बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 16, कुल 366 में से
संदर्भ में पढ़ेंमिति निर्णीतवन्तः । ते च सूत्रकाराः क्षेत्रतत्त्वज्ञानं विनैव शुष्केष्ट्यादिभिः कथं कथमपि
क्षेत्राद्यङ्कनप्रक्रियां निरूपितवन्त इति तेषामाशयः ।
अत्रोच्यते निरनुयोज्या एते सूत्रकाराः पाश्चात्त्यविद्वद्भिरुद्भावितस्य पर्यनुयोगस्येति
अग्रे प्रतिपादयिष्यामः । अभ्युपेत्यापि ब्रूमः पाश्चात्त्यैर्विद्वद्भिः कल्पितात् पिथागोरसादीना-
माविर्भावकालात् शतेभ्यो वर्षेभ्यः पूर्वं क्षेत्रतत्त्वज्ञानं विनैव बोधायनादीनामाचार्याणां यथार्थ-
क्षेत्राद्यङ्कनसामर्थ्यं तेषां प्रतिभाया लोकोत्तरत्वमेव निःसंशयं प्रमाणयति । इदानीं पाश्चा-
त्त्यैर्विद्वद्भिरुद्भावितस्यानुक्तितदुरुक्तिरूप-पर्यनुयोगस्यैवोद्धारः क्रियते । तत्र प्रथमतस्तावत्
शुल्बसूत्राणां विषयनिरूपणमेव कर्त्तव्यम् । तेनैव च अनुक्त्यादेरुद्धारोऽपि भविष्यति ।
शुल्बं तावत् अग्निचयनोपयोगित्वेनोपादेयं शास्त्रमुच्यते । कर्मणां तावत् देशकालपात्रानु-
विधायित्वं सर्ववादिसिद्धम् । कर्मोपयोगिदेशस्तु ब्राह्मणादौ विहितः । तादृशदेशसम्पादना-
नुकूलव्यापारनिरूपणमेव शुल्बसूत्रादौ अधिकृतं वेदितव्यम् । अत एव प्रस्तुतग्रन्थस्य प्रथम-
सूत्रस्थ-चयशब्दव्याख्यायां शुल्बमीमांसाकर्तृभिर्वेङ्कटदीक्षितैरुक्तम्—
“चयशब्दस्य कल्पसूत्रप्रतिपाद्यमानमन्त्रकरणकेष्टकासाधनकक्रमविशेषस्थण्डिलनिर्वृ-
त्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्रविशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतव्या-
पारपरत्वम्” इति ।
तथा च यथाविहितश्येनाद्याकारेण स्थण्डिलनिर्वृत्तिरेव शुल्बशास्त्रस्य मुख्यो विषयः ।
तत्र तादृशस्थण्डिलनिर्वृत्त्यौपयिकत्वेन श्येनादिरूपेण क्षेत्राङ्कनरूपोभूमेर्व्यवच्छेदः, व्यवच्छिन्ना-
याञ्च तस्यां विहितसंख्याकानामिष्टकादीनामुपधानञ्च स्थण्डिलनिर्वृत्तिसाधकमिति तथो-
र्विषयत्वमवगन्तव्यम् । एतेन शुल्बशास्त्रस्य क्षेत्रव्यवहारगणितोपजीवकत्वेऽपि न तादृश-
व्यवहारगणितात्मकत्वमिति सुस्पष्टम् । तेन क्षेत्रव्यवहारगणित ( Mensuration ) रीत्या
क्षेत्राणां तुल्यफलकत्वादिकथने उपपत्तिप्रदर्शनमावश्यकमिति पाश्चात्त्यविदुषामनुक्तिरूप-
पर्यनुयोगोद्भावनमकाण्डताण्डवमेव । यच्च शुल्बसूत्रेषु उपदिष्टेन प्रकारेण सम्पाद्यमानानां
वृत्तानां समचतुरश्राणां वा अयथार्थक्षेत्रफलजनकत्वं तेन च तेषु दुरुक्तिरूपपर्यनुयोगोद्भावनं
पाश्चात्त्यानां तदपि शुल्बोपदिष्टप्रकाराणां क्षेत्रव्यवहारगणितप्रसिद्धसिद्धान्तमूलकत्वात् निर-
नुयोज्यानुयोग एव ।
ननु तथापि शुल्बसूत्रोपजीव्यानां क्षेत्रव्यवहारगणितसिद्धान्तानां दुष्टत्वप्रवादः स्थास्य
त्येवेति चेन्न तादृशगणितग्रन्थानां इदानीमनुपलब्धत्वेऽपि तदुपजीवकेभ्यः शुल्बसूत्रेभ्य एव
तेषामनुमानसम्भवात् । अनुमिते च तादृशगणितग्रन्थे तत्रत्यानां सिद्धान्तानां सोपपत्तिकत्व-
मपि अर्थादापद्यते । लौकिकं विषयमधिकृत्य प्रवर्त्तितेषु शास्त्रेषु प्रमाणैरभ्युपगतानामेव
सिद्धान्तत्वम् । या च वृत्तक्षेत्रफलतुल्यफलकसमचतुरश्रकरणे अशुद्धफलोत्पत्तिः सापि वृत्तक्षेत्र-