बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
इस ग्रन्थ के बारे में
बौधायन शुल्बसूत्र वैदिक यज्ञों की वेदियों के निर्माण से सम्बन्धित ग्रन्थ है और भारतीय गणित, विशेषकर ज्यामिति, के सबसे पुराने स्रोतों में गिना जाता है। 'शुल्ब' का अर्थ है रस्सी, जिससे भूमि नापकर वेदियाँ बनाई जाती थीं। वेदियों के आकार और क्षेत्रफल ठीक-ठीक रखने के लिए इस ग्रन्थ में ज्यामिति के कई नियम दिए गए हैं। इनमें वह प्रसिद्ध कथन भी है जो आज पाइथागोरस प्रमेय के नाम से जाना जाता है, और दो के वर्गमूल का बहुत निकट मान भी।
ग्रन्थ में माप की इकाइयाँ, समकोण और वर्ग बनाने की विधियाँ, वृत्त को वर्ग में और वर्ग को वृत्त में बदलने के उपाय, क्षेत्रफलों को जोड़ने-घटाने के नियम, और फिर अग्निचयन की विविध वेदियाँ — गार्हपत्य, आहवनीय, श्येनचिति (बाज़ के आकार की वेदी), रथचक्रचिति, द्रोणचिति, प्रउगचिति और कङ्कचिति — बनाने की विधि है।
इस संस्करण में मूल सूत्रों के साथ दो संस्कृत टीकाएँ हैं: श्री व्यङ्कटेश्वर दीक्षित की 'बोधायनशुल्बमीमांसा' और श्री द्वारकानाथ यज्वा की 'शुल्बदीपिका'। सम्पादक सम्पूर्णानन्द संस्कृत विश्वविद्यालय के पूर्व पुस्तकालयाध्यक्ष पं. विभूतिभूषण भट्टाचार्य हैं, और ग्रन्थमाला के प्रधान सम्पादक डॉ. भागीरथ प्रसाद त्रिपाठी 'वागीश शास्त्री'। यह सरस्वतीभवन ग्रन्थमाला का १०७वाँ ग्रन्थ है, जो १९७९ में विश्वविद्यालय के अनुसन्धान संस्थान से प्रकाशित हुआ। इसमें ३६६ पृष्ठ हैं।
( ५ )
दाचार्याः ( शु० मी० ६ पृ० ); आपस्तम्बाचार्याः ( शु० मी० ६ पृ० ); कात्यायन आह
( शु० दी० ११ पृ० ); आचार्याः ( शु० मी० १६ ); आर्यभटीये ( शु० दी० २६ पृ० );
कात्यायनः ( शु० दी० ३४ पृ० ); आपस्तम्बाचार्यैः ( शु० मी० ४७ पृ० ); आचार्याः
( शु० मी० ५३ पृ० ); व्याख्यातमाचार्यैः ( शु० मी० ५६ पृ० ); आपस्तम्बाचार्यवचना-
दवसीयते ( ५७ पृ० ); तथा चापस्तम्बः ( शु० दी० ६० पृ० ); व्याख्यानमाचार्यैः कृतं
वेदितव्यम् ।
कोशेष्वनुपलब्धार्थानां शब्दानांमर्था व्याख्यायोरनयोर्यथास्थलं निर्दिष्टाः सन्ति ।
यथा—वेलायाम्=त्वक्छायाम्, वेलाशब्देनांश उच्यते (३, ११ शु० मी०); विशयस्थाः =
मध्यस्थाः (२, १३ शु० मी०); उप्लव-= उपप्लवशब्दाेऽन्तपर्यायः (२, १५ शु० मी० );
विशये = एकदेशे । विशयशब्दस्यैकदेशार्थत्वमापस्तम्बेनोक्तम् ( ३, ४३ शु० मी० );
चुचुके = पूर्वस्मिन्नग्रे ( ३, ८३ शु० मी० ); प्रउगः = शकटस्येषयोः संयोगप्रदेशः ( ३, ८१
शु० दी० ); अनीके = पश्चिमान्त्यप्रदेशे ( ३, ८४ शु० मी० ); अनूचीनम् = प्राक्
प्रत्यग्दीर्घम् ( ३, १२६ शु० मी० ) । यत्र क्वापि व्याख्याकाराभ्यां सन्तोषो नानुभूतो
व्याख्याभ्यां तत्र 'पक्षान्तरमप्यस्ति, तदप्यनुसन्धेयम् ( ३२ पृ० ); 'अत्र कल्पोक्तो विधिरनु-
सन्धातव्यः' ( शु० दी० १४६ पृ० ) इत्याद्युक्तम् ।
बौधायनशुल्बसूत्रस्य शुल्बदीपिकाभिधेया द्वारकानाथयज्वकृता व्याख्या थिबोमहोदयेन
संपाद्य पण्डितपत्रिकायां मुद्रापिता । आङ्ग्लभाषानुवादोऽपि तेनैव कृतस्तत्र प्रकाशितः ।
विलेमकैलैण्डमहोदयसम्पादितं द्वारकानाथयज्वव्याख्यासमेतं बौधायनशुल्बसूत्रं कालिकातातः
१६१३ तमे ख्रीस्ताब्दे प्रकाशितमभूत् । एवं सत्यपि व्यङ्कटेश्वरदीक्षितकृता शुल्बमीमांसाऽ-
प्रकाशितेवातिष्ठत् । सरस्वतीभवनपुस्तकालयस्य पुस्तकाध्यक्षचरणेन श्रीविभूतिभूषणभट्टाचार्येण
भाण्डारकरप्राच्यानुसन्धानसंस्थानस्य पुस्तकालयादस्य प्रतिलिपिः समासादिता । त्रुटितानां
पाठानां पूरणम्, अशुद्धीनां च संशोधनं कृत्वा व्याख्येयं पूर्वसम्पादितग्रन्थेन सह कुशलं
सम्पादिता । ग्रन्थोपन्यस्तानां प्रस्ताराणां बहुभी रेखाचित्रैर्ग्रन्थोऽयं परिमण्डितो नूनं जिज्ञासु-
जनानामुपकाराय विद्वज्जनानां च प्रीणनाय सेत्स्यतीति ध्रुवं प्रत्येति ।
वाराणस्यां } भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
मेषसंक्रान्तौ २०३६ वै० } निदेशकः
( १४-४-१६७६ शनिवासरे ) } अनुसन्धानसंस्थानस्य
रिक्त पृष्ठ
॥ श्रीदुर्गाशरणम् ॥
भूमिका
बौधायनशुल्वसूत्रमिदं पण्डितपत्रे श्रीमतो थिबोमहोदयेन द्वारकानाथयज्व-
प्रणीतया टीकया शुल्वदीपिकाख्यया आङ्ग्लभाषान्तरेण च सह सम्पाद्य प्रकाशितमासीत्।
प्रकाशिते आलोचिते चास्मिन् ग्रन्थे पाश्चात्त्येषु भारतीयविद्यालोचकेषु पण्डितेषु महान् बुद्धि-
भेदः समुत्पन्नः । पाश्चात्त्या भारतीयविद्यालोचकास्तावत् सामान्यतः प्राचीनानां यवन-
पण्डितानां विशेषतश्च पिथागोरस्, युक्लीदप्रभृतीनां क्षेत्रतत्त्व ( Geometry ) विषायिणी
प्रतिभैव असत्प्रतिपन्नतया सर्वातिशायिनीति मन्यमानाः क्षेत्रमितिसम्बन्धिनां प्रायः सर्वेषा-
मेव सिद्धान्तानां पिथागोरसादय एवोद्भावका आसन्निति गणितशास्त्रीयेतिहासप्रणयना-
दिभिः सडिण्डिमघोषं प्रचारितवन्तः। तन्मूलकमेव केषाञ्चिद् गणितसिद्धान्तानां पिथा-
