सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८३
दमनी चेत्यष्टौ शक्तयः। ततस्तस्यैव दलेषु तेनैव क्रमेण वामदेवः,
ज्येष्ठः, रुद्रः, कालः, कलाविकरणः, बलः, बलप्रमथनः, सर्वभूतदम-
नश्चेत्यष्टौ रुद्राः स्थाप्याः। इदं च वामादिमिथुनाष्टकं प्रथमावर-
णं शिवस्य। एवमग्रेऽपि प्रागादिक्रम एव द्रष्टव्यः। ततो नाभिवी-
थ्यनन्तरबाह्यषोडशव्यूहमध्यमकोष्ठेषु सुभद्रादिकाः शिवस्य द्वि-
तीयावरणदेवताः स्थाप्याः। तत्र पूर्वे सुभद्रा, आग्नेये भद्रा, द-
क्षिणे कनका, नैर्ऋते अम्बिका, पश्चिमे श्रीदेवी, वायव्ये वागीशा,
उत्तरे गोमुखी, ऐशाने भद्रकर्णी, पूर्वाग्नेयमध्ये अणिमा, आग्नेय-
दक्षिणमध्ये लघिमा, दक्षिणनैर्ऋत्यमध्ये महिमा, नैर्ऋत्यपश्चि-
ममध्ये प्राप्तिः, पश्चिमवायव्यमध्ये प्राकाम्यं, वायव्योत्तरमध्ये
ऐश्वर्यम्, उत्तरेशानमध्ये वशित्वं, पूर्वेशानमध्ये कामावसायिका।
पिशाचवीथ्यनन्तरबाह्यचतुर्विंशतिव्यूहमध्यमकोष्ठेषु प्रागादिक्र-
मेण दाक्षाद्याः शिवस्य तृतीयावरणदेवताः स्थाप्याः। ता यथा-
दक्षा, दक्षायिका, चण्डा, चण्डायिका, हरा, हरायिका, शौ-
ण्डा, शौण्डायिका, प्रथमा, प्रथमायिका, मन्मथा, मन्म-
थायिका, भीमा, भीमायिका, शकुनी, शकुनायिका, सुमती,
सुमत्यायिका, गोपा, गोपायिका, नन्दा, नन्दायिका, पितामही,
पितामहायिका २४ । ततः सुभद्रादिशिवद्वितीयावरणदेवतानां
प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टबाह्यषोडशकोष्ठेषु स्था-
प्याः । ता यथा-बिन्दुका, बिन्दुगर्भा, नादिनी, नादगर्भजा,
शक्तिका, शक्तिगर्भा, परा, परापरा, सुभद्राप्रथमावरणम्१। चण्डा,
चण्डमुखी, चण्डवेगा, मनोजवा, चण्डाक्षी, चण्डनिर्घोषा, भ्रुकुटी,
चण्डनायिका, महोत्सवा, मनोध्यक्षा, मानसी, माननायिका,
मनोहारी, मनोह्लादी, मनःप्रीतिः, मनेश्वरी १६ सुभद्राद्विती-
यावरणम् १। ऐन्द्री, हौताशनी, याम्या, नैर्ऋती, वारुणी, वाय-

३८४ वीरमित्रोदयस्थ राजनीतिप्रकाशे
व्या, कौबेरी, ऐशानी ८। भद्राप्रथमाप्र० २। हरिणी, सुवर्णा, काञ्च-
नी, हाटकी, रुक्मिणी, वामनास्या सुभगा, जम्बुनायिका, वाग्भवा,
वाक्पथा, वाणी, भीमा, चित्ररथा, सुधीः, वेदमाता, हिरण्याक्षी,
१६ भद्राद्वि० २। वज्रं, शक्तिः, दण्डः, खड्गः, पाशः, ध्वजः, गदा,
त्रिशूलम् ८ कनकाप्र० ३। बुद्धा, प्रबुद्धा, चण्डा, मुण्डा, बलिनी,
कपालिनी, मृत्युहन्त्री, विरूपाक्षी, कपर्दी, कमलासना, दंष्ट्रि-
णी, रङ्गिणी, लम्बाक्षी, कङ्कभूषणी, सम्भावा, भाविनी १६।
कनकाद्वि० ३। खेचरी, आत्मनामा, भवानी, वह्निरूपिणी,
बलिनी, वह्निनामा, महिमा, अमृतलालसा ८ अम्बिकाप्र०४।
शङ्खिनी, शिखरा देवी, मृदुरवा, सुशीतला, छाया, भूतपनी,
धन्या, इन्द्रमाता, वैष्णवी, तृष्णा, रागवती, मोहा, कामकोपा,
मदोत्कटा, इन्द्रा, बधिरा १६ अम्बिकाद्वि०४। स्पर्शः, रसः, गन्धः,
प्राणः, अपानः, समानः, उदानः, व्यानः ८ श्रीदेवीप्र० ५। तमोहता,
प्रभा, अमोघा, तेजनी, दहनी, भीमास्या, ज्वालिनी, शोषा,
शोषिणी, रुद्रनायिका, वीरभद्रा, गणाध्यक्षा, चन्द्रहासा, गहरा,
गणमाता, अम्बिका १६ श्रीदेवीद्वि० ५। धारा, वारिधरा, वाहिकी,
वायसी, मर्त्यातीता, महामाया, वज्रिणी, कामधेनुका ८ वागी-
शाप्र०६। पयोष्णी, वारुणी शान्ता, जयन्ती, वरप्रदा, प्लाविनी,
जलमाता, पयोमाता, महाम्बिका, रक्ता, कराली, चण्डाक्षी,
महोच्छुष्मा पयस्विनी, महाविद्येश्वरी, काली, कालिका १६ वा-
गीशाद्वि० ६। शङ्खिनी, ललिता, लम्बकर्णी, कालिकनी, यक्षिणी, मा-
लिनी, वामनी, वरमानिनी ८ गोमुखीप्र०७। चण्डा, घण्टा, महानादा
सुमुखी, दुर्मुखी, बला, रेवती, प्रथमा, घोरा, सौम्या, भीमा,
महाबला, जया, विजया, अजिता, अपराजिता १६ गोमुखी
द्वि० ७। महाघण्टा विरूपाक्षी शङ्खाक्षी काममातृका, संहारी,

