सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

[Page Header]
[Right aligned]: ४३१
[Centered]: प्रायश्चित्ताध्यायः

न्यप्रायश्चित्तानि प्राग्वदेव योज्यानि ॥ यत्तु बौधायनेनोक्तम्—‘समुद्रयानं
ब्राह्मणस्य न्यासापहरणं सर्वापण्यैर्व्यवहरणं भूम्यनृतं शूद्रसेवा यच्च शूद्रायाम-
भिज्ञायते, तदपत्यं च भवति तेषां तु निर्देशः ‘चतुर्थकालं मितभोजिनः स्युरपोऽ-
भ्युपेयुः सवनानु कल्पम् । स्थानासनाभ्यां विहरन्त एतैस्त्रिवर्षैस्तदपहरन्ति
पापम् ॥’ इति, – तद्बहुकालसेवाविषयम् ॥ हीनजातिभिः सख्ये तूपपातकसामा-
न्यप्रायश्चित्तान्येव ॥ यत्तु प्रचेतसोक्तम्—‘मित्रभेदनकरणादहोरात्रमनश्नन् हुत्वा
पयः पिवेत्’ इति, – तद्धीनसख्यभेदनविषयम् ॥ हीनयोनिनिषेवणेऽप्युपपातक-
सामान्यप्रायश्चित्तानि योज्यानि ॥ यत्तु शातातपेनोक्तम्—‘ब्राह्मणो राज-
कन्यापूर्वीं कृच्छ्रं द्वादशरात्रं चरित्वा निविशेतां चोपयच्छेत्, वैश्यापूर्वीं तु तप्त-
कृच्छ्रं शूद्रापूर्वीं तु कृच्छ्रातिकृच्छ्रं राजन्यश्चैद्वैश्यापूर्वीं कृच्छ्रं द्वादशरात्रं चरित्वा
निविशेतां चोपयच्छेत्, शूद्रापूर्वीं त्वतिकृच्छ्रं, वैश्यश्चेच्छूद्रापूर्वीं त्वति-
कृच्छ्रं द्वादशरात्रं चरित्वा तां चोपयच्छेत्’ इति, तत्र निविशेतां चोपयच्छेचेदिति
कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनादूर्ध्वं तां च राजन्यादिकामुपयच्छेदित्यर्थः ।
– इदं चाज्ञानविषयम् । ज्ञानतस्तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितमेव
द्रष्टव्यम् ।–साधारणस्त्रीसंभोगे च ‘हीनयोनिनिषेवणम्’ (प्रा० २७१) इत्युक्तं,
तत्रापि ‘पशुवेश्याभिगमने प्राजापत्यं विधीयते’ इति संवर्तोक्तमकामतॊ द्रष्टव्यम् ।
कामतस्तु यमेनोक्तं द्रष्टव्यम्— ‘वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत्सकृत्कृत्स्नं सप्तरात्रं कुशोदकम् ॥’ इति । उपपातकसामान्यप्रायश्चित्तानि
च कामाकामतॊऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु ‘प्रतिनिमित्तं
नैमित्तिकमावर्तते’ इति न्यायात्प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लौगाक्षिणा
विशेष उक्तः—‘अभ्यासेऽहर्गुणा वृद्धर्मासादार्वाग् विधीयते । ततो मासगुणा
वृद्धियार्वत्संवत्सरो भवेत् ॥ ततः संवत्सरगुणा यावत्पापं समाचरेत् ॥’ इति ।–
इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ तु चतुर्विंशतिमते विशेष उक्तः—
‘सकृत्कृते तु यत्प्रोक्तं त्रिगुणं तन्त्रिभिर्दिनेः । मासांत्पञ्चगुणं प्रोक्तं षण्मासाद्दशधा
भवेत् ॥ संवत्सरात्पञ्चदशं द्यब्दाद्विशिगुणं भवेत् । ततोऽप्येवं प्रकल्प्यं स्याच्छा-
तातपवचो यथा ॥’ इति ॥ यत्पुनः ‘विधेः प्राथमिकाइस्माद् द्वितीये द्विगुणं चरेत्’
इति प्रतिनिमित्तमावृत्तिविधायकं, – तन्महापातकविषयमित्युक्तं प्राक् । यत्तु यमेन
साधारणस्त्रीगमनमधिकृत्य गुरुतल्पव्रतमतिदिष्टम् ‘गुरुतल्पव्रतं केचित्केचिच्चा-
न्द्रायणव्रतम् । गोव्रतस्त्वेच्छन्ति केचित्तु केचिदेवावकीर्णििनः ॥’ इति ।–एतच्च
जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं ‘तथैवानाश्रमे वासः’

[Footnotes]
१. हीनयोनिनिषेवणम् । २. पूर्वान्त्यासु ।

(प्रा० २४१) इत्युक्तं तत्र हारीतेन विशेष उक्तः—'अनाश्रमी संवत्सरं
प्राजापत्यं कृच्छ्रं चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रमत
ऊर्ध्वं चान्द्रायणम्' इति । - एतदसंभवविषयम् । संभवे तु सामान्येनोपपातक-
प्रायश्चित्तानि कामाकामतॊ व्यवस्थापनीयानि । परपाकरुचिस्वासङ्गाच्छादिग-
मनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रा-
यश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥
भाषा—व्रात्य (पतित सावित्री) को यज्ञ कराने वाला और अभिचार
कर्म करने वाला तीन कृच्छ्र व्रत करे। अपने वेद का विप्लावन करने वाला
(चण्डाल आदि के समक्ष और अनध्याय में पढ़ने वाला), तथा शरण में
आये हुए व्यक्ति की (समर्थ होने पर भी) रक्षा न करने वाला एक वर्ष तक
जौ का भात खाने पर शुद्ध होता है ॥ २८८ ॥
'भार्याया विक्रयश्चैषाम्' (प्रा० २४२) इत्यत्र 'च'शब्दो मन्वाद्युक्त-
सप्रतिग्रहनिन्दितान्नादनामपुलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चि-
त्तविशेषमाह—
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रतः ।
गायत्रीजाप्यनिरतः शुद्ध्येतेऽसत्प्रतिग्रहात् ॥ २८९ ॥
यस्त्वसत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्री-
जाप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुद्ध्यतीति । प्रतिग्रहस्य चासत्त्वं
दातृजातिकर्मनिबन्धनं यथा चाण्डालादेः पतितादेश्च । तथा देशकालनिबन्धनं
च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृत-
शय्योभयतोमुख्यादेः ॥ यदा तु पतितादेर्मेष्यादिकं प्रतिगृह्णाति, तदैतद्गुरु-
प्रायश्चित्तं द्रष्टव्यम् ; व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना
संख्याविशेष उक्तः (११।१९४)—'जपित्वा त्रीणि सावित्र्याः सहस्राणि
समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं
त्रिसहस्रजपो द्रष्टव्यः; 'मासम्' इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य
प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशाद्विषिद्धं
मेषादिकं गृह्णाति, पतितादेर्वा भूम्यादिकमनिषिद्धं तदा षट्त्रिंशन्मतोक्तं द्रष्ट-
व्यम्—'पवित्रेष्ट्या विशुद्ध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या
कदाचिन्मित्रविन्दया ॥ देव्या लक्षजपेनैव शुद्ध्यन्ते दुष्प्रतिग्रहात् ॥' इति ।
यत्तु वृद्धहारीतवचनम्—'राज्ञः प्रतिग्रहं कृत्वा मासम्प्सु सदा वसेत् । षष्ठे
१. जप्यनिरतः । २. निरतो मुच्यतेऽसत्प्रति । ३. दिकं गृह्णाति ।