गोरसीयसिद्धान्तादि नामकरणमपि
मिति निर्णीतवन्तः । ते च सूत्रकाराः क्षेत्रतत्त्वज्ञानं विनैव शुष्केष्ट्यादिभिः कथं कथमपि
क्षेत्राद्यङ्कनप्रक्रियां निरूपितवन्त इति तेषामाशयः ।
अत्रोच्यते निरनुयोज्या एते सूत्रकाराः पाश्चात्त्यविद्वद्भिरुद्भावितस्य पर्यनुयोगस्येति
अग्रे प्रतिपादयिष्यामः । अभ्युपेत्यापि ब्रूमः पाश्चात्त्यैर्विद्वद्भिः कल्पितात् पिथागोरसादीना-
माविर्भावकालात् शतेभ्यो वर्षेभ्यः पूर्वं क्षेत्रतत्त्वज्ञानं विनैव बोधायनादीनामाचार्याणां यथार्थ-
क्षेत्राद्यङ्कनसामर्थ्यं तेषां प्रतिभाया लोकोत्तरत्वमेव निःसंशयं प्रमाणयति । इदानीं पाश्चा-
त्त्यैर्विद्वद्भिरुद्भावितस्यानुक्तितदुरुक्तिरूप-पर्यनुयोगस्यैवोद्धारः क्रियते । तत्र प्रथमतस्तावत्
शुल्बसूत्राणां विषयनिरूपणमेव कर्त्तव्यम् । तेनैव च अनुक्त्यादेरुद्धारोऽपि भविष्यति ।
शुल्बं तावत् अग्निचयनोपयोगित्वेनोपादेयं शास्त्रमुच्यते । कर्मणां तावत् देशकालपात्रानु-
विधायित्वं सर्ववादिसिद्धम् । कर्मोपयोगिदेशस्तु ब्राह्मणादौ विहितः । तादृशदेशसम्पादना-
नुकूलव्यापारनिरूपणमेव शुल्बसूत्रादौ अधिकृतं वेदितव्यम् । अत एव प्रस्तुतग्रन्थस्य प्रथम-
सूत्रस्थ-चयशब्दव्याख्यायां शुल्बमीमांसाकर्तृभिर्वेङ्कटदीक्षितैरुक्तम्—
“चयशब्दस्य कल्पसूत्रप्रतिपाद्यमानमन्त्रकरणकेष्टकासाधनकक्रमविशेषस्थण्डिलनिर्वृ-
त्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्रविशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतव्या-
पारपरत्वम्” इति ।
तथा च यथाविहितश्येनाद्याकारेण स्थण्डिलनिर्वृत्तिरेव शुल्बशास्त्रस्य मुख्यो विषयः ।
तत्र तादृशस्थण्डिलनिर्वृत्त्यौपयिकत्वेन श्येनादिरूपेण क्षेत्राङ्कनरूपोभूमेर्व्यवच्छेदः, व्यवच्छिन्ना-
याञ्च तस्यां विहितसंख्याकानामिष्टकादीनामुपधानञ्च स्थण्डिलनिर्वृत्तिसाधकमिति तथो-
र्विषयत्वमवगन्तव्यम् । एतेन शुल्बशास्त्रस्य क्षेत्रव्यवहारगणितोपजीवकत्वेऽपि न तादृश-
व्यवहारगणितात्मकत्वमिति सुस्पष्टम् । तेन क्षेत्रव्यवहारगणित ( Mensuration ) रीत्या
क्षेत्राणां तुल्यफलकत्वादिकथने उपपत्तिप्रदर्शनमावश्यकमिति पाश्चात्त्यविदुषामनुक्तिरूप-
पर्यनुयोगोद्भावनमकाण्डताण्डवमेव । यच्च शुल्बसूत्रेषु उपदिष्टेन प्रकारेण सम्पाद्यमानानां
वृत्तानां समचतुरश्राणां वा अयथार्थक्षेत्रफलजनकत्वं तेन च तेषु दुरुक्तिरूपपर्यनुयोगोद्भावनं
पाश्चात्त्यानां तदपि शुल्बोपदिष्टप्रकाराणां क्षेत्रव्यवहारगणितप्रसिद्धसिद्धान्तमूलकत्वात् निर-
नुयोज्यानुयोग एव ।
ननु तथापि शुल्बसूत्रोपजीव्यानां क्षेत्रव्यवहारगणितसिद्धान्तानां दुष्टत्वप्रवादः स्थास्य
त्येवेति चेन्न तादृशगणितग्रन्थानां इदानीमनुपलब्धत्वेऽपि तदुपजीवकेभ्यः शुल्बसूत्रेभ्य एव
तेषामनुमानसम्भवात् । अनुमिते च तादृशगणितग्रन्थे तत्रत्यानां सिद्धान्तानां सोपपत्तिकत्व-
मपि अर्थादापद्यते । लौकिकं विषयमधिकृत्य प्रवर्त्तितेषु शास्त्रेषु प्रमाणैरभ्युपगतानामेव
सिद्धान्तत्वम् । या च वृत्तक्षेत्रफलतुल्यफलकसमचतुरश्रकरणे अशुद्धफलोत्पत्तिः सापि वृत्तक्षेत्र-
( ग )
फलानयने उपकरणभूतस्य व्यासपरिध्योरनुपातस्यासन्नमानपरिग्रहजन्या। नहि व्यासपरि-
ध्योरनुपातस्य यथार्थं मानं ज्ञातुं शक्यत इति तदासन्नमानेनैव सन्तोष्टव्यं पाश्चात्त्य-
विद्वद्भिरपि।
एवञ्च दिङ्निर्णयप्रस्तावे पूर्वापरदिशोरानयनार्थं यः खलु उपायः शुल्वसूत्रेषूपदिष्ट
स्तदनुसरणेन या पूर्वापररेखा लभ्यते सा तु रवेः क्रान्तिशरस्य पूर्वाह्नापराह्वयोर्भिन्नत्वात् नैव-
यथार्थपूर्वापरदिग्गामिनी भवतीति तादृशोपायस्यानुपादेयत्वमिति। तत्रोच्यते—द्वादशाङ्गुल
शङ्कतुल्यत्रिज्यया वृत्तेऽङ्किते परिधिस्तावत् द्विसप्तत्यङ्गुलाधिको भवति। तस्य षष्ठ्युत्तर-
त्रिशततमोभागः खलु अंशस्तुल्यो भवति। तथा च तादृशवृत्तेऽशस्य मानं अङ्गुल्याः पञ्च-
मांशतुल्यं भवेत्। तस्य षष्टिभिर्भागे हृते कलामानं लभ्यते। क्रान्तिस्तावत् एकस्मिन् षष्ठि-
घट्यात्मके दिने चतुर्विंशतिकलातोऽधिका नैव भवति। तथा त्रिंशद्घट्यात्मके दिनार्धे तु
द्वादशकलात्मिका क्रान्तिरेव परमा भवेत्। छायाप्रवेशनिर्गमकालयोरन्तरं यदि पञ्चदश-
घट्यात्मकं कल्प्यते तदा तादृशे कालान्तरे षट्कलातोऽधिका क्रान्तिर्न भवति। षण्णाञ्च
कलानामङ्गुलिमानन्तु अङ्गुलीनां पञ्चाशत्तमभागतुल्यं तदा भवेत् यदि क्रान्ति-
शरस्य वृद्धिः चतुर्विंशतिकलातुल्या परमा कल्प्यते। न च तथास्ति। अतः दिङ्निर्ण-
यार्थं कृते वृत्ते पूर्वाह्नापराह्वयोः छायाप्रवेशनिर्गमकालयोरन्तरे रवेर्यः शरान्तरः वास्त
विकस्तस्य वृत्तपरिधौ यथार्थं प्रदर्शनं यज्ञादौ प्रवृत्तानां कृते दुष्करत्वादनावश्यकमेव।
ततश्च दिङ्निर्णयप्रकारस्य अवास्तवफलजनकत्वप्रवादोऽपि पाश्चात्त्यानां परोत्कर्षासहिष्णुत्वमेव
द्योतयति।
इदानीं शुल्वसूत्रोपदिष्टानां केषाञ्चित् विषयाणामालोचनं क्रियते। समचतुरश्रे दीर्घ-