४. चतुर्थ प्रकाश: विजय-प्राप्ति पर विजित-राष्ट्र धर्म, शान्ति-रक्षा व ग्रन्थ उपसंहार

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८५

जातहारी, दंष्ट्राली, शुष्करेवती ८ भद्रकर्णीप्र०। पिपीलिका, पुष्प-
हारी, अशनी, सर्वहारिणी, भद्रहारी, शुभाचारी, हेमा, योगेश्वरी,
चित्रा, भानुमती, छिद्रा, सैंहिकी, सुरभी, समा, सर्वभव्या,
वेगाख्या १६ भद्रकर्णीद्वि० ८। ऐन्द्री, चित्रभानुः, वारुणी,
दाण्डिः, प्राणरूपी, हंसः, स्वात्मशक्तिः, पितामहः ८ अणिमाप्र० ।
केशवः, रुद्रः, चन्द्रमाः, भास्करः, बाह्यात्मा, अन्तरात्मा, आत्मा,
महेश्वरः, परमात्मा, अणुजीवः, पिङ्गलः, पुरुषः, पशुः, भोक्ता,
भूतपतिः, भीमः १६। अणिमाद्वि० ९। श्रीकण्ठः, अन्तः, सूक्ष्मः,
त्रिमूर्तिः, शशकः, अमरेशः, स्थितीशः, भारभूतः ८ लघिमाप्र०।
स्थाणुः, हरः, चण्डेशः, भूतीशः, सद्योजातः, गुहेशः, क्रूर-
सेनः, सुरेश्वरः, क्रोधीशः, चण्डः, प्रचण्डः, शिवः, एकरुद्रः,
कूर्मः, एकनेत्रः, चतुर्मुखः १६ लघिमाद्वि० १०। अजेशः, क्षेमरुद्रः,
सोमेशः, लाङ्गली, चण्डारुः, अर्धनारीशः, एकान्तः, अन्तः ८ म-
हिमाप्र०। शिखीशः, शकलः, चण्डः, दिरण्डः, कलः, पाली, भुजङ्गः,
पिनाकी, खड्गिः, कामः, ईशः, श्वेतः, भृगुः, महिमाद्वि० ११। संवर्त्तः,
नकुलीशः, वाडवः, हस्तिः, चण्डयक्षः, गणपतिः, महाभृगुः,
अजः ८ प्राप्तिप्र० । त्रिविक्रमः, महाजिह्वः, ध्वाङ्क्षः, श्रीभद्रः,
महादेवः, दधीचः, कुमारः, परावरः, महादंष्ट्रः, करालः,
सूचकः, सुवर्धनः, महाध्वाङ्क्षः, महानन्दी, गण्डी, गोपालकः
१६ प्राप्तिद्वि० १२। पुष्पदन्तः, महानन्दः, विपुलानन्दकारकः,
शुक्लः, विशालः, कमलः, बिल्वः, अरुणः ८ प्राकाम्यप्र० ।
रतिमित्रः, सुरेशनः, चित्राङ्गः, सुदुर्जयः, विनायकः, क्षेत्रपालः,
महामोहः, जाङ्गलः, वत्सपुत्रः, महापुत्रः, ग्रामाधिपः, देशाधिपः,
सर्वस्थानाधिपः, मेघनादः, प्रचण्डकः, कालदूतः १६ प्राका-
म्यद्वि० १३। मङ्गला, चर्चिका, योगेशा, हरदायिका, भासुरा,
४९

३८६ वीरमित्रोदयस्य राजनीतिप्रकाशे
सुरमाता, सुन्दरी, मातृका ८। ईशित्वप्र० । गणाधिपः, मन्त्रज्ञः,
वरदेवः, षडाननः, विदग्धः, विचित्रः, अमोघः, मोघः, अश्वः, रुद्रः,
सोमेशः, उत्तमोदुम्बरः, नारसिंहः, विजयः, इन्द्रगुहः, अपाम्प-
तिः १६ ईशित्वद्वि० १४। गगनः, भवनः, विजयः, अजयः, महाजयः
अङ्गारः, व्यङ्गारः, महायशाः ८ वशित्वप्र० । महाहर्षः, प्रचण्डेशः,
महावर्णः, महासुरः, महारोमा, महागर्भः, प्रथमः, कनकः,
खरजः, गरुडः, मेघनादः, गर्जकः, गजत्वक्छेदकः, वाहः, त्रिशिखः,
मारिः १६ वशित्वद्वि० १५। विनादः, विकटः, वसन्तः, अ-
भयः, विद्युत्, महाबलः, कमलः, दमनः ८ कामावसायिका-
काप्र० । धर्मः, अतिबलः, सर्पः, महाकायः, महाहनुः,
सबलः, भस्माङ्गी, दुर्जयः, दुरातिक्रमः, वेतालः, रौ-
रवः, दुर्धराभोगः, वज्रः, कालाग्निरुद्रः, सिंहनादः, महागु-
हः १६ कामावसायिकाद्वि० १६। ततो दाक्षादिशिवतृतीयाव-
रणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टतद्वाह्यषो-
डशकोष्ठेषु स्थाप्याः । ता यथा-मनोहरा, महानादा, चित्रा,
चित्ररथा, रोहिणी, चित्राङ्गी, चित्ररेखा, विचित्रिका ८ दाक्षा-
प्र० चित्रा, विचित्ररूपा, शुभदा, कामदा, शुभा, क्रूरा, पिङ्ग-
लादेवी, खङ्गिका, लम्बिका, सती, दंष्ट्राली, राक्षसी, ध्वंसी,
लोलुपा, लोहितामुखी १६ दाक्षाद्वि० १। सर्वाशिनी, विश्वरूपा,
लम्पटा, आमिषप्रिया, लम्बोष्ठी, दीर्घदंष्ट्रा, लम्बजानुः,
प्रहारिणी ८ दाक्षायिकाप्र० । गजकर्णा, अश्वकर्णा, महाकाळी,
सुभीषणा, वातवेगरवा, घोरा, घना, घनरवा, घोरघोषा,
महाघण्टा, सुघण्टा, घण्टिका, घण्टेश्वरी, महघोरा, अ-
घोरा, अतिघोरिका १६ दाक्षायिकाद्वि०२ । अतिघण्टा, अति-
घोरा, कराला, करभा, विभूतिः, भोगदा, कान्तिः, शङ्खि-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८७