काले पयोभक्षः पूर्ण मासे विशुद्ध्यति ॥ तर्पयित्वा द्विजान्कामैः सततं
नियतव्रतः ॥' इति, -तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा,-पतितादेः
कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया
प्रायश्चित्ताल्पत्वम् । यथाह हारीतः - 'मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्ट-
सहस्रं जपेत्' इति । तथा षट्त्रिंशन्मतेऽपि - 'भिक्षोमात्रं गृहीते तु पुण्यं
मन्त्रमुदीरयेत् । प्रतिग्रहेषु सर्वेषु षष्ठमंशं प्रकल्पयेत् ॥' इतीदं च प्रायश्चित्तजातं
द्रव्यत्यागोत्तरकालं द्रष्टव्यम् । ( ११।१९३) - यद्वर्हितेनार्जयन्ति कर्मणा
ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥' इति मनु-
स्मरणात् । एवमन्यान्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्त्वाभ्यां विषयेषु
व्यवस्थापनीयानि ॥
इत्युपपातकप्रायश्चित्तप्रकरणम् ।
जात्याश्रयादिदोषेण निन्द्यान्नादेश्च षड्विधः ।
योगीन्द्रोक्तव्रतव्रातः सांप्रतं तु प्रतन्यते ॥
तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृत्कृते 'पलाण्डुं विड्वराहं च'
(आ० १७६) इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु 'निषिद्धभक्षणं
जैह्मयं' (प्रा० २२९) इत्यादिनोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे
सान्तपनम् । तत्रैवाभ्यासे यतिचान्द्रायणम् ।-'अभक्ष्यैतानि षड् जग्ध्वा कृच्छ्रं
सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः' (५।२०) इति मनु-
स्मरणात् । यत्तु बृहद्यमेनोक्तम्-'खट्ववार्ताककुम्भीकब्रश्चनप्रभवाणि च । भूस्तृणं
शिग्रुकं चैव सुखुण्डं कवकानि च ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः ॥'
इति, तत्कामतोऽभ्यासविषयम् । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं क्षिपेत्'
इति योगेश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खट्वाख्यः पक्षी । कुसु-
म्भमित्यन्ये । कवकं राजसर्षपाख्यं शाकम् । सुखुण्डं तद्विशेषो गोबलीवर्दन्यायेन
निर्दिष्टः । यत्तु यमेनोक्तम्-'तन्दुलीय ककुम्भीकब्रश्चनप्रभवांस्तथा । नालिकां
नारिकेलीं च श्लेष्मातकफलानि च ॥ भूस्तृणं शिग्रुकं चैव खट्‌वाख्यं कवकं तथा ।
एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥' इति, - तदपि मतिपूर्वाभ्यासविषयम् ।
नालिका नारिकेली च शाकविशेषौ । खट्‌वाख्यश्च । अकामतः सकृद्भक्षणे तु
'शेषेषूपवसेदहः' (५।२०) इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे स्वावृत्तिः
कल्प्या । अत्यन्ताभ्यासे तु-'संसर्गदुष्टं यच्चान्नं क्रियादुष्टमकामतः । भुक्त्वा
स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥' इति प्रचेतोभिहितं द्रष्टव्यम् । नीश्यारश्व-
१. पूर्ण मासे प्रमुच्यते । २. मात्रे गृहीत्वा तु ।

५६४ याज्ञवल्क्यस्मृतिः
कामतः सकृद्भक्षणे चान्द्रायणम्—'भक्षयेद्यदि नीलीं तु प्रमादाद् ब्राह्मणः कचित् ।
चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥' इति आपस्तम्बस्मरणात् ।
कामतोऽभ्यासे चावृत्तिः कल्पा ॥ यदपि षट्त्रिंशन्मतेऽभिहितम्—'शणपुष्पं
शास्मलं च करनिर्मथितं दधि । बहिर्वेदिपुरोडाश जग्ध्वा नाद्यादहर्निशम् ॥'इति,-
तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्—'लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्धिन संपातान्नयेत्, इति,-तद्बलात्कारेणानिच्छतो भक्षणविषयम् ।
तदेकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अत एवानन्तरं तेनैवोक्तम्—
'एतान्येव व्याधितस्य भिषक्क्रियायामप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि
तेष्वपि न दोषः' इति । संपातान्नयेदुदकबिन्दून्प्रक्षिपेत् ॥
अथ जातिदुष्टसंधिन्यादिचीरपाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने
(५।८-१०)—'अनिर्दशाया गोः क्षीरमौष्ट्रमेकशफं तथा । आधिकं संधिनीक्षीरं
विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं
चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शक्तेषु सर्वं च दधिसंभवम्'
इत्युक्त्वा 'शेषेषूपवसेदहः' ( ५।२० ) इति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु
योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठीनशिनोक्तम्—'अविखरोष्ट्र-
मानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनरुपनयनं च । अनिर्दशाहगोमहिषीक्षीर-
प्राशने षड्रात्रमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव'
इति । यच्च शङ्खेन–'क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रव्रतं
कुर्यात्प्रयत्नेन समाहितः ॥' इति यावकव्रतमुक्तं, तदुभयमपि कामतोऽभ्यासवि-
षयम् । यत्तु शङ्खेन—संधिन्यमेध्यभक्षयोः क्षीरप्राशने पञ्चव्रतमुक्तम्—'संधि-
न्यमेध्यभक्षयोर्भुङ्क्त्वा पञ्चव्रतं चरेत् इति,-तदप्यभ्यासविषयम् । 'सकृत्पाने
गोऽजामहिषीवर्ज्य सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्यपि संध्रि-
नीयमसूर्यन्दिनीविवत्साक्षीरं चामेध्यभुजश्च' इति विष्णुनोपवासस्योक्तत्वात् ।
तथा वर्णनिबन्धनश्च प्रतिषेधः—'क्षत्रियश्चापि वृत्तस्थो वैश्यः शूद्रोऽथवा पुनः ।
यः पिबेत्कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत् ॥' इत्येवमादौ च यन्न प्रतिप-
द्रोक्तं प्रायश्चित्तं न दृश्यते तत्र 'शेषेषूपवसेदहः' इति ( ५।२० ) साधारण-
प्रायश्चित्तं मनूक्तं द्रष्टव्यम् ॥
अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्तमुक्तम् । तत्र कामतः सकृद्भक्षणे'शेषे-
षूपवसेदहः' इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस्तु—'चाषांश्च
रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥'
इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु ( १।११५२)—'जग्ध्वा मांस-
१. जग्द्ध्वा ।