चतुरश्रे वा क्षेत्रे सम्पाद्ये लम्बपातनप्रक्रियैव तावदादौ ज्ञेया। परस्परं लम्बभावेनावस्थितैः
रेखाचतुष्टयैर्व्यवच्छिन्नस्य क्षेत्रस्यैव यथासम्भवं समचतुरश्रत्वं दीर्घचतुरश्रत्वं वा भवति। अतः
प्रस्तुते शुल्वसूत्रे प्रथमतः पृष्ठ्यायाः (मध्यरेखायाः) अन्तद्वयं केन्द्रं कृत्वा पृष्ठ्यातुल्य-
त्रिज्यया द्वे वृत्ते अङ्कनीय इत्युपदेशः। तेन च अङ्कितयोर्वृत्तयोः सम्पातजनितमत्स्यमुख-
पुच्छयोः रेखया संयोजनेन तस्याः संयोजिकायाः रेखायाः पृष्ठ्योपरि लम्बत्वं, पृष्ठ्याया-
श्चार्धितत्वं भवतीति प्रत्यक्षसिद्धम्। यूक्लीदेनापि सुबहोः कालानन्तरमपि लम्बपातने, कस्या-
श्चित् सरलायाः रेखायाः तुल्ये विभागे वा कर्त्तव्ये यथायथम् अस्यैव प्रकारस्यानुसरणं कृतं
वेदितव्यम्। अस्य च प्रकारस्य गणितज्ञाननिरपेक्षतया प्रथममुपदेशो बोधायनशुल्वे
कृत इति मन्तव्यः।
पृष्ठ्यां भूमि परिकल्प्य जात्यत्र्यस्रसम्पादनेनापि पृष्ठ्यान्तयोर्लम्बपातनं तत एव च
समस्य दीर्घस्य वा चतुरश्रस्य सिद्धिरिति द्वितीयः प्रकारः। अस्मिंश्च प्रकारे मानार्थंरज्जु-
ग्रहणं तत्र च न्यञ्छनादिचिह्नकरणं गणितज्ञानसाध्यमिति प्रक्रियालाघवे सत्त्वेऽपि गणितज्ञान-
( घ )
सापेक्षत्वात् अनन्तरमुपदेश इति मन्तव्यः । आपस्तम्बाचार्येण तु अस्यैव प्रकारस्योपदेशः
प्रथमतया कृतो वर्त्तते । तट्टीकाकारेण करविन्दाधिपेनात्र रज्जुग्रहण, तस्यां रज्ज्वन्तरप्रक्षेपः,
तत्र च न्यञ्छनादिचिह्नस्थानानाम् आनयनार्थं काचित् पाटीगणितप्रक्रिया ग्रन्थतात्पर्य्यमनु-
सृत्य प्रदर्शिता । अनया च प्रक्रियया भूमेः (कोटेः), भुजकर्णयोः सङ्कलिते च ज्ञाते जात्य-
त्र्यस्रोत्पादनार्थं भुजकर्णयोर्मानमानेतुं शक्यते । तत्र पृष्ठ्यैव भूमिः, कोटिर्वा, प्रमाण-
रज्जुसंज्ञया उच्यते । भुजकर्णयोः सङ्कलिततुल्या प्रमाणरज्जवां प्रक्षिप्ता रज्जुरेव अभ्यस्तरज्जु-
संज्ञया व्यवह्रियते । तथा च तद्वाक्यम्—
“सर्वेष्वभ्यासेषु साम्यासस्य प्रमाणस्य आगन्तुपरिमिता यावन्तो भागाः सम्पद्यन्ते
तावद्द्विगुणभागं आगन्तुं कृत्वा तस्मिन् भागेनैकेन हीने लक्षणकरणम्” इति । अत्र आगन्तु-
शब्दस्य प्रमाणरज्ज्वां प्रक्षिप्ता अभ्यस्तरज्जुरेवार्थः । अद्यत्वे प्रसिद्धेन प्रकारेण न्यासे
क्रियमाणे—
आ
(१) प्र + —————— = अक्ष्णया (कर्णः)
प्र + आ
२ ——————
आ
आ
(२) आ - —————— = भुजः (पार्श्वमानी)
प्र + आ
२ ——————
आ
यद्यपि एकयैव प्रक्रियया कर्णोभुजश्चानेतुं शक्यते तथापि वैशद्यार्थम् अस्माभिः
प्रक्रियाद्वयं पृथक् लिखितं ज्ञेयम् । अत्र प्र = प्रमाणम्, आ = आगन्तुरिति बोद्धव्यम् ।
अत्रोदाहरणन्तु—यद्येकस्य जात्यत्र्यस्रस्य भूमिः प्रमाणं वा ४ कल्प्यते, तादृशे जात्ये
त्र्यस्रे भुजकर्णयोर्योगे ८ तुल्ये कल्पिते प्रमाणरज्ज्वां प्रक्षिप्ता अभ्यस्तरज्जुः ४ तुल्या
कल्पिता । साम्यासस्य प्रमाणस्य मानं ८ तुल्यं भवति । परं न ज्ञायते कियति कर्णे, भुजे वा
कल्पिते जात्यत्र्यस्रं सम्पत्स्यत इति । दृष्टं तावत् भूमिः ४ भुजकर्णयोर्योगः ८ इति ।
इदानीम् अनया प्रक्रियया न्यासे कृते ।
4 | 4 | 4 1 |
4 + ————— = कर्णः = | 4 + ───── = | 4 + ──── = | 4 + 1 = 5 कर्णः
4 + 4 | 2 8 2 | 4 |
2 ───── | ─── | |
4 | 4 | |
तथा च साम्यासस्य प्रमाणस्य ५ तुल्यो भागः कर्णः, शेषश्च ३ तुल्यो भुजो भवति ।
इति भुजः ३ कोटिः ४ कर्णश्च ५ तुल्यो जातस्तेन च जात्यत्र्यस्रं सम्पन्नम् ।
( ङ )
द्वितीयेनापि प्रकारेण—
४ ४ ४ १
४ - ────── = भुजः | ४ - ──── = भुजः | ४ - ─── = भुजः
२ ४+४ २ ८ २ ४
─── ───
४ ४
४ - १ = ३ भुजः । शेषः ५ कर्णोभवति । एवं सर्वत्रानुसन्धेयम् ।
द्विसमं-त्रिसमं वा त्रिभुजं सम्पाद्य पृष्ठ्योपरि लम्बपतनं ततश्च समचतुरस्रादिकं
सम्पादनीयमिति तृतीयः प्रकारः । पृष्ठ्यान्तयोः शङ्कू निहन्यात् । एकैकं शङ्कुमभितः
तुल्येऽन्तराले पूर्वपश्चिमयोः शङ्कुद्वयं निक्षेपेम् । प्रमाणभूतां रज्जुम् उभयतःपाशां कृत्वा
तन्मध्ये न्यञ्छनार्थं चिह्नं कर्त्तव्यम् । इदानीं पृष्ठ्यान्तशङ्कुमभितः निखातयोः शङ्क्वयोः
रज्ज्वन्तपाशद्वयं निःक्षिप्य न्यञ्छनेन रज्जुं दक्षिणस्यामुत्तरस्यां वा दिशि आकर्षणयीम् ।
तेन द्विसमं त्रिसमं वा त्रिभुजं सम्पद्यते । तस्माच्च न्यञ्छनाख्यान्मध्यचिह्नात् पृष्ठ्यान्त-
शङ्कोरुपरि रेखा कर्त्तव्या । सा च पृष्ठ्यान्ते लम्बिता भवति । ततः समं दीर्घं वा चतुरस्रं
सम्पद्यते ।
एते उल्लिखिता उपायाः समकर्णस्य समचतुरस्रस्य तथाविधदीर्घचतुरस्रस्य वा
सम्पादने उपयोगिनः । विषमकर्णचतुरस्रं तावदुभयतः प्रउगमित्युच्यते । तादृशञ्च क्षेत्रं
प्रउग ( त्रिभुज ) क्षेत्रद्वयकल्पनेन विधेयमिति शुल़्वसूत्रकाराणां सम्प्रदाय इति मन्तव्यम् ।
प्रउगं नाम शकटमुखं, समद्विबाहुकं वा त्रिभुजं क्षेत्रमुच्यते । शकटमुखसादृश्यात् तादृशं
क्षेत्रमपि तन्नाम्ना ख्यायते शुल्यसूत्रेषु । तथा च एकस्यां भूमौ यदि विपरीतदिशि
