सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 23, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 23

प्रमाणं द्रष्टव्यम् । तासां सामान्यतः समचतुरस्राकृतीनामिष्टकानां नामानि तु तृतीया, चतुर्थी
पञ्चमी षष्ठीत्याद्यानि बोद्धव्यानि । एतासामेवेष्टकानाम् अर्ध-पादादिप्रमाणेष्टका अर्ध्याः पाद्याः
इत्यादिभिर्नामभिरभिधीयत इति तत्रानुसन्धेयम् । यद्यपि लौकिके वास्तुशास्त्रे इष्टकानां
उपधानकाले यथावश्यकं खण्डिताभिरिष्टकाभिः स्थानपूरणमप्रतिषिद्धमिति इष्टककरणानां
एकरूपत्वमेव दृश्यते तथापि वैदिके शुल्वसूत्रे तु खण्डितानां भिन्नानां, जीर्णानां, पाकातिशयेन
कृष्णानां दारुपाषाणादिना चिह्नयुक्तानां वा इष्टकानामुपधानायोग्यत्वकथनात् स्थण्डिल-
निर्वृत्तावुपयोगिनीनां सर्वासामेवेष्टकानां करणभेदेन सम्पादितानामेवोपयोगो भवेदिति
मन्तव्यम् । तदर्थं तत्तत्स्थण्डिलोपयोगिनीनाम् अर्ध्यापाद्यादीनामपि स्वातन्त्र्येणोपदेशः
शुल्वसूत्रेषु भवति ।
सम्पन्नानामिष्टकानां सूत्रकृदुपदिष्टेन प्रकारेण स्थण्डिलाकारसम्पादकं स्थापनमुपधान-
मित्युच्यते । यथादिशम् अव्यवधानेन स्थापितानामिष्टकानां श्रेणी रीतिरित्युच्यते । यथो-
पदिष्टामु रीतिषु स्थापिता इष्टकाः स्थण्डिलस्य श्येनाद्याकारातां सम्पादयन्ति । सम्पादितायामपि
स्थण्डिलस्य श्येनाद्याकारतायां स्थण्डिलस्य विहितमूर्द्धप्रमाणन्तु न लभ्यत इति इष्टका
उपर्युपरि तथैव स्थापनीया यावद् विहितोर्ध्वप्रमाणं स्थण्डिलं स्यादिति । तथा कर्त्तव्ये
चाधःस्थानामिष्टकानां सन्धयस्तु प्रच्छादनीया भवन्ति । तदेव शुल्वसूत्रेषु भेदवर्जनमित्युच्यते ।
एतदर्थमेव तत्र अर्ध्यानां, पाद्यानां दीर्घपाद्यानां, शूलपाद्यानां हंसमुखीनां प्रयोगः शुल्वसूत्रेषु
दृश्यते । यथावसरमेतासां नानाविधानामिष्टकानामुपधानेन सम्पाद्ये स्थण्डिलादौ सर्वत्र
इष्टकानां सन्धयः प्रच्छादिता भवन्ति । लौकिके वास्तुनि पुनर्भेदवर्जनार्थमेकरूपाया एवेष्ट-
कायाः खण्डनेनैव अर्ध्यादीनां यथावश्यकं लाभः क्रियते ।
न च शुल्वसूत्रेभ्योऽपि प्राचीनतरं डोरिक् आयोनिकादि यावनभाषासु लिखितं
ग्रन्थमुपलभामहे यत्र इष्टकानिर्माणं तासामुपधानप्रकारश्च वर्णितो वर्त्तते । वस्तुतस्तु इश-
वीयाब्दस्य काल्पनिकात् प्रवर्त्तनकालात् प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं वित्रुव्युः ( Vitruvius )
नामकेन केनचिद् रोमकेन वास्तुशास्त्रमधिकृत्य ग्रन्थ एको विरचितः । अस्मिंश्च ग्रन्थे तेन
षष्ठेऽध्याये प्रायः द्वादशानां यावनवास्तुशिल्पविदाम् उल्लेखः कृतो वर्त्तते । परं तेषु ग्रन्थेषु
केवलं तत्तद्वास्तुशिल्पिभिः कलितानां निर्मितानाञ्च वस्तूनां वर्णनमेव विद्यत इति
तत्रैवोल्लिखितम् । ( द्रष्टव्यम् Greek Science Vol. II P. 120-121 ) एतेन
सुस्पष्टमिदं यत् बोधायनादीनाम् आचार्याणां ग्रन्थरचनायाः पूर्वम् आयोनिक् डोरिक्
आदिसंज्ञकां यवनानां वास्तुशास्त्रीयं सिद्धान्तम् अधिकृत्य नासीत् कोऽपि ग्रन्थ इति ।
बौधायनशुल्वसूत्रादीनां रचनायाः पश्चादपि प्रायः सप्तशतवर्षपर्यन्तं केवलं वास्तुसम्बन्धि-
भूतार्थज्ञापकं वर्णनपरं रचनाजातमेव प्रणीतवन्तो यवना इति ।