प्रायश्चित्ताध्यायः ५४५
मभक्ष्यं तु 'सप्तरात्रं यवान्पिबेत्' इति मनूक्तं द्रष्टव्यम् । इदं च विट्सूकरादिमां-
सव्यतिरिक्तविषयम् ( ११।१५६ ) - 'क्रव्याद्विट्सूकराष्ट्राणां कुक्कुटानां च भक्षणे
नरकाकखराश्वानां तप्तकृच्छ्रं विशोधनम् ॥' इति मनुना जातिविशेषेण प्रायश्चि-
त्तविशेषस्योक्तत्वात् । एतन्मूत्रपुरीषप्राशनेऽप्येतदेव । -'वराहैकशफानां च
च काककुक्कुटयोस्तथा । क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥ मांस-
मूत्रपुरीषाणि प्राश्य गोमांसमेव च । श्वगोमायुकपीनां च तप्तकृच्छ्रं विधीयते ॥
उपोष्य वा द्वादशाहं कूष्माण्डैर्जुहुयाद्घृतम् ॥' इति बृहद्यमस्मरणात् । तत्र काम-
तस्तप्तकृच्छ्रः, अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था ॥ तथा प्रचेत-
साप्युक्तम् - 'श्वसृगालकाककुक्कुटपार्षतवानरचित्रकचाषक्रव्यादखरोष्ट्रगजवाशिवि-
ड्वराहगोमानुषमांसभक्षणे तप्तकृच्छ्रमादिशेदेषां मूत्रपुरीषभक्षणे श्वतिकृच्छ्रम्'
इति ।-इदं च कामकारविषयम् । यत्तुशनसो वचनम् - 'नरमांसं श्वमांसं वा
गोमांसं चाश्वमेव च । भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥' इति,-
तदकामविषयम् ॥ यच्चाङ्गिरोवचनम् - 'बलाकाभासगृध्राखुखरवानरसूकरान् ।
दृष्ट्वा चैषाममेध्यानि स्पृष्ट्वाचाचम्य विशुद्ध्यति ॥ इच्छयैषाममेध्यानि भक्षयित्वा
द्विजातयः । कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' इति'-तल्लङ्घितोद्वा-
रितविषयम् । 'सान्तपन'शब्देन चात्र महासान्तपनमुच्यते । अकामतः प्राजाप-
त्यविधानात् । यत्पुनरङ्गिरोवचनम् - 'नरकाकखराश्वानां जग्ध्वा मांसं गजस्य
च । एषां मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥' इति । यच्च बृहद्यमेनोक्तम्-
'शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत्' इति । तदुभयमपि कामतोऽभ्या-
सविषयम् । यत्पुनः शङ्खेनोक्तम् - 'भुक्त्वा चोभयतो दंतांस्तथा चैकशफानपि ।
भौष्ट्रं गव्यं तथा जग्ध्वा षण्मासान्व्रतमाचरेत् ॥' इति,-तत्कामतोग्यन्ताभ्यास-
विषयम् । यत्तु स्मृत्यन्तरोक्तम् - 'जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा ।
गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सर-
व्रतंम् ॥' इति,-तदत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे 'मूत्रपुरीष'ग्रहणं
वसाशुक्रासृग्मज्जानामुपलक्षणम् । कर्णविट्प्रभृतिमलषट्के त्वर्धं कल्पनीयम् ॥
केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः - 'अजाविमहिषमृगाणां आममां-
सभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रमज्ञानादुपवास' इति । यत्तु प्रचेत-
सोक्तम्-'नखकेशमृल्लोष्टभक्षणेऽहोरात्रमभोजनाच्छुद्धिः' इति,-तदप्यकामतः सकृ-
त्प्राशनविषयम् । यत्तु स्मृत्यन्तरवचनम् - 'केशकीटनखं प्राश्य मत्स्यकण्टकमेव
च । हेमतप्तं घृतं पीत्वा तःक्षणादेव शुद्ध्यति ॥' इति,-तन्मुखमात्रप्रवेशविषयम् ॥
यदा तु भाजनस्थमन्नं केशादिदूषितं भवति तदा - 'अन्ने भोजनकाले तु मक्षि-
१. सप्तरात्रं पयः पिबेदिति । २. खराणां च । ३. गव्यं मांसम् ।
३८ या०

५६६ याज्ञवल्क्यस्मृतीः
काकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भस्मना स्पृशेत् ॥' इति प्रचेतसाऽभि-
हितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः ॥ सूक्ष्मतमकृमिकीटास्थ्यन्नक्षणे पुनहारी-
तेन विशेष उक्तः—'कृमिकीटपिपीलिकाजलौकःपतङ्गास्थिप्राशने गोमूत्रगोमया-
हारस्त्रिरात्रेण विशुद्ध्यति' इति । जलौको मत्स्यादिः । एवं च पशुपतङ्गजिलचरन-
रमांखादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि, ग्रन्थगौरवभयात्प्रतिव्यक्तिर्न
लिख्यते ॥
अथाशुचिसंपृष्टभक्षणे प्रायश्चित्तं तत्र तावदुच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र
मनुः । (११।१५९)—'बिडालकाकाच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकी-
टावपन्नं च पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति कालविशेषाsub/नुपादानादेकरात्रम् । इदं
च कामतो द्रष्टव्यम् । यत्तु विष्णुनोक्तम्—'पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।
संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥' इति,—तत्कामकारविषयम् । संस्कारश्च
'देवद्रोण्या'मित्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत्तु शातातपेनोक्तम्—
'श्वकाकावलीढशूद्रोच्छिष्टभोजने त्वतिकृच्छ्रम्' इति,—तदकामतौऽभ्यासविषयम् ।
यत्तु शङ्खेन—'शुनामुच्छिष्टकं भुक्त्वा मासमेकं व्रती भवेत् । काकोच्छिष्टं गवां
घ्रातं भुक्त्वा पश्चं व्रती भवेत् ॥' इति यावकव्रतमुक्तं,—तत्कामतौऽभ्यासविषयम् ।
ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्विष्णुनोक्तं—'ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं
पञ्चगव्यं पिबेत्, —वैश्योच्छिष्टाशने पञ्चरात्रं राजन्योच्छिष्टाशने त्रिरात्रं ब्राह्मणो-
च्छिष्टाशने त्वेकाहम्' इति, तत्कामकारविषयम् । यत्तु यमवचनम्—'भुक्त्वा
सह ब्राह्मणेन प्राजापत्येन शुद्ध्यति । भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण
शुद्ध्यति ॥ वैश्येन सह भुक्त्वान्नमतिकृच्छ्रेण शुद्ध्यति । शूद्रेण सह भुक्त्वान्नं
चान्द्रायणमथाचरेत् ॥' इति, —तत्कार्मतौऽभ्यासविषयम् ॥ यत्पुनः शङ्खवचनम्—
'ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिरभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टाशने ब्राह्मी-
रसविपक्वेन त्र्यहं क्षीरेण वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां
पिबेत्, शूद्रोच्छिष्टभोजने षड्रात्रमभोजनम्' इति,—तदकामविषयम् । तत्राभ्यासे
द्वैगुण्यादिकं कल्प्यम् । एतच्च पित्रादिव्यतिरेकेण; 'पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं
भोज्यम्' (४।११) इत्यापस्तम्बस्मरणात् । यत्तु बृहद्व्यासवचनम्—'माता वा भगिनी
वापि भार्या वाऽन्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं
चरेत् ॥' इति,—तत्सभोजनविषयम् । उच्छिष्टमात्रभोजने तु 'शूद्रोच्छिष्टभोजने
सप्तरात्रमभोजनं स्त्रीणां च' (१।२६।४-५) इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्चाङ्गिरो-
वचनम्—'ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व
एव मनीषिणः ॥' इति,—तद्विवाहविषयमगर्भिषयं वा । अन्योच्छिष्टभोजने तु—


१. संस्कारश्च देवद्रोण्यां ।

प्रायश्चित्ताध्यायः ५१७

'अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्धं च ब्रह्मक्षत्र-
विशां विधिः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्तेव-
साय्युच्छिष्टभोजने तु—'चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं
चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ षड्रात्रं च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥'
इत्यङ्गिरोभिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु—'आपत्काले
तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्ध्येत्तु द्रुपदानां शतं जपेत् ॥'
इति पराशरोक्तं वेदितव्यम् ॥ यत्तु बृहच्छातातपेनोक्तम्—'पीतशेषं तु यत्किंचि-
द्द्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥'
इति,-तदभ्यासविषयम् ; निमित्तस्यातिलघुत्वात् ।—'पीतोच्छिष्टं च पानीयं
पीत्वा तु ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्याद्ब्राह्मस्तेन वा पुनः ॥' इति,-
एतद्बुद्धिपूर्वविषयम् । अकामतस्त्वर्धं कल्प्यम् । दीपोच्छिष्टे तु—'दीपोच्छिष्टं तु
यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाच्चैव यच्छिष्टं भुक्त्वा नक्तेन शुद्ध्यति ॥'
इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥

अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः—'केशकीटावपन्नं च
नीलीलाक्षोपघातितम् । श्वायवस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः ॥' इति ।
तथाह शातातपः—'केशकीटावपन्नं च रुधिरमांसासृक्स्पृष्टभ्रूणघ्नावेक्षितपतण्ड्य-
वलीढश्वसूकरगवाघ्रातंशुक्तपर्युषितवृथापक्कदेवान्नहविषां भोजने उपवासः पञ्च-
गव्याशनं च ॥' इति,-एतच्चोभयमपि अकामविषयम् । कामतस्तु 'मृद्भारिकुसु-
मार्दींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्रपादं समाचरेत् ॥
संनिकृष्टेऽर्धमेव स्यात्कृच्छ्रः स्याच्छुचिशोधनम् ॥' इति विष्णूदत्तं वेदितव्यम् ।
अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ्र इति व्यवस्था । यत्तु व्यासेनोक्तम्—'संसर्ग-
दुष्टं यच्चान्नं क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥'
इति, एतच्च संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्शे तु शङ्खो-
क्तम्-'अमेध्यपतितचाण्डालँपुल्कसरजस्वलावधूतकुणिकुष्ठिनखिसंस्पृष्टानि भुक्त्वा
कृच्छ्रं चरेत्' इति । कुणिर्हस्तविकलः ।-एतत्कामकारविषयम् । अकामतोऽर्धम् ।
'भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च दूषितम् । कुशोडुम्बरबिल्वाद्यैः पनसाम्बुज-
पत्रकैः । शङ्खपुष्पीसुवर्चोदिक्वाथं पीत्वा विशुद्ध्यति ॥'इति यद्विष्णुनोक्तं,-तदश-
क्तविषयं, रजकादिस्पृष्टविषयं वा। शूद्रानुपहते तु हारीतोक्तं विज्ञेयम्—'शूद्रेणोप-
हतं भोज्यं कीटैर्वाऽमेध्यसेविभिः । भुञ्जानेषु वा यत्र शूद्र उपस्पृशेदनाहंस्वारस पङ्क्तौ
तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्नं दद्युस्तन्न


१. तद्द्विजस्याहुर्भुक्त्वा । २. शुष्कपर्युषित । ३. शुचिभोजने ।
४. पुक्कस ।

५६८ | याज्ञवल्क्यस्मृतिः
प्रायश्चित्तमहोरात्रम्' इति । उच्छिष्टपङ्क्तिभोजनेऽप्येतदेव—'यस्तु भुङ्क्ते द्विजः
पङ्क्तयामुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥' इति
क्रतुस्मरणात् । वामकरनिर्मुक्तपत्रभोजने तु—'समुत्थितस्तु यो भुङ्क्ते यो भुङ्क्ते
मुक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥' इति षट्त्रिंशन्म-
तोक्तं १वेदितव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम्—'एकपङ्क्त्युपविष्टानां विप्राणां
सहभोजने । यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाद् भुञ्जीत यस्तत्र
पङ्क्तयामुच्छिष्टभोजनः । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सान्तपनं तथा ॥' इति ॥
श्वादिसंपृक्तकूपाद्युदकपाने तु विष्णुराह—'मृतपञ्चनखात्कूपाद्यन्तोपहताद्भो-
दकं पीत्वा ब्राह्मणस्त्र्यहमुपवसेत् द्वयहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे
चान्ते पञ्चगव्यं पिबेयुः' इति । अत्यन्तोपहताद्धेति मूत्रपुरीषादिभिर्वे३त्यभिप्रै-
तम् । यदा तु तत्रैव शवमुच्छू४नतयोद्भिन्नं भवति तदा हारीतो विशेषमाह—
'क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुद्धयै चान्द्रायणं कुर्यात्तत्-
कृच्छ्रमथापि वा ॥ यदि कश्चित्ततः स्नायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायी
अहोरात्रेण शुद्ध्यति ॥' इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजल-
पानविषयम् । अकामतस्तु षड्रात्रम्—'क्लिन्नं भिन्नं शवं चैत्र कूपस्थं यदि
दृश्यते५ । पयः पिबेत्त्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥' इति देवलस्मरणात् ।
यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्बोक्तं द्रष्टव्यम्—'चाण्डाल-
कूपभाण्डस्थं नरः कामाज्जलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥
चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्धं तु चरेद्वैश्यः शूद्रे पादं विनिर्दि-
शेत् ॥' (२।३०५) इति ।- इदं च कामकारविषयम् । अकामतस्तु—
'चाण्डालकूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु त्र्यहेण शुद्ध्येत शूद्रस्त्वेकेन
शुद्धयति ॥' इति देवलोक्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूप-
वच्छुद्धिः—'जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिमहत्सु
तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः—'म्लेच्छादीनां
जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥
तत्तोयं यः पिबेद्विप्रः कामतोऽकामतॊऽपि वा । अकामान्नक्तभोजी स्यादाहोरात्रं
तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु—'भाण्ड-
स्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव
प्रमादतः ॥ ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन
तथा दानेन शक्तिः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम्—
१. द्रष्टव्यम् । २. संपृष्ट । ३. भिरित्यभिहितम् । ४. उच्छूनतयाभिन्नं ।
५. जायते ।

'अन्त्यजैः खानिताः कूपास्तडागा वाप्य एव वा। एषु स्नात्वा च पीत्वा च
प्राजापत्येन शुद्ध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् ॥ यत्त्वा-
पस्तम्बेन चण्डालकूपादिजलपाने पञ्चगव्यमात्रमुक्तम् - 'प्रपास्वरख्ये घटके च
सौरे द्रोण्यां जलं कोशविनिर्गतं च। श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्च-
गव्येन शुद्ध्येत ॥' इति, तदशक्तविषयम् । 'प्रपां गतो विना तोयं शरीरं यो
निषिञ्चति। एकाहक्षपणं कृत्वा सचेलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा
नाढ्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम् - भावदुष्टं च यद्धूर्णत आकारतो वा विप्र-
कृष्टतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते। अरिप्रयुक्तगरलादि-
शङ्कायां वा । तत्र च पराशरः- 'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते। भुक्तवान्नं
ब्राह्मणः पश्चात्त्रिरात्रेण विशुद्ध्यति ॥' इति ।-एतत्कामकारविषयम् । यत्तु
गौतमेन भावदुष्टं केवलः इत्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम् -
'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु-
'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञिते। आहारशुद्धिं वक्ष्यामि तन्मे निगदतः
शृणु ॥ अक्षारलवणं रूक्षं पिबेद्ब्रह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः
पयसा सह ॥ पलाशबिल्वपत्राणि कुशान्पद्मोदुम्बरम् । अपः पिबेत्क्वाथयित्वा
त्रिरात्रेण विशुद्ध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्का-
यामुक्तम् ( ५।२१ ) - 'संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्त-
शुद्धयर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥
अथ कालदुष्टभक्षणे प्रायश्चित्तम् - 'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि ।
तत्र चाकामतः 'शेषेषूपवसद्देहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केव-
लानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती
भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिर्दशगोक्षीरा-
दिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकपाने तु पञ्चगव्यप्राशनम् - 'शृङ्गास्थिद-
न्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ॥'
इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः - 'काले नवोदकं शुद्धं
न पिबेच्च त्र्यहं हि तत् । अकाले तु दशाहं स्यात्पीत्वा नाद्यादहर्निशम् ॥' इति
स्मृत्यन्तरदर्शनात् । ग्रहणकाले भोजने तु चान्द्रायणम् - 'नवश्राद्धग्रामयाजका-
ग्रसग्रहभोजने । नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥' इति शातातप-
स्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते, तदाह मार्कण्डेयः-
'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन् पूर्वं भोजन-
१. कोशविनिःसृतं वा ।

६०० याज्ञवल्क्यस्मृतिः
क्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोद्यतस्तस्य नाश्नीया-
त्तावदेव तु ॥' तथा—'ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तना-
त्पूर्वं प्रथमे प्रथमादधः ॥' तथा—'अपराह्ने न मध्याह्ने सायाह्ने न तु सङ्गवे ।
भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' (४।५५) इति । यच्च मनुनो-
क्तम्—'नाश्नीयात्संधिवेलायां नातिप्रगे नाति सायमित्येवमादि' । यच्च बृह-
च्छातातपेनोक्तम्—'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं
तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु—'प्राणा-
यामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥'
इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः'
(५।२०) इति मनुक्तोपवासो द्रष्टव्यः ॥
अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः (११।१५३)—
'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न
व्रजत्यधः ॥' इति अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । काम-
तस्तु—'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्वं भुक्त्वा च
त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतच्चामलकादिफलयुक्त-
काञ्जिकादिव्यतिरेकेण द्रष्टव्यम् । 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् ।
तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्ने-
हादिखु तु 'उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नी-
यात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दने घृतप्राशनं च' इति गौतमोक्तं द्रष्ट-
व्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह—'तस्य
चाग्नौ न १क्रियते यस्य चान्नं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोप-
वसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निर्द्विजो भुक्त्वा
प्राजापत्यं समाचरेत् ॥' इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो
द्रष्टव्यः ॥ भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्—'शूद्राणां भाजने भुक्त्वा
भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुद्ध्यति ॥' इति ।
तथा स्मृत्यन्तरेऽप्युक्तम् 'वटाकार्कश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकर-
ञ्जेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति तथा—'पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं
चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥
अथ हस्तदानादिक्रियादुष्टान्नभक्षणे प्रायश्चित्तम् । तत्र पराशरः—
'माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकम-
भोजनम् ॥' इति । कामतस्तु—'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्ट-
१. क्षिपते । २. चान्नं । ३. दुष्टान्नभोजने ।

