याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।
३५० याज्ञवल्क्यस्मृतिः
दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।
षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥ २२४ ॥
अपि च, परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन्षोडशपणान्दण्ड्यः ।
प्राणहरं पुनर्विषभुजङ्गादिकं प्रक्षिपन्मध्यमसाहसं दण्ड्यः ॥ २२४ ॥
भाषा—दूसरे के घर में दुःख उत्पन्न करने वाले (कण्टक आदि)
और (विष, सर्प आदि) प्राण लेने वाले द्रव्य या जीव फेंकने वाले में पहले
सोलह पण ॥ २२४ ॥
पश्वादिद्रोहे दण्डमाह—
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २२५ ॥
क्षुद्राणां पशूनां अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्स्रा-
वणे शाखाङ्गच्छेदने । 'शाखा' शब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं
लक्ष्यते । अङ्गानि करचरणप्रभृतीनि; शाखा चाङ्गं च शाखाङ्गं तस्य छेदने
द्विपणप्रभृतिर्दण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरा-
दिर्यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुष्पणः षट्प-
णोऽष्टपण इत्येवंरूपो न पुनर्द्विपणस्त्रिपणश्चतुष्पणः पञ्चपण इति । कथमिति
चेदुच्यते ? अपराधगुरुत्वात्तावत्प्रथमदण्डाद् गुरुतरमुपरितनं दण्डत्रितयमवगम्यते।
तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद्वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयेण गुरु-
त्वसंपादनमिति निरवद्यम् ॥ २२५ ॥
भाषा—बकरी, भेंड़, हरिण जैसे क्षुद्र पशुओं को मारकर रुधिर
निकालने, और सींग आदि निर्जीव अंग काटने पर क्रमशः दो, चार, छः और
आठ पण दण्ड होता है ॥ २२५ ॥
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २२६ ॥
किंच, तेषां क्षुद्रपशूनां लिङ्गछेदने मरणे च मध्यमसाहसो दण्डः ।
स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर्गोगजवाजिप्रभृतीनामेतेषु स्था-
नेषु ताडनलोहित³स्रावणादिषु निमित्तेषु पूर्वोक्ताद्दण्डाद् द्विगुणो दण्डो वेदि-
तव्यः ॥ २२६ ॥
भाषा—उन क्षुद्र पशुओं का लिङ्ग काटने और उन्हें मार डालने पर
मध्यम साहस का दण्ड होता है और पशु का मूल्य भी देना होता है यदि
१. अजाविहरिणानां । २. त्रिश्चतुष्पणः । ३. स्रावणादिनिमित्तेषु ।
व्यवहाराध्यायः ३५१
गाय, हाथी, घोड़ा जैसे बड़े पशु हों तो इन स्थानों पर चोट पहुँचाने पर
पूर्वोक्त दण्ड से दुगुना दण्ड समझना चाहिए ॥ २२६ ॥
स्थावराभिद्रोहे दण्डमाह-
प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥ २२७ ॥
प्ररोहा अङ्कुरास्तद्वन्त्यः शाखाः प्ररोहिण्यः; याश्चिन्नाः पुनरुक्षाः प्रतिकाण्डं
प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनः; तेषां शाखाच्छेदने,
यतो मूलशाखा निर्गच्छन्ति स स्कन्धः, तस्य छेदने; समूलवृक्षच्छेदने च
यथाक्रमं विंशतिपणदण्डादारभ्य पूर्वस्मात्पूर्वस्मादुत्तरोत्तरो दण्डो द्विगुणः ।
एतदुक्तं भवति-विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा
यथाक्रमं शाखाच्छेदनादिष्वपराधेपु भवन्तीति । अप्ररोहिशाखिनामप्युपजीव्य-
वृक्षाणामाम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डाः, अनुपजीव्याप्ररोहि-
शाखिषु पुनर्वृत्तेषु कल्प्याः ॥ २२७ ॥
भाषा-कोपलों से युक्त डालों वाले वृक्षों की शाखा और तना
या सम्पूर्ण वृक्ष काटने पर यदि वह वृक्ष मनुष्य के जीविका-निर्वाह का साधन
(आम आदि का) हो तो क्रमशः बीस, चालीस और अस्सी पण दण्ड
लगता है ॥ २२७ ॥
वृक्षविशेषान्प्रत्याह-
चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २२८ ॥
चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद् द्विगुणः ।
विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २२८ ॥