समाद्वबाहुकं त्रिभुजं क्षेत्रद्वयं सम्पद्यते तदा तस्य क्षेत्रस्य विषमकर्ण चतुरस्रत्वमर्थादापन्नं
भवति । इष्टक्षेत्रफलतो द्विगुणं समचतुरस्रं, दीर्घचतुरस्रं वा क्षेत्रं सम्पाद्य ततो ग्रन्थोक्तक्रमेण
उभयतः प्रउगक्षेत्रनिष्पत्तिरिति ज्ञेयम् ।
अथेदानीं चतुरस्रक्षेत्रयोः समासनिर्हारयोः प्रकार आलोच्यते । अयञ्च प्रकारः
पाश्चात्त्येषु क्षेत्रव्यवहारगणित ( Mensutation ) ग्रन्थेषु नैव आलोचितो दृश्यते ।
समासो नाम द्वयोः चतुरस्रयोः क्षेत्रफलसङ्कलित-तुल्यक्षेत्रफलकचतुरस्रनिष्पत्तिरित्युच्यते ।
निर्हारश्च महतश्चतुरस्रादल्पचतुरस्रस्य निरसनमुच्यते । चतुरस्रशब्देन च समकर्ण-
चतुरस्रस्यैव ग्रहणं सूत्रकृदभिमतम् । विषमकर्णसमचतुरस्रस्य तु उभयतः प्रउगक्षेत्रत्वं
पूर्वमेवोक्तम् । विषमकर्णविषमचतुरस्रस्य श्रौतकार्येषु उपयोगाभावात् शुल्यसूत्रेष्वनधिकृतत्वं
मन्तव्यम् । क्रियतेऽनयेति व्युत्पत्त्या करणीनां क्षेत्रफलजनकत्वं अर्थादापन्नम् । अनन्तर-
करण्योर्गुणनफलं तावत् क्षेत्रफलमित्युच्यते । क्षेत्रयोः समासे क्षेत्रफलस्य वृद्धिः, निर्हारे च
ह्रासः इति पूर्वमेवोक्तम् । क्षेत्रफलस्य ह्रासो वृद्धिवर्वा करणीनां यथायथं ह्रासवृद्धिसाध्यमिति
( च )
तु तयोः ( करणी-क्षेत्रफलयोः ) स्वरूपादेवावगम्यते । तस्मात् क्षेत्रयोः समासे कर्त्तव्ये
उद्दिष्टक्षेत्रकरणीतः समस्तक्षेत्रकरणीनां वृद्धिः, निर्हारे च क्षेत्रकरणीनां ह्रासो भवतीति
तात्पर्यम् । करणीनां वृद्धयर्थं न्यायस्तावत् ग्रन्थकृता “समचतुरश्रस्याक्षणया रज्जुर्द्विस्तावतीं
भूमिं करोतीति; दीर्घचतुरश्रस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्मानी च यत् पृथग्भूते
कुरुतस्तदुभयं करोतीति” सूत्राभ्यां प्रकाशितो वर्त्तते ।
उल्लिखिते प्रथमे सूत्रे “तावर्ती भूमिं द्विः करोति” इति वचनात् क्षेत्रफलस्य
द्वैगुण्यसाधिका तावदक्षणयारज्जुमिता करणी ( पार्श्वमाणी ) समचतुरस्रे क्षेत्रे भवतीति
लभ्यते । तदर्थश्च आलापविषयभूतस्य क्षेत्रस्य अक्षणया रज्ज्वा करणीभूतया यदि समचतुरस्रान्तरं
क्रियते चेत् तदा तादृशक्षेत्रस्य फलम् आलापविषयभूतक्षेत्रस्य फलतो द्विगुणं भवेदिति । सर्वथा
तुल्ययोः समचतुरस्रयोः समासस्थले क्षेत्रफलस्य वृद्धिस्तावत् उभयोः क्षेत्रफलयोः सङ्कलिततुल्या
द्विगुणेति यावद् भवतीति गणितेन लभ्यते । इदानीं तादृशसङ्कलिततुल्यक्षेत्रफलजनिका करणी
कियन्मिता भवेदिति जिज्ञासायाम् उक्तेन न्यायेन द्विगुणक्षेत्रफलजनकत्वं तु आलापविषय-
भूतक्षेत्रस्याक्षणयारज्जुमितायाः करण्या एवेति ज्ञायते । तया करण्या क्षेत्रसम्पादनेन च
द्विगुणक्षेत्रफललाभः सुकरः ।
अतुल्यसमचतुरस्रयोः समासे तु नायं न्यायः प्रवर्त्तते । क्षेत्रफलसङ्कलितस्य द्वैगुण्या-
भावादिति तादृशं स्थलमुद्दिश्य दीर्घचतुरस्रस्येत्यादिवचनमवगन्तव्यम् । तदर्थंश्च आलाप-
विषयभूतस्य दीर्घचतुरस्रस्याक्षणयारज्जुमितया करण्या यदि समचतुरस्रान्तरं क्रियते तदा
तादृशसमचतुरस्रस्य क्षेत्रफलं तावत् उक्तस्य दीर्घचतुरस्रस्य, पार्श्वमान्या करणीभूतया
सम्पादितस्य समचतुरस्रस्य, तिर्यङ्मान्या च करणीभूतया सम्पादितस्य समचतुरस्रस्य च
क्षेत्रफलयोः सङ्कलिततुल्यं भवतीति । अतुल्यसमचतुरस्रयोः क्षेत्रफलसङ्कलितं तावत् तयोरेकस्य
पार्श्वमान्या पार्श्वमानीभूतया, अन्यस्य च पार्श्वमान्या तिर्यङ्मानीभूतया सम्पादितस्य दीर्घ-
चतुरस्रस्य अक्षणया करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलतुल्यं भवतीति गणितयुक्त्या
ज्ञायते । कर्णवर्गस्य भुजवर्ग-कोटिवर्गयोर्योगतुल्यत्वात् । भुजकोट्योरेव शुल्बसूत्रेषु पार्श्वमानी-
तिर्यङ्मानीति कर्णस्य च अक्षणयेति पारिभाषिकी संज्ञा प्रसिद्धा । करणी तु वर्गमूलस्य वाचिकेति
शुल्बसूत्रवित्सु बहुलम् । तस्मात् उक्तस्थले पार्श्वमान्या करणीभूतया सम्पादितसमचतुरस्रस्य
क्षेत्रफलं तावद् पार्श्वमानीत्यपराख्यस्य भुजस्य मूलत्वेन करणीभूतस्य वर्गराशितुल्यं भवति ।
एवं तिर्यङ्मानीत्यपराख्यायाः कोटेर्मूलत्वेन करणीभूतायाः वर्गराशितुल्यमेव तिर्यङ्मान्यां
करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलं ज्ञेयम् । तयोर्वर्गराश्योर्योगतुल्यत्वमेव
अक्षणयेत्यपराख्यस्य कर्णवर्गस्येति । तादृशदीर्घचतुरस्रस्य अक्षणया करणीभूतया सम्पादित-
समचतुरस्रक्षेत्रस्य फलं उक्तयोः क्षेत्रयोः फलसङ्कलिततुल्यं भवेदिति ।
तस्मादतुल्यसमचतुरश्रयोः समासे कर्त्तव्ये द्वयोरतुल्ययोः समचतुरस्रयोरेकस्य
पार्श्वमानीं पार्श्वमानीकृत्य, अपरस्य च पार्श्वमानीं तिर्यङ्मानीकृत्य दीर्घचतुरस्रमेकं सम्पाद्य
कतुल्येऽन्तरे चिह्नं कृत्वा रेखया
Wait, "पूर्वान्तादेकतुल्येऽन्तरे" - let's check spacing: पूर्वान्तादेकतुल्येऽन्तरे or पूर्वान्ताद् एकतुल्येऽन्तरे? It's written connected: "पूर्वान्तादेकतुल्येऽन्तरे".