पङ्क्तिभोजने पङ्क्त्यग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतक शूद्रान्नभोजने
शूद्रैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे
तु-ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा-
तूपवसेदहः ॥' इति वृद्धयाज्ञवल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु-
'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिवेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च-
गव्येन शुद्ध्यति' इति क्रतूक्तं विज्ञेयम् । धमनदुष्टेऽपि- 'आसनारूढपादो वा
वस्त्रार्धप्रावृतोऽपि वा । मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति
तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु 'भुक्ते चेत्पार्वणश्राद्धे प्राणायामा-
न्षडाचरेत् । उपवासस्त्रिमासादिवत्सरान्तं प्रकीर्तितः ॥ प्राणायामत्रयं वृद्धाव-
होरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतं पारणके तथा ॥ द्विगुणं क्षत्रियस्यै-
त्त्रिगुणं वैश्यभोजने । सान्नाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ
तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं
चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम् । हारीतेनाप्युक्तम् - 'एकादशाहे
भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयाद्-
घृतम् ॥' इति । विष्णुनाप्युक्तम् - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥' इति । - इदं चापद्विषयम् । अनापदि
तु- 'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराँणेषु प्राजापत्यं
विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । 'प्राजापत्यं तु मिश्रके' इत्येतदाद्यमासि-
कविषयं द्रष्टव्यम् । द्वितीयादिषु तु - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं स्यात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथा-
ब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं
द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः - 'चान्द्रायणं
नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रं मासद्वये स्मृतम् ॥
क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु-
मनीषिभिः ॥ शूद्रस्य तु नवश्राद्धे चरेच्चान्द्रायणद्वयम् । सार्धं चान्द्रायणं मासे
त्रिपक्षे त्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्ध्वं सान्तपनं स्मृतम् ॥' इति ।
यत्तु शंखवचनम् - 'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पञ्चत्रयेऽ-
तिकृच्छ्रः स्यात्षण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुन-
राब्दिके । अत ऊर्ध्वं न दोषः स्याच्छंखस्य वचनं यथा ॥' इति, तत्सर्पादिक्षत-
विषयम्; 'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपङ्क्तेयविषयं वा ॥ 'चाण्डालादुद-
कार्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतना-

१. मासिके । २. प्रायश्चित्तं । ३. द्विरात्रम् ।

६०२ \qquad याज्ञवल्क्यस्मृतिः
नाश्नकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां षोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥'
इति, तथा—'अपाङ्क्तेयान्युद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वाऽन्नं
शिशुचान्द्रायणं चरेत् ॥' इति, 'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति ।
संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चि-
त्ताभिधानात् ॥
ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह—'मासिकादिषु योऽश्नीयादसमाप्तव्रतो
द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं
प्राश्य विशुद्ध्यति ॥' इति ।-इदमज्ञानविषयम् । कामतोऽपि स एवाह—
'मधु मांसं च योऽश्नीयाच्छ्राद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं
समापयेत् ॥' इति । आमश्राद्धे तु सर्वत्रार्धम्—'आमश्राद्धे तदर्धं तु प्रायश्चित्तं
तु सर्वदा' इति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्—'दशकृत्वः पिबेच्चापो
गायत्र्या श्राद्धभुग्द्विजः । ततः संध्यामुपासीत शुद्ध्येत्तु तदनन्तरम् ॥' इति,-
तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष
उक्तः—'निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जात-
कर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः । नियोगादुप-
वासेन शुद्ध्यते निन्द्यभोजने ॥' इति ॥ सीमन्तोन्नयनादिषु पुनर्धौम्यो विशेष-
माह—'ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नव श्राद्धे द्विजश्चा-
न्द्रायणं चरेत् ॥' इति । अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतं; सोमसाहचर्यात् ॥
अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम्—'यत्स्वरूपतोऽनिषिद्धमपि विशिष्ट-
पुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचि ।' तत्र योगीश्वरेण—'अदत्ता-
न्यग्निहीनस्य नान्नमद्यादनापदि' इत्यारभ्य सार्धपञ्चभिः श्लोकैरभोज्यान्नाः
प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । (४।२०५-
२१७)—'नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते
भुञ्जीत ब्राह्मणः क्वचित् ॥ मत्तक्रुद्वातुरार्णां च न भुञ्जीत कदाचन । गणान्नं
गणिकान्नं च विदुषां च जुगुप्सितम् ॥ स्तेनगायकयोश्चान्नं तक्षणो वार्धुषिकस्य
च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य षण्ढस्य पुंश्चल्या
दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं
सूतिकान्नं च पर्यायान्नमनिर्देशम् । अनर्चितं वृथामांसमवीरायाश्च योषितः ॥
द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव क्रतुविक्रयिणस्तथा ॥
शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च । कर्मारस्य निषादस्य रङ्गावतरणस्य
च । सुवर्णकर्तुर्वैणस्य सोमविक्रयिणस्तथा । ध्रवतां शौण्डिकानां च चैलनिर्ने-

१. पतितान्नमवेक्षितम् ।

प्रायश्चित्ताध्यायः ६०३

जकस्य च ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । मृष्यन्ति ये चोपपतिं
स्त्रीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥' इति ॥ अत्र
च पदार्था अभक्ष्यकाण्डे व्याख्याताः । अत्र प्रायश्चित्तमाह ( मनुः ४।२२२ )-
'भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत्कृच्छ्रं रेतो
विण्मूत्रमेव च ॥' इति । पैठीनसिनाप्यकामतस्त्रिरात्रमेवोक्तम्- 'कुनखी-
श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको
ग्रामयाजकोऽभिशस्तो वृषल्यामभिजितः परिवृत्तिः परिविन्द्वानो दिधिषूपतिः
पुनर्भूपुत्रश्चौरः काण्डपृष्ठः सेवकश्चेत्यभोज्यान्ना अपाङ्केया अश्राद्धार्हाः एषां
भुक्त्वा दत्त्वा चाऽविज्ञानात्त्रिरात्रम्' इति ॥ शंखेन त्वेतानेव किंचिदधिकान्प-
ठित्वा चान्द्रायणमुक्तं, -तदभ्यासविषयम् ॥ गौतमेन पुनः 'उच्छिष्टपुंश्चल्य-
भिशस्ता' इत्यादिना अभोज्यान्पठित्वा 'प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च'
इति प्रायश्चित्तमुक्तं, -तदापद्विषयम् ॥ यस्तु बलात्कारेण भोज्यते तस्यापस्तम्बेन
विशेष उक्तः- 'बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभं कारिताः
कर्म गवादिप्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् । खरोष्ट्र-
विड्वराहाणामामिषस्य च भक्षणम् ॥ तत्स्त्रीणां च तथा सङ्गस्ताभिश्च सह
भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं
स्वाहिताग्नेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्थं यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन
शुद्ध्यति ॥ ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैस्त्रिभिश्चैव
तद्भावं स निगच्छति' इति ॥
आशौचपरिगृहीतान्नभोजने तु छागलेय आह- 'अज्ञानाद् भुञ्जते विप्राः
सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुद्ध्यन्ते शूद्रसूतके ॥ वैश्ये षष्ठिर्भ-
वेदाज्ञि विंशतिर्ब्राह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनः ॥ ततः
शुद्धिर्भवत्येषां पञ्चगव्यं पिबेत्ततः ॥' इति ब्राह्मणादिक्रमेणैकाहत्र्यहादयो
योज्याः । -इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह- 'भुक्त्वा तु
ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रो
विधीयते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रस्यैव
तथा भुक्त्वा त्रिमासान्व्रतमाचरेत् ॥ यत्तु शंखेनोक्तम् - 'शूद्रस्य सूतके भुक्त्वा
षण्मासान्व्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा


१. तथा तस्यैव भोजनं । २. अज्ञानाद्भोजने । ३. शुचिर्भवेद्विप्रः
पञ्चगव्यं पिबेन्नरः इति । ४. द्विजश्चान्द्रायणं चरेदिति ।

६०४ याज्ञवल्क्यस्मृतिः
मासव्रती भवेत् ॥' इति ।-इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं
वेदितव्यम् । 'ब्राह्मणादीनामाशाचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं
यावत् तेषामाशौचम् , व्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् ॥
अपुत्राद्यन्नभोजने तु लिखित आह—'भुक्त्वा वार्धुषिकस्यान्नमव्रतस्या-
सुतस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम् ॥' तथा—'परपा-
कनिवृत्तस्य परपाकरतस्य च । अपचस्य च भुक्तवान्नं द्विजश्चान्द्रायणं चरेत् ॥'
इति ।-एतच्चाभ्यासविषयम् ॥ परपाकेन निवृत्तःर्देर्लक्षणं च तेनैवोक्तम्—'गृही-
स्वाग्निं समारोप्य पञ्चयज्ञान् निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकी-
र्तितः ॥ पञ्चयज्ञांस्तु यः कृत्वा परान्न्रादुपजीवति । सततं प्रातरुत्थाय परपाकर-
तस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः
संप्रकीर्तितः ॥'इति । यत्तु ब्रह्मचर्य्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह-'यतिश्च ब्रह्म-
चारी च पक्वान्नस्वामिनावुभौ । तयोरन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥'
इति, यच्च पार्वणश्राद्धाद्यकर्तृरन्नभोजने भरद्वाज आह—'पक्षे वा यदि वा मासे
यस्य नाश्नन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति,-
तदुभयमप्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्न-
भोजने तु—'निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः
कुर्याद्दिनमेकमभोजनम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे
षट्त्रिंशन्मत एवोक्तम्—'उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अन्नं भुक्त्वा
द्विजः कुर्यात्पराकं तु विशोधनम् ॥' इति ।-इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्ड-
गतमविशेषोदितव्रतकदम्बकं हि द्विजाग्रयस्यैव । क्षत्रियादीनां तु पादपादहान्या
भवति; 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धं पाद एकस्तु
शूद्रजातिषु. शस्यते ॥' इति विष्णुस्मरणात् ॥
इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ।
निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि,
तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः ( ११।१२४-१२५ )—'जातिभ्रंशकरं कर्म
कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ संकरा-
पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहम् ॥'
इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्तः—'संकरीकरणं
कृत्वा मासम्नाति यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं समाचरेत् ॥
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुद्धयति ॥ शीतकृच्छ्रेण वा शुद्धिमैहासान्तपनेन

१. पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजीवति ।

च । मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥' इति ॥ बृहस्पतेनापि जातिभ्रंश-
करे विशेष उक्तः- 'ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो
धनादानं कृच्छ्रार्धं व्रतमाचरेत् ॥' इति । एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां
मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गत-
मभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ २८९ ॥
भाषा—निषिद्ध दान लेने पर ब्रह्मचारी होकर, केवल दूध पीते हुए,
गोशाला में निवास करते हुए और गायत्री के जप में रत होकर एक मास
व्यतीत करने पर शुद्ध होता है ॥ २८९ ॥
अधुना प्रकृतमनुसरामः—'महापापकमतिपातकमनुपातकमपपातकं प्रकीर्ण-
कमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधं प्रायश्चित्तमभिधाय क्रमप्राप्तं
प्रकीर्णकं प्रायश्चित्तमाह—
१प्राणायामी जले स्नात्वा खरयानोष्र्टयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥२९०॥
खरयुक्तं यानं खरयानम्, उष्ट्रयुक्तं यानमुष्ट्रयानं, रथगन्ड्यादि तेनाध्व-
गमनं कृत्वा दिगम्बरः स्नात्वाऽभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं
कृत्वा च तडागतरङ्गिण्यादाववगाह्य कृतप्राणायामः शुद्ध्यति ।-इदं च
कामकारविषयम् ।-'उष्ट्रयानं समारुह्य खरयानं तु कामतः संवासा जलमाप्लुत्य
प्राणायामेन शुद्ध्यति ॥' ( ११।२०१ ) इति मनुस्मरणात् अकामतः स्नानमात्रं
कल्प्यम् । साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया; तस्य गुरुत्वात् ॥२९०॥
भाषा—गदहे से खींची जाने वाली सवारी अथवा ऊँट-गाड़ी पर चढ़ने,
नंगे होकर नहाने और खाने तथा दिन से ( अपनी ही स्त्री से ) स्त्री-संभोग
करने पर जल में प्रवेश कर प्राणायाम करने एवं स्नान करने से शुद्धि
होती है ॥ २९० ॥
३गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २९१ ॥
किंच, गुरु जनकादिकं त्वंकृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म-
च्छब्दोच्चारणेन निर्भर्त्स्य विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं हुं तूष्णी-
मास्स्व, हुं मा बहुवादीः, इत्येवमाक्षिप्य जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं
निर्जित्य कण्ठे वाससा मृदुस्पर्शैनापि बद्ध्वा क्षिप्रं पादप्रणिपातादिना प्रसाद्य
१. प्राणायामं जले । २. स्नात्वा तु विप्रो दिग्वासा । ३. गुरुं त्वंकृत्य
हुंकृत्य विप्रं ।

६०६ याज्ञवल्क्यस्मृतिः
क्रोधं त्याजयित्वा दिनमुपवसेत् । अनश्नन्कृत्स्नं वासरं नयेत् ॥ यत्तु यमेनोक्तम्-
'वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया । त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य
प्रसादयेत् ॥' इति, -तदभ्यासविषयम् ॥ २९१ ॥
भाषा-गुरु ( पिता आदि श्रेष्ठ जनों ) को 'तू' कहने पर ( भर्त्सना
करने पर) अथवा क्रोध से ब्राह्मण को डाँटने पर, उसके गले में वस्त्र बाँधने
पर शीघ्र उनके पैरों पर गिर कर उन्हें प्रसन्न करे ॥ २९१ ॥
विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ २९२ ॥
विप्रजिघांसया दण्डोद्यमे कृच्छ्रः शुद्धिहेतुः, निपातने ताडने
अतिकृच्छ्रः, असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः, अभ्यन्तरशोणितेऽपि
कृच्छ्रः शुद्धिहेतुः ॥ बृहस्पतिनाप्यत्र विशेष उक्तः- 'काष्ठादिना ताडयित्वा
त्वग्भेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकृच्छ्रः स्यात्पश कस्त्वङ्गकर्तने ॥' इति ।
पादप्रहारे तु यम आह- 'पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया । दिव-
सोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति ॥ मनुना स्वन्यानि
प्रकीर्णकप्रायश्चित्तानि दर्शितानि (११।२०२)- 'विनाद्भिरप्सु वाप्यार्तः
शारीरं १संनिषेव्य तु । २सचैलो बहिरारुप्लुत्य गामालभ्य विशुद्ध्यति ॥' इति ।
विनाद्भिरित्यसंनिहितास्वपीत्यर्थः । शारीरं मूत्रपुरीषादि । -इदमकामविष-
यम् । कामतस्तु- 'आपद्गतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं
कृत्वा सचैलो जलमाविशेत् ॥' इति यमोक्तं वेदितव्यम् ॥ यत्तु सुमन्तुवचनम्-
'अप्स्र्वग्नौ वा मेहतस्तप्तकृच्छ्रम्' इति, -तदनार्तविषयमभ्यासविषयं वा ॥ नित्य-
श्रौतादिकर्मलोपे तु मनुरह (११।२०३)- 'वेदोदितानां नित्यानां कर्मणां समति-
क्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥' इति । श्रौतेषु दर्शपूर्णमासादि-
कर्मसु स्मार्तेषु च नित्यहोमादिषु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैरुपवासस्य समुच्चयः।
स्नातकव्रतानि च- 'न जीर्णमलवड्वासा भवेच्च विभवे सति' इत्येवमादीनि प्रागु-
क्तानि । स्नातकव्रतमधिकृत्य क्रतुनाप्युक्तम्- 'एतेषामाचाराणामेकैकस्य व्यति-
क्रमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति' इति ॥ पञ्चमहायज्ञाकरणे तु बृह-
स्पतिराह- 'अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने
कृच्छ्रार्धेन विशुद्ध्यति ॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न
गच्छेदभार्यां वा सोऽपि कृच्छ्रार्धमाचरेत् ॥' इति । द्वितीयादिभार्योपरमे तु देवल
आह- 'मृतां द्वितीयां यो भार्या दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु
१. संनिवेश्य च । २. सचेलः स्नानमाचरेत् ।