भाषा-धार्मिक स्थान, श्मशान, सीमा, पवित्र स्थान और देवता के
मन्दिर में उत्पन्न हुए वृक्ष और पीपल, पलाश आदि के वृक्ष की शाखा
आदि काटने पर उपरोक्त दण्ड से दुगुना दण्ड होता है ॥ २२८ ॥
गुल्मादीन्प्रत्याह-
गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृतार्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २२९ ॥
गुल्मा अनतिदीर्घनिबिडलता मालत्यादयः, गुच्छा अवल्लीरूपाः असरल-
प्रायाः कुरण्टकादयः, क्षुपाः करवीरादयः सरलप्रायाः, लता दीर्घायतिन्यो
१. पणाद्दण्डादारभ्य । २. दमो वृक्षेऽथ विश्रुते । 'दमा वृक्षं' ।
३५२ याज्ञवल्क्यस्मृतिः
द्राक्षातिमुक्ताप्रभृतयः, प्रतानाः काण्डप्ररोहरहिताः १सरलयायिन्यः सारिवाप्रभृ-
तयः, ओषध्यः फलपाकावसानाः शालिप्रभृतयः, वीरुधः छिन्ना अपि या
विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः, एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने
पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥
भाषा—गुल्म मालती जैसी ( छोटी और घनी लताएँ ), गुच्छ ( कुरण्टक
जैसी लपटाने वाली लता ), द्रुप ( करवीर जैसी सीधी लता ), द्राक्षा
जैसी बढ़ी लता, सीधी चलने वाली सारिवा आदि लताएँ, शालि आदि
ओषधियों और गुडूची आदि विरधों को पूर्वोक्त स्थानों पर काटने का दण्ड
उपरोक्त दण्ड से आधा होता है ॥ २२९ ॥
इति दण्डपारुष्यप्रकरणम् ।
अथ साहसप्रकरणम् २०
संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्तल्लक्षणं तावदाह—
सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् ।
सामान्यस्य साधारणस्य ३यथेष्टविनियोगानर्हत्वाँविशेषेण परकीयस्य द्रव्य-
स्यापहरणं साहसम् । कुतः ? प्रसभहरणात् प्रसह्य हरणात्, बलावष्टम्भेन
हरणादिति यावत् ॥ एतदुक्तं भवति—राजदण्डं जनाक्रोशं चोल्लङ्घ्य राजपुरुषे-
तरजनसमक्षं यत्किंचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहसमिति
साहस लक्षणम् । अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाण-
त्वात्साहसत्वमिति । नारदेनापि साहसस्य स्वरूपं विवृतम् (१।१४)—‘सहसा
क्रियते कर्म यत्किंचिद्बलदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥’
इति । तदिदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणेषु व्यासक्तमपि बलदर्पा-
वष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । तस्य च दण्डवै-
चित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैव विवृतम्
( १४।३-९ )—‘तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु
तस्योक्तं लक्षणं पृथक् ॥ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपोप-
मर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव
प्रकारेण मध्यमं साहसं स्मृतम् ॥ व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् ।
प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ तस्य दण्डः क्रियापेक्षः प्रथमस्य
१. शिखायायिन्यः । २. हरणं साहसं । ३. यथेष्टविनियोग ।
४. त्वाद्द्विशेषेण । ५. पाचिना भिद्यते ।
व्यवहाराध्यायः ३५३
शतावरः । मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः ॥ उत्तमे साहसे दण्डः
सहस्रावर इष्यते । वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो
दण्ड उत्तमसाहसे ॥' इति ॥ वधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ता
व्यस्ता वा योज्याः ॥
तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह—
तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २३० ॥
तस्यापहृतद्रव्यस्य मूल्यात् द्विगुणो दण्डः । यः पुनः साहसं कृत्वा
'नाहमकार्षम्' इति निह्नुते तस्य मूल्याच्चतुर्गुणो दण्डो भवति । एतस्मा-