नी८ चण्डाप्र०। पत्रिणी, गान्धारी, योगमाता, सुपीवरा, उत्तालका,
उन्मुक्ता, वीरा, संहारी, रमणी, फलहारी, जीवहारी, स्वेच्छा-
हारी, तुण्डिका, रेवती, रोहिणी, सङ्गा १६ चण्डाद्वि० ३। च-
ण्डी, चण्डमुखी, चण्डा, चण्डवेगा, महारवा, भ्रुकुटी, चण्ड-
रूपा, चण्डभ्रूः ८ चण्डायिकाप्र० । चण्डघ्राणा, चला, चलजिह्वा,
चलेश्वरी, चलवेगा, महाकाया, महामाया, विद्युता, कङ्काली,
कृशाङ्गी, किंशुका, चण्डघोषिका, महाहासा, महारावा, चण्डभा,
अनङ्गचण्डिका १६ चण्डायिकाद्वि० ४। चण्डाक्षी, कामदा, शू-
करा, कुक्कुटानना, गान्धारी, दुन्दुभिः, दुर्गा, सौमित्रा, ८
हराप्र० । अमृतोद्भवा, महालक्ष्मीः, वर्णदा, जीवरक्षिणी,
हरिणी, क्षीणजीवा, चन्द्रवक्त्रा, चतुर्भुजा, व्योमचारी, व्योमरू-
पा, व्योमव्यापी, शुभोदया, गृहचारी, सुचारी, विषाहारी,
विषान्तिका १६ हराद्वि०५। जम्भा, अच्युता, कङ्कारी, देविका,
दुर्धरा, वहा, चाण्डिका, चपला ८ हरायिकाप्र० । चण्डिका,
चामरी, भण्डिका, शुभानना, पिण्डिनी, मुण्डिनी, मुण्डा, शाकिनी,
शार्ङ्गरी, कर्तरी, हर्चरी, भामिनी, यज्ञदायिनी, यमदंष्ट्रा,
महादंष्ट्रा, कराला १६ हरायिकाद्वि० ६ । विकराली,
कराली, कालजङ्घा, यशस्विनी, वेगा, वेगवती, विद्या, वे-
दाङ्गा,८ शौण्डाप्र०। वज्रा, शङ्खवती, शङ्खा, अबला, एकबला,
बला, अतिबला, लोला, कुम्भिनी, स्तम्भिनी, अञ्जनी, मोहि-
नी, माया, विकटाक्षी, नली, कल्लोला १६ शौण्डाद्वि० ७।
दन्तुरा, रौद्रभागा, अमृता, सुकुला, चलजिह्वा, अर्धनेत्रा,
रूपिणी, दारिका ८शौण्डायिकाप्र०। खादका, रूपनाशा, सं-
हारी, अक्षया, अन्तका, कण्डनी, पेषणी, महाग्रामा, कृ-
तान्तिका, दण्डिनी, किङ्करी, विम्बा, वर्णिनी, अमलाङ्गिनी,

विद्राणी, द्राविणी, १६ शौण्डायिकाद्वि० ८। प्लवनी, प्लावनी,
शोभा, मन्दा, मदोत्कटा, मदा, क्षया, महादेवी ८ प्रमथाप्र०।
कामसन्दीपनी, अतिरूपा, मनोहरा, महावशा, मदग्राहा, विह्वला,
मदविह्वला, अरुणा, घोषणी, दिव्या, रेवती, भाण्डनायिका,
स्तम्भनी, घोररक्ताक्षी, घोररूपा, सुघोषणा १६ प्रमथाद्वि० ९।
घोरा, घोरतरा, अघोरा, अतिघोरा, अघनायिका, धावनी,
क्रोष्टुकी, मुण्डा ८ प्रमथायीप्र० । भीमा, भीमतरा, अभीमा,
शस्त्री, सुवर्चला, स्तम्भनी, मोहनी, रौद्री, रुद्रवती, अचला-
चला, महाबला, महाशान्तिः, शिवाशीला, शिवाशिवा, बृ-
हत्कुक्षी, महानासा १६ प्रमथायीद्वि० १०। कालकर्णी, कराला,
कल्याणी, कपिला, शिवा, इष्टिः, तुष्टिः, प्रतिष्ठा ८ मन्मथाप्र०।
शान्तिः, तुष्टिकरी, पुष्टिः, जया, श्रुतिः, धृतिः, कामदा, शुभदा,
सौम्या, तेजनी, कामतन्त्रिका, धार्मिकी, धर्मिणी, शीला,
पापहा, धर्मवर्धनी १६ । मन्मथाद्वि ११ । धर्मरक्षा, निवाता,
धर्मा, धर्मवती, सुमतिः, दुर्मतिः, मेधा, विमला ८ मन्मथायिका-
प्र० । शुद्धिः, बुद्धिः, मतिः, कान्तिः, वर्तुला, मोहवर्धनी, बला,
अतिबला, भीमा, प्राणवृद्धिकरी, निर्लज्जा, निर्गुणा, मन्दा,
सर्वपापक्षयङ्करी, कपिला, अतिविधुरा १६ मन्मथायिकाद्वि० १२।
रक्ता, विरक्ता, उद्वेगा, शोकवर्धनी, कामा, तृष्णा, क्षुधा, मो-
हा ८ भीमाप्र० । जया, निद्रा, अभया, आलस्या, सुतृष्णा,
रोदनी, दरा, कृष्णाकृष्णाङ्गिनी, वृद्धा, अशुद्धोच्छिष्टाशनी,
तृषा, कामदा, भोगिनी, दग्धा, दुःखदा, सुखदा १६ भीमा-
माद्वि० १६ । आनन्दा, सुनन्दा, महानन्दा, शुभङ्करी, वीत-
रागा, महोत्साहा, जितरागा, मनोरमा ८ भीमायिकाप्र०। मनो-
न्मनी, मनःक्षोभा, मदा, उन्मादा, मदाकुला, मदोद्गर्भा,