प्रायश्चित्ताध्यायः ६०७

सुरापानसमं हि तत् ॥' इति । स्वभार्याभिशंसने तु यम आह—'स्वभार्या तु
यदा क्रोधादगम्येति नरो वदेत् । प्राजापत्यं चरेद्विप्रः क्षत्रियो दिवसान्नव ॥
षड्रात्रं तु चरेद्वैश्यस्त्रिरात्रं शूद्र आचरेत् ॥' इति ॥
अस्नानभोजनादौ हारीत आह—'वहन्कमण्डलुं रिक्तमस्र्नातोऽश्नंश्च भोज-
नम् । अहोरात्रेण शुद्धिः स्याद्दिनजप्येन चैव हि ॥' इति । एकपङ्क्त्युपवि-
ष्टानां स्नेहादिना वैषम्येण दानादौ यम आह—'न पङ्क्त्यां विषमं दद्यान्न
याचेत न दापयेत् । (याचको दापको दाता न वै स्वर्गस्य गामिनः ॥ )
प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्ततः ॥ नदीसंक्रमहन्तुश्च कन्याविघ्नकरस्य
च ॥ समे विषमकर्तुश्च निष्कृतिर्नोपपद्यते ॥ त्रयाणामपि चैतेषां प्रत्यापत्तिं च
मार्गताम् । भैक्षलब्धेन चान्नेन द्विजश्चान्द्रायणं चरेत् ॥' इति । संक्रम उद-
कावतरणमार्गः । समे विषमकर्ता पूजादौ ॥ इन्द्रधनुर्दर्शनादावृष्यशृङ्ग आह—
'इन्द्रचापं पलाशानि यद्यन्यस्य प्रदर्शयेत् । प्रायश्चित्तमहोरात्रं धनुर्दण्डश्च
दक्षिणा ॥' पतितादिसंभाषणे तु गौतम आह—'न म्लेच्छाशुच्यधार्मिकैः सह
संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत
तत्पान्ध्रधनलाभबधे पृथग्वर्षाणि' इति । भार्यान्नधनानां लाभस्य वधे विघ्न-
करणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् ॥ तथा—ब्रह्मसूत्रं विना विण्मूत्रोत्स-
र्गादौ स्मृत्यन्तरे प्रायश्चित्तमुक्तम्—'विना यज्ञोपवीतेन यद्युच्छिष्टो भवेद् द्विजः ।
प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं तु वा ॥' तत्र ऊर्ध्वोच्छिष्टे उपवासः, अधरो-
च्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस्तु—'पिबेत् मेह-
तश्चैव भुञ्जतोऽनुपवीतिनः । प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ॥'
इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ भुक्त्वा शौचाचमनमकृत्वोत्थाने तु—'यद्युत्तिष्ठ-
त्यनाचान्तो भुक्त्वा वाऽनशनात्ततः । सद्यःस्नानं प्रकुर्वीत सोऽन्यथा पतितो
भवेत् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ चौराद्युत्सर्गादौ वसिष्ठ आह—'दण्ड्यो-
त्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं
राजा कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशरात्रं चरित्वोद्धरेयाताम्' इति । उद्धरे-
यातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्यातामित्यर्थः । स्तेनंपतितादि-
पङ्क्तिभोजने तु मार्कण्डेय आह--'अपाङ्क्तेयस्य यः कश्चित्पङ्क्तौ भुङ्क्ते द्विजो-
त्तमः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥' इति ॥
नीलीविषये त्वापस्तम्ब आह-'नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ रोमकूपैर्यदा गच्छेद्सो नील्यास्तु

१. निष्कृतिर्न विधीयते । २. प्राजापत्यं तु मार्गणम् ।

६०८ याज्ञवल्क्यस्मृतिः

कर्हिचित् । त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रं विशोधनम् ॥ पालनं विक्रयश्चैव
तद्वृत्त्या चोपजीवनम् । पातनं च भवेद्विप्रैस्त्रिभिः कृच्छ्रैर्व्यपोहति ॥ नीलीदारु
यदा भिन्द्याद् ब्राह्मणस्य शरीरतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥
स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥' इति । भृगुणाप्युक्तम्--'स्त्रीधृता
शयने नीली ब्राह्मणस्य न दुष्यति । नृपस्य वृद्धौ वैश्यस्य पर्वद्वयं विधारणम्'
इति ॥ तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः--'कम्बले पट्टसूत्रे च नीलीरागो
न दुष्यति ॥' इति स्मरणात् ॥ ब्रह्मतरुनिर्मितखट्वाचारोहणे शङ्ख आह--
'अध्यस्य शयनं यानमासनं पादके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती
भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः । संवत्सरं व्रतं कुर्याच्छुच्व्रा-
वृत्तं फलप्रदम् ॥ द्वौ विप्रौ ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ । अन्तरेण यदा
गच्छेत्कृच्छ्रं सान्तपनं चरेत् ॥ होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । अन्त-
रेण यदा गच्छेद्व द्विजश्चान्द्रायणं चरेत् ॥' इति । दोहे सांनाय्याद्यङ्गभूते ।-एत-
चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह--'दुःस्वप्नारिष्ट-
दर्शनादौ घृतं सुवर्णं च दद्यात् ॥' इति ।
क्वचिद् देशविशेषगमनेऽपि देवल आह--'सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्य-
न्तवासिनः । अङ्गवङ्गकलिङ्गांश्चान् गत्वा संस्कारमर्हति ॥' एतच्च तीर्थयात्रा-
व्यतिरेकेण द्रष्टव्यम् ॥ स्वपुरीषदर्शनादौ यम आह--'प्रत्यादित्यं न मेहेत न
पश्येदात्मनः शकृत् । दृष्ट्वा सूर्यं निरीक्षेत गामग्निं ब्राह्मणं तथा ॥' इति ।
शङ्खोऽप्याह--'पादप्रतपनं कृत्वा कृत्वा वह्निमथस्तथा । कुशैः प्रमृज्य पादौ
तु दिनमेकं व्रती भवेत् ॥' इति ॥ क्षत्रियाद्युपसंग्रहे हारीत आह--'क्षत्रिया-
भिवादनेऽहोरात्रमुपवसेत् , वैश्याभिवादने द्विरात्रम् , शूद्रस्याभिवादने त्रिरा-
त्रमुपवासः' इति ॥ तथा 'शय्यारूढपादुकोपानहारोपितपादोच्छिष्टान्धकारस्थ-
श्राद्धकृज्जपदेवपूजानिरताभिवादने त्रिरात्रमुपवासः स्यादन्यत्र निमन्त्रितेना-
न्यत्र भोजनेऽपि त्रिरात्रम्' इति ॥
समित्पुष्पादिवस्तस्याभिवादनेऽप्येतदेव--'समित्पुष्पकुशाज्याम्बुमृदन्नाक्षत-
पाणिकम् ; जपं होमं च कुर्वाणं नाभिवादैत वै द्विजम् ॥' इत्यापस्तम्बीये जपा-
दिभिः समभिव्याहारात् । अभिवादकस्यापीदमेव प्रायश्चित्तम्--'नोदकुम्भ-
हस्तोऽभिवादयेत् न भैक्षं चरन्न पुष्पाण्यादिहस्तो नाशुचिर्न जपन्न देवपितृकार्यं
कुर्वन्न शयानः' इति तस्यापि शङ्खेन प्रतिषेधात् । एवमन्यान्यपि वचांसि
स्मृत्यन्तरतोऽन्वेष्याणि, ग्रन्थगौरवभयादत्र न लिख्यन्ते ॥ २९२ ॥