अभिमुखानां चिह्नानां योजनं कार्यम् । तेन महतश्चतुरस्रस्य मध्ये पूर्वदक्षिणकोणे एकं स्वल्पं
समचतुरस्रं एकतुल्यक्षेत्रफलकमन्यच्च चतुष्षष्टितुल्यक्षेत्रफलं अष्टमितपार्श्वमानीकं महत्
समचतुरस्रं स्वल्पसमचतुरस्रस्य पश्चिमोत्तरकोणे सक्तपूर्वदक्षिणास्रं लप्स्यते । अथवा तस्य
महतः समचतुरस्राद्दक्षिणस्यां दिशि एकतिर्यङ्मानीकं नवपार्श्वमानीकञ्च दीर्घचतुरस्रं
सम्पत्स्यते । तत्र पूर्वदक्षिणकोणस्थस्य एकतुल्यक्षेत्रफलकस्य स्वल्पसमचतुरस्रस्य निर्हारेण
Wait, in L26, is it निर्हारेण or निर्हारिण?
Let's check the letters: नि र् हा रे ण. It's निर्हारेण or निर्हारि
( ज )
भूतया यत् क्रियते तदुभयं करोतीति नवमिताया अक्ष्णयायाः समचतुरस्रे कृते एकाशीति
तुल्यं क्षेत्रफलं भवति । तस्मात् एकाशीतिमितात् क्षेत्रफलाद् यदि एकमितायास्तिर्यङ्मान्या
कृतस्य क्षेत्रस्य फलम् एकमितं निरस्यते तदा अशीतिरेवावशिष्यते । तदेव तादृशदीर्घ-
चतुरस्रस्याक्ष्णतया पार्श्वमान्या कर्तुं योग्यस्य समचतुरस्रस्य क्षेत्रफलमर्थादापन्नमिति ।
सैव पार्श्वमानी अशीतिकरणी ज्ञेया ।
दीर्घचतुरस्रस्य समचतुरस्रीकरणेऽपि तुल्यो न्यायः प्रयोक्तव्यः । तद्यथा इष्टस्य
दीर्घचतुरस्रस्य ह्रस्वेन भुजेन तदन्तः समचतुरस्रं निष्पाद्य शेषं क्षेत्रं समं द्वेधा विभजेत् ।
तथा विभक्तयोरेकं पूर्वनिष्पन्नसमचतुरस्रसंलग्नं विहायापरं तत्समीपस्थे समचतुरस्रपार्श्वे
योजनीयम् । एवं कृते इष्टस्य दीर्घचतुरस्रस्य पश्चिमभागे यदि तत्तिर्यङ्मान्या समचतुरस्रं
कृतं तदा तत्पूर्वभागस्थितं क्षेत्रं समं द्विधा भिन्नं सत् भिन्नयोः सतोः पश्चिमभागस्थं तत्रैव
हित्वा पूर्वभागस्थं क्षेत्रं समचतुरस्रस्य दक्षिणपार्श्वे संस्थापितं भवेत् । तेन च समचतुरस्रस्य
पूर्वभागे दक्षिणभागे च क्षेत्रद्वयसंयोजनात् तस्य पूर्वदक्षिणदिशि यत् खण्डमवशिष्टं तस्य
पूरणम् अधिकक्षेत्रसंयोजनेन कर्तव्यम् । तेन समचतुरस्रसिद्धिः । अस्य च अधिकस्य क्षेत्रस्य
निर्हारः पूर्ववत् कर्तव्यः । तेन इष्टस्य दीर्घचतुरस्रस्य समचतुरस्रत्वं सम्पन्नम् । अन्ये च क्षेत्र-
सम्पादनप्रकाराः प्रस्तुतग्रन्थे यथास्थानं सूत्रकृद्भीरुपदिष्टाः बाहुल्यभयेन नात्रालोच्यन्ते ।
इदानीं शुल्बसूत्रस्य स्थण्डिलनिर्वृत्त्यौपयिक इष्टकोपधानरूपो विषय एवालोच्यते ।
स च प्रकारो लौकिकवास्तुशास्त्रीयेष्टकोपधानप्रकारतो भिन्न इति तत्प्रकारस्य शुल्बसूत्र-
विषयत्वम् । तत्र विहितक्षेत्रनिष्पत्तेरनन्तरं तस्मिन् इष्टकानां यथाविधि स्थापनमेवोपधान-
मित्युच्यते । तदर्थं आदौ इष्टका एव विहितस्वरूपाः सम्पादनीयाः । इष्टकाः तावत् प्रथमतः
इष्टस्वरूपसम्पादनोपयोगिना काष्ठनिर्मितेन करणाख्येन उपकरणेन सम्पादनीयाः । इष्टकानां
स्वरूपं तावत् स्थण्डिलस्याकारविशेषानुविधायि सूत्रेषु यथायथमुपदिष्टम् । सम्पन्नानामिष्ट-
कानाम् आर्द्रत्वात् शोषपाकाभ्यां ह्रासो भवतीति यथाप्रमाणमिष्टकानां सम्पादनार्थं किञ्चिद-
धिकप्रमाणा आर्देष्टकाः कार्या इति कात्यायनः ।
हसते पाकशोषाभ्यां द्वात्रिंशद्भागमिष्टकाः ।
तस्मादार्द्रप्रमाणन्तु कार्यं मानाधिकं बुधैरिति ।
महीधरधृत श्लोकादवगम्यते । तथा च आर्देष्टकास्तु विहितप्रमाणतो द्वात्रिंशद्-
भागेनाधिकाः कार्याः । करणमपि तथैवाधिकप्रमाणकं कार्यमिति । बौधायने तु—२।२८ सूत्रे
"यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेद्" इति करणानां विहितेष्टकाप्रमाणत्वमेवो-
पदिष्टम् । इष्टकानाम्पुर्ध्वप्रमाणं तावत् जानोः पञ्चमांशतुल्यमिति तेन ६३२ अङ्गुलमूर्ध्वप्रमाणं,
पृथुत्वमित्यर्थः, इष्टकानाम् आयामविस्तारौ तु यथास्थण्डिलं भिद्यत इति तत्तच्चितौ तेषां
प्रमाणं द्रष्टव्यम् । तासां सामान्यतः समचतुरस्राकृतीनामिष्टकानां नामानि तु तृतीया, चतुर्थी
पञ्चमी षष्ठीत्याद्यानि बोद्धव्यानि । एतासामेवेष्टकानाम् अर्ध-पादादिप्रमाणेष्टका अर्ध्याः पाद्याः
इत्यादिभिर्नामभिरभिधीयत इति तत्रानुसन्धेयम् । यद्यपि लौकिके वास्तुशास्त्रे इष्टकानां
उपधानकाले यथावश्यकं खण्डिताभिरिष्टकाभिः स्थानपूरणमप्रतिषिद्धमिति इष्टककरणानां
एकरूपत्वमेव दृश्यते तथापि वैदिके शुल्वसूत्रे तु खण्डितानां भिन्नानां, जीर्णानां, पाकातिशयेन
कृष्णानां दारुपाषाणादिना चिह्नयुक्तानां वा इष्टकानामुपधानायोग्यत्वकथनात् स्थण्डिल-
निर्वृत्तावुपयोगिनीनां सर्वासामेवेष्टकानां करणभेदेन सम्पादितानामेवोपयोगो भवेदिति
मन्तव्यम् । तदर्थं तत्तत्स्थण्डिलोपयोगिनीनाम् अर्ध्यापाद्यादीनामपि स्वातन्त्र्येणोपदेशः
शुल्वसूत्रेषु भवति ।
सम्पन्नानामिष्टकानां सूत्रकृदुपदिष्टेन प्रकारेण स्थण्डिलाकारसम्पादकं स्थापनमुपधान-
मित्युच्यते । यथादिशम् अव्यवधानेन स्थापितानामिष्टकानां श्रेणी रीतिरित्युच्यते । यथो-
पदिष्टामु रीतिषु स्थापिता इष्टकाः स्थण्डिलस्य श्येनाद्याकारातां सम्पादयन्ति । सम्पादितायामपि
स्थण्डिलस्य श्येनाद्याकारतायां स्थण्डिलस्य विहितमूर्द्धप्रमाणन्तु न लभ्यत इति इष्टका
उपर्युपरि तथैव स्थापनीया यावद् विहितोर्ध्वप्रमाणं स्थण्डिलं स्यादिति । तथा कर्त्तव्ये
चाधःस्थानामिष्टकानां सन्धयस्तु प्रच्छादनीया भवन्ति । तदेव शुल्वसूत्रेषु भेदवर्जनमित्युच्यते ।
एतदर्थमेव तत्र अर्ध्यानां, पाद्यानां दीर्घपाद्यानां, शूलपाद्यानां हंसमुखीनां प्रयोगः शुल्वसूत्रेषु
