बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 15, कुल 366 में से
संदर्भ में पढ़ें॥ श्रीदुर्गाशरणम् ॥
भूमिका
बौधायनशुल्वसूत्रमिदं पण्डितपत्रे श्रीमतो थिबोमहोदयेन द्वारकानाथयज्व-
प्रणीतया टीकया शुल्वदीपिकाख्यया आङ्ग्लभाषान्तरेण च सह सम्पाद्य प्रकाशितमासीत्।
प्रकाशिते आलोचिते चास्मिन् ग्रन्थे पाश्चात्त्येषु भारतीयविद्यालोचकेषु पण्डितेषु महान् बुद्धि-
भेदः समुत्पन्नः । पाश्चात्त्या भारतीयविद्यालोचकास्तावत् सामान्यतः प्राचीनानां यवन-
पण्डितानां विशेषतश्च पिथागोरस्, युक्लीदप्रभृतीनां क्षेत्रतत्त्व ( Geometry ) विषायिणी
प्रतिभैव असत्प्रतिपन्नतया सर्वातिशायिनीति मन्यमानाः क्षेत्रमितिसम्बन्धिनां प्रायः सर्वेषा-
मेव सिद्धान्तानां पिथागोरसादय एवोद्भावका आसन्निति गणितशास्त्रीयेतिहासप्रणयना-
दिभिः सडिण्डिमघोषं प्रचारितवन्तः। तन्मूलकमेव केषाञ्चिद् गणितसिद्धान्तानां पिथा-
गोरसीयसिद्धान्तादि नामकरणमपि