१. त्रिवर्णेषु च सामान्यम् । २. भवेद्विप्रे त्रिभिः । ३. अङ्गवङ्ग-
कलिङ्गांश्च ।

इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।

प्रायश्चित्ताध्यायः ६०६
भाषा-किसी ब्राह्मण को मारने की इच्छा से डंडा उठाने पर कृच्छ्र
व्रत से और डंडा मार देने पर अतिकृच्छ्र व्रत से, मारकर रुधिर निकाल देने
पर कृच्छ्रातिकृच्छ्र व्रत से और उसके चोट के स्थान पर रुधिर आ जाने पर
कृच्छ्र व्रत से शुद्धि होती है ॥ २९२ ॥
इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।
निमित्तानामानन्त्यात्प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुमशक्यत्वात्सामान्यतयोपदिष्टा-
नुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थमिदमाह-
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्तौ न निष्कृतिः ॥२९३॥
यदुक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद्देशादिकमवेक्ष्य यथा कर्तुः प्राणविप-
त्तिर्न भवति तथा विषयविशेषे कल्पनीयम् ; इतरथा प्रधाननिवृत्तिप्रसङ्गात् ।
तथा च वक्ष्यति-'वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक्' इति, तत्र यदि
हिमवद्गिरिनिकटवर्तिनामुदकवास उपदिश्यते अतिशीताकुले वा शिशिरादि-
काले तदा प्राणवियोगो भवेदिति तद्देशकालपरिहारेणोदकवासः कल्पनीयः ।
तथा वयोविशेषादपि यदि नवतिवार्षिकादेरपूर्णद्वादशवार्षिकस्य वा द्वादशाब्दिकं
प्रायश्चित्तमुपदिश्यते 'तदा प्राणा विपद्येरन्' इति ततोऽन्यवयस्के तत्प्रायश्चित्तं
कल्प्यम् । अत एव स्मृत्यन्तरे 'क्वचिदर्धं क्वचित्पादः' इति वृद्धादिषु प्रायश्चित्तस्य
ह्रासोऽभिहितः, तच्च प्राक्प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्त्यपेक्षया च
नहि निर्धनस्य पात्रे धनं वा पर्याप्तमित्याद्युपपद्यते । तथोद्विक्तपित्तादेर्वा पराका-
दिकं नापि स्त्रीशूद्रादेर्जपादिकम् । अत एव 'गजादीनामशक्नुवन् । दानं दातुं
चरेत्कृच्छ्रमेकैकस्य विशुद्धये' इत्युक्तम् । तथा 'प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण
एव च' इति तपस्यशक्तस्य स्मृत्यन्तरे प्राक् प्रायश्चित्तस्य ह्रासोऽभिहितः । तथा
पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः
सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यदिहितं तदेव
कामकृते द्विगुणं, कामतोऽभ्यासे चतुर्गुणमित्येवं स्मृत्यन्तरानुसारेण कल्पनीयम् ।
तथा-'महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत'
इत्युक्तं, तत्र महापापोपपापयोस्तुल्यप्रायश्चित्तस्यायुक्तत्वान्महापापापेक्षयोपपातके
मासिकव्रतस्य ह्रासः कल्पनीयः । यत्र च हसितजृम्भिताक्रन्दितास्फालनादिना
कस्मात्कुर्यात्तथा । 'नोद्गच्छतोऽम्भसि स्नायान्न च श्मश्रूवादि वर्तयेत् । अन्तर्व-
१. प्रायश्चित्तनिमित्तस्य । २. चापेक्ष्य । ३. नोक्ता च । ४. उदवास ।
५. द्वादशवार्षिकादिकम् । ६. जृम्भितास्फोटनानि ।

न्ध्याः पतिः कुर्वन्नप्रजा भवति ध्रुवम् ॥' इत्यादौ प्रायश्चित्तं नोपदिष्टं, तत्रापि
देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् । ननु किंचिदपि निमित्तजातमनुक्तनिष्कृतिक-
मुपलभ्यते; 'प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामना-
दिष्टस्य चैव हि ॥' इत्यनुक्तनिष्कृतिष्वपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् । गौतमे-
नाप्येतान्येवानादेशे विकल्पेन क्रियेरन्स्त्र्यैकाहादयः प्रतिपादिताः । उच्यते,-
सत्यमस्त्येव सामान्यतः प्रायश्चित्तोपदेशस्तथापि सर्वत्र देशकालादीनामपेक्षि-
तत्वादस्त्येव कल्पनावरारः । नच हसितादिषु सर्वत्र प्राणायामशतं युक्तम्;
निमित्तस्य लघुत्वात् । अतः पापापेक्षया ह्रासः कल्पनीयः प्रायश्चित्तान्तरं वा ।
ननु कथं पापस्य लघुत्वं ? येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । नच प्राय-
श्चित्ताल्पत्वादिति वाच्यम् । अनुक्तनिष्कृतित्वादेव । सत्यम्,-किंतु अर्थवादसं-
कीर्तनाद् बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः ।
तथा दण्डह्रासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ
सजातीयविषये प्राजापत्यादिकमुक्तम् , तत्र यदा चानुलोम्येन प्रातिलोम्येन
वावगोरणादि क्रियते, यदा वा मूर्धावसिक्तादिभिस्तदा दण्डस्य तारतम्यदर्शना-
देव दोषालपत्वमहत्त्वावगमात्प्रायश्चित्तस्यापि गुरुलघुभावः कल्पनीयः । दर्शि-
तश्च दण्डस्य गुरुलघुभावः 'प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः' इत्यादिना ॥
भाषा-देश, समय, आयु, शक्ति और पाप का सावधानी से निरीक्षण
करके ही अन्य प्रायश्चित्तों की कल्पना कर लेनी चाहिए जिनका विधान नहीं
किया गया है ॥ २९३ ॥
इति पतितत्यागविधिः ।
एवं महापातकादिभिः पतितस्य प्रायश्चित्तमुक्तं, यस्त्वौद्धत्यादेतन्न चिकी-
र्षति तस्य किं कार्यमित्यत आह-
दासीकुम्भं बहिर्ग्रामान्नि नयेरन्स्वबान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ २९४ ॥
जीवत एव पतितस्य ये स्वा ज्ञातयो बान्धवाः पितृमातृपक्षास्ते सर्वे संनिपत्य
दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतमपां पूर्णं कुम्भं घटं ग्रामाद्बहि-
र्नि नयेयुः । एतच्चतुर्थ्यादिरिक्तातिथिष्वह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम् ।
(११।१८२)-'पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि
सायाह्ने ज्ञात्यूत्विग्गुरुसन्निधौ ॥' इति मनुस्मरणात् ॥ अथवा दास्येव सपिण्डा-
दिप्रयुक्ता निनयेत् । यथाह मनुः ( ११।१८३ ) - 'दासी घटमपां पूर्णं पर्य-

१. दर्शनाद्दोषाल्पत्व । २. बहिर्ग्रामान्निनयेयुः । ३. बान्धवैः सह ।