दृश्यते । यथावसरमेतासां नानाविधानामिष्टकानामुपधानेन सम्पाद्ये स्थण्डिलादौ सर्वत्र
इष्टकानां सन्धयः प्रच्छादिता भवन्ति । लौकिके वास्तुनि पुनर्भेदवर्जनार्थमेकरूपाया एवेष्ट-
कायाः खण्डनेनैव अर्ध्यादीनां यथावश्यकं लाभः क्रियते ।
न च शुल्वसूत्रेभ्योऽपि प्राचीनतरं डोरिक् आयोनिकादि यावनभाषासु लिखितं
ग्रन्थमुपलभामहे यत्र इष्टकानिर्माणं तासामुपधानप्रकारश्च वर्णितो वर्त्तते । वस्तुतस्तु इश-
वीयाब्दस्य काल्पनिकात् प्रवर्त्तनकालात् प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं वित्रुव्युः ( Vitruvius )
नामकेन केनचिद् रोमकेन वास्तुशास्त्रमधिकृत्य ग्रन्थ एको विरचितः । अस्मिंश्च ग्रन्थे तेन
षष्ठेऽध्याये प्रायः द्वादशानां यावनवास्तुशिल्पविदाम् उल्लेखः कृतो वर्त्तते । परं तेषु ग्रन्थेषु
केवलं तत्तद्वास्तुशिल्पिभिः कलितानां निर्मितानाञ्च वस्तूनां वर्णनमेव विद्यत इति
तत्रैवोल्लिखितम् । ( द्रष्टव्यम् Greek Science Vol. II P. 120-121 ) एतेन
सुस्पष्टमिदं यत् बोधायनादीनाम् आचार्याणां ग्रन्थरचनायाः पूर्वम् आयोनिक् डोरिक्
आदिसंज्ञकां यवनानां वास्तुशास्त्रीयं सिद्धान्तम् अधिकृत्य नासीत् कोऽपि ग्रन्थ इति ।
बौधायनशुल्वसूत्रादीनां रचनायाः पश्चादपि प्रायः सप्तशतवर्षपर्यन्तं केवलं वास्तुसम्बन्धि-
भूतार्थज्ञापकं वर्णनपरं रचनाजातमेव प्रणीतवन्तो यवना इति ।
( ञ )
यथा तथा वा भवतु बौधायनशुल्बसूत्रादिकन्तु निर्विवादं भारतीयानां प्रतिभाया
द्योतकमित्यत्र नास्ति सन्देहलेशोऽपि । एतादृशस्य ग्रन्थस्याध्ययनादिकमपि परमावश्यकम् ।
सुदुर्लभस्यास्य ग्रन्थस्य प्रकाशनं श्रेयस्करमिति मत्वा संस्कृतविश्वविद्यालयाधिकारिभिरादिष्टो-
ऽभवमस्य ग्रन्थस्य सम्पादनार्थम् । तदर्थं टीकान्तरमन्विष्यता मया शुल्बमीमांसाख्यायाः
बौधायनशुल्बसूत्रस्य व्यङ्कटेशदीक्षितविरचिताया व्याख्यायाः भण्डारकर ओरिएण्टल रिसर्च
इन्स्टिट्यूट् ग्रन्थालयतः एका प्रतिलिपिरासादिता । इयं प्रतिलिपिस्तावत् प्रायशः शुद्धेति
कादाचित्काया अशुद्धेः परिमार्जनार्थं मत्कल्पिताः पाठाः बन्धनीमध्यगताः प्रश्नचिह्नयुता
कृताः ।
छेद्यकानां प्रतिरूपन्तु कस्यचिदज्ञातस्य पुरुषस्याज्ञया ग्रन्थाकृतितो विपुलं निर्मितमिति
चितीनां छेद्यकन्तु प्रतिरूपनिर्माणार्थं प्रदत्तमपि नष्टम् । चक्षुरोगवशात् सूक्ष्मवस्तुनि दृष्टि-
पातस्य चिकित्सकैः प्रतिषिद्धत्वात् पुनः तन्निर्माणेऽशक्तोऽहमिति पाठकैः क्षन्तव्योऽहम् ।
विदुषामनुचरः
विभूतिभूषणभट्टाचार्यः
बौधायनशुल्बसूत्रस्य विषयसूचिका
पृष्ठसंख्या
१—रेखामानपरिभाषा ( १-१६ सू० ) १-१०
२ समचतुरश्रकरणोपायः ( २०-२७ ) १०-१४
३—दीर्घचतुरश्रकरणोपायः ( २८-३० ) १४-१५
४ - एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः ( ३१ सू० ) १५
५—प्रकारान्तरेण दीर्घचतुरश्रैकतोऽणिमद्दीर्घचतुरश्रकरणम् ( ३२-३३ ) १५-१६
५—द्विकरण्यानयनम् ( ३४ सू० ) १६
७—त्रिकरणी-तृतीयकरण्योरानयनम् ( ३५-३६ ) ६७
८—अन्यासामिष्टकरणीनामानयनम् ( ३७-३८ ) १७-१६
६—समचतुरश्रयोः समासः ( ३९ सू० ) १६-२०
१०—महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः ( ४० सु० ) २०
११—समचतुरश्रस्य दीर्घचतुरश्रकरणोपायः ( ४१ सू० ) २१
१२-तत्रैव प्रकारान्तरम् ( ४२ सू० ) २१-२२
१३—दीर्घचतुरश्रस्य समचतुरश्रकरणम् ( ४३ सू० ) २२
१४—समचतुरश्रस्यैकतोऽणिमत् करणम् ( ४४ सू० ) २२-२३
१५-चतुरश्रस्य प्रउगकरणम् ( ४५ सू० ) २३
१६-चतुरश्रस्योभयतः प्रउगकरणम् ( ४६ सू० ) २३-२४
१७—चतुरश्रस्य मण्डलकरणम् ( ४७ सू० ) २४-२५
१८-मण्डलस्य चतुरश्रकरणम् ( ४८-४९.सू० ) २५-२६
१६—गणितेन द्विकरण्यानयनम् ( ५० सू० ) २६-२७
२०—गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनम् ( ५१-५७ सू० ) २७-३०
२१-उत्करस्थानानयनम् ( ५८ सू० ) ३०
२२—दार्शिक्या वेदेर्विहरणम् ( ५६ सू० ) ३०-३२
२३—पाशुकबन्धिकवेदि विहरणम् ( ६०-६२ सू० ) ३२-३३
२४—उत्तरवेदि विहरणम् ( ६३ सू० ) ३३
२५—पैतृक्यावेदेर्विहरणम् ( ६४-६६ सू० ) ३३-३५
२६—सौत्रामणीवेदि विहरणम् ( ६७ सू० ) ३५-३६
२७—अग्निष्टोमवेदि विहरणम् ( ६८ सू० ) ३६-३७
२८—सौमिकमहावेदि विहरणम् ( ६६ सू० ) ३७-३८
२६—सदसो विहरणम् ( ७० सू० ) ३८
( २ )
३०—हविर्धानविहरणम् ( ७१-७२ सू० ) ३८-३९
३१—सौमिकोत्तरवेदिविहरणम् ( ७३ सू० ) ३९-४०
३२—चात्वालोपरवयोर्विहरणम् ( ७४-७५ सू० ) ४०-४१
३३—धिष्ण्यानां विहरणम् ( ७६ सू० ) ४१
३४—आग्नीध्रमार्जालीयागारविहरणम् ( ७७-७८ सू० ) ४१-४२
३५—प्रक्रमादिविशेषनिर्णयः ( ७९-८३ सू० ) ४२-४४
द्वितीयाध्याये
३६—प्रथमद्वितीयाद्यग्नीनां प्रमाणक्षेत्रमानम् ( १-५ सू० ) ४५-५२
३७—(१) उक्तानामग्नीनामूर्ध्वप्रमाणकथनम् ( ६ सू० ) ५२-५६
(२) केषाञ्चिदाचार्याणां मतदूषणम् ( ६ सू० )
(३) इष्टकचितीनां प्रकृतिविकृतिप्रतिपादनम् ( ६ सू० )
(४) अग्निचयने नियमः ( ६ सू० )
३८—स्वमते श्येनचितः सपक्षपुच्छतादिप्रतिपादनम् ( ७-८ सू० ) ५६-५७
३९—अग्निकर्मादिकथनम् ( ६-२८) ५७-७०
(१) भेदवर्जनम् ( ९ सू० )
(२) प्रथमचयने इष्टकसंख्यादिकथनम् ( १० सू० )
(३) अग्नीनां पशुधर्मत्वकथनम् ( ११ सू० )
(४) रेखावशाद् इष्टकानामुपधानप्रकारः ( १२ सू० )
(५) मध्यस्थेष्टकानामुपधानप्रकारः ( १३ सू० )