देव विशेषदण्डविधानात्प्रथमसाहसादि सामान्यदण्डविधानमपहारव्यतिरिक्तविषयं
ज्ञायते ॥ २३० ॥
भाषा—सामान्य वस्तु के बलपूर्वक अपहरण को साहस कहते हैं।
उसके लिए उस वस्तु के मूल्य का दुगुना दण्ड होता है और अपराध
अस्वीकार करने पर उसका चौगुना दण्ड होता है ॥ २३० ॥
साहसिकस्य प्रयोजयितारं प्रत्याह—
यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवमुक्त्वाऽहं दाता कारयेत्स चतुर्गुणम् ॥ २३१ ॥
यस्तु 'साहसं कुरु' इत्येवमुक्त्वा कारयत्यसौ साहसिकाइण्डाद् द्विगुणं दण्डे
दाप्यः । यः पुनः 'अहं तुभ्यं धनं दास्यामि, त्वं कुरु' इत्येवमुक्त्वा साहसं
कारयति स चतुर्गुणं दण्डं दाप्योऽनुबन्धातिशयात् ॥ २३१ ॥
भाषा—जो व्यक्ति साहस कराता है (करने के लिए उकसाता है)
उससे साहसिक के दण्ड से दुगुना दण्ड लेना चाहिए और जो ऐसा कहे
कि तुम करो जो लगेगा वह मैं दूँगा, उससे उसके चौगुना दण्ड लेवे ॥ २३१ ॥
साहसिकविशेषं प्रत्याह—
२अर्ध्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २३२ ॥
सामन्तकुलिकादीनामपकारस्य कारकः ।
पञ्चाशतपणिको दण्ड एषामिति विनिश्चयः ॥ २३३ ॥
अर्ध्यस्यार्हंस्याचार्यादेशक्षेपमाज्ञातिक्रमं च यः करोति, यश्च भ्रातृभार्यां
ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश्च मुद्रितं गृहमुद्घाटयति
तथा स्वगृहे क्षेत्रादिसंसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां
१. कुर्वित्येवं वाचैव कारयति । २. अर्ध्याक्रोशाति ।
३५४
याज्ञवल्क्यस्मृतिः
'आदि' ग्रहणात् स्वग्राम्यस्वदेशीयानां च योऽपकर्ता, ते सर्वे पञ्चाशत्पणपरि-
मितेन दण्डेन दण्डनीयाः ॥ २३२-२३३ ॥
भाषा—आचार्य आदि अर्घ्य व्यक्तियों को आक्षेप करने वाले, भाई की
पत्नी को मारने वाले, सन्देश न कहने वाले, बन्द घर का द्वार तोड़ने वाले,
सामन्त (जिसका खेत या घर सटा हुआ हो ऐसे) और अपने कुल में
उत्पन्न व्यक्तियों का अपकार करने वाले से पचास पण का दण्ड लिया
जाता है; यह निश्चय है ॥ २३२-२३३ ॥
स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमांस्पृशेत् ॥ २३४ ॥
²शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ २३५ ॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २३६ ॥
पितृ³पुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः ।
एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥ २३७ ॥
किंच, नियोगं विना यः स्वेच्छया विधवा गच्छति, चौरादिभयाकुलै-
र्विक्रुष्टे च यः शक्तोऽपि नाभिधावति, यश्च वृथाक्रोशं करोति, यश्च चण्डालो
ब्राह्मणादीन्स्पृशति, यश्च शूद्रं ²प्रव्रजितान्दिगम्बरादीन्दैवे पित्र्ये च कर्मणि
भोजयति, यश्चायुक्तं 'मातरं ⁴गमिष्यामि' इत्येवं शपथं करोति, तथा यश्च
अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति, वृषो बलीवर्दः; क्षुद्रपशवोऽ-
जाद्यस्तेषां पुंस्त्वस्य प्रजननशक्तेर्विनाशकः, 'वृक्षक्षुद्रपशूनाम्' इति पाठे
हिंस्वाद्यौषधप्रयोगेण वृक्षादेः फलप्रसूनानां पातयिता, साधारणमपलपति
साधारणद्रव्यस्य च वञ्चकः, दासीगर्भस्य च पातयिता, ये च पित्रादयोऽ-
पतिता एव सन्तोऽन्योन्यं त्यजन्ति, ते सर्वे प्रत्येकं पणशतं दण्डार्हा
भवन्ति ॥ २३४-२३७ ॥
भाषा—बिना नियोग के अपनी इच्छा से विधवा स्त्री के साथ संभोग
करने वाला, भयातुर व्यक्ति की पुकार सुनकर शक्तिशाली होते हुए भी न
दौड़ने वाला, बिना कारण के आर्त्तनाद करने वाला, और ब्राह्मण आदि उच्च
वर्गों को छूने वाला चाण्डाल; शूद्र और संन्यासियों को देवयज्ञ एवं श्राद्ध में
भोजन देने वाला, झूठी शपथ लेने वाला, और अपने वर्ण के अयोग्य कर्म
करने वाला, बैल और बकरा आदि छोटे पशुओं को बधिया करने वाला,
१. न्स्पृशन् । २. शूद्रः प्रव्रजितानां ३. पितापुत्र । ४. ग्रहीष्यामीत्येवं ।