्तथैव सः ॥ ६१ ॥
अत्यर्थं तु यदा नागो मक्षिकाभिरुपास्यते ॥
अकस्मादेव राजेन्द्र नायमस्तीति निर्दिशेत् ॥ ६२ ॥
(※ छायायां गच्छतो यस्य शिरो यस्य न दृश्यते ॥
वारणस्य नरव्याघ्र तं प्रेतमभिनिर्दिशेत् ॥ ) ६३ ॥
क्रिया सम्यक्प्रयुक्ताऽपि यदा नागस्य हीयते ॥
रोगेषु साध्यमानेषु तदरिष्टस्य लक्षणम् ॥ ६४ ॥
—:०:—
अतः परं प्रवक्ष्यामि दूतानामपि लक्षणम् ॥
चित्रमाल्याम्बरधरान्स्पृशतश्च नखांस्तथा ॥ ६५ ॥
मुक्तकेशैकवस्त्रांश्च दीनां व्याहरतो गिरम् ॥
पृच्छकांस्तादृशो दृष्ट्वा न गन्तव्यं भिषग्वरैः ॥ ६६ ॥
आमं मांसं सवत्सां गां ब्राह्मणाञ्छुक्लवाससः ॥
उद्धृतां च महीं दृष्ट्वा वाराहं चक्रमुत्थितम् ॥ ६७ ॥
श्वेतं छत्रं पताकां च श्वेतं च वृषभं तथा ॥
दधि प्रभिन्नं च गजं पूर्णं च कलशं तथा ॥ ६८ ॥
एतानि च निमित्तानि शुभानि च शिवानि तु ॥
प्रस्थितैर्यदि दृश्यन्ते सद्यः सिद्धिर्ध्रुवा भवेत् ॥ ६९ ॥
शुभशब्दे च गन्धे च सानुलोमे च मारुते ॥
प्रस्थिते सर्वकार्याणां सद्यःसिद्धिर्ध्रुवा भवेत् ॥
क्रिया सम्यक्प्रयुक्ताऽपि भिषग्भिः कालसंभृतैः ॥ ७० ॥
※ धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके ॥