यात्राप्रकरणे लिङ्गोद्धारगोक्तजवाभिषेकप्रयोगः । ३८९
यद्भागमा, कानानन्दा, सुविद्वला, महावेगा, सुवेगा, महाभोगा,
क्षयावहा, क्षामणी, क्षापणी, चक्रा १६ भीमायिकाद्वि० १४।
योगावेगा, सुवेगा, अतिवेगा, सुवासिनी, देवी, मनोरथावेगा,
रुद्रावर्त्तवनी, मतिः ८ शकुनान०। रोधनी, क्षोभनी, बाला, अ-
तिकोपा, सुत्रोधिणी, विद्युता, त्रासिनी, मनोवेगा, सुचाप-
ला, विद्युज्जिह्वा, महाजिह्वा, भुकुटीकुटिलानना, स्फुरज्जवा-
ला, महाज्वाला, सुज्वाला, क्षयान्तिका १६ शकुनाद्वि० १५।
ज्वालिनी, भस्माङ्गी, भस्मान्तका, अन्तका, भाविनी, प्रजा,
विद्या, ख्यातिः ८ शकुनायिकाप्र० । उल्लेखा, पताका, भोगा,
भोगवती, खगा, योगध्रता, योगमाता, योगारूपा, योगपारगा,
ऋद्धिः, बुद्धिः, धृतिः, कान्तिः, स्मृतिः, साक्षाच्छ्रुतिः, धरा १६
शकुनायिकाद्वि० १६। परेष्टा, परादित्या, अमृता, फल-
नाशिनी, हिरण्याक्षी, सुवर्णाक्षी, कपिञ्जला, कामरेखा ८
सुमतीप्र० । रत्नदीपा, वसुदीपा, रत्नदा, रत्नमालिनी,
रत्नशोभा, सुशोभा, महाशोभा, महाद्युतिः, शवरी, शाम्बरी,
ग्रन्थिपादा, ग्रन्थिकरर्णा, ग्रन्थिकगनना, हयग्रीवा, हयजिह्वा
सर्वग्रासा १६ सुमतीद्वि० १७। सर्वाशी महाभक्षा, महादंष्ट्रा,
अतिरौरवा, स्फुलिङ्गा, विस्फुलिङ्गा, कृतान्ता, भास्करानना, ८
सुमत्य्यायिकाप्र० । रागा, रागवती, क्रोधा, महाक्रोधा, रौरवा,
क्रोथनी, मर्दनी, कलहा, कलहावती, कलान्तिका, चतुर्भेदा,
दुर्गा, दुर्गमानगा, नाली, कुनाली, सौम्या, १६ सुमत्य्यायि-
काद्वि० १८। पाटली, पाटवी, पाटी, विटिपिटा, कङ्कटा, सुघटा,
प्रघटा, घटोद्भवा ८ गोपाप्र० । नादाक्षी, नादरूपा, सर्वाकारा,
सर्वांगमा, सर्वगमा, अग्रचारी, सुचारी, चण्डनाडी, सुवाहिनी,
सुयोगा, वियोगा, हंसाक्षी, विलासिनी, सर्वगा, सुविरावा,

३९० वीरमित्रोदयस्य राजनीतिप्रकाशे
बन्धनी १६ गोपाद्वि०१९। भेदिनी, छेदिनी, सर्वकारी, क्षुधाशनी,
उच्छुष्मा, गान्धारी, भस्माशी, वडवानला ८ गोपायिकाम०। अ-
न्ववज्वालिनी, ज्वाला, दीपा, क्षामा, अन्तरिक्षा, हृल्लेखा, हृद्र-
मा, मायिकापरा, आमयासादिनी, भिल्ली, सह्यासह्या, सरस्वती,
रुद्रशक्तिः, महाशक्तिः, महामोहा, रोदिनी १६ गोपायिका-
द्वि० २०। नन्दिनी, निवृत्तिः, प्रतिष्ठा, विद्यानाशी, खग्रसिनी,
चामुण्डा, प्रियदर्शिनी ८ नन्दाप्र० । गुह्या, नारायणी, मोहा,
प्रज्ञा, वज्रिणी, कङ्कटा, काली, शिवा, घोषा, वीरा, माया,
कामेशी, वाहिनी, भीषणा, स्वर्गा, माला १६ नन्दाद्वि० २१।
विनायकी, पूर्णिमा, रङ्गिणी, कूर्दनी, इच्छा, कपालिनी, दीप-
नी, जयन्तिका ८ नन्दायिकाप्र० । पावनी, अम्बिका, सर्वाशा,
पूतना, छागली मोदिनी, लम्बोदरी, संहारी, कालिनी, कुसुमा,
शुक्रा, तारा, ज्ञाना, क्रिया, गायत्रिका, सावित्री १६ नन्दायि-
काद्वि० २२। दन्तुरी, फेत्कारी, क्रोधहंसा, पडङ्कुला, आनन्दा,
सुदुर्गा, संहारी, अमृता८पितामहीप्र० । कुलान्तिका, अनला,
प्रचण्डा, मर्दिनी, शुभा, सर्वभूताभया, वडवामुखी, लम्पटा,
पन्नगा, कुसुमा, विपुलान्तिका, केदारा, कूर्मा, दुरिता, मन्द-
रोदरी, खड्गचण्डा १६ पितामहीद्वि० २३ । वज्रा, मन्मथा,
चोरा, विकारा, रिपुभेदिनी, रूपा, चतुर्भुजा, योगा, ८
पितामहायिकाम० । भूताभया, महाबाला, खर्परा, भस्मा,
कान्ता, सृष्टिः, द्विभुजा, ब्रह्मरूपिणी, सद्यःफेत्कारिका, कर्ण-
मोटी, महामोहा, महामाया, गान्धारी, पुष्पमालिनी, शब्दायी,
सुमहाघोषा १६ पितामहायिकाद्वितीयावरणमिति २४। एवं
सर्वा देवताः प्रतिष्ठाप्य शिवमनोन्मनीमनोन्मनदेवानां पूर्वो-
क्तमन्त्रैरन्यासां नाममन्त्रैरावाहनपूर्वोक्तध्यानपूर्वकं षोडशो-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः। ३९१
पचारैः छत्रचामरादर्शादिराजोपचारैश्च यथाविभवं स्थापन-
क्रमेण काण्डानुसमयेन पदार्थांनुसमयेन वा यथाशक्ति पूजनं
कृत्वा सपत्नीकयजमानसहितः पुष्पाञ्जलिं दत्त्वा नमोऽन्तै-
र्नाममन्त्रैः प्रत्येकं पायसबलिं च दत्त्वा दण्डवत्प्रणमेदाचा-
र्यः । अस्मिन्नेव च समये कैश्चित्सहायैः सहितः पुरोहितो
रुद्रक्षेत्रे तदभावे रुद्राभिषेकार्थमेव कृते प्रतिष्ठापितमण्डपदेवते
मण्डपे बाणलिङ्गमूर्तिं महादेवं लिङ्गपुराणगतेन विष्णुप्रोक्तेन
भवादिशिवनामसहस्रेण यथाविभवं सम्पूज्य सपत्नीकयजमा-
नसहितः पुष्पाञ्जलिं दत्त्वा क्षीरेण दध्ना पञ्चगव्येन वा
पूरितं ताम्रमयं मृन्मयं वा कलशसहस्रं पूर्वोक्तविधिना तदग्रे
स्थापयित्वा सर्वेषु कलशेषु ब्रह्मकूर्चान्निक्षिप्य तत्कलशस्थितक्षी-
रादिना ब्रह्मकूर्चैस्तमेव महादेवं रुद्राध्यायं पठन्नभिषेचये-
त् । ततो महादेवस्यानुज्ञया तदभिषेकावशिष्टेन क्षीरादिना
“ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः शर्वस-
र्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः” इत्यघोरमन्त्रेण, “त्र्यम्बकं यजा-
महे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमा-
मृतात्” इति त्र्यम्बकमन्त्रेण वा राजानमभिषिञ्चेत्पुरोहित एव ।
अघोरमन्त्रस्य सांहितीर्देवता उपनिषद ऋषयः रुद्रो देवता स्वरा-
डनुटुप्छन्दः राज्ञोऽभिषेके विनियोगः । त्र्यम्बकमन्त्रस्य वसिष्ठ
ऋषिर्मृत्युञ्जयरुद्रो देवताऽनुष्टुप् छन्दः । विनियोगः स एव ।
ततः प्रधानमण्डपे पूर्वाग्नेयादिदिग्विदिग्गतेष्वष्टसु कुण्डेषु स्थण्डि-
लेषु वा ब्रह्मसहिता होतारोऽष्टौ पूर्वेशान्यन्तरालगते कुण्डे स्थ-
ण्डिले वा आचार्यो नृप एव पुरोहितो वा ब्रह्मसहितो यथास्वगृह्य-
मग्निप्रतिष्ठादिप्रधानहोमप्राचीनमङ्गकाण्डं कृत्वा प्रधानहोमसमये
अघोरमन्त्रेण त्र्यम्बकमन्त्रेण वा घृतपलाशसमिदाज्यचरुलाजशा-