(६) अग्नेः पशुधर्मत्वप्रदर्शकं ब्राह्मणम् ( १४ सू० )
(७) अग्नीनामन्तस्तन्ववहिस्तन्वभेदात् चयनप्रकारः ( १५ सू० )
(८) चिताविष्टकानां प्रयोगे विशेषकथनम् ( १६-१७ सू० )
(९) इष्टकोपधानात् प्राक्कर्त्तव्यम् ( १८ सू० )
(१०) मण्डलाद्येष्टकानां परिभाषा ( १९ सू० )
(११) इष्टकोपधाने मन्त्राणां प्रयोगप्रकारः ( २०-२२ सू० )
(१२) इष्टकोपधाने रीत्यादिनिर्णयः ( २३ सू० )
(१३) उपयोगानर्हा इष्टकाः स्वयमातृण्णाश्च ( २४-२५ सू० )
(१४) इष्टकानामूर्ध्वप्रमाणकथनम् ( २६-२७ सू० )
(१५) उपहिताविष्टकासु शर्कराप्रयोगविधिः ( २८ सू० )
४०—गार्हपत्यचितेराकारप्रमाणादिकम् ( २६-३० सू० )
४१—चतुरश्रगार्हपत्यचित्तौ प्रयुज्यमानानामिष्टकानां करणम् ( ३१-३२ सू० )
४२—तत्रेष्टकोपधानप्रकारः ( ३३-३४ सू० )
( ३ )
४३-परिमण्डल गार्हपत्यचित्युपधानम् ( ३५-३६ सू० )
४४-धिष्ण्याणामुपधानम् ( ३७-४१ सू० )
४५-इष्टकानिर्माणे विशेषः ( ४२ सू० )
४६-चयने नियमः ( ४३ सू० )
तृतीयाध्याये
४७-श्येनचिदाकारनिरूपणम् ( १-६ सू० ) ७८-८०
४८-चतुरश्रश्येने इष्टकाप्रमाणम् ( ७ सू० ) ८०
४६-चतुरश्रश्येनाग्निमानम् ( ८-१० सू० ) ८१-८३
५०-तत्रेष्टकोपधानप्रकारः ( ११-२७ सू० ) ८३-८६
५१-वक्रपक्ष (पञ्चपत्र) व्यस्तपुच्छश्येनचिद्विमानोपधाने ( २८-४५ सू० ) ८६-६८
५२-वक्रपक्ष ( षट्पत्र ) व्यस्तपुच्छश्येनचिद्विमानोपधाने ( ४६-६७ सू० ) ६६-१०७
५३-कङ्कचिद्विमानोपधाने ( ६८-७७ सू० ) १०७-१११
५४-अलजचिद् विमानोपधाने ( ७८-८० सू० ) १११-११४
५५-प्रउगचिद् विमानोपधाने ( ८१-८४ सू० ) ११४-११६
५६-उभयतः प्रउगचिद्विमानोपधाने ( ८५-८८ सू० ) ११६-११८
५७-सार-प्रधियुक्त-रथचक्रचिद्विमानोपधाने ( ८६-१०७ सू० ) ११८ १२६
५८-चतुरश्र-परिमण्डल-द्रोणचिद्विमानोपधाने ( १०८-११७ सू० ) १२९-१४०
५६-समूह्यपरिचाय्यचितोर्विमानोपधाने ( ११८-१२२ सू० ) १४०-१४३
६०-श्मशानचिद्विमानोपधाने ( १२३-१२८ सू० ) १४३-१५१
६१-कूर्म (वक्राङ्ग-परिमण्डल ) चिद्विमानोपधाने ( १२६-१४१ सू० ) १५१-१६४
६२-एकविधादिषड्विधपर्यन्तचितीनामाकारादिनिरूपणम् (१४२-१४४ सू०) १६४-१६५
६३-आश्वमेधिकाग्नेरभ्यासे विशेषः ( १४५-१४६ सू० ) १६५-१६६
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
(पृष्ठेऽस्मिन् किमपि मुद्रितं संस्कृतमूलपाठजातं नोपलभ्यते / This page contains no printed Sanskrit/Devanagari text.)
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
श्रीगणेशाय नमः ।
बौधायनीयं शुल्बसूत्रम्
टीकाद्वयोपेतम्
अथ शुल्बमीमांसा
कान्तामुखं सन्ततमन्तिकस्थं यस्यावतंसेन्दुरवेक्ष्यमाणः ।
अवाप कार्श्यं किमु पाण्डुताञ्च ददातु देवः स सदा मुदं वः ॥ १ ॥
यस्याङ्गकान्तिप्रकरात् स्वकीयभासोऽभिभूतिं यदि शङ्कमानः ।
शिरस्पदं शीतमरीचिरागाच्छ्रेयोऽभिवृद्धिं शिव एष दद्यात् ॥ २ ॥
सौवनीलतनुकान्तिसङ्गमाद् इन्दिरामनयदेव कृष्णताम् ।
तत्सुवर्णतनुकान्तिसङ्गतैर्योजयामि हरिमाश्रयामि तम् ॥ ३ ॥
येनेन्दुसूर्यौ नयनीकृतौ किं हिरण्यगर्भस्य सुरक्षणाय ।
स्थितस्य नाभीकमलान्तराले निःश्रेयसायास्तु निरन्तरं सः ॥ ४ ॥
पारावारात् प्रोद्धृते चन्द्रलक्ष्म्यौ याभ्यां शश्वन्मौलिवक्षोविभूषे ।
सर्वैर्लोकैः पूजिते सङ्गृहीते वन्दे देवौ वामदेवाच्युतौ तौ ॥ ५ ॥
अबोधकत्वं निखिलेषु वेदेष्वपास्य ये विष्टपमन्वगृह्णन् ।
सूत्रैर्विचित्रार्थचमत्कृतैस्तान् बोधायनाचार्यवरान् भजामः ॥ ६ ॥
भट्टोक्ततन्त्रोद्धरणप्रवीणानद्वैतविद्यापरिपालने च ।
नमामि गोविन्दमखि प्रवेकान् भक्त्या मुहुः सम्प्रति तातपादान् ॥ ७ ॥
सर्वेषु तन्त्रेषु समं स्वतन्त्रः श्रीयज्ञनारायणदीक्षितेन्द्रः ।
अध्यापयद् यो बहुधानवद्यां विद्यामशेषामनुजं यथावत् ॥ ८ ॥
बोधायनोक्तसूत्रं, बुद्ध्वा बहुशो विचार्य नयरीत्या ।
श्रीवेङ्कटेश्वरमखी सुगमां तनोति शुल्बमीमांसाम् ॥ ९ ॥
२ शुल्बसूत्रम् [ प्रथममो-
इह खलु भगवान् बोधायनाचार्यं अग्निचयान् व्याख्यास्यन् शिष्टा-
चारपरिप्राप्तमथशब्दोच्चारणं मङ्गलं कुर्वन् शिष्यावधानार्थं वक्ष्यमाणार्थं
प्रतिजानीते—
अथेमेऽग्निचयाः ॥ १ ॥
अथेम इति । अयीनां श्येनाद्याकारविशिष्टस्थण्डिलविशेषाणां, चया-
श्चयनप्रकाराः प्रदर्श्यन्त इति शेषः ।
ननु चयनशब्दो मन्त्रकरणकेष्टकासाधनकस्थण्डिलनिर्वृत्त्यौपयिक-
व्यापारविशेषवाची । स च व्यापारो नात्र व्युत्पाद्यते, किन्तु सूत्र एव
“पुरुषमात्रेण वेणुना सपक्षपुच्छं१” मित्यारभ्य “कार्ष्णाजिनीरुपानह
उपमुच्यते२। कृषति लाङ्गलं पवीरवं “शुनं नः फला”३ इति
द्वाभ्याम्४। अथैतामैन्द्रीमिष्टकामाक्रमणं प्रत्युपदधाति५। पूर्वामुप-
दधाति । दक्षिणे विभक्तिमुपदधाति६। मध्ये हिरण्मयं पुरुषमुपदधाति७।
सुचावुपदधाति८। अथैता दशस्कन्ध्याः प्राचीरायातयति९। अवकामानू-
पदधाति१०। मण्डलेष्टकामुपदधाति११। मध्ये प्राणभृत उपदधाति१२।
संयत उपदधाति१३। अथाग्नेरङ्गान्युपदधाति१४। अथाग्नि सर्वतोमुखं
१. बौ. श्रौ. सू. ( प्रश्न. १०; खं. १६ : अध्या ६ : पृ. १७ )
२. ,, ,, ,, प्र. १०।२३; पृ. २१, १०।३६, पृ. ३७ )
३. ,, ,, ,, ( तै. सं ४. २. ५. १८-१६ )
४. ,, ,, ,, ( प्र. १०।२५; पृ. २४ )
५. ,, ,, ,, ( प्र. १०।२४; पृ. २३ )
६. ,, ,, ,, ( प्र. १०।३६; पृ. ३७. पृ. २३ )
७. ,, ,, ,, ( प्र. १०।३०; पृ. २८ ) ?
