हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 404, कुल 742 में से
संदर्भ में पढ़ें९ व्रणोपक्रमलक्षणोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३८५
घर्ता भक्षणादतिमधुरसलिलपानादिभिः पित्तसंजननैराहारप्रचारैः पित्तं प्रको-
पमुपगच्छति तेनैषां देहेष्वरूंषि प्रादुर्भवन्ति क्षिप्रपाकक्लेदीन्यतीव कुणपगन्धि-
बहुपरिश्रा(स्रा)वीणि हारिद्रवत्कपोतवर्णानि प्रकोपमुपगतानि त्वङ्मांसशिरा-
स्नायूनां शान्तेनातिमात्रं प्रवर्तन्ते। दाहदोषाश्च व्रणानां परिव्यापनं(णं) कुर्वन्ति
पित्तसमुत्थेष्विति ॥
अथ शिशिरकालमुपगतानामसात्म्यरससेवनात्प्रचुरपानभक्षणादल्पपादसं-
चारणादतिव्यायामानुपसेवनाद्विशेषतो दिवा निद्रोपसेवनाच्च श्लेष्मा संचयमु-
पगच्छति ।
नित्यमेकरसोपसेवनाद्वसन्तकालेऽपि शीतः पिच्छिलो घनः स्वयोनित्वा-
न्माधुर्यभूयिष्ठत्वाच्च कफः प्रकोपमुपगच्छति करचरणगुल्फसंधिपर्वस्वतिमात्रम्।
अथ श्लेष्मणा महामूलपर्यन्तानि कण्डूभूयिष्ठमध्यभागानि निरुजस्केतयाऽ-
ग्रगात्राणामरूष्यभिनिवर्तयन्ति ॥
ततः क्षितिरुहोपलक्षिततलेषु कण्डूपनाद्रतिमुपगच्छन्ति। यावान्शोणितप-
रिश्रा(स्रा)वः, तन्निमित्तं च भूयः कण्डूयते । एष श्लैष्मिको व्रणः ॥
इत्येवमेतैरेव त्रिभिर्दोषैः समन्वितं त्रिदोषसमुत्थं व्रणं विद्यात् ॥
एषां दोषान्वयानामाकृतिविशेषान्वक्ष्यामः । तद्यथा—ऋजूर्ध्वमध्यस्त्रिपुटश्च-
तुरस्रः कुटिलो मण्डलो दीर्घोऽर्धचन्द्ररूपसस्तिरश्चीनगतिरेखागतो बाणाकृ-
तिर्वल्मीकशरावाकृतिर्निम्न उन्नतमण्डलः पिपीलिकागृहसंस्थानः पणवमध्यो
भगसंस्थान आडम्बरमुखश्चेत्येता एकोनविंशतिर्व्रणाकृतयो भवन्ति । तासां
व्रणाकृतीनां व्रणवस्तुविशेषास्त्रयो भवन्ति—त्वक्, संधिः, मर्म चेति ।
त्वगाश्रयो द्विविधः—तनुः, स्थूलश्च ॥
मर्मभागाश्रितस्त्रिविधः—मर्मजः, मर्मसंधिजः, मर्मातिगश्चेति । तत्र मर्मभा-
गाश्रितौ द्वौ व्रणौ ॥
मर्मनिर्देशभागान्व्यारूपामः-अथाऽऽहाराचारोपवायोपाय्यामसंभवाना-
मपक्वपच्यमानपक्वानां त्रैकाल्योपगतानां च प्रत्येकशो लक्षणमुपदेक्ष्यामः ॥
एवमेतेषां वातपित्तश्लेष्मणां युगपत्संनिपतितानां दोषसमुच्छ्रायो ग्रन्थिः
पाकमुपगच्छति। श्लेष्मशोणितयोर्यत्तु(?) स्वैराहारप्रचारैः संघातों भवति । कर-
चरणसंधिवङ्कक्षणबालगात्रपृष्ठवंशाक्षिकूटकुम्भासनकर्णण्डकोशमेन्द्रबस्तिगुद-
रन्ध्रकोष्ठानामन्यतमे प्रदेशे सुषिरमार्गप्रचारो वायुरतिबलत्वाद्व्रन्थिभागमाध्मा-
१ क. श्लेष्मांशमु॰ । २ क. ॰तो वीणा॰ । ३ क. ॰भावान्न्या॰ । ४ क.
॰निपाता॰ ।
४९