३९२ वीरमित्रोदयस्य राजनीतिप्रकाशे
लिनीवारतण्डुलैः प्रतिद्रव्यमष्टोत्तरसहस्रमष्टोत्तरशतं वाऽऽहुती-
र्जुहुयुः। मन्त्रगोत्रऋषिदेवताच्छन्दांस्युक्तान्येव। जयाभिषेकाङ्गहोमे
विनियोग इति विशेषः । अन्ते च स्वाहाकारः । एवं सर्वत्र ।
तत्र याम्ये होत्रा कृष्णवाससा भवितव्यम् । तत्तद्वेदशाखाग-
तान्यभिमुखानि तुलादानादिप्रयोगेषु द्रष्टव्यानि विस्तरभयान्नो-
च्यते । होमसमये द्वारजापकजप्यानि तत्तद्वेदगतानि शान्ति-
सूक्तान्यपि तत्रैव द्रष्टव्यानि । यद्वा प्रतिकुण्डं भिन्नभिन्नाः प्र-
धानहोममन्त्राः । यथा- “ॐतत्पुरुषाय विद्महे महादेवाय धीम-
हि । तन्नो रुद्रः प्रचोदयात्” इतिपुरुषमन्त्रः प्राक्कुण्डे । अस्य
सांहितीर्देवता उपनिषद ऋषयः, रुद्रो देवता, गायत्रीछन्दः, विनि-
योगः प्राग्वत् । एवमग्रेऽपि । “ॐजातवेदसे सुनवामसोममराती-
यतो निदहाति वेदः । स नः पर्षदतिदुर्गाणि विश्वा नावेव
सिन्धुं दुरितात्यग्निः” इत्याग्नेये “रुद्रो वा एष यदग्निः” इति श्रुतेश्च
रौद्रो मन्त्रः । अस्य काश्यपो जातवेदा अग्नित्रिष्टुप् ।
अघोरेभ्य इत्याद्यघोरमन्त्रः प्रागुक्त एव दक्षिणे । “ॐनिशि
निशि जय स्वाहा खड्गराक्षसभेदन। रुधिराज्यार्द्रनिर्ऋत्यै स्वाहा
नमः स्वधा नमः” इति पौराणो नैर्ऋतो मन्त्रो नैर्ऋत्ये ।
“ॐ नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने।
रुद्राय कालरूपाय कलाविकरणाय च ॥
बलाय बलप्रमथनाय सर्वभूतदमनाय च ।
मनोन्मनाय देवाय मनोन्मन्यै नमोनमः ॥”
इतिमन्त्रः पौराणः पश्चिमे । ॐसमीर समीर
स्वाहा स्वधा नमो नमः” इति पौराणो मन्त्रो वायव्ये ।
“ॐसद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे
नातिभवे भवस्व मां भवोद्भवाय नमः” इति मन्त्र उत्तरे ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९३
अस्य सांहिती देवता उपनिषदो रुद्रो बृहती । "ॐईशानाय कद्रु-
द्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय । तन्नो रुद्रः प्रचोदयात्"
इत्यैशान्ये । अस्य अघोरः कण्वो रुद्रो गायत्री । "ॐईशानः सर्व
विद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा
शिवो मे अस्तु सदा शिवोम्"इति पूर्वैशान्यन्तरालगते प्रधानकुण्डे।
अस्य सांहिती देवता उपनिषदो रुद्रो गायत्री । एवं प्रधानहोमं
कृत्वा स्वाहान्तैर्नामभिः प्रत्येकमाज्येनैकैकामाज्याहुतिं स्वकुण्डे
जुहुयादाचार्यः पूर्वोक्तमण्डलदेवताभ्यः । ततः स्विष्टकृदादि ।
अघोरमन्त्रेण प्रायश्चित्ताहुतिपुरःसरं सर्वे पूर्णाहुतिप्राचीनमु-
त्तराङ्गकाण्डं कृत्वा राज्ञा दिक्पालादिभ्यो बलिदाने कृते स-
र्वैरवशिष्टैर्होमद्रव्यैः पुनः राजानम् अघोरमन्त्रेण त्र्यम्बकम-
न्त्रेण वाभिषिञ्चेयुः । ततोऽभिषिक्तेन राज्ञा यथास्वगृह्यं पुण्या-
हवाचने कृते, त्र्यम्बकमन्त्रेण हेममयं मृणालयुक्तं कौतुकं रा-
ज्ञो दक्षिणकरे बध्नीयादाचार्यः । ततस्तत्रैव महामण्डपे राजा-
नमधिवासयेत् । राज्ञा च मूत्रोत्सर्गाद्यावश्यकवर्जं तत्रैवाधि-
वस्तव्यम् । ऋत्विग्भ्यश्चाधिवासनदक्षिणा यथाशक्ति देया ।
गीतवादित्रपुराणादिभिश्च तस्यां रात्रौ जागरणं कार्यम् ।
उपोषणं च तद्दिने सर्वेषाम् । अशक्तस्य हविष्याशनम् । ततोऽप-
रेद्युः प्रातरुत्थाय नित्यकर्म कृत्वा सर्वे स्वस्वकुण्डे यथाशा-
खं पूर्णाहुतिं जुहुयुः । अथाचार्यः पुरोहितर्त्विगादिसहितः
प्रधानमण्डपादुत्तरतः कृते द्वारदेशात्पदमात्रे निखातैः प्रागादि-
क्रमेण पलाशोदुम्बराश्वत्थवटमयैस्तोरणैर्युक्ते दशहस्ते राजा-
भिषेकमण्डपे तोरणेषु हेमकुम्भान्निधाय दिग्गजाष्टकं चावा-
ह्य सर्वतो दर्भमाला आबध्य द्वारदेशे कुम्भान् संस्थाप्य
द्वारादिप्रदेशेषु इक्षुस्तवराजनिष्पावाजाजिधान्यकविकारव-
५०