८. ,, ,, ,, ( प्र. १०।३०; पृ. २८)
९. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६
१०. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६
११. ,, ,, ,, ( प्र. १०।३१; पृ. २६)
१२. ,, ,, ,, ( प्र०१०।४०; पृ. ३८ )
१३. ,, ,, ,, ( प्र. १०।३५; पृ. ३२ )
१४. ,, ,, ,, ( प्र. १०।३६; पृ. ३३ )
१. प्रथम अध्याय: शुल्ब-परिभाषा, मान-प्रमाण, दीर्घचतुरस्र (पाइथागोरस प्रमेय मूल) एवं रज्जु-गणित
ऽध्यायः ] बौधायनीयं ३
चिनुते १५। अथ प्राजापत्यामुपदधाति १६। अथापस्या उपदधाति १७।
अथैताः पञ्चस्कन्ध्याः प्राचीरायातयति १८। अथाश्विनीरुपदधाति "ध्रुव-
क्षितिर्ध्रुवयोनिरि"ति पञ्च १९। अथ वालखिल्या उपदधाति २०।
अथाक्ष्णया स्तोमीया उपदधाति २१। अथासपन्ना उपदधाति २२। अथ
द्वाभ्यां शताभ्यां प्रोक्षति। अथाग्निमभिमृशति अग्निरसि वैश्वानरोऽसी-
त्यादिभिः प्रतिपादितम्। तथा च कथमिह प्रतिज्ञा "अथेमे अग्निचया"
इति चेत् ?
सत्यम्; तथाप्यत्र चयशब्देन कल्पसूत्रप्रतिपाद्यमान-मन्त्रकरणके-
ष्टकासाधनक्रमविशेषस्थण्डिलनिर्वृत्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्र-
विशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतो व्यापारो विवक्षितः।
स चेहैव व्युत्पाद्यते नान्यत्रेति युक्तैव प्रतिज्ञा।
ननूक्तरीत्या चयनशब्दोपपत्तिः। तथापि ज्वलनवाचिनोऽग्निशब्दस्य
कथं श्येनाद्याकारविशिष्टस्थण्डिलविशेषपरत्वमिति चेत्, उच्यते—यद्यपि
ज्वलनरूढोऽग्निशब्दः तथापि अग्निसंस्कारचयननिवृत्ते अग्न्याधारस्थ-
ण्डिलेऽपि लक्षणया अग्निशब्दः प्रयुज्यते। अत एव नवमे २३ अग्निशब्दस्य
स्थण्डिलविशेषपरत्वमभ्युपगम्य विचारितम्। तथा हि "हिरण्यशकलै-
रग्निं प्रोक्षतीति २४" श्रूयते।
१५. बौ. श्रौ. सू. (प्र. १०।४०; पृ. ४९)
१६. ,, ,, ,, (प्र. १०।३६; पृ. ३४)
१७. ,, ,, ,, (प्र. १०।३५; पृ. ३२)
१८. ,, ,, ,, (प्र. १०।३८; पृ. ३५)
१९. ,, ,, ,, (प्र. १०।३८; पृ. ३५) तै. सं. ४.३.४.१-५
२०. ,, ,, ,, (प्र. १०।४०; पृ. ३६)
२१. ,, ,, ,, (प्र. १०।४२; पृ. ४०)
२२. ,, ,, ,, (प्र. १०।५५; पृ. ४२)
२३. पू. मी. ६.१.७।
२४. बौ. श्रौ. सू. (प्र० १०।४७)
तत्र सन्देहः किं प्रोक्षणं प्रतीष्टकं कर्त्तव्यम् ? उत सकृदेवेति । तदर्थं
किमग्निरवयवीष्टकाव्यतिरिक्तो नास्तीति उतास्तीति । यदि नास्ति
तदा इष्टकानामेव संभृतानामग्निशब्दवाच्यत्वात् तासाञ्च संस्कार्याणां
बहुत्वात् प्रतिप्रधानं गुणावृत्ति१रिति प्रतीष्टकं प्रोक्षणं कर्त्तव्यम् ।
यद्यन्योऽवयव्यस्ति तदा तस्यैकत्वात् सकृदेव प्रोक्षणं कर्त्तव्यमिति ।
तत्र देवदत्तघटादौ एकावयवाकर्षणे अवयवान्तराकर्षणदर्शनात् अवयव-
सन्धिदर्शनाच्चास्त्यन्योऽवयवी । इह तु एकेष्टकाकर्षणे अन्यङ्गा-
नाकर्षणात् सन्धिदर्शनाच्च नान्योऽवयवी । यद्यपि पुरीषच्छन्नतया
न सन्धिदर्शनं तथाप्यनुमानेनावगम्यते सन्धिरिति नान्योऽवयवी ।
किञ्च पक्वैरामैश्चावयवैरन्योऽवयव्यारभ्यत इति काश्यपीयैर्दर्शित-
त्वाच्च । अतो नान्योऽवयवीति प्रतीष्टकं प्रोक्षणमिति प्राप्तेऽभिधीयते
देशकालभेदेऽप्यबाधिता एकत्वबुद्धिरेव हि अवयविसद्भावे प्रमाणम् ।
सा चेहाप्यस्तीत्यस्त्यवयवी । भागान्तरावकर्षणं वृक्षादावनैकान्तिकं,
सन्धिदर्शनञ्च पटादावनैकान्तिकमिति प्रमाणबलात् पक्वामैरप्यवयवैर-
वयव्यारभ्यत इति तस्यैकत्वात् सकृदेव प्रोक्षणमिति ।
नन्वग्निसंस्कारचयनमेवाप्रसिद्धम्, अस्त्येव चयनविधिः । “य एवं
विद्वानग्निं चिनुत” इति ।
ननु तत्र अग्निशब्दो यागनामधेयम् । न च प्रत्यक्षयजेरश्रवणाद्
यागनामत्वं नास्तीति वाच्यम् । प्रत्यक्षयज्यश्रवणेऽपि “अग्निं कुर्या-
दिति तावत्संज्ञयैव कर्मान्तरेऽवधारिते “अथातोऽग्निमग्निष्टोमेनानु-
यजन्ति यदग्निमनुयजन्ति तदग्निष्टोमेनेति” संस्थाविधिपरैर्वाक्यैर्याज-
नाग्न्यनुवादात्तावदग्निशब्दो यागवचन इति गम्यते । अस्य वाक्यस्य
संस्थाविधायकत्वाभावेऽपि “अग्निमनु अग्निष्टोमेन यजन्ती” त्युक्त्याग्ने-
१. मीमांसान्यायः ।