सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 398, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 398

[ सद्यःक्षतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ३७९
या न सिध्यति विप्रेन्द्र तन्मे शंसितुमर्हसि ॥
इत्यङ्गपतिना पृष्टः पालकाप्यस्ततोऽब्रवीत् ॥ ७१ ॥
तिथिष्वशस्तपूर्वेषु पक्षच्छिद्रेषु हस्तिनाम् ॥
आर्द्रासु त्रिषु पूर्वांसु भरणीषु मघासुच ॥ ७२ ॥
रोगेस्याऽऽगमनेऽन्यां वा क्रियां सर्वां विवर्जयेत् ॥
कृत्तिकाश्लेषयोश्चैव मूले वरुणदैवते ॥ ७३ ॥
वारणास्त्वभिभूयेरन्हतास्त्वेतेषु राक्षसैः ॥
तस्मात्सर्वप्रयत्नेन तिथीनेतान्विवर्जयेत् ॥ ७४ ॥
क्रिया सम्यक्प्रयुक्ताऽपि गजानां शास्त्रकोविदैः ॥
न सिध्यति महाराज तस्मादेतान्विवर्जयेत् ॥ ७५ ॥
—:(0):—
आमच्छेदे तु ये दोषास्तान्सर्वाञ्छृणु पार्थिव ॥
आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ॥ ७६ ॥
कुपितं कोपयेत्पित्तं त्वङ्मांसं चापि दूषयेत् ॥
वायुना सह संगम्य श्वयथुं जनयेद्भृशम् ॥ ७७ ॥
ततोऽस्य वेदना घोरा दाहश्चैव प्रवर्तते ॥
अतिप्रवृत्ते दाहे² च विसर्पस्तस्य जायते ॥ ७८ ॥
नीलपीतारुणनिभैः स्फोटैः समुपचीयते ॥
न तिष्ठत्यथवा रक्तं स्नायुच्छेदोऽपि वा भवेत् ॥ ७९ ॥
स्नायुच्छेदेन खञ्जत्वं गद्गदत्वं च जायते ॥
स्कन्दरोगं च लभते शोणितस्य प्रवर्तनात् ॥ ८० ॥
एतदर्थं न कुर्वीत आमच्छेदं तु कुञ्जरे ॥
तस्मात्सुपक्वं श्वयथुं छेदयेत्क्रमशो भिषक् ॥ ८१ ॥
चतुर्दंष्ट्राहिदष्टस्य यथा नास्ति चिकित्सितम् ॥
एवं तु कुपिते रक्ते नेर्चेग्रे(?)रस्ति भेषजम् ॥ ८२ ॥
—:(0):—
अत ऊर्ध्वं प्रवक्ष्यामि वह्निर्यत्रावतिष्ठति ॥
जाठरः पृथिवीपाल नाभावग्निः प्रतिष्ठितः ॥ ८३ ॥
सम्यक्पचति तत्रस्थमाहारं तु चतुर्विधम् ॥
यथाऽग्निर्विपचेद्बाह्यो जलं स्थालीमदूषयन् ॥ ८४ ॥
१ क. ॰गमागतमन्यां । २ क. ॰त्ते रुधिरे वि॰ ।