३९४ वीरमित्रोदयस्य राजनीतिप्रकाशे
द्रोक्षीरकुसुम्भपुष्पलवणारूयान्यष्टमङ्गलद्रव्याणि प्रकीर्य सा-
धारणविधया च मण्डपप्रतिष्ठां कृत्वा तन्मध्यस्थायां रचि-
तस्वस्तिकादिमण्डलायामास्तृतदर्भायां विकीर्णाष्टमङ्गलद्रव्या-
यां वेद्यां सुवर्णरूप्यताम्रान्यतरमयं क्षीरिवृक्षजं वा माण्ड-
लिकानन्तरजिन्महाराजानां क्रमेणैकसपादसार्द्धहस्तोच्छाया-
मं भद्रासनं संस्थाप्य तदुपरि परिहितनववस्त्रं सायुधमलङ्कृतं
शुद्धभस्मोद्धूलितसर्वाङ्गं राजानमुपवेश्य तद्वामतस्तत्पत्नीं
चोपवेश्य “तन्महेशाय विद्महे वाग्विश्शुद्धाय धीमहि । तन्नः
शिवः प्रचोदयात् ॥” इतिशिवगायन्या शिवकुम्भेनाभिषिच्य
पूर्वोक्तया गौरीगायत्र्या वर्धन्या चाभिषिच्य शेषकलशैः स्था-
पनक्रमेण रुद्राध्यायं पठन्नभिषिञ्चेत्, अघोरमन्त्रेण वा ।
तदा च प्रतिकलशं तदावृत्तिः । अभिषेकश्च कलशनिहितान्
कूर्चान् कलशमुखेष्वानीय तद्द्वारा राजमूर्धनि यथोदकं पत-
ति तथा कार्यः, कूर्चैः प्रोक्षणं वा । तदा चेतरेऽपि ब्राह्मणाः
स्वस्वशाखागतान् “सुरास्त्वामभिषिञ्चन्तु” इत्यादिपौराणांश्चा-
भिषेकमन्त्रान् पठेयुः । शङ्खभेर्यादिनानावाद्यशब्दश्च विधेयः ।
मन्त्र्यादयो राजसेवकाः पौरादयश्च जयादिशब्दै राजानं
वर्धयेयुः । ततः कलशान्तर्गतपिष्टौषधिलेपपूर्वकं राजा शुद्धो-
दकेन स्नात्वा क्षौमे वाससी परिधाय धृतप्रभूतशुक्लमणिख-
चितमुकुटादिदिव्यभूषणनृपचिह्न आचार्यादिभिः प्रणीता-
निनयनादौ कर्मशेषे समापिते यथाचारं भस्मधारणं कुर्या-
त् । नृपचिह्नानि च नत्रोपकल्पितानि शिविकावैजयन्ती-
चन्द्रसमप्रभच्छत्रशङ्खचामरभेर्यादीन्युत्तमानि भूषणानि च प्र-
भूतान्याचार्यो राज्ञे दद्यात् । ततः कृतजयाभिषेकप्रतिष्ठा-
सिद्ध्यर्थम् अष्टषष्टिपलहेपनिर्मितं नवरत्नालङ्कृतं सुदृढमं

