सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 379, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 379

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८३
दमनी चेत्यष्टौ शक्तयः। ततस्तस्यैव दलेषु तेनैव क्रमेण वामदेवः,
ज्येष्ठः, रुद्रः, कालः, कलाविकरणः, बलः, बलप्रमथनः, सर्वभूतदम-
नश्चेत्यष्टौ रुद्राः स्थाप्याः। इदं च वामादिमिथुनाष्टकं प्रथमावर-
णं शिवस्य। एवमग्रेऽपि प्रागादिक्रम एव द्रष्टव्यः। ततो नाभिवी-
थ्यनन्तरबाह्यषोडशव्यूहमध्यमकोष्ठेषु सुभद्रादिकाः शिवस्य द्वि-
तीयावरणदेवताः स्थाप्याः। तत्र पूर्वे सुभद्रा, आग्नेये भद्रा, द-
क्षिणे कनका, नैर्ऋते अम्बिका, पश्चिमे श्रीदेवी, वायव्ये वागीशा,
उत्तरे गोमुखी, ऐशाने भद्रकर्णी, पूर्वाग्नेयमध्ये अणिमा, आग्नेय-
दक्षिणमध्ये लघिमा, दक्षिणनैर्ऋत्यमध्ये महिमा, नैर्ऋत्यपश्चि-
ममध्ये प्राप्तिः, पश्चिमवायव्यमध्ये प्राकाम्यं, वायव्योत्तरमध्ये
ऐश्वर्यम्, उत्तरेशानमध्ये वशित्वं, पूर्वेशानमध्ये कामावसायिका।
पिशाचवीथ्यनन्तरबाह्यचतुर्विंशतिव्यूहमध्यमकोष्ठेषु प्रागादिक्र-
मेण दाक्षाद्याः शिवस्य तृतीयावरणदेवताः स्थाप्याः। ता यथा-
दक्षा, दक्षायिका, चण्डा, चण्डायिका, हरा, हरायिका, शौ-
ण्डा, शौण्डायिका, प्रथमा, प्रथमायिका, मन्मथा, मन्म-
थायिका, भीमा, भीमायिका, शकुनी, शकुनायिका, सुमती,
सुमत्यायिका, गोपा, गोपायिका, नन्दा, नन्दायिका, पितामही,
पितामहायिका २४ । ततः सुभद्रादिशिवद्वितीयावरणदेवतानां
प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टबाह्यषोडशकोष्ठेषु स्था-
प्याः । ता यथा-बिन्दुका, बिन्दुगर्भा, नादिनी, नादगर्भजा,
शक्तिका, शक्तिगर्भा, परा, परापरा, सुभद्राप्रथमावरणम्१। चण्डा,
चण्डमुखी, चण्डवेगा, मनोजवा, चण्डाक्षी, चण्डनिर्घोषा, भ्रुकुटी,
चण्डनायिका, महोत्सवा, मनोध्यक्षा, मानसी, माननायिका,
मनोहारी, मनोह्लादी, मनःप्रीतिः, मनेश्वरी १६ सुभद्राद्विती-
यावरणम् १। ऐन्द्री, हौताशनी, याम्या, नैर्ऋती, वारुणी, वाय-