हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 402, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 402षडत्ययोपचाराध्यायः ] हस्तिहस्त्यायुर्र्वेदः । ३८३
षडत्ययोपचाराध्यायः ] हस्तिहस्त्यायुर्र्वेदः । ३८३
वाताभिभूता नीरक्ताः स्फुटन्त्यस्य शिरारततः ॥
हृदयं पीड्यते चास्य तृष्णा चैवोपजायते ॥ २१ ॥
स पाण्डुवर्णो विमना म्रियते शोणितक्षयात् ॥
तस्माच्छिराव्यथो नित्यं वारणानां विगर्हितः ॥ २२ ॥
अपाटने च पंकस्य प्रवृद्धो दोषसंचयः ॥
दहत्यग्निरिवोदीर्णः सदोषोऽन्तर्गतो गजम् ॥ २३ ॥
तस्य मांसानि मेदश्च सिरा स्नाय(यू)नवाप्यथ ॥
*शतार्यत्यतिवृद्धस्तु चिरकालमुपेक्षितः ॥ २४ ॥ <sup>†</sup>
इत्येते प्राप्तकालस्य दोषा दृष्टास्त्वपाटनम् ॥
इत्येष पालकाप्येन शस्त्रकर्मणि हस्तिनाम् ॥ २५ ॥
षडत्ययोपचारस्तु यथावत्समुदाहृतः ॥
न तिर्यक्पातयेच्छस्त्रं सर्वेष्वङ्गेषु पार्थिव ॥ २६ ॥
शिरास्थिमर्मसंधीनामन्तरेषु निपातयेत् ॥
यथौ शिरास्तथा यन्त्रं सर्वगात्रेषु वो हरेत् ॥ २७ ॥
एषण्याऽन्वेष्य विधिवदनुलोमं प्रपाटयेत् ॥
आसनेऽथ कलाभागे क्षये वंशे कटे तथा ॥ २८ ॥
भागेष्वेतेषु नागानां वृत्तच्छेद्यानि कारयेत् ॥
शेषेष्वेतेषु भोगेषु वृत्तच्छेदं न कारयेत् ॥ २९ ॥
न काकपदकं कुर्यान्न चातिबहुपादकम् ॥
तत्र शस्त्रपदं कुर्याद्व्यङ्गुलत्र्यङ्गुलान्तरे ॥ ३० ॥
पञ्चाङ्गुलान्तरे वा स्यादथवा चतुरङ्गुलम् ॥
नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते ॥ ३१ ॥
यदृच्छया सिद्धिरपि पण्डितानामसंगता ॥
नयेन क्रियमाणेन विपत्तिरपि शोभना ॥ ३२ ॥
नैवातिशीतो नात्युष्णः शीर्णरोमाऽथ पिण्डितः ॥
पक्वोदुम्बरसंकाशः श्वयथुः पाकमागतः ॥ ३३ ॥
शस्त्रेण वृद्धिपत्रेण वार्डास(शि)तेन सि(शि)तेन वा ॥
शस्त्रकर्मणि निष्णातः सुपक्कं पाटयेद्भिषक् ॥ ३४ ॥
- 'स तावत्प्रति' इति भवेत् । <sup>†</sup> इतः परं कियच्छ्रुटितं प्रतिभाति ।
१ ख. पक्वश्च । २ क. ॰षोऽवगतो । ३ क. ॰यत्प्रति॰ । ४ ख. ॰था शरा-
स्तथा शस्त्रं स॰ । ५ ख. वारयेत् । ६ क. भागेषु ।