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९५
दशधेनुशतानि सुशोभनं क्षेत्रं प्रत्येकं शतद्रोणमितांस्तिलांस्त-
ण्डुलांश्च सोपधानतूलिकाद्युपस्करां शय्याम् अश्वादिवाहनं
रथादियानं च आचार्यायामुकशर्मणे दक्षिणामहं सम्प्रददे
न ममेति गुरवे दक्षिणां दद्यात् । परिमाणतो मूल्यतश्चैतदर्धमि-
तानि तुरङ्गादीनि मिलितेभ्यः सर्वेभ्यो होतृभ्यस्तथैव त-
दर्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यस्तदर्धमितानि
ब्रह्मभ्यो गुरुवदेव दद्यात् । सर्वे च स्वस्त्युक्तिकामस्तुत्यादिपूर्वकं
प्रतिगृह्णीयुः । पुरोहिताय च जयाभिषेकाङ्गभूतरुद्राभिषेकप्रति-
ष्ठासिद्ध्यर्थं यथाशक्ति सुवर्णादूर्ध्वं हिरण्यं दक्षिणां दद्यात् ।
रुद्राभिषेकोपस्करं च बाणलिङ्गकलशमण्डपादिकं प्रतिपादयेत् ।
तत इतरसहायभूतब्राह्मणेभ्योऽपि यथाशक्ति सुवर्णं दक्षिणां द-
दद्यात् । दीनानाथादिभ्यश्च यथाशक्ति भूयसीम् । ब्राह्मणभोजनं
च सहस्रावरं यथाशक्ति सङ्कल्पयेत् । ततः स्थापितदेवताना-
मुत्तरपूजां कृत्वा सर्वाः प्रतिमाः कलशादिसर्वोपस्करयुताः
सोपस्करं च मण्डपद्वयमाचार्यहस्ते प्रतिपादयेत् । होमोपक-
रणानि स्रुगाज्यचरुस्थाल्यादीनि तत्तद्धोतृहस्ते, हविःशेषांश्च
तत्तद्ब्रह्महस्ते प्रतिपादयेत् । ततस्तत्तत्कुण्डस्थितानग्नीन् य-
थाविभवं गन्धादिदक्षिणान्तोपचारैः सम्पूज्य नमस्कृत्य
सर्वान् प्रदक्षिणीकृत्य "गच्छ गच्छ सुरश्रेष्ठ" इति सर्वान् वि-
सर्जयेत् । तत आचार्यादिभिः कर्मणः सम्पूर्णतामच्छिद्रतां च
वाचयित्वा राजा आचार्यादिसहितो महादेवस्य महतीं पूजां
यथाविभवं महता सम्भारेण रुद्रमन्त्रेण कृत्वा "यस्य स्मृत्या च"
इत्याद्युक्त्वा सकलस्वकीयसुहृन्मन्त्रिपरिजनादियुतो भुञ्जीत । त-
दिने च न कस्यापि निगडबन्धनादि कुर्यात्पूर्वबद्धांश्च मोचयेदिति।
इति जयाभिषेकप्रयोगः ।

३९६ वीरमित्रोदयस्य राजनीतिप्रकाशे
एवं षष्ठे दिने जयाभिषेकं सम्पाद्य मङ्गल्यसुस्वप्नदर्शने
समीचीने च निमित्ते सति व्रजेदित्युक्तम् । तत्र प्रस्थानतः
सप्तमे दिने कियद्दूरे गत्वावस्थेयमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन ।
गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ॥
ततः क्रमेण गच्छेच्च परदेशं महीपतिः ।
आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ॥
कृतरक्षः सन् आत्मसैन्यस्यानुरूपेण यवसेन्धनधान्यादि-
मत्तया योग्येन पथा मार्गेण गच्छेत् ।
त्रिरात्रमुषितो गच्छेदूभूयो नक्षत्रसम्पदा ।
नक्षत्रसम्पदेति चन्द्रशुद्धिनिषिद्धयोगकरणादिराहित्योप-
लक्षणम् ।
यवसेन्धनतोयानां रक्षको विषदूषणात् ।
परानभिमुखो गच्छेत्प्रभूतयवसेन्धनः ॥ इति ।
मनुः,
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
मूले, मूलभूते स्वदेशे । विधानं, तद्रक्षणार्थं सैन्यस्थापनादि ।
उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥
संशोध्य त्रिविधं मार्ग षड्विधं च बलं स्वकम् ।
साम्परायिककल्पेन यायाद्रिपुपुरं प्रति ॥
त्रिविधं मार्ग, जलस्थलवनरूपं मार्गम् । षड्विधं बलं,
'मौलं च भृतकं चैव”इत्यादिनाभिहितम् । साम्परायिककल्पेन,
[द्धकल्पेन ।

यात्राप्रकरणे कालविशेषेण सेनायां विशेषः । ३९७
शत्रुसेविनि मित्रे च गूढ युक्ततरा भवत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ इति ।
मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः—
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥
खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः ।
चतुर्विधबलोपेतां वसन्ते वा शरद्यथ ॥
सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः ।
अभियोज्यो भवेत्तेन शत्रुविषयमाश्रितः ॥
गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च ।
किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥
रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम् ।
जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत् ॥
खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम् ।
न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा ॥
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् ।
यवसेन्धनसंयुक्तं काले पार्थिव हैमने ॥
शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ ।
विज्ञाय राजा हितदेशकालौ दैवं त्रिकालं च तथैव बुद्ध्या ।
यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥इति।
विष्णुधर्मोत्तरे,
राम उवाच ।
साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजाम् ।
सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥

३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा ।
गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥
गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि ।
नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥
छत्रं ध्वजं पताकां च वर्म चैव महाभुज ।
आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥
तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् ।
कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥
प्रमथांश्च सहायार्थे धरणीं च महीभुजम् ।
भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥
संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् ।
रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥
रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः ।
पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥
पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् ।
पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥
दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः ।
ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥
चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः ।
मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥
आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् ।
अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥
या ओषधय इत्येवं धारयेदोषधीः शुभाः ।
नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥

ऐन्द्रायेति ततो वर्म धन्वनागेति वै धनुः ।
ततो राजा समादद्यात्सशरं त्वाभिमन्त्रितम् ॥
कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम् ।
आरुह्य शिबिराद्राजा विनिष्क्रम्य समे शुभे ।
देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ॥ इति ।
अथ पुरोहितकर्तृकमाश्वलायनोक्तं सन्नहनं राजधर्म-
त्वादुच्यते ।
सङ्ग्रामे समुपोढे राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति
पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतिकमिति कवचं
प्रयच्छेदृत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थी जपेत्पञ्चम्ये-
षूधि प्रयच्छदाभंप्रवर्तमान षष्ठीं सप्तम्यामश्वानष्टमामिषूनवेक्षमा-
णं वाचयत्यहिरिवभोगैः पर्येति बाहुमिति तलं नह्यमानम-
थैनं सारयमाणमुपारुह्याभीवर्त्तं वाचयति प्रयो वां मित्राव-
रुणेति च द्वे अथैनमन्वीक्षेताप्रातिरथासासौपर्णैः प्रधारयन्तु
मधुनो घृतस्यैतत्सौपर्णं सर्वा दिशोऽनुपरि यायादादित्यमौश-
नसं वावस्थाय प्रयोधयेदुपश्वासय पृथिवीमुत द्यामिति तृचेन
दुन्दुभिमभिमृशेदवस्सृष्टा परापतेतीषून्विसर्जयेद्यत्र बाणाः सम्प-
तन्तीति युध्यमानेषु जपेत्संशिष्याद्वा संशिष्याद्वा । इति । ( आ०
गृ० सू० अ० ३ । कं० १२ । )
अस्यार्थः । समुपोढे उपस्थिते । सन्नाहयेत्, पुरोहित इति
शेषः। आत्वेति सूक्तं, जपेदितिशेषः। पादग्रहणेन ऋग्ग्रहणे प्राप्ते-
ऽप्यत्र सूक्तग्रहणमितिवृत्तिकृत्। जीमृतेति, अस्य सूक्तस्याद्ययेति-
शेषः, राज्ञे इति च शेषः । उत्तरया “धन्वनागा”इति धनुः प्रय-
च्छेत् । उत्तरां “वक्ष्यन्ती वेदा”इति वाचयेत्, राजानमितिशेषः ।
स्वयं पुरोहितः “ते आचरन्ति”इति जपेत् । पञ्चम्या “बह्वीनां पि-

४०० वीरमित्रोदयस्य राजनीतिप्रकाशे

ता” इति इषुधिं प्रयच्छेत् । इषवो धीयन्ते यत्र स इषुधिः। यथेष्टदिग-
भिमुखगमने “रथे तिष्ठन्” इति जपेत् । सप्तम्या “तीव्रात् घोषान्”,
इति अश्वाननुमन्त्रयेत । अष्टमीं “रथवाहनम्” इति इषूनवेक्षमाणं
राजानं वाचयेत् । ज्याघातपरित्राणं तलमुच्यते । तेन नह्यमान-
मेतां वाचयेत् । सारथिना सारयमाणं राजानं रथे आरुह्य
“अभीवर्तेन” इति सूक्तं वाचयेत् । प्रयो वामित्यृचौ च । एनं
राजानमन्वीक्षेत एतैः सूक्तैः । “आशुः शिशान” इत्यम-
तिरथं सूक्तम् । “शास इसेति” सूक्तं शासः । सौ-
पर्णसूक्तानां बहुत्वार्द्विशेषमाह-प्रथारेति । एतन्सूक्तं सौ-
पर्णं भवति नान्यत् । अथ राजा सर्वदिशो रथेना नुक्रमेण
गच्छेत् । यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत्,
रात्रौ चेद्यस्यां दिशि शुक्रस्तां दिशं परिगृह्य योधयेद्राजा । ना-
पि प्रत्यादित्यं नापि प्रतिशुक्रमित्यर्थः । उपश्वासयेत्यादौ
राजा कर्त्ता । यत्र बाणा इत्यत्र तु पुरोहितः कर्त्ता । संशि-
ष्याद्वा । अथ वा पुरोधा आचक्षीत एतस्मिन् काले इयमृक्तवे-
ति । यथा आत्वा हार्षमन्तरेधीतिसूक्तं पश्चाद्रथस्यावस्थाय
ब्रूहि, जीमूतस्येति कवचं गृहाणेत्येवमादि । अध्यायान्तलक्ष-
णार्थं द्विर्वचनमिति ।
मनुः,
दण्डव्यूहेन तं मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥
यतः शङ्केत सभयं ततो विस्तारयेद्बलम् ।
पद्मेन चैव व्यूहेन निवसेत सदा स्वयम् ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
भयं यतो वा शङ्केत तां प्राचीं कल्पयेद्दिशम् ॥

-like curve, and goes down. It does NOT have a separate vertical bar!
So in line 20, why would there be a vertical bar?
Wait! What if the word is: कदाचित्?
Wait, look at काहाचित्: is the first part क? Yes.
Is the next stroke an 'ा'?
Wait, could it be कर्हिचित्?
Wait, what if it's काहाचित्?
Let's look at the letter again:
Wait, could it be:
न व्यूह कल्पना कार्या राज्ञा भवात् काहाचित् ।
Wait, is that काहाचित्? Let's check the characters:
क + ा + ह + ा + चि + त् = काहाचित्.
Wait, what if it's कदाचित् with a broken type?
If someone typeset it, why would they typeset काहाचित्?
Could it be कश्चित्? No.
Could it be काहिचित्?
Wait, look at the letter after भवात्:
Is it क? Yes.
Then ा?
Wait, could it be क ो ऽ पि? No.
What if it IS काहाचित् (a misprint

४०२ वीरमित्रोदयस्य राजनीतिप्रकाशे
स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना ।
नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ।
भग्नसन्धारणं तत्र योधानां परिकीर्त्तितम् ॥
प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते ।
तत्र, क्रोशमात्रावस्थिते राज्ञि । युद्धादिना परराष्ट्रग्रहणं
राज्ञोऽवश्यकर्त्तव्यमित्याह—
याज्ञवल्क्यः,
य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति ।
शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्र-
तिपादयितुमर्हति । अश्वमेधेन यक्ष्य इति परविषयमभियाया-
द्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परा-
यिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डा-
क्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हित-
मनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोज-
नोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवहितः शत्रु-
णा सह युद्ध्येत् । इति ।
युद्ध्यता राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते ।
मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥
शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान् ।
तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥
न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत् ।